भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गसंग्रह · अध्याय 6.18

6.18.1

अथातः सर्वगाक्षिरोगविज्ञानीयं नामाध्यायं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥

6.18.2

वातेन नेत्रे ऽभिष्यण्णे नासानाहो ऽल्पशोफता ।
शङ्खाक्षिभ्रूललाटास्यतोदस्फुरणभेदनम् ॥

6.18.3

शुष्काल्पा दूषिका शीतमल्पं चाश्रु चला रुजः ।
निमेषोन्मेषणं कृच्छ्राज्जन्तूनामिव सर्पणम् ॥

6.18.4

अक्ष्याध्मातमिवाभाति सूक्ष्मैश्शल्यैरिवाचितम् ।
स्निग्धोष्णैश्चोपशमनम् सोभिष्यन्द उपेक्षितः ॥

6.18.5

अधिमन्थो भवेत्तत्र कर्णयोर्नदनं भ्रमः ।
अरण्येव च मथ्यन्ते ललाटाक्षिभ्रुवादयः ॥

6.18.6

हताधिमन्थः सोपि स्यात् प्रमादात्तेन वेदनाः ।
अनेकरूपा जायन्ते व्रणो दृष्टौ च दृष्टिहा ॥

6.18.7

मन्याक्षिशङ्खतो वायुरन्यतो वा प्रवर्तयेत् ।
व्यथां तीव्रामपैच्छिल्यरागशोफं विलोचनम् ।
सङ्गोचयति पर्यश्रु सोन्यतोवातसंज्ञितः ॥

6.18.8

तद्वज्जिह्मं भवेन्नेत्रमूनं वा वातपर्यये ॥

6.18.9

दाहो धूमायनं शोफः श्यावता वर्त्मनोर्बहिः ।
अन्तःक्लेदो ऽश्रु पीतोष्णं रागः पीताभदर्शनम् ।
क्षारोक्षितक्षताक्षित्वं पित्ताभिष्यन्दलक्षणम् ॥

6.18.10

ज्वलदङ्गारकीर्णाभं यकृत्पिण्डसमप्रभम् ।
अधिमन्थे भवेन्नेत्रम् स्यन्दे तु कफसम्भवे ॥

6.18.11

अधिमन्थे भवेन्नेत्रम् स्यन्दे तु कफसम्भवे ।
जाड्यं शोफो महान् कण्डूर्निद्रान्नानभिनन्दनम् ।
सान्द्रस्निग्धबहुश्वेतपिच्छावद्दूषिकाश्रुता ॥

6.18.12

अधिमन्थे नतं कृष्णमुन्नतं शुक्लमण्डलम् ।
प्रसेको नासिकाध्मानं पांसुपूर्णमिवेक्षणम् ॥

6.18.13

रक्ताश्रुराजीदूषीका रक्तमण्डलदर्शनम् ।
रक्तस्यन्देन नयनं सपित्तस्यन्दलक्षणम् ॥

6.18.14

मन्थे ऽक्षिताम्रपर्यन्तमुत्पाटनसमानरुक् ।
रागेण बन्धूकनिभं ताम्यति श्पर्शनाक्षमम् ।
असृङ्निमग्नारिष्टाभं कृष्णमग्न्याभदर्शनम् ॥

6.18.15

अधिमन्था यथास्वं च सर्वे स्यन्दाधिकव्यथाः ।
शङ्खदन्तकफोलेषु कपाले चातिरुक्कराः ॥

6.18.16

वातपित्तातुरं घर्षतोदभेदोपदेहवत् ।
रूक्षदारुणवर्त्माक्षिकृच्छ्रोन्मीलनिमीलनम् ॥

6.18.17

विकूणनविशुष्कत्वशीतेच्छाशूलपाकवत् ।
उक्तः शुष्काक्षिपाको ऽयम् सशोफः स्यात्त्रिभिर्मलैः ॥

6.18.18

सरक्तैस्तत्र शोफो ऽतिरुग्दाहष्ठीवनादिमान् ॥

6.18.19

अश्रूष्णशीतविशदपिच्छिलाच्छघनं मुहुः ॥

6.18.20

अल्पशोफो ऽल्पशोफस्तु पाको ऽन्यैर्लक्षणैस्तथा ॥

6.18.21

अक्षिपाकात्यये शोफः संरम्भः कलुषाश्रुता ।
कफोपदिग्धमसितं सितं प्रक्लेदरागवत् ।
दाहो दर्शनसंरोधो वेदनाश्चानवस्थिताः ॥

6.18.22

अन्नसारो ऽम्लतां नीतः पित्तरक्तोल्बणैर्मलैः ।
सिराभिर्नेत्रमारूढः करोति श्यावलोहितम् ॥

6.18.23

सशोफदाहपाकाश्रु भृशं चाविलदर्शनम् ।
अम्लोषितो ऽयमित्युक्ता गदाः षोडश सर्वगाः ॥

6.18.24

हताधिमन्थमेतेषु साक्षिपाकात्ययं त्यजेत् ॥

6.18.25

वातोद्भूतः पञ्चरात्रेण दृष्टिं सप्ताहेन श्लेष्मजातो ऽधिमन्थः ।
रक्तोत्पन्नो हन्ति तद्वत्त्रिरात्रान्मिथ्याचारात् पैत्तिकः सद्य एव ॥

मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc