भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गसंग्रह · अध्याय 6.19

6.19.1

अथातो ऽभिष्यन्दप्रतिषेधं नामाध्यायं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयोमहर्षयः ॥

6.19.2

अथ खलु सर्वगाक्षिरोगाणां पूर्वरूप एव शिरोविरेककवलधूमोपवासानासेवेतान्यत्र मारुतोद्रेकात् ॥

6.19.3

सर्वत्र तु चन्दनमरिचपत्रैलास्वर्णगैरिकतगररसाञ्जनलवणयष्ट्याह्वैर्बिडालकं कुर्यात् ॥

6.19.4

तथा दार्वीतुत्थहरीतकीभिर्वातपित्ते ।
कफे तु हरीतकीनागररसाञ्जनस्वर्णगैरिकैः ॥

6.19.5

अपि च ।
कुष्ठामिसिपिप्पलीचन्दनोत्पलैर्बिडालको वेदनाघ्नः ।
मुस्तागरुचन्दनैः क्षौद्रयुतैः शूलदाहरागघ्नः ।
सन्धवागरुत्रिजातकत्रिकटुकस्वर्णगैरिककुष्ठतगरशैलेयकैः शूलश्वयथुदाहरागनुत् ॥

6.19.6

शिग्रुफलमनोह्वाशाबरलोध्रैः क्रमाच्चतुर्गुणप्रवृद्धैः श्लक्ष्णरजोभिः सूक्ष्मतान्तवस्थैर्नयनमवचूर्णयेत् ॥

6.19.7

श्वेतलोध्रत्वचं बहिर्विलिखितां निम्बपत्रकल्केन प्रदिग्धां पुटपाके विपक्वामर्धपलोन्मितां मरिचचतुष्टययुक्तां श्लक्ष्णरजीकृतां वस्त्रबद्धामक्ष्ण्यवकिरेत् ।
एतदवगुण्ठनं शूलदाहाश्रुश्वयथुकण्डूषापाकक्लेदोपदेहहरम् ।
तयैव च पोट्टलिकयाश्च्योतनकाले ऽवन्तिसोमाप्लुतयाश्च्योतयेत् ॥

6.19.8

पूर्ववद्वा लोध्रवल्कलकल्कमुपस्कृतं तन्मात्रमेव मरिचद्वयेन मनश्शिलापादेनाष्टांशकैश्च यष्टीमधुकशतपुष्पाञ्जनैर्युक्तं प्रकल्पयेत् ।
अपि च ॥

6.19.9

आरण्याश्छगणरसे पटावबद्धाः सुस्विन्ना नखवितुषीकृताः कुलत्थाः ।
तच्चूर्णं सकृचूदवर्णनान्निशीथे नेत्राणां विधमति सद्य एव कोपम् ॥

6.19.10

अथ दारुहरिद्रापलमुदकार्धप्रस्थेनाष्टांशशेषं क्वथितं माक्षिकयुक्तमाश्च्योतनं कुर्वीत ॥

6.19.11

एवं चानुपशमे वाताभिष्यन्दिनमादावेव जाङ्गलरसैर्भेजयित्वा दशमूलरास्नात्रिफलाक्वाथेन जीवनीयकल्केन च पयोयुतं सिद्धमितरद्वा पुराणसर्पिः पाययेत् ॥

6.19.12

आश्च्योतनं चास्यैरण्डमूलपल्लवैः शृतमजाक्षीरं कुर्यात् ।
सालपर्णीपृश्निपर्णीद्विबृहतीमधुकोरुपूगैर्वा ।
तद्वत्तगरद्रीबेरशार्ङ्गेष्ठोदुम्बरमधुकपिप्पलीबृहतीद्वयैरण्डमूलैर्वा ॥

6.19.13

अंशुमतीद्वयबृहतीकण्टकारिकाभिर्वा तान्तवावबद्धाभिः सुरामद्यधान्याम्लान्यतमाप्लुताभिरानूपमांसाम्लक्वाथेन वा ॥

6.19.14

तैरेव च मांसैर्वेशवारीकृतस्विन्नैर्महास्नेहवद्भिर्यवचूर्णलवणप्रगाढामुत्कारिकां कृत्वा ललाटगण्डादीन् स्वेदयेत् ॥

6.19.15

अथवा रास्नाभीरुदशमूलबलाकोलकुलत्थयवानामजाक्षीरस्विन्नानां बाष्पेण ।
रास्नादिभिरेव सिद्धं तैलं सर्पिर्वा नावनम् ।
एवंविधैरेव नाडीस्वेदं कुर्यात् ॥

6.19.16

सरलसुरभिघनदेवदारुहिंस्राकरञ्जफलबिल्वसर्षपैश्च सभृष्टतिलैः पयसा पिष्टैः सुखोष्णैर्मुखालेपो ऽक्षिवेदनास्तम्भप्रशमनः ॥

6.19.17

एवमस्यानुपशान्तरुजः सिरां मोक्षयेत् ।
स्नेहस्वेदविष्यन्दं हि वातदुष्टमसृङ्निर्द्रियमाणं नानिलप्रकोपाय ।
पुनश्च स्निग्धाय तिल्वकेन संयुक्तं वा तिल्वककषायानुपानं सर्पिर्विरेचनं दद्यात् ।
शुद्धं च वातप्रतिश्यायवदास्थापयेदनुवासयेच्च ॥

6.19.18

अथ तिलान् निस्तुषान् बिल्वफलक्वाथेन भावयेन्निशि दिवा शोषयेदेवं पञ्चाहम् ।
तेभ्यस्तैलं गृहीत्वा वराहमेदोयुक्तं बिल्वमूलमधुयष्टिकाकल्केन पयसा च पचेत् ।
तेन नस्यं शिरोबस्तिं च कुर्यात् ।
सर्वगन्धनिर्यूहेण वा मधुकगर्भं सक्षीरं तैलम् ।
स्नैहिकं च धूमं पिबेत् ॥

6.19.19

उपशान्तरुजो ऽस्य च तर्पणम् ।
काश्मर्यमधुकः कुमुदोत्पलोरुपूगकुष्ठबृहतीतमालमांसीसारिवाप्रपौण्डरीकदर्भमूलकशेरुकाभिः पयः साधयेत् तत्तर्पणनस्याभ्यङ्गेषु विदध्यात् ॥

6.19.20

कृष्णसर्पशिरो वा क्षीरे क्वाथयेत् ।
ततः स्नेहमुद्धृत्य चन्दनोशीरशर्करोत्पलकल्केन क्षीरवता पक्वं तर्पणम् ।
अथवा पञ्चमूलजीवनीयकुक्कुटमांसैःपयो विपचेत्
ततो नवनीतं घनानन्तासारिवोशीरचन्दनैः सपयस्कैः साधयेत् ॥

6.19.21

पुटपाकं च छागोरभ्रवराहाणामन्यतमस्य यकृत् पिप्पलीसैन्धवमधुघृतोपेतं कुर्यात् ।
अञ्जनं चास्य दृक्प्रसादनार्थम् ॥

6.19.22

कृष्णतिलान् निस्तुषान् कृत्वा स्तन्येन सप्ताहं भावयेच्छोषयेच्च ।
तच्चूर्णं सितोपलासमं कृत्वा मधुकार्धभागेन सैन्धवांशेन कृष्णसर्पशिरसश्चान्तर्धूमदग्धस्य भागेन संसृष्टं दिव्योदकपिष्टां गुटिकां कारयेत् ॥

6.19.23

गोधासर्पवसायामाजमेदसि च सैन्धवपिप्पलीचूर्णं रसाञ्जनं चावपेत् ।
एषा मासं स्थिता रसक्रिया दृष्टिप्रसादनी रुजाहरा च ॥

6.19.24

उद्धृतसरेण गव्येन दध्नाम्लेन राजतं भाजनमालिम्पेत् ।
नीलीभूतं च तद्विशुष्कं मस्तुना वर्तयः कृताः छायाविशोषिता वाताक्षिरोगं जयन्ति ।
मागधिकाकण्टकारिकाद्वयमूलत्वङ्मधुकसितासैन्धवताम्ररजांस्यजाक्षीरेण पिष्ट्वा ताम्रपात्रमालेपयेत् ।
सप्ताहात् सप्ताहादपनीय पुनस्तथैव पिष्ट्वा लेपयेत् ।
सप्तभिः सप्तरात्रैर्गुटिका कृताः परं वाताक्षिरोगवेदनारागशोफतिमिरकाचनक्तान्ध्यतापाधिमन्थाभिघातहराः ॥

6.19.25

प्रत्यञ्जनं चात्र स्फटिकशङ्खनाभिमधुकगैरिकैरिक्षुरसपिष्टैर्वर्त्तिः ॥

6.19.26

अयमेव च सर्वो विधिरधिमन्धादिष्वपि प्रयोज्यः ॥

6.19.27

विशेषतस्त्वधिमन्थे सहचरस्फूर्जातककतकबीजबिल्ववृक्षादनीनिर्यूहेण सपयस्कं सर्पिः सिद्धं पिबेत् ॥

6.19.28

सर्पिषानुपशमे तैलं वसां मज्जानं पूर्वोक्तविधिवद्व्यत्यासेन कुर्यात् ।
सर्वथानुपशान्तावुपरिभ्रुवोर्यथोक्तो दाहः ॥

6.19.29

पित्ताभिष्यन्दाधिमन्थयोः शर्करावचूर्णितं सर्पिः पानम् ।
तिक्तकानामन्यतमं वा ॥

6.19.30

प्रपौण्डरीकामलकद्विबृहतीदर्भदशमूलशतावरीतालीसपत्रमञ्जिष्ठानीलोत्पलक्वाथः सितास्तन्येनाश्च्योतनम् ।
मधुककटङ्कटेरीनिर्यूहो वा ।
सक्षौद्रश्चन्दनमधुकलोध्रमञ्जिष्ठास्वर्णगैरिकक्वाथस्तीव्रशूलदाहहरः ॥

6.19.31

लोध्रदार्वीमधुकप्रपौण्डरीकान्यापोथ्य नन्तकेन बध्नीयात् ।
तेन क्षौद्रसलिलाप्लुतेन सेको वेदनाघ्नः ।
तेनैव च सशर्करस्त्रीस्तन्ये च्छागदुग्धे वा दाहरागघ्नः ॥

6.19.32

श्वेतलोध्रं मधुकं च समं घृतेन भर्जयित्वा चूर्णयेत् ।
ततः पोट्टलिकावबद्धं स्तन्येन तोयेन वा मृदितमाशु शूलदाहरागशोफानपोहति ।
चन्दननलिनकुमुदनलदादिभिर्वा क्षीरसंस्कृतैः ।
तैश्च शिरोवक्त्रप्रलेपपरिषेकाः ॥

6.19.33

एवमसिद्धौ सिराव्यधः पुनः स्निग्धस्य च त्रिफलाकाश्मर्यक्वाथशर्करात्रिवृच्चूर्णौर्विरेकः ॥

6.19.34

शङ्खमधुकसैन्धवबृहतीमूलत्वचः पयसाजेन पिष्ट्वा ताम्रपात्रं परलेपयेत् ।
पुनः सप्ताहादेवं सप्तभिः सप्तरात्रैर्गुटिकाः कुर्यात् ।
ताः स्तन्यघृष्टाः पित्तामयेष्वञ्जनाद्रुजमपहरन्ति ॥

6.19.35

सुवर्णगैरिकं निशां देव्येम्भासि स्थितमहः शोषयेत् सप्ताह मेवमेव च सुशीतेन मधुरवर्गकषायेण भावयेदेतच्चूर्णाञ्जनं दाहरागघ्नम् ॥

6.19.36

पञ्चाशद्दार्वीपलानि पलिकानि च सारिवामधुककाकोलीद्विनिशामृद्वीकाकाश्मर्यसुनिषण्णकमञ्जिष्ठालोध्रोशीरचन्दानि जलद्रोणेष्टभागावशेषं पचेत् ।
परिस्रुतं च पुनरादर्वीलेपादवतार्य च सितोपलासमांशं मधुघृतद्विपलं प्रक्षिपेत् ।
रसक्रियेयं मधुरा सर्वाक्षिरोगेषु हिता ॥

6.19.37

काश्मर्यस्वरसपिष्टः सारिवाशर्कराकल्को नस्यमिक्षुरसपिष्टं वा यष्ट्याह्वम् ।
क्षतशुक्रोक्तं चात्र तर्पणं पुटपाकश्च ॥

6.19.38

श्लेष्माभिष्यन्देधिमन्थे च त्र्यहमुपवासस्तीक्ष्णानि धूमकवलनावनानि ।
शार्ङ्गेष्ठाकुष्ठतगरमुरुङ्गीव्योषैलादारुभिर्बिडालकः ॥

6.19.39

तिल्वकबृहतीनिदिग्धिकालोध्रारग्वधमूलत्वग्भिर्गोमूत्रक्वथितैराश्च्योतनं शोफोपदेहकण्डूघ्नम् ॥

6.19.40

निम्बपत्रकल्कदिग्धं वा लोध्रमङ्गारस्वेदितं चूर्णितं तान्तवावबद्धमुष्णाम्बुमृदितम् ।
तद्वदेवाभयामलकोपकुल्यापाटलीचूर्णानि ।
शिग्रुपल्लवरसो वा मधुमिश्रः ।
मधुशिग्रुपाटलीबिल्वमूलशुण्ठीक्वाथो वा ॥

6.19.41

निम्बपटोलजातिपत्रलोध्रद्वयमहौषधैः खण्डशः कल्पितैर्वस्त्रबद्धैः सक्षौद्रैर्गौडे सीधौ वा परिप्लुतैः सेकः परं श्लेष्मशूलध्रः ॥

6.19.42

रोहिषपूतीककरञ्जकपित्थास्फोतपीलुबिल्वपत्रशिग्रुसुरसार्कनिम्बपत्रैर्गोमूत्रक्वथितैः स्वेदः ॥

6.19.43

तथापि शोफघर्षानुबन्धे यवमदनभूर्जशमीपत्रैः सघृतैर्घृतेनैव वा नाड्याक्षि धूपयेत् ।
लघ्वशितं च द्वितीयेह्नि प्रातर्व्योषविपक्वं यवक्षारावचूर्णितं सर्पिः पाययेत् ।
ततः सिराव्यधो विरेकश्च ॥

6.19.44

बृहतीत्वक्शुण्ठीताम्रकांस्यरजांसि दधिमस्तुना पिष्ट्वा तास्रपात्रे प्रलेपयेत् ।
तथैव च सप्ताहे ।
सप्तसप्ताहे च गते वर्तयः कार्याः मरिचहरिद्राभयाञ्जनैर्वा जलपिष्टा वर्तिः ।
त्रिकटुकत्रिफलाविडङ्गसारहरिद्राभिर्वा ॥

6.19.45

हरीतकी तुत्थं च समभागं तुत्थादष्टांशेन मरिचमेषा वर्तिः कुमारी सर्वश्लेष्माक्षिरोगघ्नी ॥

6.19.46

विडङ्गचूर्णो वा वारुण्या भावितः शङ्खो बीजपूररसेन मधुकं त्रिफलारसेन पृथगैकध्यं वा चूर्णाञ्जनं वा पिण्डो वा पोथकीबहलकफोत्क्लेशाभिष्यन्दानपहरति ॥

6.19.47

स्वर्णगैरिकसैन्धवमनश्शिलालाक्षानतकरञ्जिकासुरसशङ्खव्योषतालीसकुष्ठकलिङ्गकदेवदारुनलदजातीमुकुलरसाञ्जनैः सुरामण्डपिष्टैर्वर्त्तिः सर्वश्लेष्माक्षिरोगविकारहरा ॥

6.19.48

पुष्पकासीसचूर्णं ताम्रसमुद्गे सुरसपत्रस्वरसेन सप्ताहं भावयेत् ।
तच्चूर्णाञ्जनं वर्त्मोपचयपक्ष्मशातघ्नम् ॥

6.19.49

सैन्धवव्योषवराविडङ्गलोध्रप्रपौण्डरीकमधुकतुत्थकतार्क्ष्यशैलताम्रचूर्णैः छागपयःपिष्टैर्मार्कवस्वरसपरिपीतैर्वर्त्तिः काण्डचित्राख्या सर्वाक्षिरोगान् जयति ॥

6.19.50

कण्ड्वां मनश्शिलासैन्धवश्वेतमरिचैर्मातुलुङ्गरसपिष्टैर्वर्त्तिः ।
सशोफायां नागरदेवदारुसैन्धवजातिक्षारकैः सुरामण्डपिष्टैः ॥

6.19.51

नक्तमाललशुनशिग्रुशिग्रुकबीजैर्वा रसक्रिया ।
तर्पणं च ॥

6.19.52

यकृदाजमगरुप्रियङ्गुनलददेवदारुयुतं पयसि क्वाथयेत्तस्मिन् शीते खजमथिते यन्नवनीतं तदेभिरेवौषधैर्विपक्वम् ।
पुटपाकश्च कुष्ठतगरदार्वीसर्वगन्धैराजेन यकृता सह पिष्टैर्मधुघृतयुतैः ॥

6.19.53

रक्तजं पुनरभिष्यन्दमधिमन्थं च पित्तवदुपत्रमेत् ।
स्तन्येक्षुरसशर्करोदकान्यतमेन वाश्च्योतयेत् ।
पुनःपुनश्चास्य रुधिरमवसेचयेत् सिराव्यधेन जलौकोभिश्च ।
तीव्रवेदनायां महतीं घृतमात्रां पाययेत् ॥

6.19.54

आढकीकुर्यटपाटलीश्रीपर्णीविदुलार्जुनबृहतीचम्पकमालतीमूलानि खर्जूररसपिष्टानि गुटिकाञ्जनम् ॥

6.19.55

केशैर्जलार्द्रैः कांस्यमुद्घर्षयेत् तान् कांस्यमलदिग्धानन्तर्धूमं दग्ध्वा तत् भस्म त्रिफलाक्वाथे सुरसास्वरसे क्षीरे च छागे पञ्चाहं भावयेत् ।
एतच्चूर्णं स्रोतोजतुल्यं प्रत्यञ्जनम् ॥

6.19.56

कृष्णसर्पं पयसि क्वाथयेत्ततः पूतशीतमथितात् स्नेहमुपोषिताय कृकवाकवे दद्यात् ।
तस्य यत् पुरीषं तत् स्नेहाञ्जनम् ॥

6.19.57

कृष्णसर्पमुखमञ्जनसर्पिषोः पूर्णं दर्भवेष्टितं मृदवलिप्तमधोमुखं गोमयेनाग्निनादग्ध्वा ततोञ्जनमादाय पत्रनलदनीलोत्पलतुल्यं चूर्णीकृतं परं दृक्प्रसादजननमञ्जनम् ॥

6.19.58

घृतमण्डश्च शर्करामधुकनीलोत्पलैर्मानुषीदुग्धयुक्तैः सिद्धो नस्यमिति ।
भवति चात्र ॥

6.19.59

सर्वेक्षिरोगा यत् प्रायो जायन्ते स्यन्दपूर्वकाः ।
यतश्च रक्तं सन्दूष्य तानतस्त्वरया जयेत् ॥

6.19.60

सर्वोर्ध्वजत्रुगस्रोतस्यन्दनात् स्यन्द उच्यते ।
तत्स्थानां तद्वदङ्गानामधिमन्थो ऽतिमन्थनात् ॥

6.19.61

वाते ऽक्षिसेकस्सैरण्डबृहतीमधुशिग्रुणा ।
सिद्धेन पञ्चमूलेन ससितैः पित्तरक्तयोः ॥

6.19.62

दार्वीलाक्षोत्पलद्राक्षामञ्जिष्ठामधुकद्वयैः ।
श्लेष्मणि त्रिफलाशुण्ठीनिम्बलोध्राटरूषकैः ।
समस्तैस्सन्निपातोत्थे कुर्यात् स्यन्दे ऽक्षिसेचनम् ॥

6.19.63

तुत्थव्योषाभयालोध्रयष्ट्याह्वैस्ताम्रसंस्थितैः ।
धान्याम्लपिष्टैः सेकोयं सर्वाभिष्यन्दरुक्प्रणुत् ॥

6.19.64

तद्वतुत्थाभयालोध्रयष्टीमधुरसाञ्जनैः ।
शताह्वार्द्धांशसंयुक्तैः सेकः सर्वाक्षिशूलजित् ॥

6.19.65

पुष्पाञ्जनसिताक्षौद्रैस्ताम्रसंस्थैस्तिलाम्भसा ।
सेचनं हन्ति रुग्रागदाहश्वयथुघर्षणम् ॥

6.19.66

द्विनिशात्रिफलामुस्तैः प्रमदादुग्धकल्कितैः ।
सेकः सशर्कराक्षौद्रैरभिघातरुजापहः ॥

6.19.67

निषिक्तं तुत्थकं वारान् गोर्जले पञ्चविंशतिम् ।
स्तन्ये वा छागदुग्धे वा सद्यःकोपे तदञ्जनम् ॥

6.19.68

बदरीदलयष्ट्याह्वतुत्थधात्रीफलैः समैः ।
पुटअन्तर्बादराग्नीद्धैर्दृगुत्कोपघ्नमञ्जनम् ॥

6.19.69

बृहत्यैरण्डमूलत्वक्शिग्रुमूलैः ससैन्धवैः ।
वर्त्तिराजपयःपिष्टैस्सर्ववाताक्षिरोगजित् ॥

6.19.70

सुमनःक्षारकाः शङ्खस्त्रिफला मधुकं बला ।
पित्तरक्तापहा वर्त्तिः पिष्टा दिव्येन वारिणा ॥

6.19.71

सैन्धवं त्रिफला व्योषं शङ्खनाभिस्समुद्रजः ।
फेनः शैलेयकं सर्जो वर्त्तिः श्लेष्माक्षिरोगजित् ॥

6.19.72

शङ्खविद्रुमवैडूर्यलोहिताक्षप्लवास्थिभिः ।
स्रोतोजश्वेतमरिचैर्वर्त्तिः सर्वाक्षिरोगजित् ॥

6.19.73

पिप्पल्यः किंशुकरसो वसा सर्पस्य सैधवम् ।
घृतं च जीर्णं सर्वाक्षिविकारघ्नी रसक्रिया ॥

6.19.74

कृष्णसर्पवसा क्षौद्रं रसो धात्र्या रसक्रिया ।
शस्ता सर्वाक्षिरोगेषु काचार्मपटलेषु च ॥

6.19.75

रसाञ्जनं शृङ्गवेरमभया तुत्थकं शुभम् ।
यथोत्तरं द्विगुणितैस्तैर्वर्त्तिरपराजिता ॥

6.19.76

ऋते वातादभिष्यन्दात्तिमिराणि कुकूणकम् ।
पोथकीपिटकाः पिल्लानर्माणि च नियच्छति ॥

6.19.77

ताम्रे मस्तुसमुद्घृष्टं तुत्थकं श्यावतां गतम् ।
सर्वाभिष्यन्दशुक्लार्मसिराजालजिदञ्जनम् ॥

6.19.78

मरिचवरलवणभागो भागौ द्वौ कणसमुद्रफेनाभ्याम् ।
सौवीरभागनवकं चित्रायां चूर्णितं कफामयजित् ॥

6.19.79

मरिचामलकजलोद्भवतुत्थाञ्जनताप्यधातुभिः क्रमवृद्धैः ।
षण्माक्षिक इति योगस्तिमिरार्मक्लेदकाचकण्डूघ्रः ॥

6.19.80

पिप्पलीं सतगरोत्पलपत्रा वर्त्तयेत् समधुकां सहरिद्रां ।
एतया सततमञ्जयितव्यं यः सुपर्णसममिच्छति चक्षुः ॥

मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc