अष्टाङ्गसंग्रह · अध्याय 6.26
अथातो मुखरोगप्रतिषेधं नामाध्यायं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥
स्निग्धस्विन्नस्य खण्डौष्ठस्यौष्ठान्तौ विलिख्य सुश्लिष्टौ क्षौमसूत्रेण सीव्येत् ।
शतधौतघृताभ्यक्तां चास्मै कबलिकां व्रणस्योपरि दद्यात् ।
प्रक्लिन्नं च व्रणं व्रणचिकित्सया साधयेत् ॥
ज्योतिष्मतीलोध्रमधुकपटोलोत्पलकाकमाचीश्रावणीसारिवाभिस्तैलं विपक्वमभ्यञ्जनाच्छोधनरोपणम् ।
तथा वातहरमधुरौषधसिद्धं तैलं नस्यम् ॥
वातज औष्ठकोपे देवदारुगुग्गुलुसर्जरसमधूच्छिष्टसिद्धेन महास्नेहेनाभ्यङ्गः ।
तेनैव समधुकचूर्णेन प्रतिसारणाम् ।
तदभ्यक्तेन पिचुना प्रच्छादनम् ।
एरण्डपल्लवैः क्षीरक्वथितैर्नाडीस्वेदः खण्डौष्ठोक्तं नावनं शिरो ऽभ्यङ्गश्च ॥
पित्तोत्थे ऽभिघातजे च जालौकोभिर्विस्रावणम् ।
पत्तङ्गयष्टीछिन्नरुहाविपक्वं सर्पिरभ्यङ्गः ।
मधुमधुकलोध्रसर्जरसैः प्रतिसारणम् ।
पित्तविद्रधिवच्च चिकित्सा ॥
रक्तजेप्यचिरोत्थिते पैत्तिकवत् प्रतिकुर्यात् ।
कफजे जलौकोभिः शाकादिपत्रैर्वा रक्तं विस्राव्य व्योषपाठायवक्षारस्वर्जिकाक्षारैः सक्षौद्रैः प्रतिसारयेत् ।
कुष्ठतगरदन्तीश्यामाबिडहरितालविडङ्गैर्वा ।
स्वेदनस्यधूमकवलांश्च कफघ्नानवचारयेत् ॥
मेदोजे दन्तच्छदं स्वेदयित्वा वृद्धिपत्रेण विपाट्य शुद्धमेदसमग्निनानुपचरेत् ।
कफजोक्तैश्च प्रतिसारणम् ।
जलार्बुदोक्तं तैलं रोपणम् ॥
जलार्बुदं भित्वा विशोध्य त्रिकटुकटुकातेजोवतीयवक्षारस्वर्जिकासैन्धवकासीसचूर्णैः सक्षौद्रैः प्रतिसारयेत् ।
अवगाढमतिवृद्धं वा क्षारेणाग्निना वा दहेत् हरिद्रालोध्रमधुकमालतीहरेणुतगरैर्विपक्वं तैलं रोपणम् ॥
गण्डालजीमपक्वां शोफवद्विदग्धामुपनाह्य पक्वां विदार्य व्रणवत् साधयेत् ॥
शीतदन्तस्योष्णामुबुस्विन्नस्य व्रीहिमुखेन पालीं लिखित्वा पिचुतैलेन दहेत् ।
प्रतिसारयेच्च प्रियङ्गुजम्ब्वस्थिदाडिमत्वक्त्रिफलारसाञ्जनसैन्धवशुण्ठीमुस्तचूर्णैः समधुघृतैः ।
क्षीरिवृक्षकषायो गण्डूषः ।
अणुतैलं नस्यम् ॥
दन्तहर्षे भेदे च वातहरसिद्धं तैलमेलाकुष्ठपाटलीस्वग्विपक्वो मज्जा वा गण्डूषः ।
स्निग्धाश्च नस्यादयः ॥
दन्तचाले दशमूलक्वाथेन तैलसर्पिर्वसाक्षौद्रैश्च कवलः ।
पिप्पलीसैन्धवतुत्थलोध्रपतङ्गस्रोतोजमुस्तात्रिफलाः प्रतिसारणम् ।
नियतं च स्नैहिकधूमपायी स्निग्धमधुराहारो विस्रावणपरः स्यात् ।
चन्दनपद्मकमधुकविदारीकशेरुकनीलोत्पलमृद्वीकाजीवकर्षभकशर्कराणां प्रत्येकं पलेन क्षीरेण च मांसरसद्विगुणेन तैलप्रस्थं विपाचयेत् ।
एतन्नस्यगण्डूषप्रयोगात् परं दशननयनश्रवणबलकरम् ॥
अधिदन्तकं क्षारेणालिप्य जर्जरं विज्ञाय कृमिदन्तकविधिनोत्पाड्य तद्वदेवोपचरेत् ।
अनवस्थितशोणितं च दग्ध्वा व्रणवदुपक्रमेत ॥
दन्तशर्करां दन्तमूलान्यपीडयन् दन्तलेखनेन विलिख्य क्षारतैलेनावसेचयेत् ।
मूषाकूर्पपाटलीत्वक्चूर्णेन प्रतिसारणम् ।
सदा च दन्तधावनादीन् सेवेत ।
दन्तहर्षोक्तं च कुर्यात् ॥
कपालिकायामेतदेव विशेषतः शीलयेत् ॥
कृमिदन्तके सुषिरं गुडेन मधूच्छिष्टेन सर्पिष वापूरयित्वा तप्तया कुब्जशलाकया दहेत् ।
सप्तच्छर्दाकक्षीरं वा पूरणम् ।
सर्षपकरञ्जतैलं ॥
हिङ्गुविडङ्गस्वर्जिकाकट्फलकासीसकुष्ठचूर्णस्तान्तवबद्धो दन्तस्योपरि तिष्ठन् रुजमपहरति ।
कुन्दुरुष्कचूर्णो वा ।
एभिरेव च सिद्धं तैलं गण्डूषः ।
दृढगूढमूलमांसे सरुजे विस्रावणम् ।
भग्नस्फुटितविवर्णसुप्तचलस्य सरुजस्य च ॥
एवमनुपशमे सन्दंशयन्त्रेण दन्तमायतं गृहीत्वा विचाल्य शस्रेण पार्श्वेभ्यो मोक्षयित्वोद्धरेत् ।
दन्तनिर्घातनेनोत्पीड्य मुद्गरेणाश्मना वा निर्घातयेत् ।
न तूत्तरं दन्तम् ॥
तस्योद्धरणाच्छोणितात्ययस्ततश्चेन्द्रियभ्रंशो वात व्याधिर्वा ॥
प्रक्षालितमुखश्च समधुकचूर्णं तैलं मधु वा गण्डूषं धारयेत् ॥
विदारीमधुकशृङ्गाटककशेरुकाभिस्तैलं दशगुणे पयसि सिद्धं नस्यम् ॥
उत्तरदन्तोद्धरणेप्ययमेव प्रतीकारः ।
शीतोपचारश्च सुतराम् ॥
शीतादे शोणितं विस्राव्य रसाञ्जनमुस्तत्रिफलार्जुनत्वक्प्रियङ्गुमहौषधकषायं गण्डूषं धारयेत् ।
एभिरेव च सक्षौद्रैः प्रतिसारणं ।
मधुरवर्गसिद्धं तैलं नस्यम् ।
तेजोवतीव्योषहरिद्राद्वयकुष्ठपाठाकटुरोहिणीलोध्रसमङ्गामुस्तैः प्रतिसारणं सर्वदन्तमांसामयेषु कण्डूश्वयथुवेदनारक्तस्रुतिहरम् ।
तथा व्याषयवक्षारमनश्शिलासैन्धवदार्वीत्वग्भिः एभिरेवाषैर्धगुटिका सर्वमुखरोगहरा ॥
उपकुशे सुखोष्णाम्बुस्विन्नान्युत्सन्नानि दन्तमांसान्यवलिखेन्मण्डलाग्रेण शाकादिपत्रैर्वा ।
ततः सुखोष्णो घृतमण्डस्तैलं वा गण्डूषः ।
मरिचकुष्ठमधुकप्रियङ्गुलाक्षापतङ्गगैरिकरसाञ्जनशुण्ठीसैन्धवैर्मधुघृतमण्डयुक्तैः प्रतिसारणम् ।
पृथक्पर्णीविडङ्गविदारीमधुकपयस्यासुरदारुविपक्वं तैलं गण्डूषो नस्यं च ।
मधुरवर्गसिद्धमेव वा सर्पिः पुनः पुनश्च रुधिरावसेकः ॥
दन्तपुप्पुटके स्विन्नछिन्नभिन्नविलिखिते स्वर्जिकामधुकशुण्ठीसैन्धवैः प्रतिसारणम् ॥
दन्तविद्रधौ तिक्तकटुकषायोष्णैः समूत्रैः कबलो लेपश्च ।
वृश्चिकालीकुष्ठकटुकायवक्षारैः प्रतिसारणम् ।
तं च पाकतो रूक्षशीतैरन्तर्बहिः प्रयुक्तैर्वारयेत् ।
पक्वे तु पाटनमवगाढे दाहः ।
त्रिफलासुमनोरिष्ठक्वाथो गण्डूषः ।
यष्टीमधुकसिद्धः सर्पिर्मण्डो नस्यम् ॥
सुषिरे छिन्नलिखिते लोध्रमुस्तत्रिफलाकिंशुकपतङ्गतार्क्ष्यशैलशतपुष्पाकट्फलैरवघर्षः ।
तेषामेव क्वाथो गण्डूषः ।
क्षीरिवृक्षकिंशुकामलकानां वा ।
गैरिकोत्पलमधूकसारिवाचन्दनप्रपौण्डकशर्करानन्तालोध्रागरुसिद्धं तैलं नावनम् ॥
अधिमांसकमचिरोत्थितं स्रावयेत् ।
विवृद्धन्तु बडिशेन मचुट्या वा गृहीत्वा मण्डलाग्रेण छित्वा तीक्ष्णैः प्रतिसारयेत् ।
कटुतीक्ष्णैः कवलस्तैलं वा यवक्षारावचूर्णितम् ॥
विदर्भे दन्तमूलानि शस्त्रेण विशोध्य क्षारं प्रयुज्य घृतमण्डं गण्डूषे दद्यात् ।
लोध्रपतङ्गमञ्जिष्ठामधुकचूर्णः प्रतिसारणम् ।
काकोलीयष्टीमधुशर्कराविपक्वं तैलं नावनम् ॥
दन्तनाडीमेषयित्वा संवृतां शस्त्रेण विवृतयित्वा तदाश्रितं दन्तमशेषमुद्धृत्य शलाकया दहेत् ।
कुब्जामवगाढामनेकगतिं वा गुडमधुसिक्थान्यतमपूर्णाम् ।
ततः क्षीरिवृक्षकषायेण गण्डूषं धारयेत् ।
तत्सिद्धेन वा तैलेन ॥
दन्तीखदिरसारमदनस्वादुकण्टकक्वाथे लोध्रवालकोशीरदेवदारुमञ्जिष्ठामधुककल्कविपक्वं तैलं सर्षपतैलं वा नाडीशोधनरोपणम् ॥
प्रपौण्डरीकहरिद्राद्वयमधुकमधूच्छिष्टलोध्रकटुकीशर्करापद्मकचन्दनमूर्वोपोदकावास्तुकतण्डुलीयकमञ्जिष्ठाम्लीकाकपित्थपत्रैर्वा ॥
नस्यं च विडङ्गमधुकमुस्तनिर्गुण्डीखदिरमञ्जिष्ठोशीरसुरतरुसिद्धं तैलं ।
धूमासृक्स्रावणनावनानि शीलयेत् ।
नाडीसाधनं चेक्षेत ॥
वातजेषु जिह्वाकण्टकेषु वातौष्ठकोपोक्तो विधिः ।
पित्तजेषु विघृष्टस्रुतरुधिरेषु स्वादुभिर्द्रव्यैरवघर्षणगण्डूषनावनानि कुर्यात् ।
तद्वत् कफजेषु तीक्ष्णैः ॥
जिह्वालसे नवोत्थिते तीक्ष्णाः प्रतिसारणादयः ।
न चात्र शस्त्रमवचारयेत् ।
सिरां तु विध्येत् ॥
अधिजिह्वामुन्नम्य बडिशेन गृहीत्वा मण्डलाग्रेण छिद्यात् ।
तीक्ष्णाश्च नस्यादयः ।
उपजिह्वां शाकपत्रेणाङ्गुलिशस्त्रेण वा विस्राव्य यवक्षारेण प्रतिसारयेत् ॥
गलशुण्डिकां कफघ्नैरुपाचरेत् ।
वृद्धायां तूर्वारुबीजनिभमसिराततमग्रमुपरिजिव्हायानिविष्टं बडिशेन मुचुट्या वा वस्त्रवेष्टिताभ्यां वामाङ्गुष्ठप्रदेशिनीभ्यां गृहीत्वा मण्डलाग्रेण नात्यग्रे नातिमूले छिन्द्यात् ।
अग्रच्छेदादनुपशमः शोफो लालादिवृद्धिर्वा ।
अतिच्छेदाच्छोणितक्षयेण मरणम् ।
सम्यक्च्छिन्नायां पूर्ववत् प्रतिसारणादयः ॥
तालुसङ्घाते पुप्पुटे कच्छपे च नवे विधिरयम् ।
शस्त्रकर्मणि तु विशेषः ।
अत्र हि विलेखनम् ॥
तालुपाके त्वपक्वस्य श्वय्थोः कासीसरसाञ्जनक्षौद्रैः प्रतिसारणम् ।
मधुरकषायैः शीतैर्गण्डूषः ।
पक्वस्य मण्डलाग्रेणाष्टापदवत् भेदनम् तीक्ष्णैरवघर्षणम् ।
पटोलारिष्टजातीकरवीरगुडूचीवृषकटुकाहरिद्राद्वयवेत्राग्रकण्टकारिकाक्वाथः कवलो मधु तैलं च ॥
तालुशोषे मधुकपिप्पलीनागरसिद्धं सर्पिरुत्तरं भक्तिकं सतृष्णः पिबेत् ।
अम्लैश्चास्य गण्डूषः ।
पयस्यामधूकमधूलिकाविपक्वं क्षीरसर्पिर्नस्यम् ।
स्निग्धो धूमः ।
तृष्णाघ्नमन्नपानम् ॥
कण्ठरोगेषु तु ज्वराद्यनुपद्रुतेषु कटुनीक्ष्णैर्नस्यावघर्षणगण्डूषादयः सिराव्यधो रसाञ्जनेन्द्रयवदार्वीनिम्बक्वाथः पानम् ।
व्योषयवक्षारदार्वीरसाञ्जनतेजोवतीपाठानिम्बत्वक्त्रिफलाचित्रकैः शुक्तगोमूत्रक्वथितैः कवलो गुटिका वा प्रतिसारणम् ।
तालीसपत्रगृहधूमपञ्चकोलकैलामरिचपलाशमुष्ककक्षारयवक्षारैर्यवक्वाथेन गुटिकाः कृताः सर्वकण्ठरोगेष्वमृतोपमाः ॥
अथ वातरोहिणीकामन्तर्बहिः स्विन्नामङ्गुलिशस्त्रकेण मधुलवणगर्भेण वा नखेन विस्राव्य तीक्ष्णैः प्रतिसारयेत् ।
महापञ्चमूलक्वाथो गण्डूषः ।
एलापुनर्नवसिंहीकपित्थकल्कपयोविपक्वं तैलं गण्डूषो नावनं च ॥
पित्तजामप्येवं विस्राव्य पतङ्गशर्करालोध्रप्रियङ्गुभिः प्रतिसारयेत् ।
एषामेव कषायो गण्डूषः ।
द्राक्षापरूषकोशीरमधुकचन्दनक्वाथो वा ।
त्रिफलातिल्वकश्यामाश्रीपर्णीत्वङ्मधुयष्टिकाभिर्दशगुणे पयसि सिद्धं सर्पिर्नस्यकवलभोजनेषु ॥
रक्तजामप्येवं प्रत्याख्यायोपक्रमेत् ॥
श्लैष्मिकीं स्वेदयित्वा विलिख्य कटुकवर्गेणागारधूमत्रिफलासैन्धवयुक्तेन प्रतिसारयेत् ।
तद्विधाश्च गण्डूषाः ।
निम्बजात्यपामार्गविडङ्गविपक्वं तैलं नस्यम् ॥
शालूकवृन्दतुण्डिकेरीगिलायुष्वप्येष एव विधिः ॥
गलविद्रधौ विस्रावितायां लोध्रवरारसाञ्जनपतङ्गगैरिकरोचनापिप्पलीसैन्धवचूर्णैरवघर्षणम् ।
एभिरेव क्वथितैर्गण्डूषः ।
किराततिक्तकलोध्रदार्वी शतपुष्पानिम्बपत्रकुष्ठैलागुडूचीचित्रकतगरमुस्ताक्वाथ कल्कविपक्वं तैलं नावनम् ॥
गलगण्डमनिलजं स्वेदयित्वा विस्रावयेत् रूढव्रण च तिलप्रियाललट्वामूलकशणातसीबीजैरुपनाहयेत् ।
तिल्वकाग्निमन्थपुनर्नवकालामृतासौभाञ्जनक गजपिप्पल्येकैषिकार्कमूलकरघाटकपुष्पैः सुराम्लपिष्टैः पुनः पुनर्लेपयेत् ।
निम्बगुडूचीकुटजहंसपादीकृष्णाबलाद्वयदेवदारुसिद्धं च तैलं पाययेत् ॥
श्लैष्मिकेप्ययमेव विधिः तीक्ष्णतराश्च स्वेदप्रलेपादयः ।
विशल्यातिविषाविषाणिकाशुकनासाजगन्धागुञ्जाफलकटुकालाबुभिः ।
पलाशक्षारम्बुपिष्टैः सुखोष्णो लेपः ।
वत्सकादिना पञ्चलवणयुक्तेन सिद्धं तैलं पानम् ।
तीक्ष्णांश्च वमनादीन् शीलयेत् ।
पर्यायतश्च स्वेदं शोणितावसेचनं च ।
तथानुपशमे पाचयित्वा व्रणवदुभावप्युपाचरेत् ।
यवान्नमुद्गादियूषांच व्योषोत्कटान् पानभोजनयोर्विदध्यात् ॥
मेदाज स्विन्नस्य सिरां विध्येत् ।
पूर्वोक्ताः प्रलेपाः प्रातः प्रातश्चासनादिसाररजो गोमूत्रेण पिबेत् ।
एवमप्यशान्तौ शस्त्रेण विदार्य मेदो विशोध्य सीव्येत् ।
दाहयोग्यं वा वसाघृतक्षौद्रान्यतमेन यथावद्दहेत् ।
रोचनाकासीसतुत्थकचूर्णितं तैलं व्रणशोधनरोपणम् ।
असनादिसारगोपुरीषभस्मयुक्तं वा ॥
मुखपाकेषु सामान्यतस्त्रिफलाक्वाथो मधुमानन्ये च तिक्तकटुककषाया मुखधावनाः ।
मृद्वीकापाठाजातीमातुलुङ्गार्जुनपत्रजीवकपल्लवानामनभ्यवहरता चर्वणम् ॥
दारुहरिद्रार्धतुलां विंशतिगुणे ऽम्भसि श्रपयित्वा तं क्वाथं सगैरिकमादर्वीप्रलेपात् साधितं क्षौद्रयुक्तं घृतभाजने निदध्यात् ।
एतन्निष्ठीवनं सर्वमुखामयनाडीघ्नम् ।
अयमेव च पृथक्कल्पो यष्टीमधुकपटोलीनिम्बाटरूषकजातीलोध्रारिमेदत्रिफलाजम्बूखदिरत्वचाम् ॥
यवक्षारभागाः सप्त सुवर्णगैरिकात् भागद्वयं मूर्वाकटुकातिविषामलकानामेको भागस्तत् सर्वं कुतलक्षारोदकपिष्टं गुटिकाः कृत्वा खादेन्निष्ठीवेच्च ॥
खदिरसारतुलामरिमेदतुलाद्वयं च तोयवहे ऽष्टभागावशेषं क्वाथयेदवतारितं परिस्रुतं च पुनराघनीभावात् ।
घनीभूते शीते च कार्षिकाणि श्लक्ष्णीकृतानि प्रक्षिपेच्चन्दनपद्मकोशीरवालकमञ्जिष्ठाधातकीमुस्तप्रपौण्डरीकमधुकत्रिफलाचातुर्जातकलाक्षानलदतार्क्ष्यशैललोध्रद्विरजनीसमङ्गापाठाकट्फलैलेयपतङ्गागरुगैरिकाञ्जनानि ।
पालिकांश्च जातीफललवङ्गकङ्कोलकेबुकान् ।
कर्प्पूरार्द्धकुडवं च ।
ता गुटिका वदनस्थाः सर्वान् मुखरोगान् जयन्ति ।
सौरभं सौमनस्यं रुचिं च जनयन्ति ॥
एषामेव च कल्ककषायैस्तैलं साधितं कवले नियुञ्ज्यात् ॥
तत्र वातजे मुखपाके दशमूलकाकोलीरास्नामधुकसारिवाक्वाथेन कुष्ठकल्केन च सिद्धं तैलं नस्यं गण्डूषश्च ।
स्नैहिको धूमः ।
पिप्पल्येलालवणोत्तमैः प्रतिसारयेत् ॥
पैत्तिके क्षीरेक्षुरसद्राक्षाशर्करोदकैर्गण्डूषः ।
मधुरद्रव्यसिद्धं पयः पानं कवलो नस्यं च ।
पद्मकसमङ्गामञ्जिष्ठालोध्रधातकीविपक्वः सर्पिर्मण्डो नावनम् ।
मदयन्तिकापतैर्निष्ठीवनं च ॥
कफजे कटुकक्षारलवणैः प्रतिसारणम् ।
स्थिरासु तु पिटकासु प्राक्शाकादिपत्रेण लेखनम् ।
मुष्ककपलाशामलकीक्षारगोमूत्रैर्गण्डूषः ।
तद्विपक्वं च तैलम् ।
निर्गुण्डीफणिज्जकार्जकसुरसपत्रैर्निष्टीवनम् ।
देवदारुपाठातिविषादन्तीन्द्रयवकटुकागोमूत्रेण कल्कताः क्वथिता वा पीताः सर्वकफामयान् निघ्नन्ति ॥
रक्तजे पित्तवत् सिद्धिः ।
सर्वजे यथादोषोदयम् ।
रोचनाकासीससौराष्ट्रिकारसाञ्जनानि मोचरसो मधु चैकतो विपक्वं लोहभाजनस्थं कल्कं विशुष्कं चुर्णीकृतं मधुना व्रणलेपं कुर्यात् ॥
अथ सर्वसरमर्बुदमचिरोत्थितमवृद्धं मण्डलाग्रेण छित्वा मुष्ककभस्मना मधुमिश्रेण प्रतिसारयेत् स्वर्जिकाशुण्ठीचूर्णेन वा ।
मधुतैलं निम्बगुडूचीक्वाथश्च गण्डूषः ।
यवान्नभोजी तीक्ष्णानि कवलाभ्यङ्गनस्यान्याचरेत् ॥
पूतिमुखं स्निग्धस्विन्नं वामयित्वा शिरोविरेकैरुपाचरेत् ।
ततः स्वर्जिकाहिङ्गुगृहधूममनश्शिलैलाशुण्ठीविडङ्गतेजोवतीभिर्गुटिकाः कृत्वा मधुद्रुता मुखपरिशोधनार्थं दद्यात् ।
समङ्गाधातकीपद्मलोध्रप्रियङ्गुचूर्णैः सलिलमवचूर्णितं मुखधावनम् ।
शीतादोपकुशोक्तं च कुर्यात् नस्यधूमकवलांश्च शीलयेत् ।
भवति चात्र ॥
मुखदन्तमूलगलजाः प्रायो रोगाः कफास्रभूयिष्ठाः ।
तस्मात्तेषामसकृद्रुधिरं विस्रावयेद्दुष्टम् ॥
कायशिरसोर्विरेको वमनं कवलग्रहाः कटुकतिक्ताः ।
प्रायः शस्तं तेषां कफरक्तहरं तथा कर्म ॥
यवतृणधान्यं भक्तं विदलैःक्षारोषितैरपस्नेहाः ।
यूषा भक्ष्याश्च हिता यच्चान्यच्छ्लेष्मनाशाय ॥
प्राणानिलपथसंस्थाः श्वसितमपि निरुन्धते प्रमादवतः ।
कण्ठामयाश्चिकित्सितमतो द्रुतं तेषु कुर्वीत ॥
मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0