भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गसंग्रह · अध्याय 5.8

5.8.1

अथातो भेषजकल्पं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥

5.8.2

जाङ्गले साधारणे वा देशे यथाकालं शिशिरातपपवनसलिलसेविते समे शुचौ प्रदक्षिणोदके श्मशानचैत्यदेवयजनागारसभाश्वभ्रारामवल्मीकोषरविरहिते कुशरोहिषास्तीर्णे स्निग्धकृष्णसुवर्णमधुरसुरभिमृत्तिके मृदावफालकृष्टेनुपहतेन्यैर्बल्वत्तरैर्द्रुमैर्भेषजानि प्रशस्यन्त इति सामान्यतो भूमिपरीक्षा ॥

5.8.3

विशेषतस्त्वश्मवती स्थिरा गुर्वी श्यामा कृष्णा स्थूलतृणवृक्षसस्यप्राया स्वगुणभूयिष्ठा ।
स्निग्धा शीतलासन्नोदका स्निग्धतृणसस्यकोमलवृक्षप्राया शुक्लाचाम्बुगुणभूयिष्ठा ।
नानावर्णलघ्वल्पपुष्पवती प्रविरलपाण्डुवृक्षप्ररोहाग्निगुणभूयिष्ठा ।
रूक्षा रासभभस्मवर्णा रूक्षतनुकोटरवृक्षप्रायाल्परसप्ररोहानिलगुणभूयिष्ठा ।
मृद्वी समा श्वभ्रवत्यव्यक्तरसजला महापर्वतवृक्षा श्यामा चाकाशगुणभूयिष्ठा ।
तत्राम्बुपृथिवीगुणभूयिष्ठासु भूमिषु जातानि विरेचनानि बृंहणानि च शस्यन्ते ।
अनलानिलाकाशगुणभूयिष्ठासु वमनानि ।
सर्वगुणयुक्तासूभयतोभागानि ।
आकाशगुणभूयिष्ठासु शमनानि ।
एवं बलवत्तमानि भवन्ति ॥

5.8.4

तत्र यानि कालजान्युपगतसम्पूर्णप्रमाणरसवीर्यगन्धानि कालातपाग्निसलिलपवनशस्त्रजन्तुभिरनुपहतगन्धवर्णरसस्पर्शप्रभावान्यवगाढमूलान्युदीच्यां दिशि स्थितानि ।
तेषां शाखापलाशमचिरप्ररूढं वर्षावसन्तयोर्ग्राह्यम् ।
ग्रीष्मे मूलानि शिशिरे वा शीर्णप्ररूढपर्णानाम् ।
शरदि त्वक्कन्दक्षीराणि ।
हेमन्ते साराणि ।
यथर्तु पुष्पफलम् ॥

5.8.5

अन्ये पुनराहुः सौम्यान्यौषधानि सौम्येष्वृतुष्वाग्नेयान्याग्नेयेषु ।
एवमव्यापन्नान्यापूर्णतररसवीर्याणि च भवन्ति ॥

5.8.6

अथ मङ्गलाचारः कल्याणवृत्तः शुचिः शुक्लवासाः सम्पूज्य च देवतामश्विनौ गोब्राह्मणांश्च कृतोपवासः प्राङ्मुख उदङ्मुखो वा गृह्णीयात् ।
गृहीत्वा चानुरूपगुणवद्भाजनसंस्थान्यगारेषु पूर्वोत्तरद्वारेषु निवातप्रवातैकदेशेषु नित्यपुष्पोपहारबलिकर्मवत्स्वग्निसलिलोपस्वेदधूमरजोमूषिकचतुष्पदामनभिगमनीयानि स्ववच्छन्नानि शिक्येष्वासज्य स्थापयेत् ॥

5.8.7

तानि सक्षीराण्युपकल्पयेत् ।
तदसम्पत्तावनतिक्रान्तवत्सराणि ।
पुराणानि तु पिप्पलीविडङ्गगुडमधुघृतानि ॥

5.8.8

अपि च ।
क्षीरं बाष्कयणं ग्राह्यं विण्मूत्रं तच्च नीरुजाम् ।
वयोबलवतां धातुपिच्छशृङ्गखुरादिकम् ॥

5.8.9

पञ्चविधस्तु भेषजानां कषायकल्पः ।
निर्यासः कल्को निर्यूहः शीतः फाण्टश्च ।
ते यथापूर्वं बलिनः ॥

5.8.10

तत्र सद्यःसमुद्धृतप्रक्षालितक्षुण्णस्य तान्तवनिष्पीडितस्य स्वरसो निर्यासः ।
उपलदशनादिपिष्टस्तु कल्कः ।
शुष्कपिष्टः सूक्ष्मतान्तवपटच्युतश्चूर्णः ।
तस्य समस्तद्रव्यापरित्यागादाप्लुतोपयोगाच्च कल्कादभेदः ।
क्वाथो निर्यूहः ॥

5.8.11

तत्र भेद्यान्यौषधान्यणुशो भेदयित्वा छेदयित्वा छेदयानि प्रक्षाल्योदकेन शुचौरूक्षायामधःप्रलिप्तायां ताम्रायोमृन्मयान्यतमायां स्थाल्यां समावाप्य बह्वल्पपानीयग्राहितामौषधानामाकलय्य यावता मुक्तरसता स्यात् तावदुदकमासेचयेच्छोषयेच्च ।
अथाग्नावधिश्रित्य महत्यासने सुखोपविष्टः सर्वतः सततमवलोकयन् दर्व्यावघट्टयन् मृदुना परितः समुपगच्छतानलेन साधयेत् ।
अवतार्य च परिस्रुतं यथार्हस्पर्शं प्रयुञ्जीत ॥

5.8.12

क्षीरादिसहितं च द्रव्यं न सम्यङ्मुक्तरसं भवतीति वारिक्वाथपूर्वकं क्षीराद्यैस्तदुपदेशे अनुपदग्धं क्वाथयेत् ॥

5.8.13

शीतसलिलाप्लुतस्तु निशापर्युषितपूतः शीतः ।
उष्णाम्भसि क्षुण्णाभिषुतपूतः फाण्टः ॥

5.8.14

तत्र सम्यग्रसवीर्यादीन्यौषधस्य समीक्ष्य व्याध्यातुरादिबलतश्च निर्यासादीनां कल्पनां मात्रां च संश्रयेत् ॥

5.8.15

तथा च केचिदाहुः ।
मात्राया न व्यवस्थास्ति व्याधिं कोष्ठं बलं वयः ।
आलोच्य देशकालौ च योज्या तद्वच्च कल्पना ॥

5.8.16

इत्यलमेतदुपदिष्टं बुद्धिमतां ज्ञानप्रबोधाय ।
यथा तु सर्वभिषजो विज्ञास्यन्ति तथोपदेक्ष्यते ।
निर्यासस्य मध्यमा मात्रा चतुष्पलम् ।
कल्कचूर्णयोः कर्षः पलत्रयं तदालोडने ॥

5.8.17

निर्यूहे भेषजपलमुदकार्धप्रस्थे ऽधिश्रित्य पादशेषितमवतारयेत् ॥

5.8.18

शीतफाण्टयोरौषधपलं षट्चतुर्भिरम्बुपलैरासुतमिति ॥

5.8.19

स्नेहपाके त्वनिर्दिष्टप्रमाणे समुदितस्य द्रवस्य पादेन स्नेहो योज्यस्तत्पादेन कल्कः ॥

5.8.20

अन्ये पुनः पठन्ति ।
स्नेहपाके त्वमानोक्तौ चतुर्गुणविवर्धितम् ।
कल्कस्नेहद्रवं योज्यमधीते शौनकः पुनः ॥

5.8.21

स्नेहे सिध्यति शुद्धाम्बुनिष्क्वाथस्वरसैः क्रमात् ।
कल्कस्य योजयेदंशं चतुर्थं षष्ठमष्टमम् ॥

5.8.22

पञ्चप्रभृति तु द्रवं पृथक् स्नेहसममेवावपेत् ।
अनिरूपितकल्पनं च भैषज्यं कल्कीकुर्यात् ।
अथैकध्यं प्रतिसंसृज्याधिश्रित्य च निर्यूहवत्साधयेत् ॥

5.8.23

तत्र यदा विरमति शब्दः प्रसादमापद्यते स्नेहो यथास्वं वर्णगन्धरसोत्पत्तिर्भैषज्यमङ्गुलीभ्यां मृद्यमानमनतिमृद्वनतिदारुणमनङ्गुलिग्राहि च स्यात् ।
स कालस्तस्यावतरणाय ॥

5.8.24

अपि च ।
घृतस्य फेनोपशमस्तैलस्य तु तदुद्भवः ।
लेहस्य तन्तुमत्ताप्सु मज्जनं सरणं न च ॥

5.8.25

अथावतार्य शीतीभूतमहतेन वाससा परिपूय शुचौ दृढे कलशे समासिच्यापिधानेन पिधाय शुक्लेन वस्त्रपट्टेनावच्छाद्य सूत्रेण सुबद्धं स्वनुगुप्तं शुचौ देशे सुस्थितं स्थापयेत् ॥

5.8.26

परिमाणं पुनः षड्वंश्यो मरीचिः ।
ताः षट्सर्षपः ।
ते ऽष्टौ तण्डुलः ।
तौ धान्यमाषः ।
तौ यवः ।
अतः परं चतुर्गुणवृध्याण्डिकामाषकशाणकर्षपलकुडवप्रस्थाढकद्रोणवहाः कल्प्यन्ते ।
धरणं तु पलस्य दशमो भागः ।
माषकस्य पर्यायो हेमो धानकश्च ।
शाणद्वयस्य पर्यायो द्रङ्क्षणः कोलो वटकश्र ।
कर्षस्य सुवर्णमक्षं पिचुर्बिडालपदकं पाणितलं तिन्दुकं कवलग्रहः षोडशिका च ।
कर्षद्वयस्य शुक्तिरष्टमिका च ।
पलस्य मुष्टिः प्रकुञ्चश्चतुर्थिका बिल्वमाम्रं च ।
पलद्वयस्य प्रसृतो ऽष्टमानं च ।
कुडवस्याञ्जलिः ।
कुडवद्वयस्य मानिका ।
आढकस्य पात्रं कंसश्च ।
द्रोणस्य नल्वणार्मणोन्मानघटकुम्भकलशाः ।
द्रोणद्वयस्य शूर्पः ।
तुला पुनः पलशतं तानि विंशतिर्भार इति ।
भवति चात्र ॥

5.8.27

शुष्कमेयेष्विदं मानं द्विगुणं तु द्रवार्द्रयोः ॥

5.8.28

पेषणालोडने वारि स्नेहपाके च निर्द्रवे ॥

5.8.29

कल्पयेत्सदृशान् भागान् प्रमाणं यत्र नोदितम् ॥

5.8.30

अनिर्दिष्टाप्रसिद्धेषु मूलं ग्राह्यं त्वगादिषु ॥

5.8.31

स्नेहपाकस्त्रिधा मन्दश्चिक्कणः खरचिक्कणः ।
मन्दः कल्कसमे किट्टे चिक्कणो मदनोपमे ॥

5.8.32

किञ्चित् सीदति कृष्णे च वर्त्यमाने तु पश्चिमः ।
दग्धो ऽतौर्ध्वं निष्कार्यः स्यादामस्त्वग्निसादकृत् ।
मृदुर्नस्ये खरो ऽभ्यङ्गे पाने बस्तौ च चिक्कणः ॥

5.8.33

हिमवद्विन्ध्यशैलाभ्यां प्रायो व्याप्ता वसुन्धरा ।
सौम्यं पथ्यं च तत्राद्यमाग्नेयं वैन्ध्यमौषधम् ॥

मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc