अष्टाङ्गसंग्रह · अध्याय 6.23
अथातो नासारोगविज्ञानीयं नामाध्यायं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥
अवश्यायानिलरजोभाष्यातिस्वप्नजागरैः ।
नीचात्युच्चोपधानेन पीतेनान्येन वारिणा ॥
अत्यम्बुपानरमणच्छर्दिबाष्पग्रहादिभिः ।
क्रुद्धा वातोल्बणा दोषा नासायां स्त्यानतां गताः ।
जनयन्ति प्रतिश्यायं वर्धमानं क्षयप्रदम् ॥
तत्र वातात् प्रतिश्याये मुखशोषो भृशं क्षवः ।
घ्राणोपरोधनिस्तोददन्तशङ्खशिरोव्यथाः ॥
कीटका इव सर्पन्ति मन्यते परितो भ्रुवौ ।
स्वरसादश्चिरात् पाकः शिशिराच्छकफस्रुतिः ॥
पित्तात्तृष्णाज्वरघ्राणापिटकासम्भवभ्रमाः ।
नासाग्रपाको रूक्षोष्णताम्रपीतकफस्रुतिः ॥
कफात् कासोरुचिः श्वासो वमथुर्गात्रगौरवम् ।
माधुर्यं वदने कण्डूः स्निग्धशुक्लकफस्रुतिः ॥
सर्वजो लक्षणैः सर्वैरकस्माद्वृद्धिशान्तिमान् ॥
दुष्टं नासासिराः प्राप्य प्रतिश्यायं करोत्यसृक् ।
उरसः सुप्तता ताम्रनेत्रत्वं श्वासपूतिता ।
कण्डूः श्रोत्राक्षिनासासु पित्तोक्तं चात्र लक्षणम् ॥
सर्व एव प्रतिश्याया दुष्टता यान्त्युपेक्षिताः ।
यथोक्तोपद्रवाधिक्यात् स सर्वेन्द्रियतापनः ॥
साग्निसादज्वरश्वासकासोरःपार्श्ववेदनः ।
कुप्यत्यकस्माद् बहुशो मुखदौर्गन्ध्यशोषकृत् ॥
नासिकाक्लेदसंशोषशुद्धिरोधकरो मुहुः ।
पूयोपमासितारक्तग्रथितश्लेष्मसंस्रुतिः ।
मूर्च्छन्ति चात्र कृमयो दीर्घस्निग्धसिताणवः ॥
पक्वलिङ्गानि तेष्वङ्गलाघवं क्षवथोः शमः ।
श्लेष्मा सुचिक्कणः पीतो ज्ञानं च रसगन्धयोः ॥
तीक्ष्णाग्राणोपयोगार्करश्मिसूत्रतृणादिभिः ।
वातकोपिभिरन्यैर्वा नासिकातरुणास्थनि ॥
विघट्टिते ऽनिलः क्रुद्धो रुद्धः शृङ्गाटकं व्रजम् ।
निवृत्तः कुरुते ऽत्यर्थं क्षवथुं स भृशक्षवः ॥
शोषयन् नासिकास्रोतः कफं च कुरुते ऽनिलः ।
शूकपूर्णाभनासात्वं कृच्छ्रादुच्छ्वसनं ततः ।
स्मृतो ऽसौ नासिकाशोषः नासानाहे तु जायते ॥
नद्धत्वमिव नासायाः श्लेष्मरुद्धेन वायुना ।
निश्वासोच्छ्वाससंरोधात् स्रोतसी संवृते इव ॥
पचेन्नासापुटे पित्तं त्वङ्मांसं दाहशूलवत् ।
स घ्राणपाकः स्रावस्तु तत्संज्ञः श्लेष्मसम्भवः ॥
अच्छो जलोपमो ऽजस्रं विशेषान्निशि जायते ॥
कफः प्रवृद्धो नासायां रुध्वा स्रोतांस्यवीनसम् ।
कुर्यात् सघुर्घुरश्वासं पीनसाधिकवेदनम् ॥
अवेरिव स्रवत्यस्य प्रक्लिन्ना तेन नासिका ।
अजस्रं पिच्छिलं शीतं पक्वं सिङ्घाणकं घनम् ॥
रक्तेन नासा दग्धेव बाह्यान्तः स्पर्शनासहा ।
भवेद्धूमोपमोच्छ्वासा सा दीर्प्तिदहतीव च ॥
तालुमूले मलैर्दुष्टे मारुतो मुखनासिकात् ।
श्लेष्मा च पूतिर्निर्गच्छेत् पूतिनासं वदन्ति ॥
निचयादभिघाताद्वा पूयासृङ्नासिका स्रवेत् ।
तत्पूयरक्तमाख्यातं शिरोदाहरुजाकरम् ॥
पित्तश्लेष्मावरुद्धोन्तर्नासायां शोषयेन्मरुत् ।
कफं स शुष्कः पुटतां प्राप्नोति पुटकं तु तत् ॥
अर्शोर्बुदानि विभजेद्दोषलिङ्गैर्यथायथम् ॥
सर्वेषु कृच्छ्रोच्छ्वसनं पीनसं प्रततं क्षुतम् ।
सानुनासिकवादित्वं पूतिनासः शिरोव्यथा ।
अष्टादशानामित्येषां यापयेद्दुष्टपीनसम् ॥
मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0