अष्टाङ्गसंग्रह · अध्याय 6.11
अथातो वर्त्मरोगविज्ञानीयं नामाध्यायं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥
सर्वरोगनिदानोक्तैरहितैः कुपिता मलाः ।
अचक्षुष्यैर्विशेषेण प्रायः पित्तानुसारिणः ॥
सिराभिरूर्ध्वं प्रसृता नेत्रावयवमाश्रिताः ।
वर्त्मसन्धिं सितं कृष्णं दृष्टिं वा सर्वमक्षि वा ॥
रोगान् कुर्युः चलस्तत्र प्राप्य वर्त्माश्रयाः सिराः ।
सुप्तोत्थितस्य कुरुते वर्त्मस्तम्भं सवेदनम् ॥
पांसुपूर्णाभनेत्रत्वं कृच्छ्रोन्मीलनमश्रु च ।
विमर्दनात् स्याच्च शमः कृच्छ्रोन्मीलं वदन्ति तमू ॥
चालयन्वर्त्मनी वायुर्निमेषोन्मेषणं मुहुः ।
करोत्यरुङ्निमेषो ऽसौ वर्त्म यत्तु निमील्यते ॥
विमुक्तसन्धि निश्चेष्टं हीनं वातहतं हि तत् ॥
कृष्णाः पित्तेन बह्व्योन्तर्वर्त्म कुम्भीकबीजवत् ।
आध्मायन्ते पुनर्भिन्नाः पिटकाः कुम्भिसंज्ञिकाः ॥
सदाहक्लेदनिस्तोदं रक्ताभं स्पर्शनाक्षमम् ।
पित्तेन जायते वर्त्म पित्तोत्क्लिष्टमुशन्ति तत् ॥
करोति कण्डूं दाहं च पित्तं पक्ष्मान्तमाश्रितम् ।
पक्ष्मणां शतनं चानु पक्ष्मशातं वदन्ति तम् ॥
पोथक्यः पिटकाः श्वेताः सर्षपाभा घनाः क्कफात् ।
शोफोपदेहरुक्कण्डूपिच्छिलास्रसमन्विताः ॥
कफोत्क्लिष्टं भवेद्वर्त्म स्तम्भक्लेदोपदेहवत् ॥
ग्रन्थिः पाण्डुररुक्पाकः कण्डूमान्कठिनःकफात् ।
कोलमात्रः स लगणः किञ्चिदल्पस्ततो ऽथवा ॥
रक्ता रक्तेन पिटका तत्तुल्यपिटकाचिता ।
उत्सङ्गाख्या तथोत्क्लिष्टं राजिमत् स्पर्शनाक्षमम् ॥
अर्शो ऽधिमांसं वर्त्मान्तः स्तब्धं स्निग्धं सदाहरुक् ।
रक्तं रक्तेन तत्स्रावि च्छिन्नं च्छिन्नं च वर्धते ॥
मध्ये वा वर्त्मनो ऽन्ते वा कण्डूषारुग्वती स्थिरा ।
मुद्गमात्रासृजा ताम्रा पिटकाञ्जननामिका ॥
दोषैर्वर्त्म बहिः शूनं यदन्तः सूक्ष्मखाचितम् ।
सस्रावमन्तरुदकं बिसाभं बिसवर्त्म तत् ॥
यद्वर्त्मोत्क्लिष्टमुत्क्लिष्टमकस्मान्म्लानतामियात् ।
रक्तदोषत्रयोत्क्लेशात् भवत्युत्क्लिष्टवर्त्म तत् ॥
श्याववर्त्म मलैः सास्रैः श्यावं रुक्क्लेदशोफवत् ॥
श्लिष्टाख्यं वर्त्मनी श्लिष्टे कण्डूश्वयथुरागिणी ॥
वर्त्मान्तः पिटका रूक्षाः कर्कशाः सिकतोपमाः ॥
सिकतावर्त्मकृष्णं तु कर्दमं कर्दमोपमम् ॥
बहलं बहलैर्मांसैः सवर्णैश्चीयते समैः ॥
कुकूणकः शिशोरेव दन्तोत्पत्तिनिमित्तजः ।
स्यात्तेन शिशुरुच्छूनताम्राक्षो वीक्षणाक्षमः ।
सवर्त्मशूलपैच्छिल्यकर्णनासाक्षिमर्दनः ॥
पक्ष्मोपरोधे सङ्कोचो वर्त्मनोर्जायते ततः ।
खरतान्तर्मुखत्वं च रोम्णामन्यानि वा पुनः ॥
कण्टकैरिव तीक्ष्णाग्रैर्घृष्टं तैरक्षि शूयते ।
ऊष्यते चानिलादिद्विडल्पाहं शान्तिरुद्धृतैः ॥
कनीनके बहिर्वर्त्म कठिनो ग्रन्थिरुन्नतः ।
ताम्रः पक्वोस्रपूयस्रुदलज्याध्मायते मुहुः ॥
वर्त्मान्तर्मांसपिण्डाभः श्वयथुर्ग्रथितो ऽरुजः ।
सास्रैः स्यादर्बुदो दोषैर्विषमो बाह्यतश्चलः ॥
चतुर्विंशतिरित्येते व्याधयो वर्त्मसंश्रयाः ॥
आद्यो ऽत्रभेषजैः साध्यो द्वौ ततोर्शश्च वर्जयेत् ।
पक्ष्मोपरोधो याप्यः स्याच्छेषाञ्छस्त्रौषधैर्जयेत् ॥
कुट्टयेत् पक्ष्माशतनं छिन्द्यात्तेष्वपि चार्बुदम् ।
भिन्द्याल्लगणकुम्भीकाबिसोत्सङ्गाञ्जनालजीः ॥
पोथकीश्यावसिकताश्लिष्टोत्क्लिष्टचतुष्टयम् ।
सकर्दमं सबहलं विलिखेत् सुकुकूणकम् ॥
मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0