अष्टाङ्गसंग्रह · अध्याय 5.8.1
परिभाषाः प्रवक्ष्यन्ते चिकित्सायां सुसंश्रिताः ।
द्रव्याणि षोडशगुणे सलिले क्वाथयेत् भिषक् ॥
चतुर्थशेषः पूतस्तु कषायो ग्राह्य इष्यते ।
अथ क्वाथ्येषु तेषूक्तं तोयादन्यत् द्रव भवेत् ॥
तच्चाम्बुवत् प्रयोक्तव्यं तत् षोडशगुणं ततः ।
द्रवं यत्तत्र पठितं क्षीरं वा दधिमस्तु वा ॥
मूत्रं तक्रं सुरामण्डं यदि वाप्यम्लकाञ्जिकम् ।
जलवत् षोडशगुणं तत् स्यात् पादावशेषितम् ॥
अनिर्दिष्टे प्रमाणे तु क्वाथ्यानां च द्रवस्य च ।
कषायपाककल्पो ऽयं कृष्णात्रेयेण वर्णितः ॥
कर्तव्यं सति निर्देशे यथानिर्दिष्टमेव हि ।
अस्यास्तु परिभाषायाः षडङ्गादावसम्भवात् ॥
तत्र प्रसिद्धिमाश्रित्य भेषजेषु जलेषु च ।
तथा विधेया भागाः स्युर्व्याध्यादिसदृशा यथा ॥
तस्मादर्धपलं वापि कर्षन्नयमथापि वा ।
द्रव्याणां स्यात् पलं वापि द्विप्रस्थमुदकस्य तु ॥
ततोधिकं वा कर्तव्यमूहापोहविशारदैः ।
हीनं वापि ततः कार्यमेवं यूषे च पानके ॥
मांसौदनासवारिष्टपेयासु च वितर्कयेत् ।
स्नेहादिसाधनायोक्तो निर्यूहो यत्र तत्र हि ॥
तत्रापि षोडशगुणः पक्षोयं परिगृह्यते ।
द्रव्यं स्नेहसमं क्वाथ्यमत्र पक्षे प्रयुज्यते ॥
कषाय एव चेत्तत्र द्रवार्थं केवलो भवेत् ।
तथान्यदपि तत्रोक्तं द्रवं क्षीरादिकं भवेत् ॥
ततोनुरूपं सङ्ख्याय द्रव्यं तोयेन साधयेत् ।
द्रव्यं स्नेहसमं क्वाथ्यमन्यत्रापि द्रवे सति ॥
न तत्र युज्यते तस्मादनुरूपेण कल्पयेत् ।
अन्येतु भिषजःप्राहुः क्वाथ्यान्यष्टगुणे ऽम्भसि ॥
क्वाथ्यं तु भवति स्नेहादत्र द्विगुणमौषधम् ।
कषायेणैव चेत् साध्यः सत्यन्यस्मिन् द्रवे तथा ॥
साधयेदनुरूपेण केचिदेवं प्रचक्षते ।
चतुर्गुणेन तोयेन क्वाथयेदौषधानि तु ॥
ऋषीणां सुश्रुतादीनां सर्वेषां मतमीदृशम् ।
एतावांस्तु विशेषो ऽत्र शेषमात्रापि पूर्ववत् ॥
क्वाथ्यं तु भेषजं स्नेहादत्र पक्षे चतुर्गुणम् ।
पलव्यपेक्षया द्रव्यादथ तोयं चतुर्गुणम् ॥
प्रस्थव्यपेक्षया द्रव्याद्यदा तोयं चतुर्गुणम् ।
क्रियते द्विगुणं क्वाथ्यं ततः स्नेहात् प्रयुज्यते ॥
द्रवाणां द्विगुणं प्रस्थं शुष्कात् प्रस्थाद्यतो मतः ।
प्रसिद्धिस्तु चिकित्सायां द्विधा हि भिषजामिह ॥
पलव्यपेक्सयाप्यस्ति तथा प्रस्थव्यपेक्षया ।
सुश्रुतस्य तु यः पूर्वमुपन्यस्तश्चिरन्तनः ।
पाठः पलव्यपेक्षायां ज्ञापकं तदुदाहृतम् ॥
इत्येवं त्रिविधः प्रोक्तः कषायग्रहणं प्रति ।
एवमन्यत्र सर्वेषां कल्कात् स्नेहश्चतुर्गुणः ॥
चतुर्गुणं द्रवं स्नेहाद्यत्र यत् पठ्यते द्रवम् ।
अनुक्ते तु द्रवे देयं जलमेव चतुर्गुणम् ॥
कल्ककल्पस्तु चरके कषायाणां न कीर्तितः ॥
स्नेहपाकविधिस्तूक्त एवं दृढबलेन तु ।
चरको ऽर्धकृते शास्त्रे ब्रह्मभूयं गतो यतः ॥
कषायस्य तु पेयस्य यदि वा कल्कचूर्णयोः ।
मात्रा दृढबलेनापि तत्रेति परिभाषिता ॥
चरकोक्तैर्मया वाक्यैरनुमानात् प्रसाधिता ।
अनुक्तापि यथा मात्रा पञ्चाद्वक्ष्याम्यहं तथा ॥
एषां कषायकल्पानां प्रविभागो विधीयते ।
कषायकल्पे त्रिविधे यश्चतुर्गुणितोदकः ॥
कषायकल्पः स्नेहेषु साध्येष्वेव समाश्रितः ।
वैद्यैः प्रायेण न तथा यः षोडशगुणोदकः ॥
चतुर्गुणोदके पक्षे स्नेहाद्द्रव्यं चतुर्गुणम् ।
अष्टाविंशं पलशतं क्वाथ्यद्रव्यस्य जायते ॥
स्नेहप्रस्थे विपक्तव्ये शुष्कं तच्च भवेद्यदि ।
आर्द्रं चेदुद्धृतं सद्यस्ततः पलशतद्वयम् ॥
स्नेहप्रस्थे भवेत्साध्ये षट्पञ्चाशत् पलाधिकम् ।
एवं बहुत्वात् द्रव्यस्य यश्चतुर्गुणितोदकः ॥
सकल्पो ऽभिमतस्तत्र स्नेहः स्याद्वीर्यवत्तरः ।
सहस्रपाकाः स्नेहास्तु शतपाकाश्च कीर्तिताः ॥
सुभावितं स्वल्पमपि द्रव्यं तद्बहुकर्मकृत् ।
तस्माद्बहुतरं द्रव्यं यत्र पक्षे प्रयुज्यते ॥
स्नेहपाकेषु सः श्रेयानित्येष तु मयाश्रितः ।
स्नेहपाकविधावेव प्रयोगस्तस्य युज्यते ॥
पाचनाः शमनीयाश्च ये कषाया ज्वरादिषु ।
उदीरिताः पुनस्तेषु कषायेषूपकल्प्यते ॥
चतुर्गुणादक पेयं कषायस्य पलं भवेत् ।
तस्माद्द्रव्यपलं वैद्याः पाचनेषु प्रयुञ्जते ॥
मात्रां तु वैद्याः क्वाथस्य पाययन्ति चतुष्पलाम् ।
क्रियमाणः प्रसिद्धो ऽयं पारम्पर्यागतो विधिः ॥
वाधितुं शक्यते नैव ज्ञापकं चात्र विद्यते ।
पलं वत्सकबीजस्य श्रपयित्वा रसं पिबेत् ॥
आचार्यचरकेणैवमतिसारे तु भाषितम् ।
पटोलाद्ये कषाये च क्वाथ्यद्रव्यपलं कृतम् ॥
चतुर्गुणेन तोयेन पचेद्द्रव्यपले सति ।
चतुर्भागावशेषं तु पेयं क्वाथपलं भवेत् ॥
शास्त्रे कुष्ठे च मात्रा सा महती सम्प्रकाशिता ।
चतुष्पला कषायस्य मात्रा या भिषजां मता ॥
पले चतुर्गुणजले सा मात्रा न प्रसिध्यति ।
एवं सति च साध्यं स्याद्भेषजानां चतुष्पलम् ॥
चतुष्पलस्य द्रव्यस्य क्वथितस्य चतुर्गुणे ।
तोये चतुर्थशेषस्य पेयः क्वाथश्चतुष्पलः ॥
भट्टारहरिचन्द्रेण खरणादे प्रकीर्तिता ।
पातव्या षट्पला मात्रा तस्य द्रव्यपलानि षट् ॥
क्वाथानि संप्रयुज्यन्ते जलं द्रव्याच्चतुर्गुणम् ।
पटोलाद्ये च तेनापि क्वाथ्यद्रव्यपलं कृतम् ॥
खरणादकृता मात्रा पेया तेनैव षट्पला ।
परस्परविरुद्धं तत्तस्याप्येतत् प्रयुज्यते ॥
अप्रसिद्धो विधिश्चायं कषायस्य ज्वरादिषु ।
न षट्पलानि क्वाथ्यन्ते न च तोयं चतुर्गुणम् ॥
चतुर्गुणोदका तस्मात् परिभाषा न युज्यते ।
ज्वरादीनां कषायेषु स्नेहेष्वेव हि सा मता ॥
कृष्णात्रेयमुनिप्रोक्ता या षोडशगुणोदका ।
ज्वरादिषु कषायाणां ग्रहणं क्रियते तया ॥
चतुर्गुणोदका यापि परिभाषोपदिश्यते ।
तत्रापि हि विशेषो ऽयमन्यः कैश्चिदुपाश्रितः ॥
स्नेहेषु पलनिर्देशो येषु न विद्यते ।
प्रस्थव्यपेक्षया चात्र सङ्ख्येयमुदकौषधम् ॥
पलव्यपेक्षया चापि समाचारो द्विधा अपि ।
पूर्वं प्रस्थव्यपेक्षा या प्रोक्ता विज्ञापके सति ॥
द्रव्याणां पलनिर्देशो यत्रोक्तो मिश्रके तथा ।
पलव्यपेक्षयैवात्र तोयमेवं चतुर्गुणम् ॥
प्रदेशान्तरनिर्देशाच्चरके ऽप्यनुमीयते ।
कषायमात्रा पातव्या यद्यप्यपरिभाषिता ॥
स्वर्णक्षीर्यादिके योगे पाण्डुरोगचिकित्सिते ।
पातव्या कथिता मात्रा गोमूत्रेण चतुष्पला ॥
रोहिणीकटुकादीनां पित्तगुल्मचिकित्सिते ।
घृतं मुक्त्वा कषायस्य प्रोक्ता मात्रा चतुष्पला ॥
अतो ऽनुमानाच्चरके सिद्धा मात्रा चतुष्पला ।
द्रव्याणां च पलं क्वाथ्यं पटोलाद्ये प्रकीर्तितम् ॥
पलं वत्सकबीजस्य निर्दिष्टं चातिसारिके ।
तत् षोडशगुणे तोये यदि न क्वाथ्यते ततः ॥
चतुर्गुणोदके तोये पेयं क्वाथपलं भवेत् ।
इत्येतत् षोडशगुणं तोयं यत्र प्रयुज्यते ॥
एषैव चरकस्यापि परिभाषानुमीयते ।
पातव्येषु कषायेषु मुस्तपर्पटकादिषु ॥
विशेषः कथ्यते ऽन्यो ऽपि माने शुष्कद्रवाश्रये ।
शुष्कद्रव्याश्रयं मानं निर्दिश्य यदुदाहृतम् ॥
द्रवेषु द्विगुणं मानं सद्यश्चैवोद्धृतेषु च ।
द्विगुणं मानमित्येतदारभ्य कुडवादिति ॥
शुष्काणां च द्रवाणां च समं तु कुडवादधः ।
तुलायामपि नैवेष्टा द्विगुणा मानकल्पना ॥
तुलापलशतं चैव तच्छ्रुष्कद्रवयोर्मतम् ।
पलं चतुर्गुणं चेष्टं प्रसिद्धज्ञापकादिकम् ॥
सहाचरतुलायास्तु रसे तैलाढकं पचेत् ।
यदुक्तं शतमेवात्र पलानां परिगृह्यते ॥
चतुःसुवर्णमेतच्च पलं नाष्टसुवर्णकम् ।
द्रव्यस्य द्विगुणत्वे स्यात् पलमष्टसुवर्णकम् ॥
नैवाञ्जलौ न प्रसृते न पले न पलादधः ।
द्रवाणामौषधानां हि द्विगुणं मानमिष्यते ॥
द्विगुणत्वे द्रवेषु स्यात् पलमष्टसुवणकम् ।
तेनैषां द्विगुणत्वेन क्रियामार्गो विरुध्यते ॥
कुडवाद्यासु संज्ञासु द्रवाणां द्विगुणो विधिः ।
विद्यते ज्ञापकं चात्र चरकाचार्यदर्शितम् ॥
स्पष्टार्थमेव पठितमिदं कुष्ठचिकित्सिते ।
सलिलाढके ऽष्टभागे शेषे पूतो रसो ग्राह्यः ॥
ते च कषायाष्टपले चतुष्पलं सर्पिषश्च पक्तव्यम् ।
यावत्स्यादष्टपलं शेषं पेयं ततः कोष्णमिति ॥
अष्टभागावशेषे तु पलानामष्टकद्वयम् ।
पलस्य द्विगुणे माने क्रियमाणे न युज्यते ॥
द्विगुणे हि पले तत् स्यादेकमेव पलाष्टकम् ।
चतुष्पलं च दातव्यं यत् प्रोक्तं सह सर्पिसा ॥
पलस्य द्विगुणे माने तदप्यष्टपलं भवेत् ।
चतुःसुवर्णं हि पलं शुष्काणामिष्यते यतः ॥
द्विगुणत्वात् द्रवाणां हि तत् स्यादष्टसुवर्णकम् ।
निरूहमात्रानिर्देश एवं सति च बाध्यते ॥
प्रसृतार्धं समारभ्य द्वादश प्रसृताः परम् ।
एषा मात्रा द्विगुणिता द्विगुणे प्रसृते भवेत् ॥
निरूहमात्रा शास्त्रोक्ता द्वादशप्रसृतास्तथा ।
चत्वारिंशत् पलानि स्युरष्टाभिरधिकानि च ॥
व्याध्यादिषु तु मध्येषु क्वाथस्याञ्जलिरिष्यते ।
अत्र सुश्रुतनिदशे क्वाथो ऽयं द्विगुणो भवेत् ॥
स्वरसात् क्वथिताच्छीतात् कषायात् षट्पलं पिबेत् ।
यदुक्तं खरणादेन तद्द्वादशपलं भवेत् ॥
पैत्तिके पठ्यते गुल्मे सर्पिषश्च चतुष्पलम् ।
पिबेत् संमूर्छितं तेन गुल्मः शाम्यति पैत्तिकः ॥
चतुष्पलं घृतस्येदं मात्राप्यष्टपलं भवेत् ।
स्वर्णक्षीर्यादिके योगे गोमूत्राञ्जलिरिष्यते ॥
अञ्जलेर्द्विगुणत्वाद्धि मात्रा साष्टपला भवेत् ।
गौल्मिके त्रायमाणाद्ये घृते च परिपठ्यते ॥
रसस्यामलकेक्षूणां क्षीरस्य च घृतस्य च ।
पलानि पृथगष्टाष्टौ कृत्वा सम्यग्विपाचयेत् ॥
अष्टौ प्रत्येकमेतानि स्युः षोडश पलानि तु ।
तस्मादेवंप्रकारेषु निर्देशेषु विरुध्यते ॥
द्रवाणां द्विगुणं मानं तत्कार्यं कुडवादिषु ।
आर्द्रेष्वपि न सर्वेषु सद्यस्तेषूद्घृतेषु च ॥
द्विगुणं मानमिच्छन्ति विशेषो ऽत्र च कल्प्यते ।
शुष्काणि विनियुज्यन्ते दशमूलादिकानि हि ॥
तेष्वेव द्विगुणं मानं न सर्वेषूद्घृतेषु हि ।
आर्द्राणामेव येषां तु प्रसिद्धिमुपकल्पयेत् ॥
वासाघृते वृषघृते तैले साहचरे तथा ।
आर्द्राणां द्विगुणं मानमेवमादिषु नेष्यते ॥
आर्द्राणामेव तेषां हि प्रयोगः शस्यते यतः ।
शतावरीमूलतुलाश्चतस्रो याः प्रकीर्तिताः ॥
नै तत्र द्विगुणं मानं भिषग्भिः कैश्चिदाश्रितम् ।
वद्यबुद्धिविकासार्थमिदमन्यत् प्रकाश्यते ॥
क्वाथ्यानामौषधानां हि प्रमाणं यत्र नोदितम् ।
चतुर्गुणं च निर्दिष्टमन्यत् क्षीरादिकं द्रवम् ॥
कषायो ऽप्यौषधानां हि तत्र कार्यश्चतुर्गुणः ।
उदाहरणमत्रेष्टं महाकल्याणकं घृतम् ॥
एवमेवौषधानां हि प्रमाणं यत्र नोदितम् ।
द्विगुणं चापि निर्दिष्टमन्यत् क्षीरादिकं द्रवम् ॥
कषायो ऽप्यौषधानां हि द्विगुणस्तत्र युज्यते ।
वासादिकं ज्वरे प्रोक्तमत्रोदाहरणं स्मृतम् ॥
निर्दिष्टं क्षीरमन्यद्वा द्रवं यत्र चतुर्गुणम् ।
क्वाथौषधानां मानं च प्रोक्तं नोक्तं जलस्य तु ॥
तत्रोषधिवशादेव सङ्ख्या क्वाथस्य गम्यते ।
चतुर्गुणोदका तत्र परिभाषा यदीष्यते ॥
ततो द्रव्यसमस्तत्र कषायः परिकल्प्यते ।
यदा तु परिभाषेष्टा या षोडशगुणोदका ॥
चतुर्थशेषः क्वाथः स्यात्ततो द्रव्याच्चतुर्गुणः ।
अत्र साहचरं तैलमुदाहरणामिष्यते ॥
यत्रौषधं कषायो ऽपि द्रवं क्षीरादिकं त्रयम् ।
प्रमाणं तु तथा नोक्तं स्नेहस्योक्तं न वा भवेत् ॥
तुल्यं क्वाथेन दातव्यं तत्र क्षीरादिकं द्रवम् ।
कर्तव्यं च तथा तत् स्याद्यथा स्नेहाच्चतुर्गुणम् ॥
गौल्मिको मिश्रकस्नेह उदाहरणमत्र हि ।
एवं वै द्विगुणे स्नेहात् त्रिगुणे च प्रकीर्तिते ॥
क्षीरादिके द्रवे कार्यं कषायग्रहणं तथा ।
यथा कषायसहितं द्रवं स्यात्तच्चतुर्गुणम् ॥
अत्रोदाहरणं तत् स्याद्यथास्नेहाच्चतुर्गुणः ।
कषायः पठ्यते यत्र प्रमाणं चास्य नोदितम् ॥
चतुर्गुणं वाप्यधिकं प्रोक्तं क्षीरादिकं द्रवम् ।
तत्रापि च प्रयोक्तव्यं स्नेहात् क्वाथं चतुर्गुणम् ॥
पञ्चमूलकषायेण पिण्याकं बहुवार्षिकम् ।
पठ्यते वातरोगे तदुदाहरणमत्र हि ॥
बहूनि यत्र पठ्यन्ते क्वचित् स्नेहे द्रवाणि हि ।
बहूनामपि तेषां च परिमाणं न पठ्यते ॥
सर्वेषां समुदायः स्यात्तत्र स्नेहाच्चतुर्गुणः ।
स्नेहपाकविधिं केचिदेवं समनुचक्षते ॥
बहुष्वेकैकमिच्छन्ति केचित्तत्र समं द्रवम् ।
इत्येवं मतभेदात्तु यथा क्वाथविधौ तथा ॥
चतुर्गुणोदकः पक्षो यदा तत्र समाश्रितः ।
बहुद्रव्यं किल स्नेहो वीर्यवाञ्छतपाकवत् ॥
अनयैवोपपत्या तु समुदायं चतुर्गुणम् ।
नेच्छन्ति केचित् प्रत्येकमाहुः स्नेहसमं द्रवम् ॥
ग्रहणीरौगिके स्नेहे पञ्चमूलाभयादिके ।
शुक्तेन मातुलुङ्गस्य स्वरसेनैवमादितः ॥
उदाहरणमत्रास्ति यो वाप्यन्यो बहुद्रवः ।
श्लोकैरेषोणुतैलस्य कथ्यते पाकसंविधिः ॥
यस्य साधयितुं तैलं यावन्मात्रमभीप्सितम् ।
तत्रौषधानि तावन्ति दत्वा तोयं चतुर्गुणम् ॥
कषायार्थं विपच्यन्ते यः कषायश्चतुर्गुणः ।
यावन्मात्रस्य तैलस्य दद्यात् पादावशेषितम् ॥
यावन्मात्रमसौ तैलात् कषायो नावतार्यते ।
चतुर्गुणो ऽत्र किं तर्हि पाक्याद्दशगुणः कृतः ॥
चतुर्गुणेन तोयेन प्राप्तानि परिभाषया ।
क्वाथ्यानि यानि तान्यत्र पाक्याः शतगुणे जले ॥
क्वाथ्यन्ते परिभाषा तु शास्त्रवाक्येन बाधिता ।
इत्येवमणुतैलस्य कर्तव्यं सम्प्रसाधनम् ॥
गद्योक्तो यः पुनः श्लोकैरर्थः समनुगीयते ।
तद्व्यक्तिव्यवसायार्थं द्विरुक्तिः सा न गर्ह्यते ।
प्रागुक्तो ऽपि मयार्थो यः श्लोकैस्तस्मात् प्रकाशितः ॥
]
मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0