भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गसंग्रह · अध्याय 6.16

6.16.1

अथातस्तिमिरप्रतिषेधं नामाध्यायं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥

6.16.2

तिमिरं काचतां याति काचो ऽप्यान्ध्यमुपेक्षया ।
नेत्ररोगेष्वतो घोरं तिमिरं साधयेत् द्रुतम् ॥

6.16.3

तुलां पचेत जीवन्त्या द्रोणे ऽपां पादशेषिते ।
तत्क्वाथे द्विगुणक्षीरं घृतप्रस्थं विपाचयेत् ॥

6.16.4

प्रपौण्डरीककाकोलीपिप्पलीलोध्रसैन्धवैः ।
शताह्वामधुकद्राक्षा सितादारुफलत्रयैः ।
कार्षिकैर्निशि तत्पीतं तिमिरापहरं परम् ॥

6.16.5

द्राक्षाचन्दनमञ्जिष्ठाकाकोलीद्वयजीवकैः ।
सिताशतावरीमेदापुण्ड्राह्वमधुकोत्पलैः ॥

6.16.6

पचेज्जीर्णघृतपस्थं समक्षीरं पिचून्मितैः ।
हन्ति तच्छ्रुक्रतिमिररक्तराजीशिरोरुजः ॥

6.16.7

पटोलनिम्बकटुकादार्वीसेव्यवरावृषम् ।
सधन्वयासत्रायन्तीपर्पटं पालिकं पृथक् ॥

6.16.8

प्रस्थमामलकानां च क्वाथयेदर्मणे ऽम्भसः ।
तदाढकेर्धपलिकैः पिष्टैः प्रस्थं घृतात् पचेत् ॥

6.16.9

मुस्तभूनिम्बयष्ट्याह्वकुटयोदीच्यचन्दनैः ।
सव्योषचव्यैस्तत्सर्पिर्घ्राणकर्णाक्षिरोगजित् ॥

6.16.10

विद्रधिज्वरदुष्टारुर्विसर्पापचिकुष्ठनुत् ।
विशेषाच्छ्रुक्रतिमिरनक्तान्ध्योष्णाम्लदाहहृत् ॥

6.16.11

त्रिफलाष्टपलं क्वाथ्यं पादशेषं जलाढके ।
तेन तुल्यपयस्केन त्रिफलापलकल्कवान् ॥

6.16.12

अर्धप्रस्थो घृतात्सिद्धः सितया माक्षिकेण वा ।
युक्तं पिबेत्तत्तिमिरी तद्युक्तं वा वरारसम् ॥

6.16.13

यष्टीमधुद्विकाकोलीव्याघ्रीकृष्णामृतोत्पलैः ।
पालिकैः ससिताद्राक्षैर्घृतप्रस्थं पचेत् समैः ॥

6.16.14

अजाक्षीरवरावासामार्कवस्वरसैः पृथक् ।
महात्रैफलमित्येतत् परं दृष्टिविकारजित् ॥

6.16.15

त्रैफलेनाथ हविषा लिहानस्त्रिफलां निशि ।
यष्टीमधुकसंयुक्तां मधुना च परिप्लुताम् ॥

6.16.16

मासमेकं हिताहारः पिबन्नामलकोदकम् ।
सौपर्णं लभते चक्षुरित्याह भगवान् निमिः ॥

6.16.17

गव्यं घृतं लोहरजो भाजने बादरे स्थितम् ।
त्रिफलाचूर्णसहितं पीतं तिमिरनाशनम् ॥

6.16.18

पुराणं च सिताभीरुयष्टीमधुकचूर्णवत् ।
निषिक्तमग्निवर्णैर्वा जीर्णं सर्पिरयोगुडैः ॥

6.16.19

हेमरूप्यायसैश्चूर्णैर्युक्तां वा त्रिफलां पृथक् ।
घृतक्षौद्रान्वितामद्यात् केवलां वा विचूर्णिताम् ॥

6.16.20

ताप्यायस्त्रिफलाचूर्णं मधुजीर्णघृतद्रुतम् ।
लोहपात्रे स्थितं मासं माषराशौ च भक्षयेत् ॥

6.16.21

सक्तून् वाद्यात्ससर्पिष्कांस्त्रिफलाचूर्णसंयुतान् ।
भुञ्जीत वा सुसिद्धेन सूपेनामलकैः सह ॥

6.16.22

प्रातर्भक्तस्य वा पूर्वमद्यात् पथ्यां पृथक् पृथक् ।
मृद्वीकाशर्कराक्षौद्रैः सततं तिमिरातुरः ॥

6.16.23

क्वाथोसनात् भृङ्गरसस्तैलं कालतिलोद्भवम् ।
लोहपात्रे तदेकत्र साधितं नावनं हितम् ॥

6.16.24

स्रोतोजांशांश्चतुष्षष्टिं हेमायोरूप्यताम्रकैः ।
युक्तान् प्रत्येकमेकांशैरन्धमूषोदरस्थितान् ॥

6.16.25

ध्मापयित्वा समावृत्तं ततस्तच्च निषेचयेत् ।
रसस्कन्धकषायेण सप्तकृत्वः पृत्थक् पृथक् ॥

6.16.26

वैडूर्यमुक्ताशङ्खानां त्रिभिर्भागैर्युतं ततः ।
चूर्णाञ्जनं प्रयुञ्जीत तत्सर्वतिमिरापहम् ॥

6.16.27

निर्दग्धं बदराङ्गारैस्तुत्थं चेत्थं निषेचितम् ।
क्रमादजापयः सर्पिः क्षौद्रैस्तस्मात् पलद्वयम् ॥

6.16.28

कार्षिकैस्ताप्यमरिचस्रोतोजकटुकानतैः ।
पटुलोध्रशिलापथ्याकणैलाञ्जनफेनकैः ॥

6.16.29

युक्तं पलेन यष्ट्याश्च मूषान्तर्ध्मातचूर्णितम् ।
हन्ति काचार्मनक्तान्ध्यरक्तराजीः सुशीलितः ।
चूर्णो विशेषात्तिमिरं भास्करो भास्करो यथा ॥

6.16.30

मनोह्वासैन्ध्हवव्योषशङ्खनाभीरसाञ्जनम् ।
कतकं चन्दनं फेनो विडङ्गानि सितोपला ॥

6.16.31

कुक्कुटाण्डकपालं च जलपिष्टा सुखावती ।
हन्त्येषा मधुना घृष्टा काचतैमिर्यशुक्लकान् ॥

6.16.32

त्रिफलाकुक्कुटाण्डत्वक्कासीसमयसो रजः ।
नीलोत्पलं विडङ्गानि फेनं च सरितां पतेः ॥

6.16.33

आजेन पयसा पिष्ट्वा लेपयेत्ताम्रभाजनम् ।
सप्तरात्रे गते भूयः पिष्टं क्षीरेण वर्तयेत् ।
एषा दृष्टिप्रदा वर्तिरपि स्याद्भिन्नचक्षुषः ॥

6.16.34

अञ्जनं कृष्णसर्पास्ये निहितं कुशवेष्टिते ।
ततस्ततः समुद्वृत्य मासात् सञ्चूर्णयेत् सह ॥

6.16.35

सुमनःक्षारकैः शुष्कैरर्धांशैः सैन्धवेन च ।
प्रयोजयेद्रागवति तिमिरे तद्वराञ्जनम् ॥

6.16.36

पयसा त्रयमेतच्च चूर्णयित्वा सुभावितम् ॥

6.16.37

सामान्यं साधनं त्वेतत्प्रतिदोषमतः शृणु ॥

6.16.38

वातजे तिमिरे तत्र दशमूलाम्भसा घृतम् ।
क्षीरे चतुर्गुणे श्रेष्ठाकल्कपक्वं पिबेत्ततः ॥

6.16.39

त्रिफलापञ्चमूलानां कषायं क्षीरसंयुतम् ।
एरण्डतैलसंयुक्तं योजयेत विरेचनम् ॥

6.16.40

शङ्खिनीतिल्वकश्यामादन्तीर्निष्काथ्य वा जले ।
त्रिवृत्कल्कप्रतीवापं तेन पक्वं घृतं पिबेत् ॥

6.16.41

प्रपौण्डरीकबृहतीबलानलदसैन्धवैः ।
दारुबिल्वाडकीकृष्णा हरिद्द्रामधुयष्टिभिः ।
सिद्धं चतुर्गुणक्षीरं तैलं नस्तो निषेचयेत् ॥

6.16.42

सितैरण्डजटासिंहीफलदारुनिशानतैः ।
शताह्वाबिल्वमूलैश्च तैलं पक्वं पयो ऽन्वितम् ।
नस्यं सर्वोर्ध्वजत्रूत्थवातश्लेष्मामयार्तिषु ॥

6.16.43

वसाञ्जने च वैयाघ्री वाराही वा प्रशस्यते ।
गृध्राहिकुक्कुटोत्था वा मधुकेनान्विता पृथक् ॥

6.16.44

प्रत्यञ्जनं च स्रोतोजं रसक्षीरघृतैः क्रमात् ।
निषिक्तं पूर्ववद्योज्यं तिमिरघ्नमनुत्तमम् ॥

6.16.45

नचेदेवं शमं याति ततस्तर्पणमाचरेत् ॥

6.16.46

शताह्वाकुष्ठनलदकाकोलीद्वययष्टिभिः ।
प्रपौण्डरीकसरलपिप्पलीदेवदारुभिः ।
सर्पिरष्टगुणक्षीरं पक्वं तर्पणमुत्तमम् ॥

6.16.47

प्रसादनं स्नेहनं च पुटपाकं प्रयोजयेत् ॥

6.16.48

वातपीनसवच्चात्र निरूहं सानुवासनम् ॥

6.16.49

पित्तजे तिमिरे सर्पिर्जीवनीयफलत्रयैः ।
विपाचितं पाययित्वा स्निग्धस्य व्यधयेत्सिराम् ।
शर्करैलात्रिवृच्चूर्णैर्मधुयुक्तैर्विरेचयेत् ॥

6.16.50

मञ्जिष्ठालोध्रमधुकसारिवाचन्दनैः शृतम् ।
जलं सशर्करास्तन्यं नेत्रसेके प्रशस्यते ॥

6.16.51

स्तन्यं वा पद्मकोशीरक्षीरिवृक्षाङ्कुरैः शृतम् ।
तप्तैर्निर्वापितं सर्पिरसकृल्लोहपिण्डकैः ॥

6.16.52

विमर्दितसिताद्राक्षं हिमं तच्चाक्षिसेचनम् ।
शीतानालेपसेकादीन् मुखे मूर्ध्नि च शीलयेत् ॥

6.16.53

सारिवापद्मकोशीरमुस्ताशाबरचन्दनैः ।
वर्तिः शस्ताञ्जने चूर्णस्तथा पद्मोत्पलाञ्जनैः ।
सनागपुष्पकर्पूरयष्ट्याह्वस्वर्णगौरिकैः ॥

6.16.54

लोध्रमूर्वाप्रपुण्ड्राह्वमांसीयष्ट्याह्वचन्दनैः ।
सोशीरैः साधितं सर्पिः सक्षीरं तर्पणं हितम् ॥

6.16.55

एभिरेवौषधैश्छागे पक्वे यकृति तद्रसे ।
पूर्ववत् पुटपाकश्च कार्यस्तिमिरनाशनः ॥

6.16.56

श्लेष्मोद्भवे ऽमृताक्वाथवराकणशृतं घृतम् ।
विध्येत् सिरां पीतवतो दद्याच्चानु विरेचनम् ।
क्वाथं पूगाभयाशुण्ठीकृष्णाकुम्भनिकुम्भजम् ॥

6.16.57

करञ्जकट्फलवचात्रिफलापञ्चकोलकैः ।
सदार्वीकैः पयो युक्तं सिद्धं तैलं च नावनम् ॥

6.16.58

शङ्खप्रियङ्गुनैपालीकटुत्रिकफत्रिकैः ।
दृग्वैमल्याय विमला वर्तिः स्यात् कोकिला पुनः ॥

6.16.59

कृष्णलोहरजोव्योषसैन्धवत्रिफलाञ्जनैः ।
पीताख्या द्विनिशाकुष्ठनतपत्रकणोषणैः ॥

6.16.60

पत्रपीतावराव्योषशिलालनतसैन्धवैः ॥

6.16.61

मनोह्वाशङ्खसिन्धूत्थमरिचैस्तिमिरं जयेत् ।
वर्तिः प्रगाढमप्याशु शुक्रपिल्लामयार्म च ॥

6.16.62

तालीसपाठाकिणिहीवेल्लमांसीनिशाभयैः ।
पिष्टैः क्षीरिद्रुमक्वाथे घृतं सिद्धं च तर्पणम् ॥

6.16.63

पुटपाकं च पिशितैर्जाङ्गलैः सैन्धवान्वितैः ।
सपिप्पलीमधुघृतैः कल्कितैः प्रागिवाचरेत् ॥

6.16.64

शिग्रुपत्रैर्जलस्विन्नैः कार्यः स्वेदश्च मात्रया ॥

6.16.65

रक्तजे पित्तवत् कार्यं सन्निपाते यथोल्बणम् ॥

6.16.66

व्याघ्रर्ष्यगोशिखिवसा यवक्वाथपयोयुता ।
दूर्वामधुककल्केन विपक्वा तर्पणे हिता ॥

6.16.67

यष्ट्यनन्ताद्विबृहतीपिप्पलीलवणद्वयैः ।
सलोहचन्दनैः पक्वं यकृता शल्यकस्य च ।
मृगगोधाशशानां च पुटपाकं प्रकल्पयेत् ॥

6.16.68

दद्यादुशीरनिर्यूहे चूर्णितं कणसैन्धवम् ।
तत्स्रुतं सघृतं भूयः पचेत् क्षौद्रं क्षिपेद्धने ।
शीते चास्मिन् हितमिदं सर्वजे तिमिरे ऽञ्जनम् ॥

6.16.69

कुष्ठं वा शर्करोपेतमान्तरिक्षेण वारिणा ।
निष्काथ्यं सर्पिःक्षौद्राभ्यां संसृष्टं प्रागिवाञ्जनम् ॥

6.16.70

स्रोतो ऽञ्जनं ससौवीरं वेष्टयित्वाजमेदसा ।
वटपत्रैरनु तथा दर्भैः कृष्णमृदानु च ।
गोमयानलपक्वं तत् प्रशस्तं चूर्णमञ्जनम् ॥

6.16.71

उरभ्रशल्यकश्वाविण्मार्जारशिखिजन्ममिः ।
वसाभिर्विधिनानेन योगा योज्याः पृथक् पृथक् ॥

6.16.72

वटप्ररोहमधुकदूर्वालोध्रतिलोत्पलैः ।
वयोम्बुपिष्टैः सघृतैः शिरो वक्त्रं च लेपयेत् ॥

6.16.73

कुर्याच्छिरः परीषेकमेभिरेव पयःशृतैः ॥

6.16.74

सन्निपाते यदुदितं दोषोद्रेकं विभज्य तत् ।
संसर्गे ऽपि प्रयुञ्जीत काचे तिमिरवत् क्रिया ॥

6.16.75

न तु तत्र सिरां विध्येत् दृक्स्थिता यन्त्रपीडनात् ।
कुर्युरान्ध्यं मला दद्यात् स्रव्ये त्वस्रे जलौकसः ॥

6.16.76

धूमराख्याम्लपित्तोष्णविदाहे जीर्णसर्पिषा ।
स्निग्धं विरेचयेच्छीतैश्शीतैर्दिह्या च सर्वतः ॥

6.16.77

गोशकृद्रसदुग्धाज्यैर्विपक्वं शस्यते ऽञ्जनम् ।
स्वर्णगौरिकतालीसचूर्णावापा रसक्रिया ॥

6.16.78

पुराणगुडकासीसपिप्पलीकट्फलाद्रजः ।
भावितं त्रिफलाम्भोभिः शुष्कं गोविड्रसाप्लुतम् ।
निशान्ध्वतिमिरे सद्यो गुटिका हन्ति तत्कृता ॥

6.16.79

दध्ना विघृष्टं मरिचं रात्र्यन्धांजनमुत्तमम् ।
भृष्टं घृतं कुम्भयोनेः पत्रैः पाने च पूजितम् ॥

6.16.80

कारञ्जिकोत्पलस्वर्णगौरिकाम्भोजकेसरैः ।
गोविड्रसेन पिष्टेयं वर्तिर्नक्तान्ध्यनाशिनी ॥

6.16.81

क्षौद्रजातीरसाभ्यां वा द्विहरिद्रारसाञ्जनैः ।
अजामूत्रेण वा कौन्तीकृष्णास्त्रोतोजसैन्धवैः ॥

6.16.82

गोशकृद्रसपिष्टैर्वा द्विनिशापिप्पलीयुतैः ।
कालानुसारीतालीसपत्रयष्ट्याह्वनागरैः ॥

6.16.83

कणा वा कापिले पित्ते मासार्धं परिभाविता ।
यकृत्पित्तेषु वा गोधाशशर्ष्यरुरुबर्हिणाम् ॥

6.16.84

खादेच्च प्लीहयकृती माहिषे तैलसर्पिषा ।
घृते सिद्धानि जीवन्त्याः पल्लवानि च भक्षयेत् ।
तथातिमुक्तकैरण्डसोहलाभीरुजानि च ॥

6.16.85

व्रणवच्चाक्षिरोगेषु भोज्याभोज्यानि निर्दिशेत् ॥

6.16.86

अविधारितवेगस्य भजतो ऽञ्जननावनम् ।
त्यजतः क्रोधशोकौ च तिमिरं नाश्नुते ऽन्तरम् ॥

6.16.87

त्रिफलामश्नतो रात्रौ संस्कृतं पिबतो घृतम् ।
भुक्त्वा चापिबतस्तोयं तिमिरं लघु शाम्यति ॥

6.16.88

सुषभव्यं सुकन्यां च स्कन्दं च्यवनमश्विनौ ।
पडेतान् यः स्मरेन्नित्यं तस्य चक्षुर्न हीयते ॥

6.16.89

चिन्ताभिघातभीशोकरौक्ष्यामोत्कुटिकासनात् ।
विरेकनस्यवमनपुटपाकादिविभ्रमात् ॥

6.16.90

विदग्धाहारवमनात् क्षुत्तृष्णादिविधारणात् ।
अक्षिरोगावसानाच्च पश्येत्तिमिररोगिवत् ॥

6.16.91

सूर्योपरागानलविद्युदादिविलोकनेनोपहतेक्षणस्य ।
सन्तर्पणं स्निग्धहिमादि योज्यं तथाञ्जनं हेम घृतेन घृष्टम् ॥

6.16.92

चक्षूरक्षायां सर्वकालं मनुष्यैर्यत्नः कर्तव्यो जीविते यावदिच्छा ।
व्यार्थो लोको ऽयं तुल्यरात्रिन्दिवानां पुंसामन्धानां विद्यामाने ऽपि वित्ते ॥

6.16.93

त्रिफलारुधिरस्रुतिर्विशुद्धिर्मनसो निर्वृतिरञ्जनं सनस्यम् ।
शकुनाशनता सपादपूजा घृतपानं च सदैव नेत्ररक्षा ॥

6.16.94

अहितादशनात् सदा निवृत्तिर्भृशभास्वच्चलसूक्ष्मवीक्षणाच्च ।
मुनिना निमिनोपदिष्टमेतत् परमं रक्षणमीक्षणस्य पुंसाम् ॥

6.16.95

तमालतृटिकुङ्कुमान्यसितमुत्पलं पिप्पली सिताञ्जनमयोरजो मरिचकाकमाचीत्वचः ।
सयष्टिमधुकाञ्जनान्युदधिफेनमक्ष्यामयेष्वनुत्तममतो ऽञ्जनं विमलमाशु तैमिर्यहृत् ॥

मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc