अष्टाङ्गसंग्रह · अध्याय 6.12
अथातो वर्त्मरोगप्रतिषेधं नामाध्यायं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥
कृछ्रबोधे पुराणं घृतं द्राक्षाकल्कक्वाथसिद्धं शर्करावचूर्णितं रात्रौ पाययेत् ।
स्निग्धांश्च नस्यधूमाञ्जनतर्पणपुटपाकान् प्रयोजयेत् ।
वातहरद्रव्यकल्पितांश्च बस्तीन् क्षीरस्विन्नैरेरण्डपल्लवैः स्वेदं च वर्त्मनाम् ॥
एवमशान्तौ मुद्गमात्रान्तरैः पदैरग्निना त्वग्दाहं बिन्दुभिराचरेत् ॥
1अस्.उत्त्.12.4 कुम्भीकापिटकासु वर्त्म लिखित्वा सैन्धवेनानुप्रतिसार्य पटोलामलकमधुकक्वाथेन सेचयेत् घृतेन च ॥
पित्तरक्तोक्लिष्टयोर्मधुरौषधसिद्धेन सर्पिषा स्निग्धस्य सिरां विध्येत् ।
विरेचयेच्चैनं त्रिवृत्क्वाथवता त्रिफलाकल्केन ।
त्रिफलाक्वाथयुक्तेन वा ब्राह्मीचूर्णेन ।
चन्दनोशीरमधुकमृद्वीकापुनर्नवबृहतीमूलसिद्धं तैलं नावयेत् ।
लिखिते च वर्त्मनि स्रुतरक्ते यष्ट्याह्वनिर्यूहेण प्रक्षालनम् ।
चन्दनशृतं पयः परिषेकः ।
शीतस्निग्धाश्च शिरोवक्त्रलेपाः ॥
पक्ष्मशाते रोमकूपान् सूच्यग्रेण कुट्टयेज्जलौकोभिर्वा ग्राहयेत् ।
पयसेक्षुरसेन वा वमनम् ।
स्वादुशीतस्कन्धसाधितं सर्पिर्नावनम् ।
काकजङ्घा रोहित मत्स्यमांसं च काकशोणितभावितमन्तर्धूमं दग्धं चूर्णाञ्जनं कुर्यात् ॥
सञ्चूर्ण्य पुष्पकासीसं भावयेत् सुरसारसैः ।
ताम्रे दशाहं परमं पक्ष्मशाते तदञ्जनम् ॥
पोथकीर्विलिख्य शुण्ठीसैन्धवमागधिकाचूर्णैः प्रतिसार्य प्रक्षाल्य चोष्णाम्भसा खदिरसाराढकीशिग्रुपत्रकषायेण सेचयेत् ।
ततश्चाम्रजम्बूप्रवालक्वाथेनाश्च्योतनम् ।
त्रिफलाखदिरसारोदकेन वा मधुसंयुक्तेन ।
विडङ्गलाक्षादार्वीत्वग्गैरिकालमनोह्वाचूर्णः क्षौद्रान्वितो ऽञ्जनम् ॥
एवमप्यनुपशमे जलौकसो योजयेत् ।
पुनः पुनर्वा लेखयेत् ।
परिषेकं च त्रिफलामधुकद्विहरिद्राकषायेण मधुयुक्तेन कुर्यात् ।
मुस्तशर्कराकपित्थपत्राम्बुना वा ॥
कफोत्क्लिष्टं वर्त्म लिखित्वा सैन्धवकासीसपिप्पलीमनश्शिलारसाञ्जनचूर्णैर्मधुमद्भिः प्रतिसारयेत् ।
कफघ्नानि च वमनधूमनावनाञ्जनान्याहारविधिश्च ।
वर्त्मापक्लेदे कासीसलवणसुमनोमुकुलरसाञ्जनैर्वर्तिरञ्जनम् ॥
लगणं कफोत्क्लिष्टवत् साधयेत् ।
अशाम्यत्यग्निना दाहो वमनं विरेचनं च ।
पिप्पलीमधुकनिम्बज्योतिष्मतीदेवदारुविडङ्गप्रियङ्गुत्रिफलाकुष्ठशताह्वासैधवैः सिद्धं तैलं नावयेत् ।
तीक्ष्णावपीडाञ्जनकवलांश्च विदध्यादुष्णोपचारं च ॥
उत्सङ्गपिटकामञ्जननामिकां च भित्वा निष्पीड्य चोल्लिखितां तगरैलासैन्धवनेपालीचूर्णेन सक्षौद्रेण प्रतिसारयेत् ।
हरिद्रामधुकपटोललोध्रः समाक्षिकः परिषेकः ॥
बिसवर्त्मादिषु बहलवर्त्मान्तेषु सैधवं प्रतिसारणम् ।
बिसश्लिष्टवर्त्मनोस्तथानुपशमे ऽग्निना क्षारेण वा दहनम् ॥
कुकूणके निम्बपत्रत्रिफलाखदिरमूलकल्कविपक्वं सर्पिर्धात्रीं पाययित्वा सैन्धवसर्षपोपकुल्यायष्ट्याह्ववतोष्णाम्भसा वामयेत् ।
पिप्पलीद्राक्षाभयानिर्यूहेण विरेचयेत् ।
स्तनौ चास्या मागधिकामुस्ताद्विरजनःकल्केनालिप्योद्वर्तयेत् ।
धूपयेच्च सघृतैः सिद्धार्थकः ।
पाययेच्चैनां पटोलमुस्तमृद्वीकागुडूचीत्रिफलाकषायम् ॥
बालस्य वर्त्मनी लिखित्वा मधुसैन्धवरसाञ्जनैः प्रतिसार्यामलक्यश्मन्तकजम्बूपल्लवक्वाथेन प्रक्षालयेत् ।
जलौकोभिर्वा ग्राहयेत् ।
वेदनायां तु कुष्ठगुडूचीकल्कोदकेन सगुडक्षौद्रेण परिषेको मूर्धानं चास्यकटुतैलेनाभ्यज्य पाठाकल्केन प्रलिप्यार्जुनबिल्वनिर्गुण्डीमार्कवतर्कारीसैर्यककार्पासीमालतीपत्रनिर्यूहेण सेचयेत् ॥
मरिचविडङ्गहरिद्राकल्कसिद्धं तैलं प्रतिमर्शः ।
मूर्वाताम्ररजसी स्तन्यपिष्टे पिण्डाञ्जनम् ।
शङ्खमनश्शिलासैन्धवरसाञ्जनक्षौद्रैर्वा रसक्रिया ।
लोहशिवाटिकामृदः कपाले ऽनेकशः प्रतप्ताः स्तन्येननिर्वापिताः श्लक्ष्णचूर्णमञ्जनम् ।
लाक्षावेल्लमनश्शिलालगैरिकदार्वीत्वग्भिर्वा ।
पुनः पुनश्च धात्रीं वमनविरेचनैरुपपादयेत् ॥
पक्ष्मोपरोधे समुपचितं वर्त्म लेखनेनोत्क्लिष्टं रक्तं विस्रावणेन सशोफं शिरोविरेककवलवमनैर्यापयेत् ॥
प्रवृद्धेषु तु रोमसु विशुद्धदेहस्य सहिष्णोर्भ्रुवोधस्ताद्द्वौ भागौ पक्ष्मान्तात् भागमेकं समुत्सृज्य यवमात्रं तदाकृति तिर्यक् छेदयेदार्द्रवाससा च रक्तं गृह्णीयात् ॥
तत्स्तनुभूते रक्ते क्षौमसूत्रेण बालेन वा धनुर्वक्रया सूच्या मुद्गमात्रान्तरैः पदैः सीव्येत् ।
ततो ऽस्य ललाटे पट्टं बध्वा तत्सीवनसूत्रं तत्र सूचीपदैर्नातिगाढश्लथमासज्जेत् ।
शतधौतघृतेन चास्य सक्षौद्रेण कवलिकां दद्यात् ॥
न चैतत् बध्नीयात् ।
व्रणवेदनायां वस्त्रबद्धेन यष्टीमधुकचूर्णेन संस्कृतं सर्पिः परिषेको वटादिक्वषायाश्च सक्षीराः ।
पञ्चमे षष्ठे वाहनि स्थिरीभूतेषु शस्त्रपदेषु सीवनसूत्रमवलम्बकाच्छित्वापनयेत् ।
व्रणं च स्वर्णगैरिकरजसावचूर्णयेत् ।
तीक्ष्णनस्याञ्जनानि चावचारयेत् ॥
अत्युत्क्षिप्ते तु सूत्रे श्वयथुः स्यात् ।
तत्र मृदुः स्वेदः स्नैहिकं च नस्यम् ॥
निर्भुज्य वा वर्त्मदोषोपहतां वलीं विलिख्य तुम्बुरुवक्रकुशाभयाबीजान्यतमकल्केन प्रतिसारयेत् क्षारेण वा दहेत्तप्रया वा शलाकया ॥
उपपक्ष्माणि तु लाक्षारसेन लक्षयित्वा सन्दंशेनोद्धृत्य तनुसूच्यग्रेणाग्निवर्णेन रोमकूपान् दहेत् ।
ततश्च पूर्ववत् परिषेको नावनं च ॥
बाह्यालजेर्भिन्नालिखितस्य क्षारेणाग्निना वा दाहो व्रणवच्चोपचारः ।
अर्बुदस्य च स्विन्नस्यामूलच्छिन्नस्य लिखितप्रतिसारितस्य चेति ।
भवन्ति चात्र ॥
निवाते ऽधिष्ठितस्याप्तैः शुद्धस्योत्तानशायिनः ।
बहिः कोष्णाम्बुतप्तेन स्वेदितं वर्त्म वाससा ॥
निर्भुज्य वस्त्रान्तरितं वामाङ्गुष्ठाङ्गुलीधृतम् ।
न स्रंसते चलति वा वर्त्मैवं सर्वतस्ततः ॥
मण्डलाग्रेण तत्तिर्यक् कृत्वा शस्त्रपदाङ्कितम् ।
लिखेत्तेनैव पत्रैवा शाकशेफालिकादिजैः ।
फेनेन तोयराशेर्वा पिचुना प्रमृजन्नसृक् ॥
स्थिते रक्ते सुलिखितं सक्षौद्रैः प्रतिसारयेत् ।
यथास्वमुक्तैरनु च प्रक्षाल्योष्णेन वारिणा ॥
घृतेन सिक्तमभ्यक्तं बध्नीयान्मधुसर्पिषा ।
ऊर्ध्वाधःकर्णयोर्दत्वा पिण्डीं च यवसक्तुभिः ॥
तृतीये ऽहनि मुक्तस्य परिषेकं यथायथम् ।
कुर्याच्चतुर्थे नस्यादीन् मुञ्चेदेवाह्नि पञ्चमे ॥
समं नखनिभं शोफकण्डूघर्षाद्यपीडितम् ।
विद्यात् सुलिखितं वर्त्म लिखेद्भूयो विपर्यये ॥
रुक्पक्ष्मवर्त्मशतनस्रंसनान्यतिलेखनात् ।
स्नेहस्वेदादिकस्तस्मिन्निष्टो वातहरः क्रमः ॥
अभ्यज्य नवनीतेन श्वेतलोध्रं प्रलेपयेत् ।
एरण्डमूलकल्केन पुटपाकं पचेत्ततः ॥
स्विन्नं प्रक्षालितं शुष्कं चूर्णितं पोट्टलीकृतम् ।
स्त्रियाः क्षीरे छगल्या वा मृदितं नेत्रसेचनम् ॥
शालितण्डुलकल्केन लिप्तं तद्वत् परिष्कृतम् ।
कुर्यान्नेत्रे ऽतिलिखिते मृदितं दधिमस्तुना ।
केवलेनापि वा सेकं मस्तुना जाङ्गलाशिनः ॥
मेद्यांस्तु व्रीहिवक्त्रेण विभिद्य कठिनोन्नतान् ।
निष्पीडयेदनु विधिः शेषः स्यातत्र पूर्ववत् ॥
मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0