भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गसंग्रह · अध्याय 6.13

6.13.1

अथातः सन्धिसितासितरोगविज्ञानीयं नामा ध्यायं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥

6.13.2

वायुः क्रुद्धः सिराः प्राप्य जलाभं जलवाहिनीः ।
अश्रु स्रावयते वर्त्मशुक्लसन्धेः कनीनकात् ।
तेन नेत्रमरुग्रागशोफं स्यात् स जलास्रवः ॥

6.13.3

कफात् कफास्रवे श्वेतं पिच्छिलं बहलं स्रवेत् ॥

6.13.4

कफेन शोफस्तीक्ष्णाग्रः क्षारबुद्बुदकोपमः ।
पृथुमूलश्चलः स्निग्धः सवर्णो मृदुपिच्छिलः ।
महानपाकः कण्डूमानुपनाहः स नीरुजः ॥

6.13.5

रक्ताद्रक्तास्रवे ताम्रं बहूष्णं चाश्रु संस्रवेत् ॥

6.13.6

वर्त्मसन्ध्याश्रया शुक्ले पिटका दाहशूलिनी ।
ताम्रा मुद्गोपमा भिन्ना रक्तं स्रवति पर्वणी ॥

6.13.7

पूयास्रावे मलाः सास्रा वर्त्मसन्धेः कनीनकात् ।
स्रावयन्ति मुहुः पूयं सासृक् त्वङ्मांसपाकतः ॥

6.13.8

पूयालसो व्रणः सूक्ष्मः शोफसंरम्भपूर्वकः ।
कनीनसन्धावाध्मायी पूयास्रावी सवेदनः ॥

6.13.9

कनीनस्यान्तरलजी शोफो रुक्तोददाहवान् ॥

6.13.10

अपाङ्गे वा कनीने वा कण्डूषापक्ष्मपोटवान् ।
पूयास्रावी कृमिग्रन्थिः ग्रन्थिः कृमियुतो ऽर्तिमान् ॥

6.13.11

उपनाहकृमिग्रन्थिपूयालसकपर्वणीः ।
शस्त्रेण साधयेत् पञ्च सालजीनास्रवांस्त्यजेत् ॥

6.13.12

पित्तं कुर्यात् सिते बिन्दूनसितश्यावपीतकान् ।
मलाक्तादर्शतुल्यं वा सर्वं शुक्लमदाहरुक् ।
रोगो ऽयं शुक्तिकासंज्ञः सशकृद्भेदतृड्ज्वरः ॥

6.13.13

कफाच्छुक्ले समं श्वेतं चिरवृध्यधिमांसकम् ॥

6.13.14

शुक्लार्मशोफस्त्वरुजः सवर्णो बहलो मृदुः ।
गुरुः स्निग्धोम्बुबिन्द्वाभो बलासग्रथितः स्मृतः ॥

6.13.15

बिन्दुभिः पिष्टधवलैरुत्सन्नैः पिष्टकं वदेत् ॥

6.13.16

रक्तराजीततं शुक्लमूष्यते यत् सवेदनम् ।
सशोफाश्रूपदेहं च सिरोत्पातः स शोणितात् ॥

6.13.17

उपेक्षितः सिरोत्पातो राजीस्ता एव वर्धयन् ।
कुर्यात् सास्रं सिराहर्षं तेनाक्ष्युद्वीक्षणाक्षमम् ॥

6.13.18

सिराजालं सिराजालं बृहद्रक्तं घनोन्नतम् ॥

6.13.19

शोणितार्म समं श्लक्ष्णं पद्माभमाधिमांसकम् ॥

6.13.20

नीरुक्श्लक्ष्णोर्जुनो बिन्दुः शशलोहितलोहितः ॥

6.13.21

मृद्वाशुवृध्यरुङ्मांसं प्रस्तारि श्यावलोहितम् ॥

6.13.22

प्रस्तार्यर्म मलैः सास्रैः स्नावर्म स्नावसन्निभम् ॥

6.13.23

शुष्कासृक्पिण्डवच्छ्यावं यन्मांसं बहलं पृथु ॥

6.13.24

अधिमांसार्म तत् दाहघर्षवत्यः सिरावृताः ।
कृष्णासन्नाः सिरासंज्ञाः पिटकाः सर्षपोपमाः ॥

6.13.25

शुक्तिहर्षसिरोत्पातपिष्टकग्रथितार्जुनम् ।
साधयेदौषधैः षट्कं शेषं शस्त्रेण सप्तकम् ॥

6.13.26

नवोत्थं तदपि द्रव्यैरर्मोक्तं यत्तु पञ्चधा ।
तच्छेद्यमसितप्राप्तं मांसस्नावसिरावृतम् ।
चर्मोद्दालवदुच्छ्रायि दृष्टिप्राप्तं तु वर्जयेत् ॥

6.13.27

पित्तं कृष्णे ऽथवा दृष्टौ शुक्लं तोदाश्रुरागवत् ।
छित्वा त्वचं जनयति तेन स्यात्कृष्णमण्डलम् ॥

6.13.28

पक्वजम्बूनिभं किञ्चिन्निम्नं च क्षतशुक्रकम् ।
तत् कृच्छ्रसाध्यं याप्यं तु द्वितीयपटलव्यधात् ॥

6.13.29

तत्र तोदादिबाहुल्यं सूचीविद्धाभकृष्णता ।
तृतीयपटलच्छेदादसाध्यं निचितं व्रणैः ॥

6.13.30

शङ्खशुक्लं कफात्साध्यं नातिरुक् शुद्धशुक्रकम् ॥

6.13.31

आताम्रपिच्छिलास्रस्रुदातास्रपिटकातिरुक् ।
अजाविट्सदृशोच्छ्रायकार्ष्ण्या वर्ज्यासृजाजका ॥

6.13.32

सिराशुक्रं मलैः सास्रैस्तज्जुष्टं कृष्णमण्डलम् ।
सतोददाहताम्राभिः सिराभिरवतन्यते ॥
अनिमित्तोष्णशीताच्छघनास्रस्रुच्च तत्त्यजेत् ॥

6.13.33

दोषैः सास्रैः सदृक्कृष्णं नीयते शुक्लरूपताम् ।
धवलास्रोपलिप्ताभं निष्पावार्धदलाकृति ॥

6.13.34

अतितीव्ररुजारागदाहश्वयथुपीडितम् ।
पाकात्ययेन तच्छुक्रं वर्जयेत्तीव्रवेदनम् ॥

6.13.35

यस्य वा लिङ्गनाशो ऽन्तःश्यावं यद्वा सलोहितम् ।
अत्युत्सेधावगाढं वा सास्रनाडीव्रणावृतम् ॥

6.13.36

पुराणं विषमं मध्ये विच्छिन्नं यच्च शुक्रकम् ।
पञ्चेत्युक्ता गदाः कृष्णे साध्यासाध्यविभागतः ॥

मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc