अष्टाङ्गसंग्रह · अध्याय 6.17
अथातो लिङ्गनाशप्रतिषेधं नामाध्यायं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयोमहर्षयः ॥
लिङ्गनाशे नीलिका पटलमान्ध्यमिति पर्यायाः ।
सः श्लैष्मिक एव प्राक् साध्यो ऽभिहितः ।
तस्य पुनः षडुपद्रवाः ।
आवर्तकी
शर्करा
राजीमती
छिन्नांशुका
चन्द्रकी
छत्रकी चेति ॥
तत्र श्वेतारुणावर्तवदनवस्थिता दृष्टिरावर्तकी ।
अर्कक्षीरलेशेनेव कूर्चिकापिण्डेनेव चाचिता शर्करा ।
शालिशूकाभराज्यावृता राजीमती ।
छिन्नविषमदग्धाभा सरुक् छिन्नांशुका ।
कांस्यसमच्छाया चन्द्रकसंस्थाना चन्द्रकी ।
नैकवर्णा छत्रनिभा छत्रकी ।
ता न विध्येत् ।
अपि च ॥
न विध्येदसिरार्हाणां न तृट्पीनसकासिनाम् ।
नाजीर्णभीरुवमितशिरःकर्णाक्षिशूलिनाम् ।
नात्युष्णशीतवाताभ्रे नासम्पूर्णां च नीलिकाम् ॥
असञ्जाता हि विषमा दधिमस्तुतनुश्च सा ।
शलाकयावघृष्टापि पुनरूर्ध्वं प्रपद्यते ।
करोति वेदनां तीव्रां दृष्टिं च स्थगयेत् पुनः ॥
सा च सम्पूर्यते शीघ्रं श्लेष्मलर्वातपित्तलैः ।
चिरात्सोपद्रवा च स्यान्निष्प्रेक्ष्यात्वर्हति व्यधम् ॥
अथ स्निग्धस्य विरिक्तस्य घृतैः सम्भोजितस्य निशि रसेन प्रीणितोत्तमाङ्गस्याभुक्तवतः सज्जोपकरणस्य विमले ऽहनि साधके च कृतस्वस्त्ययनस्य विहितादित्यविदेहाधिपतिप्रणामस्य पूर्वाह्णे निवातप्रकाशदेशस्थस्य प्रत्यादित्यमास्तरणेन लब्धमार्दवायां भामौ प्रसारितचरणयुग्ममुपविष्टस्य क्षितितलगतसमतलोभयपाणेः पृष्ठतः सुखोपविष्टेन परिचारकेण हस्ताभ्यां निश्चलमवलम्बितशिरसः किश्चिदुत्तानास्यस्य स्वां नासामितरच्चेक्षणमीक्षमाणस्यातुरस्य जङ्घयोरुपरिष्टान्नात्युच्छ्रितासननिविष्टो भिषग् दक्षिणहस्तानुलोममक्षि मुखबाष्पस्विन्नं निमीलितमीषदङ्गुष्ठोदरविमृदिततारकतया परिप्लुतदोषं सव्याङ्गुष्ठप्रदेशिनीभ्यामुन्मील्य दक्षिणमध्यमाप्रदेशिन्यङ्गुष्ठैर्निष्कम्पं गृहीतया शलाकया कृष्णभागाद्भागद्वयस्यापाङ्गादेकभागस्य च सङ्गमे दृष्टेरार्जवं नात्यूर्ध्वमधो वा नेत्रसहजन्मनि सन्धौ विध्येत् ॥
एवमेव दक्षिणं दक्षिणाङ्गुष्ठप्रदेशिन्युन्मीलितमितरेण करेणैव चातुरस्य दक्षिणपार्श्वे स्थित्वा ॥
अथ शब्दवदवेदनं साम्बुबिन्दुस्रुति च सम्यग्विद्धं विद्यात् ।
प्रविष्टमात्रां च शलाकां धारयेत् ।
रागाश्रुवेदनानुत्पादनार्थं च स्तन्येन सेचयेत् ।
ततः पुनरातुरमाश्वास्य भ्रमयन् शलाकामा दृष्टिमध्यात् प्रवेशयेत् ॥
अधश्चास्यावलिकयतो लिङ्गनाशमद्रुतमविलम्बितमनुसुखमधोमुखमपनयेदुच्छिङ्खयेच्चैनम् ।
तथा हि दृक् स्रस्तकफस्य विशुध्यति ।
विशुद्धदृष्टेश्चाङ्गुलिं तन्तून् ज्ञातीन् सन्ततींश्च दर्शयेत् ।
प्रेक्षमाणस्य चानिमीलितान्नेत्राच्छन्नैः शनैः भ्रमयन्नेव शलाकामपकर्षेत् ।
अथ व्यपगतदोषस्य यथावत् पश्यतः सुखोष्णघृताप्लुतं पिचुमीक्षणस्योपरि दत्वा बध्नीयात् ।
ततो निवातमागारमनुप्रवेश्य संवेश्य च सोपधाने मृदुशयने शयानं दक्षिणे ऽक्षिणि विद्धे वामेन पार्श्वेन वामे दक्षिणेनोभयस्मिन्नुत्तानमनुकूलाभिः कथाभिरुपाचरेत् ।
यथाशक्ति चैनमुपवासयेत् ।
उद्गारक्षवथुकासनिष्ठीवनोत्क्षेपणानि त्र्यहं परिहरेत् ।
स्नानाम्बुपानदन्तधावनाधोमुखावस्थानानिसप्ताहम् ॥
स्नेहविधिं चेक्षेत ।
मूर्ध्नि पादयोश्च घृताभ्यङ्गमाचरेत् ।
तृतीये चाह्नि मुक्त्वाक्षि परिषेचयेदेरण्डपल्लवशृतेन दुग्धोष्णेन दुग्धेन ।
जीवनीयैर्वा सिद्धेन पयसा हविषा वा ।
तद्वल्लघुना पञ्चमूलेन ।
ततः पूर्ववद् बध्नीयात् ॥
ततः प्रभृत्येवमेव प्रत्यहमासप्ताहम् ।
सप्तमे तु दिवसे सर्वथा मोक्षयेत् ।
दशमे वा ।
भोजयेच्चैनं व्योषामलकयुक्तं द्रवमीषत्स्नेहलवणं वाट्यमुष्णोदकद्वितीयं विलेपीं वा ।
एवमाचरतो रुजारागादयो नानुवर्तन्ते ॥
तदनुवृत्तौ तु यष्टीमधुकलोध्रमृद्वीकासैन्धवैः सिद्धेन ससितेनाजपयसा नयनमाश्च्योतयेत् ।
मधुककुष्ठोत्पलद्राक्षालाक्षाशर्कराभिर्वा ।
पृश्निपर्णीमुस्तमधुकशतावरीपंद्मकसैन्धवैर्वा ॥
शिरोवक्त्रलेपं च सारिवागैरिकयवदूर्वाघृतैः कुर्यात् ।
मातुलुङ्गरसाप्लुतैर्वा मृदुभृष्टैस्तिलैः ससर्षपैः ।
अजाक्षीरद्रुतैर्वा मृदुभृष्टैस्तिलैः ससर्षपैः ।
अजाक्षीरद्रुतैर्वा पयस्यासारिवापत्रमञ्जिष्ठायष्ट्याह्वैर्हिमः सुखोष्णो वा लेपः ।
तद्वद्देवदारुनागरमद्मकैर्वा ॥
जाङ्गलरसेन च जीवनीयक्वाथवता भोजयेत् ।
वातहरवर्गसिद्धेन च पयसा ।
पद्मकादिगर्भसिद्धं सर्पिः पाननावनसेकेषु विदध्यात् ।
तथानुपशमे सिरां विध्येत् ।
अधिमन्थसाधनं चेक्षेत ॥
यथोक्ताचारातिक्रमात्तु व्यधः पाकमुपयाति ।
अभिष्यन्दाधिमन्थादयः स्युर्व्यधदोषाच्च ।
तान्यथास्वमुपत्रमेत ॥
व्यधदोषाः पुनरध ऊर्ध्वं कृष्णासन्नमपाङ्गासन्नं सिराव्यधश्च ॥
तत्राधोव्यधादत्यर्थशूलास्रस्रुतिरागाः शलाकायांश्चोपलेपो बहलपिच्छिलः कृष्णां वलिभिरुपचीयते नयनं स्रवति तद्वर्जयेत् ॥
ऊर्ध्वव्यधादतिमात्ररुक् ।
तत्रात्युष्णघृतपरिषेको वातहरं च कर्म ॥
कृष्णासन्नव्यधान्नसुखमपनीयते पटलम् ।
कृष्णे च रुजा ।
दृष्टिरपि च रक्तावच्छादिता कृष्णमण्डलाभा भवति ।
तत्र सर्पिस्सेकविरेकरक्तमोक्षैः सिद्धिः ॥
अपाङ्गासन्नव्यधाच्छोफशूलतोदभेदाः सास्राः स्रुतयः ।
तत्र घृतसेकोपवासौ भ्रुवोरन्तरे च दाहः ॥
सिराव्यधाद्रक्तागमो विविधाश्च वेदनाः ।
तत्र स्तन्यमधुकविपक्वेन सर्पिषा परिषेको ऽपाङ्गे वा दाहः ॥
सिराजालवति तु नेत्रे प्राक् सिराजालमपनयेत् ।
ततो लब्धबलं स्निग्धं च विध्येत् ॥
अथ शलाकाभ्रमणदोषाः ।
क्षोभणमूर्ध्वमधो ऽत्यर्थदृष्टिघट्टनमतिदृष्टिप्रेरणं च ।
शलाकाक्षोभणाद्धिस्पन्दनतोदभेदपरिमन्थाः ।
तस्मिन्यष्टीमधुकपोट्टल्या घृतमृदितया सेको जलौकसश्च ।
ऊर्ध्वप्रणयनाद्रागो ऽतिवेदना च ।
तत्रोपवासो घृतसेकश्च स्पर्शसुखः ।
अधोनयनाच्छूलं रक्तागमश्च ।
तत्र क्षोभणवत् सिद्धिः ।
अत्यर्थदृष्टिघट्टनाद्दृष्ट्याकुलता ।
तत्र सर्पिर्मण्डोनुवासनं नावनं च ।
अतीत्य दृष्टिं शलाकायाः प्रेरणाद्रक्तस्रवणं रक्ताभरूपदर्शनं च ।
तत्र सर्पिस्सेकोपवासजलौकसः ॥
लिङ्गनाशदोषास्तु स्फुटनमवगलनं विस्तरणमुत्प्लवनं लीनता च ।
तत्र शलाकया स्पृष्टो लिङ्गनाशो यः स्फुटति तमेरण्डपत्रस्विन्नं खण्डशः शोधयेत् ।
ततः कृष्णासैन्धवमधुभिरवपीडनम् ।
अवगलति तु शलाकामपनीय स्तन्यसेकं दद्यादवपीडनं च शुण्ठीगुडं जलौकसश्च ।
विस्तीर्यमाणे सुखोष्णाम्बुप्लुतेन वाससा स्वेदो घृतमण्डश्च प्रतिमर्शः ।
तद्वदुत्प्लवमाने वित्रासनं शीताम्भसा प्रततं चोच्छिङ्खनं च ॥
स्थिरे चले च दोषे पत्रभङ्गस्वेदः ।
तथाप्यनपगच्छति शलाकापगमने वा पुनरुत्प्लवने स्नेहपाननस्यादिभिरुपपाद्य पुनर्विध्येत् ।
एवमपि पुनरुत्प्लवने भ्रुवोरन्तरे दाहः ॥
यस्त्वपकृष्यमाणो दृष्टिमण्डले लीयते तत्र क्षीरेण नाडीस्वेदं दद्यात् ।
शताह्वामधुकचूर्णसंसृष्टं च घृतं प्रतिमर्श इति ।
भवति चात्र ॥
स्वेददाहप्रतीमर्शान् सद्योविद्धे तु सेचनम् ॥
अवपीडं तृतीये ऽह्नि युञ्ज्यात्तद्वज्जलौकसः ।
सप्ताहान्ते सिरामोक्षं विरेकं बस्तिकर्म च ॥
यन्त्रणामनुरुध्येत दृष्टेरा स्थैर्यलाभतः ।
रूपाणि सूक्ष्मदीप्तानि सहसा नावलोकयेत् ॥
कुर्याच्छ्लाकास्थूलाग्रा विशालव्रणतां तनुः ।
पटलोत्प्लवनं तीक्ष्णा क्षतमन्तः खरारुजः ।
कण्ठा च विषमाश्रूणि द्रस्वा दीर्घा च दुर्ग्रहा ॥
आढकीमूलमरिचहरितालरसाञ्जनैः ।
विद्धे ऽक्ष्णि सगुडा वर्तिर्योज्या दिव्याम्बुपेषिता ॥
जातीशिरीषधवमेषविषाणषुष्पवैडूर्यमौक्तिकफलं पयसा सुपिष्टम् ।
आजेन ताम्रममुना प्रतनुप्रदिग्धं सप्ताहतः पुनरिदं पयसैव पिष्टम् ॥
पिण्डाञ्जनं हितमनातपशुष्कमक्ष्णि विद्धे प्रसादजननं बलकृच्च दृष्टेः ।
स्रोतोजविद्रुमशिलाप्पतिफेनतीक्ष्णैरस्यैव तुल्यमुदितं गुणकल्पनाभिः ॥
मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0