भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गसंग्रह · अध्याय 6.21

6.21.1

अथातः कर्णरोगविज्ञानीयं नामाध्यायं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥

6.21.2

प्रतिश्यायजलक्रीडाकर्णकण्डूयनैर्मरुत् ।
मिथ्यायोगेन शब्दस्य कुपितोन्यैश्च कोपनैः ॥

6.21.3

प्राप्य श्रोत्रसिराः कुर्याच्छूलं स्रोतसि वेगवत् ।
अर्धावभेदकं स्तम्भं शिशिरानभिनन्दनम् ॥

6.21.4

चिराच्च पाकः पक्वं तु लसीकामल्पशः स्रवेत् ।
श्रोत्रं शून्यमकस्माच्च स्यात् सञ्चारविचारवत् ॥

6.21.5

शूलं पित्तात् सदाहोषा शीतेच्छाश्वथथुज्वरम् ।
आशुपाकं प्रपक्वं च सपीतलसिकास्रुति ।
सा लसीकास्पृशोद्यद्यत्तत्पाकमुपैति च ॥

6.21.6

कफाच्छिरोहनुग्रीवागौरवं मन्दता रुजः ।
कण्डूःश्वयथुरुष्णेच्छा पाकाच्छ्वेतघनस्रुतिः ॥

6.21.7

करोति श्रवणे शूलमभिघातादिदूषितम् ।
रक्तं पित्तसमानार्ति किञ्चिद्वाधिकलक्षणम् ॥

6.21.8

शूलं समुदितैर्दोषैः सशोफज्वरतीव्ररुक् ।
पर्यायादुष्णशीतेच्छं जायते श्रुतिजाड्यवत् ।
पक्वं सितासितारक्तघनपूयप्रवाहि च ॥

6.21.9

शब्दवाहिसिरासंस्थे शृणोति पवने मुहुः ।
नादानकस्माद्विविधान् कर्णनादं वदन्ति तम् ॥

6.21.10

श्लेष्मणानुगतो वायुर्नादो वा समुपेक्षितः ।
उच्चैः कृच्छ्राच्छ्रुतिं कुर्यात् बधिरत्वं क्रमेण च ॥

6.21.11

वोतन शोषितः श्लेष्मा स्रोतो लिम्पेत्ततो भवेत् ।
रुग् गौरवं पिधानं च स प्रतीनाहसंज्ञितः ॥

6.21.12

कण्डूशोफौ कफाच्छ्रुत्रे स्थिरौ तत्संज्ञया स्मृतौ ॥

6.21.13

कफो विदग्धः पित्तेन सरुजं नीरुजं तथा ।
घनपूतिबहुक्लेदं कुरुते पूतिकर्णकम् ॥

6.21.14

वातादिदूषितं श्रोत्रं मांसासृक्लेदजा रुजम् ।
खादन्तो जन्तवः कुर्युस्तीव्रां स कृमिकर्णकः ॥

6.21.15

श्रोत्रकण्डूयनाज्जाते क्षते स्यात् पूर्वलक्षणः ।
विद्रधिः पूर्ववच्चान्यः शोफोर्शोर्बुदमीरितम् ॥

6.21.16

तेषु रुक्पूतिकर्णत्वं बधिरत्वं क्रमेण च ॥

6.21.17

गर्भे ऽनिलात् सङ्कुचिता शष्कुली कूचिकर्णकः ॥

6.21.18

एको नीरुगनेको वा गर्भे मांसाङ्कुरः स्थिरः ।
पिप्पलीपिप्पलीमानः सन्निपाताद्विदारिका ॥

6.21.19

सर्वणः सरुजः स्तब्धः श्वयघुः स उपेक्षितः ॥

6.21.20

कटुतैलनिभं पक्वः स्रवेत् कृच्छ्रेण रोहति ।
सङ्कोचयति रूढा च सा ध्रुवं कर्णशष्कुलीम् ॥

6.21.21

सिरास्थः कुरुते वायुः पालीशोषं तदाह्वयम् ॥

6.21.22

कृशा दृढा च तन्त्रीवत् पाली वातेन तन्त्रिका ॥

6.21.23

सुकुमारे चिरोत्सर्गात् सहसैव प्रवर्धिते ।
कर्णे शोफः सरुक्पाल्यामरुणः परिपोटवान् ॥

6.21.24

परिपोटश्चपवनात् उत्पातः पित्तशोणितात् ॥

6.21.25

गुर्वाभरणभाराद्यैः श्यावो रुग्दाहपाकवान् ।
श्वयथुः स्फोटपिटकारागोषाक्लेदसंयुतः ॥

6.21.26

पाल्यां शोफोनिलकफात् सर्वतो निर्व्यथः स्थिरः ।
स्तब्धः सवर्णः कण्डूमानुन्मन्थो गल्लिरश्च सः ॥

6.21.27

दुर्विद्धे वर्धिते कर्णे सकण्डूदाहपाकरुक् ।
श्वयथुः सन्निपातोत्थः स नाम्रा दुःखवर्धनः ॥

6.21.28

कफासृक्कृमिजाः सूक्ष्माः सकण्डूक्लेदवेदनाः ।
लिह्याख्याः पिटकास्ता हि लिह्युः पालीमुपेक्षिताः ॥

6.21.29

पिप्पली सर्वजं शूलं विदारी कूचिकर्णकः ।
एषामसाध्या याप्यैका तन्त्रिकान्यांस्तु साधयेत् ॥

6.21.30

पञ्चविंशतिरित्युक्ताः कर्णरोगा विभागतः ॥
कर्णरोगप्रतिषेधः

मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc