अष्टाङ्गसंग्रह · अध्याय 6.14
अथातः सन्धिसितासितरोगप्रतिषेधं नामाध्यायं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥
उपनाहं भिषक् स्विन्नं व्रीहिमुखेन भित्वा मण्डलाग्रेण समन्ताल्लेखयेत् ।
ततः सैधवपिप्पलीचूर्णेन सक्षौद्रेण प्रतिसारयेत् ।
पूर्ववच्च बध्नीयात् ।
पटोलपत्रामलकक्वाथेनाश्च्योतयेत् ॥
पर्वणामुत्तरसन्धित्रिभागे बडिशेनावलम्ब्य वृद्धिपत्रेणार्धमात्रे छिन्द्यात् ।
अन्यथाश्रुनाडी स्यात् ।
मधुसैन्धवप्रतिसारितां चार्मवच्चिकित्सेत् ॥
पूयालसे सिरां विध्येत्ततस्तमुपनाहयेदक्षिपाकोक्तं चक्षेत ।
सैन्धवार्द्रककासीसायस्ताम्रैः सुसूक्ष्मैः सक्षौद्रैरञ्जनम् ॥
कृमिग्रन्थिं करीषेण स्विन्नं भित्वा विलिख्य च कासीससैन्धवत्रिफलामाक्षिकैः प्रतिसारयेत् ॥
शुक्तिकां पित्ताभिष्यन्दवत् साधयेत् ॥
बलासग्रथितं पिष्टकं च सिराव्यधवर्जं कफाभिष्यन्दवत् ॥
विशेषतस्तिलनालान् यवनालान् वा हरितशलाकानर्धमासमजाक्षीरेण भावयित्वा शोषयित्वा च दाहयेत् ।
ततस्तद्भस्म क्षारकल्पेन परिस्राव्यादर्वीप्रलेपाद्विपचेत् ।
रसक्रियेयं बलासग्रथितशोफोपदेहहरा ।
अयमेव च कल्पः फणिज्जाअर्जकास्फोतबिल्वकपित्थनिर्गुण्ड्येरण्डकुमुदोत्पलजातीकुसुमेषु पृथक् कार्यः ॥
सैन्धवालमरिचकट्फलशङ्खसमुद्रफेनैर्वर्तिः पिष्टके ऽञ्जनम् ।
शुण्ठीशिग्रुफलपिप्पलीसैन्धवचूर्णो बीजपूरकरसाप्लुतो ऽञ्जनं पिष्टकमपहरति ।
तद्वत्त्रिकटुककट्फलचूर्णो बलासग्रथितं च ॥
बृहतीफलं पिप्पलीतण्डुलपूरितं पुटपाकेन पचेत् ।
तैस्तण्डुलैश्चूर्णाञ्जनं बलासग्रथितपिष्टकघ्नम् ।
अत्यर्थशोफे हरितालसैन्धवशुण्ठीदेवदारुपुनर्नवैर्बिडालकः ॥
सिरोत्पातहर्षजालार्जुनेषु रक्ताभिष्यन्दवत् प्रतिकुर्यात् ।
विशेषेण सिराहर्षे स्वर्णगैरिको मधुयुक्तो ऽञ्जनम् ।
स्तन्यान्वितं वा कासीसं क्षौद्रद्रुतं वा कासीससैन्धवमर्जुने मातुलुङ्गरसेन सशर्करेणाश्च्योतनं मस्तुना वा ॥
शङ्खनाभिर्माक्षिकेण युक्ता सितया वा समुद्रफेनकोञ्जनम् ।
स्फटिककुङ्कुमशङ्खनाभिमधुयष्टिका वा क्षौद्रार्द्रास्तद्वद्वा रसाञ्जनं कासीसं वा ॥
अर्म तु पञ्चविधमपि यत्तनुरक्तं धूमाविलं दधिनिभं वा तच्छुक्रवत् कायशिरोविरेकलेखनाञ्जनैरुपाचरेत् ॥
अथेतरस्मिन् स्निग्धस्यातुरस्य पेयाविलेपिजाङ्गलरसान्यतमाशितस्य कृतस्वस्त्ययनस्य सुखशयनगतस्योत्तानदेहस्य किञ्चिदवाक्शिरसः सुखोष्णाम्बुप्लुततान्तवस्विन्ननयनस्य सैन्धवेन सबीजपूरकरसेनाञ्जयित्वाङ्गुष्ठकेन निमीलितमक्षि विमृद्गीयादाबलासग्रथितरूपोत्पत्तेः ।
इत्थं च संरोषिताक्षस्य प्रचलिते ऽर्माधिमांसके निश्चलं परिचारकः शिरोधारयेत् ॥
अन्यश्च वामदक्षिणान्यतरपार्श्वे ऽनुकूलं स्थितो दृढवस्त्रगर्भाभ्यामङ्गुष्ठाभ्यां वर्त्मनी निक्षिपेत् ।
अथ वैद्यः कनीनकात् प्रवृद्धे ऽर्मण्यपाङ्गमक्षिमाणस्य यत्र यत्र वली जायते तत्र तत्रार्म बडिशेन मुचुट्या वा नात्यायतं गृहीत्वा किञ्चिदुन्नम्य कृष्णशुक्लमण्डलाभ्यां सर्वतः सूच्यग्रेण मोक्षयित्वा किञ्चिदाञ्छेत् ।
अथ तीक्ष्णेन मण्डलाग्रेण वृद्धिपत्रेण वा विलिख्य कनीनकं चोपानीय कनीनकसममेव चतुर्भागशेषं छिन्द्यात् ।
वर्जयेच्च कनीनकं सिराश्चाश्रुवहाः ।
तथा हि नाक्षि व्यापद्यते ॥
यत्तु जालवदर्म व्यापि तदेषिण्या यावत्कनीनकमनुसरन्नुन्मोच्योन्नमय्य पूर्ववत् छिन्द्यात् ।
तद्वदपाङ्गात् प्रवृद्धे कनीनकमीक्षमाणस्य यावदपाङ्गं चोपनीयापाङ्गसममेव तथा यावद्वर्जयेदपाङ्गं सिराश्चेत्यादि ।
ततः प्लोतेन रक्तं विशोध्य सम्यक् छिन्नमवेक्ष्य सैन्धवचूर्णेन पुनः पुनः प्रतिसारयेद्यवनालभस्मना वा प्लोतशुद्धं च पुनर्मधुना ।
ततः शीताम्बु परिषिक्तं सर्पिषा सुखोष्णेन परिषिच्य मधुघृताक्तं पूर्ववत् बध्नीयात् ।
मूर्ध्नि पादयोश्चास्मै शतधौतघृतं शीतांश्च प्रदेहान् दद्यात् ॥
स्नेहोक्तं चाचारमादिशेत् ।
द्वितीये चाह्नि सायं प्रातर्मधुकसर्पिषा कोष्णेन शिरस्तथावबद्धमेव चाक्षि सिञ्चेत् ।
पञ्चाहं चोष्णोदकानुपानं सर्पिः पीत्वा जीर्णे पथ्यमश्नीयात् ॥
तृतीये दिवसे विमुच्य करञ्जबीजसिद्धेन क्षीरेणाक्षि स्वेदयेत् ।
लोध्रमधुककिंशुकपटोलद्विहरिद्राकोरण्डमुकुलक्वाथेन मधुमिश्रेणाश्च्योतयेत् सप्तमे ऽहनि सर्वथा मुञ्चेत् आतपाकाशदर्शनं च परिहरेत् ॥
सशोफे तु नेत्रे धूमः शिरोविरेचनं च ।
अनुपशान्तरागे सिराविस्रावणम् ।
सास्रावे नस्यम् ॥
तिलान् सुलिखितान् मधुककाकोलीसुनिषण्णकपञ्चमूलशर्कराश्रुतशीते पयसि सप्ताहं भावितांस्तेनैव पयसा पीडयेत् ।
मधुकशताह्वासारिवानन्तागरुकाकोलीहरेणुकैलावालुकचूर्णं च पीड्यमानेषु षोडशभागेन प्रक्षिपेत् ।
तत्तैलमेभिरेवौषधैः पयसा चाष्टगुणेन सिद्धं नावनादश्रुरागघ्नं दृष्टिप्रसादनं च कृष्णगते तु व्रणे व्रणशुक्रवत् क्रिया ।
अर्मशेषे च लेखनाञ्जनानि ॥
तत्र सम्यक्छिन्ने वर्णविशुद्धिः ।
स्वस्थता च ।
हीनच्छेदात् पुनर्वृद्धी रागाश्रुपातप्रकाशदर्शनाक्षमत्वादि च ।
अतिच्छेदादक्षिपाकस्तम्भस्फुरणास्रस्रुतितिमिरसंरम्भविबद्धवर्त्मानि ।
तेषु यथास्वं दोषोद्रेकात् प्रतिकुर्यात् ।
नागरमनश्शिलालैलासैन्धवशर्कराभिरर्धकर्षांशाभिर्युक्तं रसाञ्जनार्धपलं क्षौद्रद्रुतमञ्जनादर्मशेषश्लेष्मतिमिरपिल्लामयघ्रम् ॥
सिराजाले सिरा यास्तु स्थूलाः कठिनाश्चता बडिशेन गृहीत्वा मण्डलाग्रेणोल्लिखेत् ॥
सिरापिटकाः सूच्यग्रेणावलम्बिताः कृष्णमनुपघ्नन् छिन्द्यात् ।
सूक्ष्मास्त्ववलिखेत् ।
अर्मवच्चैतयोः शेषमाचरेत् ॥
शुक्रकेषु यथास्वदोषानुसारेण त्रिफलाघृतपानरक्तमोक्षविरेचनाश्च्योतनमुखालेपनस्यतर्पणपुट ।
पाकान् प्रयुञ्जीत ॥
तत्र व्रणशुक्रे त्रिवृन्निर्यूहेण त्रिर्विपक्वं सर्पिः पाययेत् ।
सिरां च विध्येत् ।
दुष्टशेषं च पिण्डितमक्षिगमसृक् जलौकोभिरपहरेत् ।
मधुककाकोलीमृद्वीकोत्पलविदारीक्वाथेन मञ्जिष्ठाक्षीरकाकोलीमधुकक्वथिताजक्षीरेण वा सशर्करेणाश्च्योतयेत् शीतैश्चास्य शिरोवक्त्रं दिह्यात् सिञ्चेच्च ।
एवमप्यनुबद्धवेदनं शताह्वायष्ट्याह्ववता घृतमण्डेनानुवासयेत् ॥
अश्रुरागरुजाशान्तिं यदा यस्योपलक्षयेत् ।
तदातदाञ्जनैः शुक्रं लेखनीयैरुपाचरेत् ॥
वैडूर्यस्फटिकशङ्खमुक्ताविद्रुमरूप्यायस्त्रपुत्ताम्रसीसालमनश्शिलाकुक्कुटाण्डत्वक्समुद्रफेनरसाञ्जनसैन्धवैरजापयःपिष्टैर्वर्तयश्छ्यायाशुष्काः क्षौद्रघृष्टाः प्रातः सायं च प्रयुक्ता व्रणशुक्रनुदः ।
करिवराहगोगर्दभाश्वाजोष्ट्रदशनाःशङ्खमुक्तासमुद्रफेनाश्च मरिच चतुर्थांशयुता जलपिष्टा वर्तयः क्षतशुक्रहराः ।
लाक्षासुवर्णगैरिकचन्दनजातीमुकुलैर्वर्तिरसृकूपित्तप्रसादनी व्रणशुक्रहरा च ॥
निम्नं च शुक्रं सरुजमुन्नमयेत् स्नेहपाननस्यजाङ्गलरसैः ।
नीरुजं तर्पणपुटपाकाभ्याम् ॥
तत्र तर्पणं मृगविष्किरपिशितं काश्मर्यसुनिषण्णोत्पलमृणालशृङ्गाटकशेरुद्राक्षाक्षीरविदारीजीवनीयांश्च क्षीरेण पाचयेत् तस्मान्नवनीतमुद्धृत्य चन्दनमधुशर्करानन्तानीलोत्पलकल्कैरष्टगुणेन च पयसा विपक्वं पूर्ववद्योजयेत् ॥
पुटपाकं च कुक्कुटमुद्धृतान्त्रं वेशवारीकृत्य चन्दनसारिवामधुकशर्करानन्तानीलोत्पलप्रपौण्डरीक जीवनीयकल्कैः समधुघृतैः संसृज्य प्रागिव कल्पयेत् ।
द्वित्वक्छिन्नमेवं यापयेत् ॥
शुद्धशुक्रे हरिद्रामधुकसारिवालोध्रनिर्यूहेणाश्च्योतनम् ।
लोध्रचूर्णेण वा तान्तवबद्धेनोष्णाम्बुमृदितेन ।
शुद्धकोष्ठस्य च दन्तीज्योतिष्मतीकल्को ऽवपीडकः ।
शिरोविरेचनद्रव्यविपक्वं वा तैलं मर्शः प्रतिमर्शो वा ॥
शुण्ठीसैन्धवमधुयष्टिकाबृहतीमूलताम्ररजोभिरामलकरसपिष्टैस्ताम्रपात्रं प्रलेपयेत् ।
तच्च सघृतैर्यवैरामलकपत्रैश्च बहुशो धूपयेत् ।
वर्तिरेषा महानीला मधुतोयघृष्टा शुद्धशुक्रं नाशयति ।
पूर्वोक्ता च दन्तवर्तिः ।
अशाम्यति तु शुक्रे सर्वत्र पुनः पुनर्यथोक्तमेव पर्यायेण योजयेत् ।
अन्तरान्तरा च रक्तं विस्रावयेत् ।
अभिष्यन्दप्रतिषेधं चेक्षेत ॥
अथोत्सादनार्थं शुद्धशुक्रे सम्प्रहर्षणानि दद्यात् ।
त्रिफलारसेन त्र्यहं भावितेन सैन्धवेनाञ्जयेत् ।
तद्वत् पिप्पलीभिर्वा ।
मरिचपिप्पलीशिरीषबीजबलासग्रथितोक्तक्षाराञ्जनैर्वा ॥
सम्प्रहर्षणाद्रागाश्रुवेदनासु सन्धावाञ्जनानि युञ्ज्यात् ।
शङ्खं ताम्रे स्तन्येन घृष्टं सघृतैर्यवैः शमीपत्रैश्च धूपयेत् अनेन सन्धावाञ्जनेनाञ्जयेत् ।
तद्वत् सुवर्णं रूप्यमयो व घृष्टं सघृतैर्बदरीपत्रैर्धूपितमञ्जनम् ।
शङ्खो निस्तुषाश्च हरितमुद्गाः पिष्टा वर्तिश्रूर्णो वा मधुयुक्तो ऽञ्जनं शुक्रघर्षणम् ।
मधूकसारश्च मधुना बिभीतकास्थिमज्जा वा ॥
मसूरा निस्तुषाः स्तन्यपिष्टास्तरुणदर्भाङ्कुरा घृतमाजं गोक्षीरं शरश्चायसे ताम्रेण घृष्टं प्रत्यञ्जनं वेदनाघ्नम् ।
यवगोधूमजीवनीयमांसीचूर्णेन सघृतशर्करोत्कारिका स्वेदोपनाहे प्रणीता वेदनामपनयति शुक्रं चोत्सादयति ।
तद्वदानूपमांसवेशवारो वसापयः सर्पिर्विमिश्रः सिद्धः ॥
अथैवमुपनाहप्रचलितस्याञ्जनम् ।
गोखराश्वोष्ट्रदन्ताः समुद्रफेनः शङ्खश्चार्जुनकषायपिष्टा वर्तिर्लेखनी ।
समुद्रफेनशङ्खखर्परशुकास्थिखरनागाश्वगोबालास्तिन्दुककषायपिष्टा वा ॥
प्रत्यञ्जनं च तरुणबदरखदिरतिन्दुकास्थ्नामन्तर्धूमदग्धानां चूर्णम् ।
उत्सन्नं वा सशल्यं वा शुक्रं बालादिभिर्लिखेत् पुटपाकेन वा ।
बलासग्रथितोक्तक्षाररसक्रियया वा ॥
सिराशुक्रे त्वदृष्टिघ्ने तरुणे व्रणशुक्रवत् कुर्यात् ॥
अञ्जनं चास्य प्रपौण्डरीकमधुकहरिद्रालोहरजोञ्जनबृहतीक्षीरकाकोलीरजापयःपिष्टा यवैर्घृतयुक्तैरामलकीपत्रैश्च पर्यायेण धूपिता वर्तिः ॥
अप्रशान्तमेव मर्मवत् साधयेत् ।
समाक्षिकं तु रसाञ्जनं प्रतिसारणम् ।
सप्तमे दिवसे कुक्कुटाण्डकपालस्फटिकचन्दनमनश्शिलालैरश्ववराहदशनैश्च वर्तिं कृत्वाञ्जयेत् ।
उदधिकफशङ्खचन्दनैरजापयःपिष्टैर्वर्तिर्मधुघृष्टा प्रत्यंजनं सिराशुक्रजित् ।
अनुपशमे पश्यति चातुरे किञ्चिदिदमेवासकृत् कुर्वीत ॥
अजकामदृष्ट्युपघातिनीं कृष्णान्तजामस्रविस्रावणैर्मधुरविरेचनैः क्षीरबस्तिभिञ्च साधयेत् ।
सिराशुक्रवच्च शस्त्रकर्मादिविधिनेति ।
भवति चात्र ॥
अजकायामसाध्यायां शुक्रे ऽन्यत्र च तद्विधे ।
वेदनोपशमं स्नेहपानासृक्स्रावणादिभिः ।
कुर्यात् बीभत्सतां जेतुं शुक्रत्वोत्सेधसाधनम् ॥
नारिकेलास्थिभल्लाततालवंशकरीरजम् ।
भस्माद्भिः स्रावयेत्ताभिर्भावयेत् करभास्थिजम् ॥
चूर्णं शुक्रेष्वासाध्येषु तद्वैवर्ण्यघ्रमञ्जनम् ।
साध्येषु साधनायालमिदमेव च शीलितम् ॥
अजकां पार्श्वतो विध्वा सूच्या विस्राव्य चोदकम् ।
समं प्रपीड्याङ्गुष्ठेन वसार्द्रेणानु पूरयेत् ॥
व्रणं गोमांसचूर्णेन बद्धं बद्धं विमुच्य च ।
सप्तरात्राद्व्रणे रूढे कृष्णभांगे समे स्थिते ॥
स्नेहाञ्जनं च कर्तव्यं नस्यं च क्षीरसर्पिषा ।
तथापि पुनराध्माते भेदच्छेदादिकां क्रियाम् ।
युक्त्या कुर्याद्यथा नातिच्छेदेन स्यान्निमज्जनम् ॥
नित्यं च शुक्रेषु शृतं यथास्वं पाने च मर्शे च घृतं विदध्यात् ।
न हीयते लब्धबला तथान्तस्तीक्ष्णाञ्जनैर्दृक् प्रततं प्रयुक्तैः ॥
मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0