अष्टाङ्गसंग्रह · अध्याय 6.20
अथातः अक्षिपाकपिल्लप्रतिषेधं नामाध्यायं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥
शुष्काक्षिपाके वाताभिष्यन्दविहितं सर्पिः पिबेत् ।
कुलीररसक्षीरसिद्धं वा ॥
दार्वीप्रपौण्डरीकयोः क्वाथ आश्च्योतनमक्षिपाकघ्नम् ।
मञ्जिष्ठामधुककालानुसारीसारिवालोध्रलाक्षाप्रपौण्डरीकाणामक्षिपाकरक्तराजीघ्नम् ।
मृद्वीकाचन्दनकल्कस्तण्डुलाम्बुपरिस्रुतो मधुमानश्रुदाहहरः ।
लोध्रकोरण्डकपुष्पक्वाथो वेदनाहरः ॥
अणुतैलं नस्यम् ।
सारिवाविदारीबलामधुकोत्पलद्राक्षाटरूषकजीवकचन्दनैर्जाङ्गलरसक्षीरोपेतं तैलं साधितं नावनात् सर्वोर्ध्वजत्रुजान् गदान् वातपित्तोत्तरान् निहन्ति ॥
स्न्गिधाश्चात्र तर्पणपुटपाकाः ।
वातपित्तान्यतरोद्रेकतश्च यथास्वमभिष्यन्दविधिः ॥
आदर्शमण्डले घृताक्तकेशान् घृष्ट्वान्तर्धूमं दहेत् सा मषी घृतपिष्टायसभाजनस्थिताक्षिपाकमञ्जना दपहरति ॥
मञ्जिष्ठाफलत्रिककटङ्कटेरीनिष्क्वाथे लोहस्रोतोञ्जनचूर्णमापिण्डीभावात् पचेत् ।
एतच्चूर्णाञ्जनमभयं दाहोषारागाश्रुहरम् ॥
ताम्ररजस्सैर्यकपुष्पपुण्ड्राह्वमधुककालानुसारीसारिवाः छागेन पयसा पिष्टाः पिण्डाञ्जनम् ॥
आनूषवसा शुण्ठीसैन्धवचूर्णान्विता स्नेहाञ्जनम् ।
एवमप्यशान्तौ मधुकसिद्धः शताह्वाचूर्णयुक्तो घृतमण्डस्तथा पयो वा बस्तिः ॥
सशोफाल्पशोफयोस्तु स्निग्धस्विन्नस्यानु सिराविध्येत् ॥
द्राक्षाभयाक्वाथस्त्रिवृत्कल्कवान् सघृतो विरेकः ।
विरिक्तस्य यथादोषोदयमास्थापनम् ॥
ततः पिण्डस्विन्नशिरसः सर्षपतैलेन सैन्धवयुतेन वा सर्पिषा फणिज्जकयुक्तेन वा अणुतैलेन शिंरोविरेकः ।
विरिक्तशिरसो ऽनुवासनं क्षीरसर्पिषा धूमपानं च ॥
शिरोनेत्रं चास्य सुनिषण्णकपत्तूरैरण्डपत्रैः क्षीराम्बुस्विन्नैः संस्वेदयेत् ॥
घृतभृष्टं लोध्रचूर्णं सूक्ष्मवासस्थमुष्णोदकविमृदितमाश्च्योतनम् ।
शुष्काक्षिपाकोक्तं च वेदनाघ्नम् ॥
एवमशान्तवेदनं सन्धावैरुपक्रमेत् ॥
शशशिरःकपालं सैन्धवं कांस्ये स्तन्यघृष्टं सन्धावो वेदनाघ्नः ।
तद्वत्ताम्रं च लोहे गोमूत्रघृष्टं घृतधूपितम् ॥
शिग्रुपल्लवरसश्च ताम्रघृष्टो घृतधूपितः ।
शङ्खं ताम्रे स्तन्येन घृष्टं घृताभ्यक्तयवशमीपत्रधूपितं घर्षवेदनाघ्नम् ॥
उदुम्बरफलं लोहे स्तन्यघृष्टं घृताभ्यक्तशमीपत्रधूपितं शूलरागाश्रुघर्षघ्नम् ।
दधिसरः पिप्पलीसैन्धवयुक्तस्ताम्रे घृष्टश्शोफघर्षाश्रुवेदनाघ्नः ॥
मृत्कपालं कांस्ये तिलोदकघृष्टं घृताक्तनिम्बपत्रधूपितं शोफकण्डूघर्षाश्रुशूलरागघ्नम् ॥
सन्धावाञ्जितं चाक्षि स्तन्येनानुसिञ्चेत् ।
त्रिःपरं च तैर्न्नाञ्जयेत् ।
अथाञ्जनानि ॥
मधुकबृहतीत्वक्ताम्ररजांस्यजाक्षीरपिष्टानि शम्यामलकपत्रैर्घृताप्लुतैरनेकशो धूपितानि पिण्डाञ्जनं शोफवेदनाघ्नम् ॥
तालीसपत्रपिप्पलीलोहर्रजोञ्जनकासीसतगरजातीमुकुलसैन्धवैर्गोमूत्रपिष्टैस्ताम्रमालिप्तं सप्तरात्रं स्थापयित्वा पुनस्तद्वदेवपिष्टैर्गुटिकाः कार्यास्ताः स्तन्यघृष्टाः स्तम्भश्वयथुहर्षघर्षाश्रुकण्डूघ्न्यः ॥
अबद्धास्थिसहकारमांसं विगतत्वचं समताम्रचूर्णमीषत् सैन्धवोपेतं गव्येन दध्ना पिष्ट्वा ताम्रमालेपयेत् ।
शुष्कं शुष्कं तथैव च पिष्ट्वा पुनर्लेपयेत् ।
एतत् सप्तभिः सप्ताहैः पिण्डाञ्जनं कृतं सर्वाक्षिपाकाश्रुघर्षशोफरागवर्त्मोपचयघ्नम् ।
अश्मन्तकाम्लवेतसपरूषककोलदाडिमैः कृता रसक्रिया सशोफाल्पशोफपूयालसान् नाशयति ।
इत्थमपि शोफानुवृत्तौ पुनरस्रावसेकः शिरोविरेकश्च ॥
अम्लोषितं पित्ताभिष्यन्दवदुपाचरेत् ।
पिल्लसाधनं चेक्षेत ॥
पित्तकफरक्तनिचयोत्क्लिष्टवर्त्मपोथकीबिसाख्यकुकूणकपक्ष्मोपरोधपूयालसशुष्काक्षिपाकाल्पशोफाम्लोषिता वातवर्ज्याश्चस्यन्दाधिमन्था इत्यष्टादशदीर्घकालानुबन्धिनो रोगाः पिल्लसंज्ञाः ॥
एषां क्रिया यथास्वमुपदिष्टैव ।
पुनश्च पिल्लीभूतानां सामान्येनोपदिश्यते ॥
अथ पिल्लाक्षिरोगिणं स्नेहयित्वा वामयेत् ।
कृतक्रमस्य सिराव्यधस्ततो विरेकः ।
कृतविरेकस्य वर्त्मनी लिखेत् ।
सकृल्लेखनादशुद्धौ पुनर्लेखयेत् जलौकोभिश्च ग्राहयेत् ॥
प्रियङ्गुलोध्रपद्मकेसरचन्दनमधुककल्केन समाक्षिकेण बिडालकः ।
तुवरिकाफलत्रिकरोचनाक्वाथेन मधुमता सायं प्रातः सदा प्रक्षालनमञ्जनान्ते च कषायवृक्षपल्लवकषायेण ॥
तैरेव च पत्रैरुष्णाप्रियतायामन्तरान्तरा स्वेदः ॥
तुत्थकपलं विंशतिश्च श्वेतमरिचानि धान्याम्ल पिष्टानि तत्पलैस्त्रिंशता ताम्रपात्रे समालोडितानि बहुवर्णामपि पिल्लानां परममाश्च्योतनम् ॥
अञ्जनं चास्याम्रधातकीपुष्पतिलपर्णीकल्केन च वर्त्तिः हरीतक्याढकीश्चाष्टगुणेम्भास्यष्टभागावशेषं क्वाथयेत् पुनश्च परिस्राव्यादर्वीप्रलेपाद्रसक्रियेयं पिल्लाक्षिरोपणी ।
पलाशशाखास्वरसे क्वाथ्यमाने बृहत्युशीररजोदद्यात् तत्घनीभूतं शीतमञ्जनम् ।
सुरसारसपिष्टैर्वा वचलदेवदारुभिः ।
गोपित्तपिष्टाभ्यां वा व्योषरसाञ्जनाभ्याम् ॥
हरितालसौवीरकाञ्जनसमांशं वा ताम्रचूर्णमञ्जनम् ।
परिपेलवकासीसहरिद्राद्वयसर्षपप्रियङ्गुतगरपिप्पलीकल्केन ताम्रभाजनमन्तर्लेपयित्वा सौवीरककुम्भेधोमुखं सप्ताहं वासयेत् ततो गुटिकाश्चूर्णं वा कुर्यात् ॥
तुत्थगैरिकचूर्णं छगलीपयःपिष्टं गुटिका प्रत्यञ्जनम् ।
चूर्ण एव वा दिव्योदकभावितः ।
स एव वा तदाप्लुतो नेत्राश्च्योतनमिति ।
भवति चात्र ॥
वर्त्मावलेखं बहुशस्तद्वच्छोणितमोक्षणम् ।
पुनः पुनर्विरेकं च पिल्लरोगातुरो भजेत् ॥
पूयालसेत्वशान्तेन्ते दाहः सूक्ष्मशलाकया ॥
चतुर्नवतिरित्यक्ष्णोर्हेतुलक्षणसाधनैः ।
परस्परमसङ्कीर्णाःकार्त्स्न्येन गदिता गदाः ॥
सर्वदा च निषेवेत स्वस्थोपि नयनप्रियः ।
पुराणयवगोधूमशालिषष्टिककोद्रवान् ॥
मुद्गादीन्कफपित्तघ्नान् भूरिसर्पिःपरिप्लुतान् ।
शाकं चैवंविधं मांसं जाङ्गलं दाडिमं सिताम् ॥
सैन्धवं त्रिफलां द्राक्षां वारि पाने च नाभसम् ।
आतपत्रं पदत्राणं विधिवद्दोषशोधनम् ॥
वर्जयेद्वेगसंरोधमजीर्णाध्यशनानि च ।
क्रोधशोकदिवास्वप्नरात्रिजागरणातपान् ।
विदाहविष्टम्भकरं यच्चेहाहारभेषजम् ॥
द्वे पादमध्ये पृथुसन्निवेशे सिरे गते ते बहुधा च नेत्रे ।
ताम्रङ्क्षणोद्वर्तनलेपनादीन् पादप्रयुक्तान् नयनं नयन्ति ॥
मलोष्णसङ्घट्टनपीडनाद्यैस्ता दूष्यन्ते नयनानि दुष्टाः ।
भजेत् सदा दृष्टिहितानि तस्मादुपानदभ्यञ्जनधावनानि ॥
मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0