अष्टाङ्गसंग्रह · अध्याय 6.24
अथातो नासारोगप्रतिषेधं नामाध्यायं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥
सर्वेष्वादौ पीनसेषु स्नेहस्वेदवमनधूमगण्डूषस्निग्धोष्णभोजननिवातशयनासनानि सेवेत ॥
पाचनार्थं च गुडार्द्रकक्षीरत्रिकटुकाजमांसमद्याम्लभोजनानि ॥
रोहिषाजाजीवचाचोरकोपकुञ्चिकातर्कारीचातुर्जातकरजो वस्त्रावबद्धं मुहुर्मुहुरुपजिघ्नेत् ।
घृताक्तसक्तून् मल्लकसम्पुटे कृत्वा धूमं च पिबेत् ॥
पक्वे तु शिरोविरेचनमवपीडं च युञ्ज्यात् ॥
निदानोक्तानि च वर्जयेत् ।
विशेषेण शीताम्बुस्नानपानात्युच्चोपधानानुपधानक्रोधशोकान् ॥
अथ वातप्रतिश्याये पूर्वमेव वातहरद्रव्यविपक्वं ससैन्धवं प्रातः सर्पिः पिबेन्महाषट्पलं वा ॥
दशमूलकुलत्थकोलयवशुष्कमूलकव्योषलवणपञ्चकैः सदधि धान्याम्लं सर्पिः सिद्धमाहारे पाने च प्रणीतं प्रतिश्याययक्ष्माकासश्वासग्रहणीगुल्मविबन्धघ्नम् ॥
जीर्णस्नेहं जाङ्गलरसेन व्योषदाडिमसैन्धववता बालमूलकरसेन सर्वधान्ययूषेण वा भोजयेत् ।
नागरं वा पयसा पिबेत् ॥
कृष्णादशमूलशुण्ठीयवैरण्डमूलक्काथासिद्धेन पयसोत्तमाङ्गं स्वेदयेत् ।
तदेव च पानभोजनयोर्विदध्यात् ।
अर्दितोक्तांश्च स्वेदान् ।
एवमपरिपच्यमाने पुनः पुनर्नाडीस्वेदं वातहरं चास्थापनमनुवासनं शिरोबस्तिं च ॥
पक्वे तु तैलं क्षवकचूर्णयुक्तं ससैन्धवं सर्पिर्वा शिरोविरेचनम् ॥
पित्तप्रतिश्याये पद्मकोशीरपटोलसारिवाविदारीशतावरीक्षीरिद्रुमशुङ्गशठीकर्कटाख्यादुरालभानामर्द्धढकमष्टगुणेम्भासि विपाच्य पादावशेषे मधुकमृद्वीकाचन्दनशृङ्गाटककशेरुकश्वेतपाकान्यक्षमात्राणि दत्वा घृतप्रस्थं पयसा सह साधयेत् ।
तत् प्रातः पानाय युञ्ज्यात् ।
जीर्णे सुखोष्णतोयपरिषिक्तं ससैन्धवेन रसेन भोजयेत् ।
सुस्निग्धं विरेचयेत् द्राक्षापटोलश्रीपर्णीमूर्वात्रिवृत्क्वाथेन त्रिवृत्पथ्यापूगफलचूर्णान्वितेन ॥
विरिक्तभुक्तस्य शीतैः शिरोवक्त्रलेपपरिषेककवलग्रहान् वितरेत् ॥
व्यजनपवनविधूयमानश्च नीलशाद्वलोपवनशिशिरकरकिरणधारागृहाणि सेवेत ॥
तत्र च पक्वे दोषे शिरोविरेकं पुराणघृतेन ससैन्धवेन घृतमण्डेन वा कट्फलान्वितेन कुर्यात् ।
विशुद्धस्रोतसश्च जाङ्गलरसेन क्षीरेण वा शीतेन भोजनम् ॥
कफजे तु यवक्षारावचूर्णितमुष्णोदकानुपानं घृतं पाययेत् ।
जीर्णे च तिलमाषपललवतीं यवागूम् ।
ततो वामनीयौषधक्वाथसिद्धया ससर्पिष्कया सैन्धवमाषचूर्णप्रगाढया पेययोष्णाम्भसा च वामयेत् ॥
ततस्तीक्ष्णधूमकवलयवान्नचणकप्रायाहारनाडीस्वदेरुपाचरेत् ।
अरुचिगौरवयोस्तु विशोधयेत् ॥
पक्वे क्षवकविडङ्गसैन्धवादीभिर्नस्यम् ।
तैलाप्लुतो नागरचूर्णानुविद्धो मुद्ग आहारो यथासात्म्यं च रूक्षतीक्ष्णोष्णम् ॥
शुद्धघ्राणपथस्य देवदारुसरलकाकोलीजीवकमधुकपिप्पल्यनन्ताक्षीरविपक्वं तैलं नस्यम् ॥
सान्निपातिके दोषबलतः प्रतिकुर्यात् ।
रसाञ्जनातिविषामुस्तभद्रदारुसाधितं चात्र तैलं नावनम् ॥
रक्तजे पैत्तिको रक्तपित्तोक्तश्च विधिः ॥
दुष्टप्रतिश्याये व्योषचित्रकयवक्षारबीजकविडङ्गपूतीकरञ्जत्वग्लवणत्रयैर्मांसरसप्रतीवापविपक्वं सक्षौद्रं सर्पिः पाययेत् ।
जीर्णे घृते जाङ्गलरसेन तलोपसेकं भोजयेत् ।
स्निग्धं च कफप्रतिश्यायवदुपाचरेत् ॥
पक्वे ऽवपीडं व्योषेन्द्रयवविडङ्गसारजीरकसैन्धवैर्बस्तमूत्रपिष्टैर्दद्यात् ।
विशुद्धघ्राणस्रोतसं च पुनरुपस्नेह्य विरेचयेत् ।
भृष्टान्यवान् भूस्तृणकाम्रातकजीरकत्रिवृतायुक्तान् गोमूत्रेण क्वाथयेत् ।
तं क्वाथमभयानागरमरिचक्रमुकसैन्धवयावशूकचूर्णयुक्तं सबीजपूरकरसं पाययेत् ।
कोष्णोदकं चानुकण्ठयेत् ॥
विरिक्तं च काले मुस्तहरिद्रानागरयवक्षारपूतीकरञ्जरेणुकाभिरजाविगोत्रदधिभिश्च सिद्धं सर्पिरुपयोजयेत् ।
तीक्ष्णानि च निरूहानुवासनानि ।
अरिष्टांश्च पानार्थम् ॥
एवमप्यशान्तौ हिङ्गुक्षारामरदारुविपक्वं घृतं मांसरसानुपानं पिबेत् ॥
कोशाम्रपल्लवमूर्वा तर्कारीङ्गुदीफलफणिज्जकमहापञ्चमूलकण्टकारिकासारिवोरुपूगहिंस्रानिम्बशिग्रुफलरक्षोघ्नकृमिघ्नदन्ती पूतिकरञ्जपिप्पलीवार्ताकबीजाहिमारकमूलत्वक्पत्रपुष्पफलैरजामूत्रपिष्टैरजाश्वशकृद्रसयुक्तैर्धूमवर्तिं कृत्वा घृताभ्यक्तां पातुं प्रयच्छेत् ॥
पिप्पलीवर्धमानं चोपयुञ्जीत ।
कृमिघ्नैश्च योगैर्यापयेत् ॥
भृशक्षवथौ पुटके च निम्बकट्फलकुष्ठमरिचचूर्णैः क्लेदनाय प्रधमनम् ।
पिप्पलीकुष्ठशुण्ठीविडङ्गमृद्वीकाकषायकल्कविपक्वं तैलं घृतं वा नावनम् ॥
नासाशोषे बलातैलं पाने शिरोबस्तौ च ।
स्निग्धस्य स्वेदः ।
क्षीरसर्पिर्नस्यं मधुरवर्गसाधितं वा तैलम् ।
स्नेहिको धूमः ।
तथा नासानाहे ऽपि ।
एवमनुपशमे शिरोविरेकः ॥
नासापाके दीप्तौ च जालौकोभिरस्रविस्रावणम् ।
शीतैरूर्ध्वाधोविरेकलेपसेकाः ।
नासास्रावे तीक्ष्णं नस्यं धूमश्च ॥
अवीनसे पूतिनासे च गुडमरिचहिङ्गुशिवाटिकाविडङ्गैरजामूत्रपिष्टैर्नस्यम् ।
कफप्रतिश्यायवच्च स्नेहस्वेदवमनानि ॥
वमितवतो निर्गुण्डीशिग्रुतर्कारीफणिज्जकक्षवकसुरसार्जकपत्रस्वरसेन सार्षपं पीलुजं वा तैलं विपाच्य नस्यं विदध्यात् ॥
लाक्षाविडङ्गपिप्पलीलवङ्गक्षवकनिशाकुष्ठवचाकरञ्जिकाकल्कैर्वा तिलतैलम् ।
शिग्रुबृहतीदन्तीमूलबिल्वव्योषसुरससैन्धवैर्वा ॥
उत्पन्नमात्रं पूयरक्तं रक्तप्रतिश्यायवच्चिकित्सेत् ।
प्रवृद्धं नाडीव्रणवत् ।
कृतवमनस्य चास्य नस्यधूमौ प्रयोजयेत् ॥
अर्शांसि विधिवत् क्षारेणाग्निना वा दहेत् ।
स्थूलानि तु शस्त्रेण स्पृष्ट्वा दाहानन्तरं शीतां क्रियां योजयेत् ॥
वर्तिं च नासायां कुम्भनिकुम्भाग्निकसैन्धवपिप्पलीमनश्शिलालकल्कमधुघृतप्रदिग्धाम् ॥
तुवरिकाबिभीतकहरिद्रालोध्रप्रियङ्गुकरञ्जिकाकल्कगुडोदकविपक्वं तैलं नावनम् ।
करञ्जकलोध्रोत्पलमधुकतिन्दुकास्थित्रिफलाखदिरसारविपक्वं ॥
यथादोषं च स्नेहवमनविरेकादीन् प्रणिदध्यात् ॥
अर्बुदं बडिशेन गृहीत्वा मण्डलाग्रेण मूले समं छिन्द्यात् ।
छिन्नं चोच्छिङ्खयेत् ।
चलप्रमृष्टं च व्रणं शलाकया दहेत्तैलेन वा ।
अग्निदग्धं म्रङ्क्षयेत्ततः शिशिरैः प्रदेहैः ॥
उपरूढव्रणस्य लोध्रावापं तीक्ष्णोष्णलवणद्रव्यगोमूत्रयुक्तं सार्षपं कारञ्जं वा तैलं नावनम् ।
पित्तजे रक्तजे वार्बुदे गोदन्तसैन्धवालकासीसकांस्यनीलैरम्बुपिष्टैरालेपः ।
ततश्च शीताः प्रदेहसेकाः ।
शीतैरेव च साधितानि घृतान्यभ्यङ्गनस्यपानानि ॥
मांसमेदः सन्निपातार्शोर्बुदानि चैवं साधयेदिति ।
भवति चात्र ॥
उपसंहरति ।
हीनच्छेदात् पुनर्बृद्धिरतिच्छेदात् स्वरक्षयः ।
गन्धाज्ञानं च वीसर्पो मूर्च्छा छिन्द्यादतः समम् ॥
मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0