भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गसंग्रह · अध्याय 6.22

6.22.1

अथातः कर्णरोगमप्रतिषेधं नामाध्यायं व्याख्यास्यामः ।
इति हस्माहुरात्रेयादयोमहर्षयः ॥

6.22.2

वातजे कर्णशूले रात्रौ रात्रौ रसभोजनोत्तरं वातहरद्रव्यसिद्धं सर्पिः पिबोन्निरन्नो वा पयोनुपानम् ॥

6.22.3

ततो दशमूलसिद्धे छागे पयसि गोशृङ्गनिहिते ऽग्निवर्णान् पाषाणान् सन्दंशेन गृहीत्वावपेत् ।
तेनोष्मणा नाडीस्वेदेन च स्वभ्यक्तं स्वेदयेत् ।
बिल्वयवकोलकुलत्थमाषार्कशिग्रुपत्रैर्वा सानूपमांसैः क्वथितैः ॥

6.22.4

स्विन्नं च पूरयेत् कुष्ठरास्नामधुकवंशावलेखशुण्ठीशिखिचन्द्रकमाषसरलपयोविपक्वेन तैलेन ।
जीवकमधुककुष्ठमण्डूकीदेवदारुमहौषधकल्काष्टगुणक्षीरिसिद्धेन वा ॥

6.22.5

मयूरनालकुलत्थागरुमाषदेवदारुकल्कक्षारशुक्ताम्लसाधिताभ्यां वा तैलवसाभ्याम् ।
मधुकक्षीरकाकोलीमाषशतावरीकल्कसर्वगन्धोदकक्षीरविपक्वया वा वराहवसया ॥

6.22.6

रास्नामधुककाकोलीदेवदारुकल्कपयोविपाचितया वा शिंशुमारवसया ।
मांसीकुष्ठमेदासरलसुरभिमधुकक्षीरविपक्वया वा गोधावसया ॥

6.22.7

जीवकशताह्वामधुकमांसीक्षीरसिद्धां कुक्कुटमयूरवसां कर्णपूरणनस्याभ्यङ्गेषु विदध्यात् ।
मधुकक्षीरकाकोलीकल्केन चतुर्गुणशिग्रुह्रस्वपञ्चमूलकैरण्डपत्ररसमष्टगुणक्षीरसाधितं तैलं वा ॥

6.22.8

घृततैलवसाभ्यक्तानि तरुणान्यश्वत्थपत्राणि पुटपाक्स्विन्नानि प्रपीड्य तद्रसेन कर्णं पूरयेत् ॥

6.22.9

तद्वच्च तैललवणाभ्यक्तान्यर्कोरुपूगमूलकारलुकबिल्वमहावृक्षान्यतमपत्राणि ॥

6.22.10

महापञ्चमूलसरलागरुदेवदार्व्यन्यतमकाष्ठमष्टादशाङ्गुलं त्रिभागे क्षौमेणावेष्ट्य तैलेन सिक्त्वाग्रे प्रदीपयेत् ।
ततो दह्यमानाद्यः स्नेहः पतति स सद्यः कर्णरुजमपहरति ॥

6.22.11

मधूच्छिष्टकैडर्यमधुशिग्रुफलवचायवनलदैलागुग्गुलुभिः श्लक्ष्णपिष्टैः क्षौमवस्त्रं धूमवर्त्तिप्रमाणपरिणाहं लेपयेत्ततः सूत्रेणावेष्ट्य डुण्डुकनालेन धूमं पातुं दद्यात् ॥

6.22.12

डुण्डुकनालमेववानेन कल्केनाभ्यज्य विशोषयित्वा धूमं विदध्यात् ॥

6.22.13

श्रेयसीदेवदारुकाकोलीकुष्ठनिचुलबीजैः क्षीरपिष्टैस्तिलयुतैः कर्णं बहिर्लेपयेत् ।
सर्वधान्यस्नेहगोक्षीरसिद्धामुत्कारिकामेरण्डपत्रावच्छादिते कर्णे स्वेदार्थं प्रणयेत् ।
पुनः पुनश्च नाडीस्वेदान् पिण्डस्वेदांश्च ।
वातव्याधिप्रतिश्यायार्दिताविधानं च सनिरूहानुवासनं कुर्यात् ॥

6.22.14

परिहार्याणि च परिहरेद्विशेषतः प्रवातं शीताम्बुपानं शिरःस्नानं च ॥

6.22.15

पित्तजे तु शूले प्रातः शर्करायुतं सर्पिः पाययेत् ।
ततः स्निग्धं विरेचयेत् ।
द्राक्षामधुकसिद्धं स्तन्यं कर्णपूरणं प्रयुञ्जीत ।
माक्षिकं वा ।
मधुकपद्मककल्कस्तन्य्सिद्धं वा सर्पिः ।
सितामधुकखर्जूरमृद्वीकाभिर्वा सक्षीरेक्षुरसं प्रियालकतैलं पाचितमभ्यङ्गनस्यकर्णपूरणैः शूलदाहघ्नम् ॥

6.22.16

मधुककुडवं षोडशगुणेनाम्भसाष्टावशेषं साधयित्वा तेन तैलार्द्धकुडवमष्टगुणक्षीरं यष्टीसधुकोशीरसारिवाकाकोलीजीवकानन्तामृणालमञ्जिष्ठालोध्रचन्दनबिसगर्भं पचेत् ।
तच्च पूर्ववत् प्रणयेत् ॥

6.22.17

एषामेव च कल्केन सघृतेन कर्ण परितो लेपयेत् ।
स्वेदयेच्च ।
तथा क्षीरसर्पिर्नस्यं शिरोभ्यङ्गश्च ।
एवमप्यनुपशमे तु पुनर्विरेकः ॥

6.22.18

कफजे पिप्पलीविपक्वं घृतमथवा सक्षौद्रं पाययित्वा तं वामयेत् ।
ततस्तीक्ष्णं धूमं पाययेत् ॥

6.22.19

कर्णं चास्य पूरयेत् सरलदेवदारुहिंस्रापटोलपत्रसुरससिद्धेन तैलेन ।
देवदारुपिप्पलीमालतीपत्रक्वाथहरिद्राकुष्ठत्रिफलैलाक्वाथकल्कसिद्धेन वा ।
रसाञ्जनमार्कववैजयन्तीशिग्रुलशुनार्द्रकमूलकदलीनां वा पृथक् समस्तानां वा रसेन मधुना वा रक्षोघ्नतैलेन वा ।
तथा शूलशोफगौरवाणि प्रशाम्यन्ति ॥

6.22.20

धान्याम्लक्वथितदशमूलबाष्पेण नाडीस्वेदमाचरेत् ।
स्विन्नं कुशाम्रत्रिवृन्नलदशुण्ठीमुस्तसाधितेन तैलेन पूरयेत् ।
कफघ्नांश्च गण्डूषान् धारयेत् ॥

6.22.21

रक्तजे पैत्तिकवत् सिद्धिः सिराव्यधश्च ॥

6.22.22

पक्वेषु कर्णशूलेषु पूयप्रवाहिषु यथास्वं धूमनस्यगण्डूषवमनान्याचरेत् ॥

6.22.23

उपदिग्धं च स्रोतः सायंप्रातः पिचुवर्तिभिः प्रमृज्य यवागरुमदनैः सघृतैर्गुग्गुलुना वा धूपयित्वा मधुना पूरयेत् ॥

6.22.24

पलाशधवतिनिशककुभसर्जत्वक्क्वाथ रसक्रियया स्वभ्यक्तां पिचुवर्तिं स्रोतसि दद्यात् ।
बदरीसल्लकीजम्बूधातकीवटप्लक्षोदुम्बरक्वाथेनैवमेव च रसक्रियया ।
हरिद्राधातकीत्रिफलाजम्बूसल्लकीकिंशुकक्वाथेन च ।
तथा सौराष्ट्रिकापद्मकधातकीसमङ्गाश्वत्थधवलोध्ररसाञ्जनक्वाथेन ॥

6.22.25

एभिरेवौषधैः सूक्ष्मचूर्णीकृतैः स्रोतसो ऽवकिरणमेवं क्लेदशूलगौरवाणि शाम्यन्ति ।
एषामेव च कषायेण सक्षौद्रेण कपित्थस्वरसेन वा प्रक्षालनम् ।
तथा सुरसादिवर्गः प्रक्षालनावचूर्णनयोः प्रयोज्यः ॥

6.22.26

नादबाधिर्ययोर्वातशूलोक्तः सर्वो विधिः ।
श्लेष्मानुबन्धे तु प्राक्श्लेष्माणमपहरेद्वमननावनाभ्यां तीक्ष्णधूमैश्च ॥

6.22.27

बाधिर्यं च बालवृद्धक्षीणकासशोषिणां चिरोत्थितं च वर्जयेत् ॥

6.22.28

इतरत्तु स्नेहस्वेदनस्यशिरोबस्तिबस्तिकर्मप्रभृतिभिर्दोषानुबन्धमवेक्ष्य साधयेत् ॥

6.22.29

तत्र प्रागेव पुराणसर्पिषा वा वातहरतैलेन वा स्निग्धं स्नेहेनैव विरेचयेत् ।
कृतसंसर्जनस्य पुनः स्निग्धस्य शोणितमपहरेत् ।
कर्णासन्नं जलौकोभिस्ततो बस्तिकर्ममूर्धतैलनस्यधूमान् कर्णपूरणं च शीलयेत् ॥

6.22.30

तरुणबिल्वफलानि गोमूत्रेण क्वाथयेत्तेन क्वाथेन सितामधुकबीजकबीजकल्केन च पयोयुक्तं तैलं पाचयेत् ।
तत्तैलमुष्णं शीते बिल्वक्वाथे प्रक्षिप्य मन्थयेत् यावत् पिण्डीभूतमुद्धृत्य चैतत्पुनरन्यत्र बिल्वोदके मन्थयेत् ।
ततश्चोद्धृत्याष्टगुणे पयसि मधुकगन्धचन्दनगर्भं साधितमाशु कर्णपूरणात् बाधिर्यं नाशयति ॥

6.22.31

तिलान् नवप्रलूनान् वस्त्रबद्धान् वहन्तीष्वप्सु रात्रिमुषितान् दिवा शोषयेत् पञ्चरात्रम् ।
एवं गते पञ्चरात्रे मधुयष्टिकाक्षीरकाकोलीमहापञ्चमूलदेवदारुशताह्वाजीवकक्वथिते पयसि पञ्चाहमेवं वासयेच्छोषयेच्च ।
ततोनेनैव क्षीरेणैषामेव च द्रव्याणां चूर्णमात्रया युक्तान् प्रपीडयेत् ।
तत्तैलं नीलोत्पलानन्ताचन्दनागरुमधुकजीवककाकोलीसुनिषण्णकमूलकल्कैरष्टगुणेन पयसा पचेत् ।
एतन्नस्ये कर्णपूरणे शिरसि चाभ्यञ्जने प्रणीतमाशु शूलनादबाधिर्याणि सर्ववातविकारांश्च पित्तानुबन्धानपोहति भग्नास्थिसन्धानजननं च ॥

6.22.32

शुष्कमूलकभस्मक्षारद्वयहिङ्गुशुण्ठीमिसिवचाकुष्ठमरदारुसौभाञ्जनभूर्जग्रन्थिमुस्तालवणत्रयैः सोद्भिदैस्तैलं शुक्तकदलीबीजपूरकरससंयुक्तं सिद्धं शूलनादबाधिर्यकण्डूशोफक्लेदोपदेहकृमिपूतिकर्णेषु ॥

6.22.33

अथ कर्णौ सुप्ताविव भवतस्तत्समीपे यथोक्तां सिरां मोक्षयेत् ।
सश्वयथुपरिस्रावे मन्दश्रुतेर्वमनमाचरेत् ॥

6.22.34

प्रतीनाहे स्नेहस्वेदक्लिन्नं कर्णं कर्णशोधनेन विशोध्य तैलस्य पूरयेन्मातुलुङ्गरसस्य वा सशुक्तक्षौद्रसैन्धवस्य ॥

6.22.35

शोध्यमाने वेदना रक्तागमो वा यदि भवेत्ततो घृतमण्डेन पूरयेन्नस्यं च शीलयेत् ।
मलपूर्णेप्येष एव विधिः ॥

6.22.36

कण्ड्वां तीक्ष्णनस्यधूमादीन् कफघ्नान्वितरेत् ।
रूक्षतिक्तकटुश्चाहारः ।
शोफेप्येवमेव विधिः ।
कटुतीक्ष्णोष्णाश्च प्रदेहपरिषेकाः ॥

6.22.37

पूतिकर्णे कर्णस्रावोक्तो विधिः कृमिकर्णे च ।
विशेषतश्चात्र कृमिघ्नः ।
तथा सर्षपतैलेन पूरणम् ।
हरितालचूर्णवता गोमूत्रेण वा ।
वार्ताकबीजेन धूपनम् ॥

6.22.38

कर्णविद्रधिं वमनपूर्वं विद्रधिवदामं पक्वं च चिकित्सेत् ।
क्षतविद्रधिं पित्तकर्णशूलवदर्शांसि नासार्शोवदर्बुदानि च ॥

6.22.39

विदारिकामामां कर्णविद्रधिवद्यथादोषोदयं च साधयेत् ॥

6.22.40

पालीशोषे वातशूलवन्नस्यमालेपं स्वेदंच कुर्यात् ।
स्विन्नमुद्वर्त्तयेत्तिलप्रियालबीजमधुकयवाश्वगन्ध्हाकल्केन ॥

6.22.41

उद्वर्तितं च मधुकपयस्याशतपुष्पाश्वगन्धाकल्काष्टगुणवाजिगन्धाबृहत्यभीरुक्वाथक्षीरसाधितेन तैलेनाभ्यज्यात् ।
शतावर्यश्वगन्धैरण्डपयस्याजीवकक्षीरसिद्धेन वा ॥

6.22.42

गोधाप्रतुदविष्किरानूपौदकमांसवसामज्जानं सर्पिस्सर्षपतैलं च यथालाभं सङ्गृह्यार्कालर्कबलातिबलानन्ताविदारिगन्धाजलशूकमधुरवर्गप्रतीवापं विपचेदयमभ्यङ्गः पाल्याः परं मांसजननः ॥

6.22.43

एवमपि तु या क्षीयते पाली तस्या यद्दुष्टं तच्छित्वा विधिवत् सन्धाय यथोक्तेन क्रमेणोपचरेत् ॥

6.22.44

तन्त्रिकामपि चैवमेव नस्याभ्यङ्गादिभिर्यापयेत् ॥

6.22.45

परिपोटकेप्ययमेव विधिः ।
तथा मधुकखरमञ्जरीसैन्धवाश्वगन्धादेवदारुमूलकावल्गुजफलमूलमधूच्छिष्टैः सक्षीरैर्महास्नेहः सिद्धोभ्यङ्गः ।
तिलमधुकप्रपौण्डरीकसिद्धार्थकघृतक्षीरकृतयोत्कारिकयोपनाहः ॥

6.22.46

उत्पाते जलौकोभिरपनीतरक्ते शीतैः प्रदेहः ।
तिलमधुकसारिवोत्पललोध्रकदम्बबलाम्रजम्बूपल्लवैस्सधान्याम्लं तैलं साधितमभ्यङ्गः ।
तथा क्षीरसर्पिर्विसर्पोक्तानि च घृतानि ॥

6.22.47

उन्मन्थे तीक्ष्णैः शिरोविरेकः ।
तिलसर्षपलोध्रहरिद्राद्वयैरुद्वर्तितायाः कर्णपाल्यास्तालीसतमालैलाकट्फलरसाञ्जनैर्लेपः तालपत्र्यश्वगन्धार्कसैन्धवावल्गुजबीजसुरसलाङ्गलिकाभिर्गोधाकुलीरवसायुक्तं तैलं विपक्वमभ्यञ्जनम् ।
तैलमेव वा पटोलकटुरोहिणीरसाञ्जनीशरीषैः ॥

6.22.48

दुःखवर्द्धने जम्ब्वाम्राश्मन्तकपत्रक्वाथपरिषिक्तां कर्णपालीं तैलेनाभ्यज्य यष्टीमधुकहरिद्राप्रपौण्डरीकमञ्जिष्ठाचूर्णेनावचूर्णयेत् ।
लाक्षाविडङ्गपक्वेन तैलेनाभ्यञ्जयेत् ॥

6.22.49

लेहिकापिटकासु कर्णपालीं बहुशो गामयापण्डस्विन्नामुरभ्रीमूत्रपिष्टैः कृमिघ्नैरालिम्पेत् ।
कुटजकरञ्जेङ्गुदबीजारग्वधत्वग्भिर्वा ।
एभिरेव च सर्वैस्समरिचनिम्बपत्रमधूच्छिष्टैस्सर्षपतैलं सिद्धं लेहिकाव्रणघ्नो ऽभ्यङ्गः परिदहने जलजाभिरसृक् स्रावयेत् ।
शीतैश्च प्रदिह्यात् ॥

6.22.50

सर्वेषु च पालीरोगेषु स्नेहस्वेदशोधनाभ्यङ्गप्रदेहनस्यास्रविस्रवणानि यथार्हं प्रयुञ्जीत ।
प्रकोपकारणानि च परिहरेत् ॥

6.22.51

उत्पच्यमानायां तु पाल्यां सर्जरसापामार्गपटोलनिम्बनिचुलत्वग्भिरालेपः ।
उत्पुटन्त्यां शिग्रुशम्याकपूतीकगोवराहपित्तगोधावसासपिर्भिः ।
श्यावायां गौरीसुगन्धाश्यामानन्तातण्डुलीयकमूलैः ।
कण्डूमत्यां पाठानन्तातार्क्ष्यशैलेयमाक्षिकैः ।
दह्यमानायां क्षीरिवृक्षजीवनीयकल्कमधुघृतैः ।
व्रणितायां क्षौद्रजीवनीयैः ।
कृशायां गोधावराहवसाभिः ।
ग्रथितायां ग्रन्थिं पाटयित्वा विलिख्य च कृष्णासैन्धवमधुभिः प्रतिसारयेत् ।
स्नाववत्यां मधुमधुकमधूकमधुपर्णीभिर्लेपः ।
एभिरेव च यथास्वं स्नेहानभ्यङ्गार्थं प्रकल्पयेत् ॥

6.22.52

अथ रोगतो बलाद्वा विच्छिन्नं कर्णमनुसन्दध्यात् ॥

6.22.53

समासतस्तु पञ्चदश कर्णसन्धयः प्रायो नामानुगतसंस्थानस्थानविशेषतया सम्भवन्ति ॥

6.22.54

तद्यथा ।
पृथुलायतसमोभयपालीश्चक्रनेभिः ॥

6.22.55

वृत्तायतसमोभयपालिरुत्पलभेदकः ॥

6.22.56

अभ्यन्तरदीर्घपालिः कवाटः ॥

6.22.57

विपरीतोर्द्धकवाटः ॥

6.22.58

ह्रस्ववृत्तसमोभयपालिर्वल्लूरकः ॥

6.22.59

अणुस्थूलसमविषमपालिर्व्यायोजिमः ॥

6.22.60

बाह्यपालिर्गण्डाधारः ॥

6.22.61

अतोविपरीतस्त्वासङ्गिमः ॥

6.22.62

अपालिराहार्यः ।
स एव मांसलपीठो निर्वेधिमः ॥

6.22.63

शुष्कशष्कुलिरुत्सन्नपालिः ॥

6.22.64

इतराल्पपालिः सङ्क्षिप्तः ॥

6.22.65

अनधिष्ठानपालिः पर्यन्तयोश्च क्षीणमांसो हीनः ॥

6.22.66

तनुविषमपालवाल्लः ॥

6.22.67

ग्रथितनिर्मांसस्तब्धसिरावृतसूक्ष्मपालिर्यष्टी ॥

6.22.68

निर्मांससङ्क्षिप्ताग्राशोणितपालिः काकौष्ठ इति ॥

6.22.69

एषामाद्या दश सिध्यन्ति ।
न त्वितरे ॥

6.22.70

तत्र बाह्यायां पाल्यां दीर्घायामाभ्यन्तरः सन्धिः ।
तथेतरायां बाह्यः ।
समः समयोश्च ॥

6.22.71

अण्वादिविषमयोस्तु परस्परविपर्ययौ ॥

6.22.72

या त्वेकैव पाली स्थूला पृथ्वी स्थिरा च स्यात् तां द्विधा पाटयित्वोपरि छित्वा सन्दध्यात् ॥

6.22.73

गण्डोत्कृत्तेन वा सशोणितेन सानुबन्धेन मांसेन पालीं कल्पयेत् ।
यस्य पालीद्वयमपि नास्ति तस्याप्येष एव विधिः ।
अथवा समानवयोदोषादेः सञ्चार्य कर्णपीठं समं मध्य निवेश्य वर्द्धयेत् ॥

6.22.74

सन्धानविधिः पुनरातुरे ग्रथितकेशान्ते बन्धनमुपघारिते छेद्यभेद्यलेख्यैरुपपन्नैरुपपाद्य कर्णं शोणितमवेक्षेत दुष्टमदुष्टं वेति ॥

6.22.75

ततो वातदुष्टे धान्याम्लोष्णोदकाभ्यां पित्तदुष्टे क्षीरशीतोदकाभ्यां श्लेष्मदुष्टे वारुणीसलिलाभ्यां प्रक्षाल्य पुनश्चावलिख्यानुन्नतमहीनविषमं सन्धिं निवेश्य ततो मधुघृताभ्यामभ्यज्य पिचुप्लोतयोरन्यतरेणावगुण्ठ्य सूत्रेण नातिगाढमशिथिलं च बध्वा सिराव्यथोक्तेन कपालस्य वा चूर्णेनावकीर्याचारिकमुपदिशेत् ॥

6.22.76

सन्धिमश्लिष्यन्तं क्षौमसूत्रेण सीव्येत् ।
अतिक्षीणपालिकं वा शोणिताक्तेन पिचुना वेष्टयेत् ।
व्रणवच्चैनमुपाचरेत् ।
त्र्यहाच्चतुरहाद्वा सलिलेन परिषिच्य पिचुं सूत्रं चापनयेत् ।
न चाशुद्धरक्तमतिप्रवृत्तरक्तं क्षीणरक्तं वा कर्णं सन्दध्यात् ॥

6.22.77

तस्य हि स्वयमपि सन्धिर्विश्लिष्यते आध्मायते श्यावतामुपैति पच्यते शुष्यति चिराद्रोहति रूढोप्याभरणं न क्षमते ।
सशोफकण्डूसन्तापो ग्रन्थिमांश्च भवति ।
तत्र च यथास्वं प्रतिकुर्वीत ।
दुष्टरक्ते च रक्तमवसेचयेत् ।
क्षीणरक्तं स्नेहपाननस्यमांसरसाशनाभ्यङ्गैर्बृंहयेत् ॥

6.22.78

सर्वत्र चैवमपि सोपद्रवसन्धौ सन्धिं विमुच्य पूर्वापचारोपस्थापितस्मृतिः सम्यक्सन्दधीतेति ।
भवति चात्र ॥

6.22.79

न कर्णे शोफरागादियुक्ते सन्धानमाचरेत् ।
न घस्मरस्य नात्युष्णे नाविशुद्धतनोरपि ॥

6.22.80

सुरूढं जातरोमाणं श्लिष्टसन्धिं समं स्थिरम् ।
सुवर्ष्माणमरोगं च शनैः कर्णं विवर्द्धयेत् ॥

6.22.81

अन्यथा दाहरुक्तोदशोफाः स्युस्तत्र कारयेत् ।
शीतान्प्रदेहसेकादीन् शुद्धिं च क्लेदनाशिनीम् ॥

6.22.82

स्नेहावानूपजौ तैलं सर्पिर्लाक्षारसं समम् ।
साधयेन्मधुरस्कन्धहयगन्धामयूरकैः ॥

6.22.83

पिष्टैर्दशगुणक्षीरे तत्परं कर्णवर्द्धनम् ।
कठिनाः सरुजः क्षामाः पाल्यः स्वेदितमर्द्दिताः ।
अभ्यक्तास्तेन जायन्ते मृदवो नीरुजः स्थिराः ॥

6.22.84

बृहत्यौ कच्छुरां वारिशूकमर्कजटां घृतम् ।
माक्षिकं शङ्खिनीं तैलं सप्ताहं ताम्रभाजने ।
थापयेत् तत्परं कर्णमालेपात् पोषयेत् कृशम् ॥

6.22.85

चर्मचटिका जलौको हयबन्धा शबरकन्दकं तुल्यम् ।
माहिषनवनीतयुतं कपित्थगं कर्णवर्धनं साक्षात् ।
कुर्याच्चाभ्यञ्जनालेपान् पलिशोषे प्रकीर्तितान् ॥

6.22.86

अथ कुर्याद्वयस्थस्य च्छिन्नां शुद्धस्य नासिकाम् ।
छिन्द्यान्नासासमं पत्रं तत्तुल्यं च कपोलतः ॥

6.22.87

त्वङ्मांसं नासिकासन्ने रक्षस्तत्तनुतां नयेत् ।
सीव्येत् गण्डं ततः सूच्या सीवन्या पिचुयुक्तया ॥

6.22.88

नासाच्छेदेथ लिखिते परिवर्त्योपरि त्वचम् ।
कपोलवध्रं सन्दध्यात् सीव्येन्नासां च यत्नतः ॥

6.22.89

नाडीभ्यामुत्क्षिपेदन्तः सुखोच्छ्वासप्रवृत्तये ।
आमतैलेन सिक्त्वानु पतङ्गमधुकाञ्जनैः ॥

6.22.90

शोणितस्थापनैश्चान्यैः सुश्लक्ष्णैरवचूर्णयेत् ।
ततो मधुघृताभ्यक्तं बध्वाचारिकमादिशेत् ॥

6.22.91

ज्ञात्वावस्थान्तरं कुर्यात् सद्योव्रणविधिं ततः ।
छिन्द्याद्रूढेधिकं मांसं नासोपान्ताच्च चर्म तत् ।
सीव्येत्ततश्च सुश्लक्ष्णं हीनं संवर्धयेत् पुनः ॥

6.22.92

निवेशिते यथान्यासं सद्यःच्छिन्नेप्ययं विधिः ॥

6.22.93

नाडीयोगाद्विनौष्ठस्य नासासन्धानवद्विधिः ॥

मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc