भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गसंग्रह · अध्याय 6.27

6.27.1

अथातः शिरोरोगविज्ञानीयं नामाध्यायं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥

6.27.2

धूमातपतुषाराम्बुक्रीडातिस्वप्नजागरैः ।
उत्स्वेदाधिपुरोवातबाष्पनिग्रहरोदनैः ॥

6.27.3

अत्यम्बुमद्यपानेन कृमिभिर्वेगधारणैः ।
उपधानमृजाभ्यङ्गद्वेषाधः प्रततेक्षणैः ॥

6.27.4

असात्म्यगन्धदुष्टामभाष्याद्यैश्च शिरोगताः ।
जनयन्त्यामयान् दोषाः #

6.27.5

तत्र मारुतकोपतः ॥
निस्तुद्येते भृशं शङ्खौ घाटा सम्भिद्यते तथा ।
भ्रुवोर्मध्यं ललाटं च पततीवातिवेदनम् ॥

6.27.6

बाध्येते स्वनतः श्रोत्रे निष्कृष्येत इवाक्षिणी ।
घूर्णतीव शिरः सर्वं सन्धिभ्य इव मुच्यते ॥

6.27.7

स्फुरत्यति सिराजालं कन्धराहनुसङ्ग्रहः ।
प्रकाशासहता घ्राणस्रावो ऽकस्माद्व्यथाशमौ ॥

6.27.8

मार्दवं मर्दनस्नेहस्वेदबन्धैश्च जायते ।
शिरस्तापो ऽयम् #

6.27.9

अर्धे तु मूर्ध्नः सो ऽर्धावभेदकः ।
पक्षात् कुप्यति मासाद्वा स्वयमेवोपशाम्यति ।
अतिवृद्धस्तु नयनं श्रवणं वा विनाशयेत् ॥

6.27.10

शिरोभितापे पित्तोत्थे शिरोधूमायनं ज्वरः ।
स्वेदो ऽक्षिदहनं मूर्च्छा निशि शीतैश्च मार्दवम् ॥

6.27.11

अरुचिः कफजे मूर्ध्नो गुरुस्तिमितशीतता ।
सिरानिष्पन्दतालस्यं रुङ्मन्दाह्न्यधिका निशि ।
तन्द्रा शूनाक्षिकूटत्वं कर्णकण्डूयनं वमिः ॥

6.27.12

रक्तात्पित्ताधिकरुजः सर्वैः स्यात् सर्वलक्षणः ।
सङ्कीर्णैर्भोजनैर्मूर्ध्नि क्लेदिते रुधिरामिषे ।
कोपिते सन्निपाते च जायन्ते मूर्ध्नि जन्तवः ॥

6.27.13

शिरसस्ते पिबन्तो ऽस्रं घोराः कुर्वन्ति वेदनाः ।
चित्तविभ्रंशजननीर्ज्वरः कासो बलक्षयः ॥

6.27.14

रौक्ष्यशोफव्यथच्छेददाहस्फुरणपूतिताः ।
कपाले तालुशिरसोः कण्डूः शोफः प्रमीलकः ।
ताम्राच्छसिङ्घाणकता कर्णनादश्च जन्तुजे ॥

6.27.15

वातोल्बणाः शिरःकम्पं तत्संज्ञं कुर्वते मलाः ॥

6.27.16

पित्तप्रधानैर्वाताद्यैः शङ्खे शोफः सशोणितैः ।
तीव्रदाहरुजारागप्रलापज्वरतृङ्भ्रमाः ॥

6.27.17

तिक्तास्यः पीतवदनः क्षिप्रकारी स शङ्खकः ।
त्रिरात्राज्जीवितं हन्ति सिध्यत्यप्याशु साधितः ॥

6.27.18

पित्तानुबन्धः शङ्खाक्षिभ्रूललाटेषु मारुतः ।
रुजां सस्पन्दनां कुर्यादनुसूर्योदयोदयाम् ॥

6.27.19

आमाध्याह्नं विवर्द्धिष्णुः क्षुद्वतः सा विशेषतः ।
अव्यवस्थितशीतोष्णसुखा शाम्यत्यतः प्रम ।
सूर्यावर्तः सः #

6.27.20

इत्युक्ता दश रोगाः शिरोगताः ॥

6.27.21

शिरस्येव च वक्ष्यन्ते कपाले व्याधयो नव ॥

6.27.22

कपाले पवने दुष्टे गर्भस्थस्यापि जायते ।
सवर्णो नीरुजः शोफस्तं विद्यादुपशीर्षकम् ॥

6.27.23

यथादोषोदयं ब्रूयात् पिटकार्बुदविद्रधीन् ॥

6.27.24

कपाले क्लेदबहुलाः पित्तासृक्श्लेष्मजन्तुभिः ।
कङ्गुसिद्धार्थकनिभाः पिटकाः स्युररूंषिकाः ॥

6.27.25

कण्डूकेशच्युतिस्वापरौक्ष्यकृत् स्फुटनं त्वचः ।
सुसूक्ष्मं कफवाताभ्यां विद्याद्दारणकं तु तत् ॥

6.27.26

रोमकूपानुगं पित्तं वातेन सह मूर्च्छितम् ।
प्रच्यावयति रोमाणि ततः श्लेष्मा सशोणितः ॥

6.27.27

रोमकूपान् रुणध्द्यस्य तेनान्येषामसम्भवः ।
तदिन्द्रलुप्तं रुज्जा च प्राहुश्चाचेति चापरे ॥

6.27.28

खलतेरपि जन्मैवं शातनं तत्र तु क्रमात् ॥

6.27.29

सा वातादग्निदग्धाभा पित्तात्स्वेदसिरावृता ।
कफात् घनत्वग्वर्णांश्च यथास्वं निर्दिशेत्त्वचि ॥

6.27.30

दोषैः सर्वाकृतिः सर्वैरसाध्या सा नखप्रभा ।
दग्धाग्निनेव निर्लोमा सदाहा या च जायते ॥

6.27.31

शोकश्रमक्रोधकृतः शरीरोष्मा शिरोगतः ।
केशान् सदोषः पचति पालितं सम्भवत्यतः ॥

6.27.32

तद्वातात् स्फुटितं श्यावं खरं रूक्षं ज्वलत्प्रभम् ।
पित्तात् सदाहं पीताभं कफात्स्निग्धं विवृद्धिमत् ॥

6.27.33

स्थूलं सुशुक्लं सर्वेस्तु विद्याद्व्यामिश्रलक्षणम् ।
शिरोरुजोद्भवं चान्यद्विवर्णं स्पर्शनासहम् ॥

6.27.34

असाध्या सन्निपातेन खलतिः पलितानि च ।
शरीरपरिणामोत्थान्यपेक्षन्ते रसायनम् ॥

मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc