भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गसंग्रह · अध्याय 6.25

6.25.1

अथातो मुखरोगविज्ञानीयं नामाध्यायं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥

6.25.2

मात्स्यमहिषवाराहपिशितामकमूलकम् ।
माषसूपदधिक्षीरशुक्तेक्षुरसफाणितम् ॥

6.25.3

अवाक्शय्यां च भजतो द्विषतो दन्तधावनम् ।
धूमच्छर्दनगण्डूषानुचितं च सिराव्यधम् ।
क्रुद्धाः श्लेष्मोल्बणा दोषाः कुर्वन्त्यन्तर्मुखं गदान् ॥

6.25.4

तत्र खण्डौष्ठ इत्युक्तो वातेनौष्ठो द्विधाकृतः ॥

6.25.5

ओष्ठकोपे तु पवनात् स्तब्धावोष्ठौ महारुजौ ।
दाल्येते परिपाट्येते परुषासितकर्कशौ ॥

6.25.6

पित्तात्तीक्ष्णासहौ पीतौ सर्षपाकृतिभिश्चितौ ।
पिटकाभिर्बहुक्लेदावाशुपाकौ #

6.25.7

कफात् पुनः ।
शीतासहौ गुरू शूनौ सवर्णपिटकाचितौ ॥

6.25.8

सन्निपातादनेकाभौ दुर्गन्धास्रावपिच्छिलौ ।
अकस्मान्म्लानसंशूनरुजौ विषमपाकिनौ ॥

6.25.9

रक्तोपसृष्टौ रुधिरं स्रवतः शोणितप्रभौ ।
खर्जूरसदृशं चात्र क्षीणे रक्तेर्बुदं भवेत् ॥

6.25.10

मांसपिण्डोपमौ मांसात् स्यातां मूर्च्छत्कृमी क्रमात् ॥

6.25.11

तैलाभश्वयथुक्लेदौ सकण्ड्वौ मेदसा मृदू ॥

6.25.12

क्षतजाववदीर्येते पाट्येते चासकृत् पुनः ।
ग्रथितौ च पुनः स्यातां कण्डूलौ दशनच्छदौ ॥

6.25.13

जलबुद्बुदवद्वातकफादोष्ठे जलार्बुदम् ॥

6.25.14

गण्डालजी स्थिरः शोफो गण्डे दाहरुजान्वितः ॥

6.25.15

वातादुष्णासहादन्ताः शीतस्पर्शाधिकव्यथाः ।
दाल्यन्त इव शूलेन शीताख्यो दालनश्च सः ॥

6.25.16

दन्तहर्षे प्रवाताम्लशीतभक्षाक्षमा द्विजाः ।
भवन्त्यम्लाशनेनैव सरुजश्चलिता इव ॥

6.25.17

दन्तभेदे द्विजास्तोदभेदरुक्स्फुटनान्विताः ।
चालश्वलद्भिर्दशनैर्भक्षणादधिकव्यथैः ॥

6.25.18

करालस्तु करालानां दशनानां समुद्भवः ॥

6.25.19

दन्तोधिकोधिदन्ताख्यः स चोक्तः खलवर्द्धनः ।
जायमाने ऽतिरुग्दन्ते जाते तत्र तु शाम्यति ॥

6.25.20

अधावनान्मलो दन्ते कफो वा वातशोषितः ।
पूतिगन्धिः स्थिरीभूतः शर्करा #

6.25.21

साप्युपेक्षिता ।
शातयत्यणुशो दन्तकपालानि कपालिका ॥

6.25.22

श्यावः श्यावत्वमायातो रक्तपित्तानिलैर्द्विजः ।

6.25.23

समूलं दन्तमाश्रित्य दोषैरुल्बणमारुतैः ।
शोषिते मज्ज्ञि सुषिरे दन्तेन्नमलपूरिते ॥

6.25.24

पूतित्वात् कृमयः सूक्ष्मा जायन्ते जायते ततः ।
अहेतुतीव्रार्तिशमः ससंरम्भोसितश्चलः ।
प्रलूनः पूयरक्तस्रुत् स चोक्तः कृमिदन्तकः ॥

6.25.25

श्लेष्मरक्तेन पूतीनि वहन्त्यस्रमहेतुकम् ।
शीर्यन्ते दन्तमांसानि मृदुक्लिन्नासितानि च ।
शीतादोसौ #

6.25.26

उपकुशः पाकः पित्तासृगुद्भवः ।
दन्तमांसानि दह्यन्ते रक्तान्युत्सेधवन्त्यतः ॥

6.25.27

कण्डूमन्ति स्रवन्त्यस्रमाध्मायन्तेसृजिस्थिते ।
चला मन्दरुजो दन्ताः पूतिवक्त्रं च जायते ॥

6.25.28

दन्तयोस्त्रिषु वा शोफो बदरस्थिनिभो घनः ।
कफास्रात्तीव्ररुक् शीघ्रं पच्यते दन्तपुप्पुटः ॥

6.25.29

दन्तमांसे मलैः सास्रैर्बाह्यान्तः श्वयथुर्गुरुः ।
सरुग्दाहः स्रवेत् भिन्नः पूयास्रं दन्तविद्रधिः ॥

6.25.30

श्वयथुर्दन्तमूलेषु रुजावान्रक्तपित्तजः ।
लालास्रावी स सुषिरो दन्तमांसप्रशातनः ॥

6.25.31

स सन्निपातज्वरवान् सपूयरुधिरस्रुतिः ।
महासुषिर इत्युक्तो विशीर्णद्विजबन्धनः ॥

6.25.32

दन्तान्ते कीलवच्छोफो हनुकर्णरुजाकरः ।
प्रतिहन्त्यभ्यवहृतिं श्लेष्मणा सोधिमांसकः ॥

6.25.33

घृष्टेषु दन्तमांसेषु संरम्भो जायते महान् ।
यस्मिंश्चलन्ति दन्ताश्च स विदर्भोभिघातजः ॥

6.25.34

दन्तमांसाश्रितान्रोगान् यः साध्यानप्युपेक्षते ।
अन्तस्तस्यास्रवन् दोषः सूक्ष्मां सञ्जनयेद्गतिम् ।
पूयं मुहुः सा स्रवति त्वङ्मांसास्थिप्रभेदिनी ॥

6.25.35

ताः पुनः पञ्च विज्ञेया लक्षणैः स्वैर्यथोदितैः ॥

6.25.36

शाकपत्रखरास्रस्ता स्फुटिता वातदूषिता ।
जिह्वा पित्तात् सदाहोषा रक्तैर्मांसाङ्कुरैश्चिता ।
शाल्मलीकण्टकाभैस्तु कफेन बहला गुरुः ॥

6.25.37

कफपित्तादधः शोफो जिह्वास्तम्भकृदुन्नतः ।
मत्स्यगन्धिर्भवेत् पक्वः सोलसो मांसशातनः ॥

6.25.38

प्रबन्धने ऽधो जिह्वायाः शोफो जिह्वाग्रसन्निभः ।
साङ्कुरः कफपित्तास्रैर्लालोषास्तम्भवान् खरः ।
अधिजिह्वः सरुक्कण्डूवाक्याहारविघातकृत् ॥

6.25.39

तादृगेवोपजिह्वस्तु जिह्वाया उपरि स्थितः ॥

6.25.40

तालुमांसेनिलाद्दुष्टे पिटकाः सरुजाः खराः ।
बह्व्यो घनास्रावयुतास्तास्तालुपिटकाः स्मृताः ॥

6.25.41

तालुमूले कफात्सास्रान्मत्स्यबस्तिनिभो मृदुः ।
प्रलम्बः पिच्छिलः शोफो नासयाहारमीरयन् ।
कण्ठोपरोधतृट्कासवमिकृत् गलशुण्डिका ॥

6.25.42

तालुमध्ये निरुङ्मांसं संहतं तालुसंहतिः ॥

6.25.43

पद्माकृतिस्तालुमध्ये रक्ताच्छ्वयथुरर्बुदम् ॥

6.25.44

कच्छपः कच्छपाकारश्चिरवृद्धिः कफादरुक् ॥

6.25.45

कोलाभः श्लेष्ममेदोभ्यां पुप्पुटो नीरुजः स्थिरः ॥

6.25.46

पित्तेन पाकः पाकाख्यः पूयास्रावी महारुजः ॥

6.25.47

वातपित्तज्वरायासैस्तालुशोषस्तदाह्वयः ॥

6.25.48

जिह्वाप्रबन्धजाः कण्ठे दारुणा मार्गरोधिनः ।
मांसाङ्कुराः शीघ्रचया रोहिणी शीघ्रकारिणी ॥

6.25.49

कण्ठास्यशोषकृद्वातात् सा हनुश्रोत्ररुक्करी ।
पित्ताज्ज्वरोषातृण्मोहकण्ठधूमायनान्विता ॥

6.25.50

क्षिप्रजा क्षिप्रपाकातिरागिणी स्पर्शनासहा ।
कफेन पिच्छिला पाण्डुरसृजा स्फोटकाचिता ॥

6.25.51

तप्ताङ्गारनिभा कर्णरुक्वरी पित्तजाकृतिः ।
गम्भीरपाका निचयात् सर्वलिङ्गसमन्विता ॥

6.25.52

दोषैः कफोल्बणैः शोफः कोलवत् ग्रथितोन्नतः ।
शूककण्टकवत् कण्ठे शालूको मार्गरोधनः ॥

6.25.53

वृन्दो वृत्तोन्नतो दाहज्वरकृत् गलपार्श्वगः ॥

6.25.54

हनुसन्ध्याश्रितः कण्ठे कार्पासीफलसन्निभः ।
पिच्छिलो मन्दरुक्शोफः कठिनस्तुण्डिकेरिका ॥

6.25.55

बाह्यान्तःश्ववथुर्घोरो गलमार्गार्गलोपमः ।
गलौघो मूर्द्धगुरुतातन्द्रालालाज्वरप्रदः ॥

6.25.56

वलयं नातिरुक्शोफस्तद्वदेवायतोन्नतः ॥

6.25.57

मांसकीलो गले दोषैरेकोनेकोथवाल्परुक् ।
कृच्छ्रोछ्वासोभ्यवहृतिः पृथुमूलो गिलायुकः ॥

6.25.58

भूरिमांसाकुङ्रवृता तीव्रतृङ्ज्वरमूर्द्धरुक् ।
शतघ्नी निचिता वर्तिः शतघ्नीवातिरुक्करी ॥

6.25.59

व्याप्तसर्वगलः शीघ्रजन्मपाको महारुजः ।
पूतिपूयनिभास्नावी श्वयथुर्गलविद्रधिः ॥

6.25.60

जिह्वावसाने कण्ठादावपाकं श्वयथुं मलाः ।
जनयन्ति स्थिरं रक्तं नीरुजं तद्गलार्बुदम् ॥

6.25.61

पवनश्लेष्ममेदोभिर्गलगण्डो भवेत् बहिः ।
वर्द्धमानः स कालेन मुष्कवल्लम्बते निरुक् ॥

6.25.62

कृष्णारुणो वा तोदाढ्यः स वातात् कृष्णराजिमान् ।
वृद्धस्तालुगले शोषं कुर्याच्च विरसास्यताम् ॥

6.25.63

स्थिरः सवर्णः कण्डूमान् शीतस्पर्शो गुरुः कफात् ।
वृद्धस्तालुगले लेपं कुर्याच्च मधुरास्यताम् ॥

6.25.64

मेदसा श्लेष्मवद्धानिवृध्योः सोनुविधीयते ।
देहं वृद्धस्य कुरुते गले शब्दं स्वरे ऽल्पता ॥

6.25.65

श्लेष्मरुद्धानिलगतिः शुष्ककण्ठो हतस्वरः ।
ताम्यन् प्रसक्तं श्वसिति येन स स्वरहानिलात् ॥

6.25.66

करोति वदनस्यान्तर्व्रणान् सर्वसरो ऽनिलः ।
सञ्चारिणो ऽरुणान्रूक्षानो ष्ठौ ताम्रौ चलत्वचौ ॥

6.25.67

जिह्वा शीतासहा गुर्वी स्फुटिता कण्टकाचिता ।
विवृणोति च कृच्छ्रेण मुखं पाको मुखस्य सः ॥

6.25.68

अधः प्रतिहतो वायुरर्शोगुल्मकफादिभिः ।
यात्यूर्ध्वं वक्त्रदौर्गन्ध्यं कुर्वन्नूर्ध्वगुदस्तु सः ॥

6.25.69

मुखस्य पित्तजे पाके दाहोषे तिक्तवक्त्रता ।
क्षारोक्षितक्षतसमा व्रणास्तद्वच्च रक्तजे ॥

6.25.70

क्वफजे मधुरास्यत्वं कण्डूमत्पिच्छिला व्रणाः ॥

6.25.71

अन्तः कपोलमाश्रित्य श्यावपाण्डु कफोर्बुदम् ।
कुर्यात्तत् घट्टितं छिन्नं मृदितं च विवर्धते ॥

6.25.72

मुखपाको भवेत् सास्रैः सर्वैः सर्वाकृतिर्मलैः ॥

6.25.73

पूत्यास्यता च तैरेव दन्तकाष्ठादिविद्विषः ॥

6.25.74

औष्ठे गण्डे द्विजे मूले जिह्वायां तालुके गले ।
वक्त्रे सर्वत्र चेत्युक्ता पञ्चसप्ततिरामयाः ॥

6.25.75

एकादशैको दश च त्रयोदश तथा च षट् ।
अष्टावष्टादशाष्टौ च क्रमात् तेष्वनुपक्रमाः ॥

6.25.76

करालो मांसरक्तोष्ठावर्बुदानि जलाद्विना ।
कच्छपस्तालुपिटका गलौघः सुषिरो महान् ॥

6.25.77

स्वरघ्नोर्ध्वगुदश्यावशतघ्नीवलयालसाः ।
नाड्योष्ठकोपौ निचयाद्रक्तात् सर्वैश्च रोहिणी ॥

6.25.78

दशने स्वरभ्रंशी कृच्छ्रोच्छवासो ऽतिवत्सरः ।
याप्यस्तु हर्षो भेदश्च शेषान् शस्त्रौषधैर्जयेत् ॥

मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc