अष्टाङ्गसंग्रह · अध्याय 6.15
अथातो दृष्टिरोगविज्ञानीयं नामाध्यायं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥
सिरानुसारिणि मले प्रथमं पटलं श्रिते ।
अव्यक्तमीक्षते रूपं व्यक्तमप्यनिमित्ततः ॥
प्राप्ते द्वितीयं पटलमभूतमपि पश्यति ।
भूतं तु यत्नादासन्नं दूरे सूक्ष्मञ्च नेक्षते ॥
दूरान्तिकस्थं रूपञ्च विपर्यासेन मन्यते ।
दोषे मण्डलसंस्थाने मण्डलानीव पश्यति ॥
द्विधैकं दृष्टिमध्यस्थे बहुधा बहुधा स्थिते ।
दृष्टेरभ्यन्तरगते द्रस्ववढ्रविपर्ययम् ॥
नान्तिकस्थमधस्संस्थे दूरगं नोपरिस्थिते ।
पार्श्वे पश्येन्न पार्श्वस्थे तिमिराख्योयमामयः ॥
प्राप्तोति काचतां दोषे तृतीयपटलाश्रिते ।
तेनोर्ध्वमीक्षते नाधस्तनुचैलावृतोपमम् ।
यथावर्णञ्च रज्येत दृष्टिर्हीयेत च क्रमात् ॥
तथाप्युपेक्षमाणस्य चतुर्थं पटलं गतः ।
लिङ्गनाशं मलः कुर्वन् छादयेद्दृष्टिमण्डलम् ॥
तत्र वातेन तिमिरे व्याविद्धमिव पश्यति ।
चलाविलारुणाभासं प्रसन्नञ्चेक्षते मुहुः ॥
जालानि केशान् मशकान्नश्मींश्चोपोक्षितेत्र च ।
काचीभूते दृगरुणा पश्यत्यास्यमनासिकम् ॥
चन्द्रदीपाद्यनेकत्वं वक्रमृज्वपि मन्यते ।
वृद्धः काचो दृशं कुर्याद्रजो धूमावृतामिव ॥
स्पष्टारुणाभां विस्तीर्णां सूक्ष्मां वा हतदर्शनाम् ।
सलिङ्गनाशो वाते तु सङ्कोचयति दृक्सिराः ।
दृङ्मण्डलं विशत्यन्तर्गम्भीरा दृगसौ स्मृता ॥
पित्तजे तिमिरे विद्युत्खद्योतोद्योतदीपितम् ।
शिखितित्तिरिपत्राभं प्रायो नीलञ्च पश्यति ॥
काचे दृक्कांस्यनीलाभा तादृगेव च पश्यति ।
अर्केन्दुपरिवेषाग्निमरीचीन्द्रधनूंषि च ॥
भृङ्गनीला निरालोका दृक्स्निग्धा लिङ्गनाशतः ।
दृष्टिः पित्तेन द्रस्वाख्या सा द्रस्वा द्रस्वदर्शिनी ।
भवेत् पित्तविदग्धाख्या पीता पीताभदर्शना ॥
कफेन तिमिरे प्रायः स्निग्धं श्वेतञ्च पश्यति ।
शङ्खेन्दुकुन्दकुसुमैः कुमुदैरिव चाचितम् ॥
काचे तु निष्प्रभेन्द्वर्कप्रदीपाद्यैरिवाचितम् ।
सिताभासा च दृष्टिस्स्याल्लिङ्गनाशे तु दृश्यते ॥
मूर्तः कफो दृष्टिगतः स्निग्धो दर्शननाशनः ।
बिन्दुर्जलस्येव चलः पद्मिनीपुटसंश्रितः ॥
उष्णे सङ्कोचमायाति च्छायायां परिसर्पति ।
शङ्खकुन्देदुकुमुदस्फटिकोपमशुक्लिमा ॥
रक्तेन तिमिरे रक्तं तमोभूतञ्च पश्यति ।
काचेन रक्ता कृष्णा वा दृष्टिस्तादृक् च पश्यति ।
लिङ्गनाशेपि दृक् तादृङ्निष्प्रभा हतदर्शना ॥
संसर्गसन्निपातेषु विद्यात् सङ्कीर्णलक्षणान् ।
तिमिरादीनकस्माच्च तैः स्याद्व्यक्ताकुलेक्षणः ।
तिमिरे शेषयोर्दृष्टौ चित्रो रागः प्रजायते ॥
द्योतते नकुलस्येव यस्य दृङ्निचिता मलैः ।
नकुलान्धःस तत्राह्नि चित्रं पश्यति नो निशि ॥
अर्के ऽस्तमस्तकन्यस्तगभस्तौ स्तम्भमागताः ।
स्थगयन्ति दृशं दोषा दोषान्धः स गदोपरः ॥
दिवाकरकरस्पृष्टा भ्रष्टा दृष्टिपथान्मलाः ।
विलीनलीना यच्छन्ति व्यक्तमत्राह्नि दर्शनम् ॥
उष्णतप्तस्य सहसा शीतवारिनिमज्जनात् ।
त्रिदोषरक्तसंपृक्तो यात्यूष्मोर्ध्वं ततोक्षिणी ।
दाहोषे मलिनं शुक्रमहन्याविलदर्शनम् ॥
रात्रावान्ध्यं च जायेत विदग्धोष्णेन सा स्मृता ॥
भृशमम्लाशनाद्दोषैस्सास्रैर्या दृष्टिराचिता ।
सक्लेदकण्डूः कलुषा विदग्धाम्लेन सा स्मृता ॥
शोकज्वरशिरोरोगसन्तप्तस्यानिलादयः ।
धूमाविलां धूमदृशं दृशं कुर्युः स धूमरः ॥
सहसैवाल्पसत्वस्य पश्यतो रूपमद्भुतम् ।
भास्वरं भास्करादिं वा वाताद्या नयनाश्रिताः ॥
कुर्वन्ति तेजः संशोष्य दृष्टिं मुषितदर्शनाम् ।
वैडूर्यवर्णां स्तिमितां प्रकृतिस्थामिवाव्यथाम् ।
औपसर्गिक इत्येष लिङ्गनाशः अत्र वर्जयेत् ॥
विना कफाल्लिङ्गनाशान् गम्भीरां द्रस्वजामपि ॥
षट्काचा नकुलान्धश्च याप्याश्शेषांस्तु साधयेत् ।
द्वादशेति गदा दृष्टौ निर्दिष्टाः सप्तविंशतिः ॥
मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0