भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गसंग्रह · अध्याय 6.1

6.1.1

अथातो बालोपचरणीयं नामाध्यायं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥

6.1.2

अथ खलु जातमात्रमेव बालमुल्बात् सैन्धवसर्पिषा मार्जयेत् ॥

6.1.3

ततो ऽस्यातिप्रबलमोहज्वरपरीतसर्वगात्रस्य क्रोशितुमपि रुजानुरूपमसमर्थस्यानवस्थिताशेषदेहधातोरसम्भाव्ययौवनाद्यवस्थस्य क्रकचस्पर्शमिव करवसनशयनसंसर्गं मन्यमानस्याविकल्पितमङ्गानि विक्षिपतः पुनरिव मरणमनुभवतो लीयमानसंज्ञस्यातिसम्बाधयोनिपुटावपीडितप्राणप्रत्यानयनाय बलातैलेन परिषेकं कुर्यात् ।
कर्णमूले चाश्मनोः सङ्घट्टनम् ॥

6.1.4

यदि वाचेष्ट एव स्यात्ततः कृष्णकपालिकया शूर्पेण चैनमभिनिष्पुनीयात् ।
दक्षिणकर्णमूले च मन्त्रस्योच्चारयेत् ॥

6.1.5

अङ्गादङ्गात् सम्भवसि हृदयादभिजायसे ।
आत्मा वै पुत्रनामासि स जीव शरदां शतम् ॥

6.1.6

शतायुः शतवर्षो ऽसि दीर्घमायुरवाप्नुहि ।
नक्षत्राणि दिशो रात्रिरहश्च त्वाभिरक्षतु ॥

6.1.7

प्रत्यागतप्राणस्य च प्रकृतिभूतस्य नाभिनालं नालाभिबन्धनाच्चतुरङ्गुलस्योर्ध्वं क्षौमसूत्रेण बध्वा तीक्ष्णेन शस्त्रेण वर्धयेत् ।
ग्रीवायां चैनमासज्जेत् ।
नाभिं च कुष्ठतैलेन सेचयेत् ॥

6.1.8

ततः क्षीरवृक्षकषायेण सर्वगन्धोदकेन वा तप्ततपनीयरजतनिर्वापणकवोष्णेन कपित्थपत्रकषायेण वा तद्विधेन स्नापयेत् ॥

6.1.9

ततो ऽस्य सुपरिलिखितनखया सुप्रक्षालितोपवानया कार्पासपिच्ववगुण्ठितया दक्षिणप्रदेशिन्या जिह्वौष्ठकण्ठमनुसुखं प्रमृज्यात् ।
तालु चोन्नाम्य स्नेहपिचुनोपरिष्टादवगुण्ठयेत् ॥

6.1.10

ततश्चैन्द्रीब्राह्मीशङ्खपुष्पीवचाकल्कं मधुघृतोपेतं हरेणुमात्रं कुशाग्राभिमन्त्रितं सौवर्णेनाश्वत्थपत्रेण मेधायुर्बलजननं प्राशयेत् ।
तद्वत् ब्राह्मीबलानन्ताशतावर्यन्यतमचूर्णं वा ॥

6.1.11

ततः सैन्धवोपहितेन सर्पिषा गभादकानि वामयेत् ।
तथास्योरःकण्ठविशुध्या लाघवमभिलाषश्च जायते ॥

6.1.12

अथास्य जातकर्म प्राजापत्येन विधिना कुर्यात् ।
अपि च ॥

6.1.13

सिराणां हृदयस्थानां विवृतत्वात् प्रसूतितः ।
तृतीये ऽह्नि चतुर्थे वा स्त्रीणां स्तन्यं प्रवर्तते ॥

6.1.14

तस्मात् प्रथमे ऽहन्यनन्तामिश्रिते मधुसर्पिषी मन्त्रपूते त्रिकालं प्राशयेत् ।
द्वितीये लक्ष्मणासिद्धं सर्पिस्तृतीये च ॥

6.1.15

ततः प्राङ्निवारितस्तन्यस्य स्वपाणितलसम्मितं सर्पिर्द्विकालं दापयेदनन्तरं च स्तन्यमिष्टतः ॥

6.1.16

अहरहश्चास्य श्रोत्रशृङ्गाटकं स्नेहाप्लुतेन प्लोतेन प्रच्छादयेत् ॥

6.1.17

प्राक्शिरसं चैनं क्षौमनिचये संवेशयेदुच्छीर्षके चास्याभिमन्त्रितमुदकुम्भं स्थापयेत् द्वारपक्षयोश्च ॥

6.1.18

आदारीविदारीबदरीखदिरनिम्बपीलुपरूषकशाखाभिरेनं वीजयेत् ।
ताभिश्च समन्ततः सूत्तिकागारं परिवारयेत् ।
सर्षपातसीकणकणिकाश्चान्तर्बहिः प्रकिरेत् ।
सायं प्रातश्च बलिम् ॥

6.1.19

व्रणोक्तैश्च गुग्गुल्वादिभिर्धूपं कुर्वीत ।
तथा ब्राह्मणोथर्ववेदविद्दशाहं शान्तिकर्म कुर्यात् ।
मायूरीं महामायूरीमार्यारत्नकेतुधारिणीं चोभयकालं वाचयेत् ॥

6.1.20

हिङ्गुवचातुरुष्करक्षोघ्नैः पोटलिकामुत्तरदेहल्यामासज्जेत् ।
कुमारस्य च सह मात्रा कण्ठे उच्छीर्षके च ।
तद्वदार्यापर्णशबरीमार्यापराजितां च गोरोचनाभिलिखिताम् ॥

6.1.21

द्वारे च देहलीमनुतिर्यङ्मुसलं निधापयेत् ।
कणकण्डकतिन्दुकेन्धनाग्निं नक्तं दिवं च जागृयात् ।
तथानुरक्ताः स्त्रियः सुहृदश्च ।
प्रहृष्टजनसम्पूर्णं च तद्वेश्म कार्यम् ॥

6.1.22

अथास्य समानवर्णा मध्यमवयाः शुचिरलोलुपा निभृतानातुरा जीवद्वत्सा वत्सला दक्षिणा ब्रह्मचारिण्यव्यङ्गा बहुक्षीरा शुक्लाम्बराचरा दीर्घद्रस्वादिदेहदोषाष्टकरहिता अलम्बोर्ध्वचुचूकातिपीनहनिस्तनदोषमुक्ता युक्तचूचुका धात्री स्यात्तस्या एव स्तन्यं पिबेत् ॥

6.1.23

तच्चोदकपात्रे दुह्यमानमेकतां यदुदकेन सह गच्छति वक्ष्यमाणदोषरहितं च तच्छुद्धमारोग्यबलजननम् ॥

6.1.24

अथ धात्री स्नातानुलिप्ता नित्यमहतवासाः सुमनाः प्रजास्थापनौषधीः शिरसा बिभ्राणा प्राङ्मुखी स्तनं प्राग्दक्षिणं धौतमीषत्परिस्रुतं पाययेत् ॥

6.1.25

नानास्तन्यस्य ह्यसात्म्यत्वान्नानाविधा व्यापदो भवन्ति ।
अपरिस्रुते चातिस्तन्यपूर्णस्तनपानेनोत्स्नेहनात् कासश्वासज्वरच्छर्दिषां सम्भवः ॥

6.1.26

रुक्षान्नपानकर्शनक्रोधशोककामादिभिः स्तन्यनाशः ।
स्तन्यजननानि तु मद्यानि शीधुवर्ज्यान्यानूपमांसानि द्रवाः स्वाद्वम्ललवणप्रायाश्चाहाराः क्षीरिण्यश्चौषधयः क्षीरपानमनायासः सौमनस्यं च ॥

6.1.27

न तु क्षुधितशोकार्तश्रान्तक्रुद्धप्रदुष्टधातुंगर्भिणीविरुद्धाहारभुक्तानां स्तन्यं पाययेन्नाजीर्णौषधं च बालमिति ।
भवति चात्र ॥

6.1.28

षष्टीं निशां विशेषेण कृतरक्षाबलिक्रियाः ।
जागृयुर्बान्धवास्तस्य दधतः परमां मुदम् ॥

6.1.29

दशमे द्वादशे वाह्नि गोत्राचारैः शुभैः शुभे ।
सूता स्नानोत्सवं कुर्यात् पितापत्यस्य नाम च ॥

6.1.30

दिने शततमे वाख्यां पूर्णे संवत्सरे ऽथवा ।
बिभ्रतो ऽङ्गैर्मनोह्वालरोचनागरुचन्दनम् ॥

6.1.31

पूज्यं त्रिपुरुषानूकमादौ घोषवदक्षरम् ।
अवृद्धं कृतमूष्मान्तमनरातिप्रतिष्ठितम् ॥

6.1.32

नक्षत्रदेवतायुक्तं तदेव तु न केवलम् ।
मङ्गल्यमन्तरन्तस्थं न दुष्टं न च तद्धितम् ॥

6.1.33

पुंसो विसर्जनीयान्तं समवर्णं स्त्रियाः पुनः ।
विषमाक्षरमक्रूरं विस्पष्टार्थं मनोरमम् ।
सुखोद्यं दीर्घवर्णान्तमाशीर्वादाभिधानवत् ॥

6.1.34

ततः प्रकृतिभेदोक्तरूपैरायुःपरीक्षणम् ।
प्रागुदक्शिरसःकुर्यात् बालस्यज्ञानवान्भिषक् ॥

6.1.35

प्रशस्तवास्तुशरणं सज्जोपकरणं शुचि ।
निर्वातं च प्रवातं च वृद्धस्त्रीवैद्यसेवितम् ॥

6.1.36

निर्मत्कुणाखुमशकमतमस्कं च शस्यते ।
शुचिधौतोपवानानि निर्वलीनि मृदूनि च ॥

6.1.37

शय्यास्तरणवासांसि रक्षोघ्नैर्धूपितानि च ।
काको ऽविशस्तः शस्तश्च धूपने त्रिवृतान्वितः ।
वचाज्यकुष्ठश्रीवेष्टसर्षपैर्धूपयेत् सदा ॥

6.1.38

बोधयेत् सहसा सुप्तं नो न चैनं समुत्क्षिपेत् ।
तथाह्यस्य समुत्रासो वेगरोधश्च जायते ॥

6.1.39

माक्षिकामलकव्योषबृहतीमूलसैन्धवैः ।
लालापनोदरुच्यर्थं मुखमन्तः परामृशेत् ॥

6.1.40

जीवत्खड्गादिशृङ्गेषु समासक्ताञ्छुभान् मणीन् ।
धारयेद्दश चैन्द्र्यादीञ्जीवकर्षभकावपि ॥

6.1.41

हस्ताभ्यां ग्रीवया मूर्ध्ना विशेषात् सततं वचाम् ।
आयुर्मेधास्मृतिस्वास्थ्यकरीं रक्षोभिरक्षणीम् ॥

6.1.42

स्तन्यदोषात् गदास्तस्य यथोक्तं तत् पिबेद्यतः ।
पीनो ऽतिकन्धरास्तम्भं कुर्यादूर्ध्वाक्षमूर्ध्वगः ॥

6.1.43

उच्छ्वासरोधात् लंबो ऽतिस्तनो जीवितसंशयम् ।
न गर्भिण्याः पिबेत् स्तन्यं पारिगर्भिककृद्धि तत् ॥

6.1.44

स्तन्याभावे पयश्छागं गव्यं वा तद्गुणं पिबेत् ।
मूलैःसिद्धं बृहत्याद्यैः स्थिराभ्यां वा सितायुतम् ॥

6.1.45

चतुर्थे सूतिकागारादग्निस्कन्दपुरोगमान् ।
मासे निष्क्रामयेद्देवान् नमस्कर्तुं स्वलङ्कृतम् ॥

6.1.46

पञ्चमे मासि पुण्ये ऽह्नि धरण्यामुपवेशयेत् ।
द्विकिष्कुमात्रं लिप्तायां बलिं दत्वा चतुर्दिशम् ॥

6.1.47

धरण्यशेषभूतानां माता त्वमसि कामधुक् ।
अजरा चाप्रमेया च सर्वभूतनमस्कृता ॥

6.1.48

चराचराणां लोकानां प्रतिष्ठास्यव्ययासि च ।
कुमारं पाहि मातेव ब्रह्मा तदनुमन्यताम् ॥

6.1.49

स्वाहेति मन्त्रेणानेन प्रत्यहं च ततः परम् ।
साश्रयं सावलम्बं च कट्यादीन् मर्दयेदनु ॥

6.1.50

षष्ठे ऽन्नप्राशनं मासि क्रमात्तच्च प्रयोजयेत् ।
चिरान्निषेवमाणो ऽन्नं बालो नातुर्यमश्नुते ॥

6.1.51

भजेद्यथा यथाचान्नं स्तन्यं त्याज्यं तथा तथा ।
षट्सप्ताष्टममासेषु नीरुजस्य शुभे ऽहनि ।
कर्णौ हिमागमे विघ्येद्धात्र्यङ्कस्थस्य सान्त्वयन् ॥

6.1.52

प्राग्दक्षिणं कुमारस्य भिषग्वामं तु योषितः ।
दक्षिणेन दधत् सूचीं पालीमन्येन पाणिना ॥

6.1.53

मध्यतः कर्णपीठस्य किञ्चित् गण्डाशयं प्रति ।
जरायुमात्रप्रच्छन्ने रविरश्म्यवभासिते ॥

6.1.54

धृतस्य निश्चलं सम्यगलक्तकरसाङ्किते ।
विध्येद्दैवकृते छिद्रे सकृदेवर्जु लाघवात् ॥

6.1.55

नोर्ध्वं न पार्श्वतो नाधः सिरास्तत्र हि संश्रिताः ॥

6.1.56

कालिकामर्मरीरक्तास्तद्व्यधाद्रागरुग्ज्वराः ।
सशोफदाहसंरम्भमन्यास्तम्भापतानकाः ।
तेषां यथामयं कुर्याद्विभज्याशु चिकित्सितम् ॥

6.1.57

स्थानव्यधान्न रुधिरं न रुग्रागादिसम्भवः ।
स्नेहाक्तं सूच्यनुस्यूतं सूत्र चानु निधापयेत् ।
आमतैलेन सिञ्चेच्च बहलां तद्वदारया ॥

6.1.58

विध्येत् पालीं हितभुजः सञ्चार्याथ स्थवीयसी ।
वर्ति स्त्र्यहात्ततो रूढं वर्धयेत शनैः शनैः ।
स्वेदितोद्वर्तिंतं कर्णमभ्यक्तं बृंहणैः पुनः ॥

6.1.59

नाजीण न मलोद्रेके न चात्युष्णे ऽपि वर्धयेत् ।
सदा च युञ्ज्यादभ्यङ्गान्कर्णपालीगदोदितान् ॥

6.1.60

पुष्टिनीरुक्त्वजननानिति संवर्धिते दृढे ।
कलधौतावबद्धानि कर्णे रत्नानि निक्षिपेत् ॥

6.1.61

भिन्द्यादवृद्धौ स्त्रीणान्तु पालीमन्तरपाङ्गतः ।
नैव चापाङ्गयोर्बाह्यां व्यापदः स्युस्ततो ध्रुवाः ॥

6.1.62

जिह्मसूचीव्यधाद्वर्तिगाढत्वादथवा मलैः ।
जाते महति संरम्भे वर्तिमाश्वपनीय तत् ॥

6.1.63

यवैरण्डजटायष्टीमञ्जिष्ठज्यैः प्रलेपयेत् ।
सुरूढं च पुनर्विध्यत् त्वरया तु विवर्धनात् ॥

6.1.64

छिद्येत पाली शुद्धस्य शुद्धास्रां सन्दधीत ताम् ।
कर्णामयनिषेधोक्तसन्धानविधिना भिषक् ॥

6.1.65

वर्षं स्ववसतेर्बाह्यं कुमारस्य न दर्शयेत् ।
दीपमातपमग्निं च रूपमन्यच्च भासुरम् ॥

6.1.66

अथैनं जातदशनं क्रमशो ऽपनयेत् स्तनात् ।
पूर्वोक्तं योजयेत् क्षीरमन्नं च लघु बृंहणम् ॥

6.1.67

कुर्यादपस्तनं स्नेहसङ्क्रान्त्या स्तनलेपनैः ।
बीभत्सैर्यावकासेककृत्रिमक्षतदर्शनैः ॥

6.1.68

प्रियालमज्जमधुकमधुलाजसितोपलैः ।
अपस्तन्यस्य संयोज्यः प्रीणनो मोदकः शिशोः ॥

6.1.69

दीपनो बालबिल्वैलाशर्करालाजसक्तुभिः ।
सङ्ग्राही धातकीपुष्पशर्करालाजतर्पणैः ॥

6.1.70

बुभुक्षा चेत् प्रबलतामपस्तन्यस्य गच्छति ।
अत्यग्निजिद्धितं तस्य विधानं पारिगर्भिकम् ॥

6.1.71

अभियुक्तः सदाचारो नातिस्थूलो न लोलुपः ।
कुमारधारः कतव्यस्तत्राद्यो बालचित्तवित् ॥

6.1.72

अघार्मिकं दुराचारः स्थूलो विकटगामिनम् ।
करोति लोलुपो बालं घस्मरत्वेन रोगिणम् ॥

6.1.73

रोगांश्चास्य जयेत् सौम्यैर्भेषजैरविषादकैः ।
अन्यत्रात्ययिकाद्व्याधेर्विरेकं सुतरां त्यजेत् ॥

6.1.74

त्रासयेन्नाविधेयं च त्रस्तं गृह्वन्ति हि ग्रहाः ।
वस्त्रपातात् परस्पर्शात् पालयेल्लङ्घनाच्च तम् ॥

6.1.75

क्रीडाभूमिः समा कार्या निश्शस्त्रोपलशर्करा ।
वेल्लोषणकणाम्भोभिः सिक्ता निम्बोदकेन वा ॥

6.1.76

जातुषं घोषवच्चित्रमत्रासं रमणं बृहत् ।
अतीक्ष्णाग्रं गवाश्वादिमङ्गल्यमथ वा फलम् ॥

6.1.77

शक्तिमन्तं यथावर्णं विद्यामध्यापयेत्ततः ।
अनुशिष्यात् सदा चैनं धर्माय विनयाय च ॥

6.1.78

यथा नेन्द्रियदुष्टाश्वैर्द्रियते यौवनागमे ।
अभ्यङ्गोद्वर्तनं स्नानं प्रत्यहं च समाचरेत् ।
सहदेवास्थिराकौन्तीकुमुदोत्पलचन्दनैः ॥

6.1.79

बृहतीफलतर्कारीसर्षपाकुष्ठसैन्धवैः ।
अश्वगन्धाबलैरण्डतिलापामार्गतण्डुलैः ॥

6.1.80

सात्मगुप्ताफलैस्तैलं साजक्षीरं विपाचितम् ।
रक्षोघ्नः पुष्टिदो ऽभ्यङ्गस्तद्वदुद्वर्तनं च तैः ॥

6.1.81

दधिमाक्षिकसंयुक्तैस्त्रिगुणीकृतचिक्कसैः ।
मूर्वामूलद्विरजनीयवैश्चोद्वर्तनं हितम् ॥

6.1.82

कुलत्थचूर्णमेकं वा वाजिगन्धारजो ऽपि वा ।
स्नाने सर्वौषधीकल्को जीवनीयाम्बु चेष्यते ॥

6.1.83

आरग्वधादिनिर्यूहे शृतं शीतवसन्तयोः ।
वत्सकादिप्रतीवापं कुमारं प्राशयेत् घृतम् ॥

6.1.84

ग्रीष्मे वातातपस्वेदैर्बालः क्लाम्यत्यतो हिमम् ।
प्रातरेव पिबेद्दुग्धं जीवनीयगणैः शृतम् ॥

6.1.85

सिताघृताढ्यान् सक्तूंश्च लिह्यान्नत्वेव पीतकम् ।
नात्यम्बुपायी लिह्याद्वा घृतसात्म्यो घृतं शृतम् ॥

6.1.86

काकोलीशर्करामेदातुगायष्ट्याह्वजीवकैः ।
कटुन्नटेन मूर्धानं लिम्पेदन्यैश्च शीतलैः ॥

6.1.87

रास्नासरलवर्षाभूहिङ्गुसैन्धवदारुभिः ।
सर्पिर्विदार्यादिजले साधितं लेहयेच्छिशुम् ॥

6.1.88

प्रपौण्डरीकं मधुकं सूप्यपर्ण्यौ दुरालभा ।
प्रियालमज्जाकाकोलीविदारीकट्फलामृताः ॥

6.1.89

द्राक्षाजशृङ्गी दुग्धीका क्षीरशुक्ला हयाह्वया ।
शृङ्गीमधूककुसुममेदर्षभकजीवकम् ॥

6.1.90

एभिः क्षीरघृतं सिद्धं लिह्यात् बालो घनात्यये ।
ब्राह्मीसिद्धार्थकवचासारिवाकुष्ठसैन्धवैः ॥

6.1.91

सकणैः साधितं पीतं वाङ्मेधास्मृतिकृत् घृतम् ।
आयुष्यं पाप्मरक्षोघ्नं भूतोन्मादनिबर्हणम् ॥

6.1.92

त्रिफला लक्ष्मणानन्ता समङ्गा सारिवा वचा ।
ब्राह्मी पाठा द्विबृहती द्विस्थिरा द्विपुनर्नवम् ॥

6.1.93

सहदेवा रवेर्वल्ली पयस्या गिरिकर्णिका ।
तोयकुम्भे पचेदेतत् पलांशं पादशेषितम् ॥

6.1.94

तेन कौन्तीवचाकुष्ठकृष्णासर्षपसैन्धवैः ।
नीरुक्सरूपवत्सायाः संयुक्तं पयसा च गोः ॥

6.1.95

पुष्ययोगे घृतप्रस्थं सहेमशकलं शृतम् ।
पानाभ्यञ्जनतो मेधास्मृत्यायुःपुष्टिबुद्धिदम् ॥

6.1.96

रक्षोघ्नं च विषघ्नं च सारस्वतमिदं घृतम् ।
लीढं वा सघृतक्षौद्रं वचाहेमरजो ऽल्पशः ।
संवत्सरं परं मेध्यं रक्षोघ्नं वाग्विवर्धनम् ॥

6.1.97

वयस्था पिप्पली कुष्ठं हरिद्रा सारिवा वचा ।
मांसी कैडर्यमित्येतच्चूर्णं ब्राह्मीरजःसमम् ॥

6.1.98

लीढ्वाज्येन शिशुर्वर्षं भवत्यपलितो ऽव्यथः ।
बलवान् श्रुतसम्पन्नः शतायुः स्थिरयौवनः ।
प्रातः प्रातरिमं लेहं धात्रीं चास्यावलेहयेत् ॥

6.1.99

ब्राह्मीवद्योजयेद्दूर्वां मूर्वां ब्रह्मसुवर्चलाम् ।
लक्ष्मणां श्वेततर्कारीमव्यण्डां गौरसर्षपाम् ॥

6.1.100

सहस्रवीर्यां फलिनीं पक्वं च बृंहतीफलम् ।
रोहिषं चेत्यमीप्राशाः पृथग्द्वादश कीर्तिताः ॥

6.1.101

महताप्युपयोक्तव्या नरेण नियतात्मना ।
नित्यं मृद्भक्षणाद्रक्षेत्तया स्युर्नियतं गदाः ॥

6.1.102

पाण्डुत्वश्वयथुश्वासकासातीसारजन्तवः ।
छर्दिंमूर्छाग्निसदनस्तन्यद्वेषाङ्गरुग्भ्रमाः ॥

6.1.103

भक्षयेद्दन्तपवनं नास्थिरद्विजब्बन्धनः ।
तस्य तत्घट्टनात् क्रुद्धः कुर्याद्दन्तामयान्मरुत् ॥

6.1.104

शूरैरायुधिभिर्गुप्तमधृष्यं नगरं परैः ।
यथा शिशोर्वपुस्तद्वद्यथोक्तैर्विधिभिर्ग्रहैः ॥

मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc