भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गसंग्रह · अध्याय 5.7

5.7.1

अथातः स्नेहादिव्यापत्सिद्धिं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥

5.7.2

स्नेहबस्तौ मरुत्पित्तकफात्याशाविडावृते ।
अभुक्ते शूनपाय्वामदत्ते ऽष्टौ व्यापदः स्मृताः ॥

5.7.3

शीतो ऽल्पो वाधिके वाते पित्तेत्युष्णः कफे मृदुः ।
अतिभुक्ते गुरुर्वर्चःसञ्चये ऽल्पबलस्तथा ।
दत्तस्तैरावृतः स्नेहो नायात्यभिभवादपि ॥

5.7.4

स्तम्भोरुसदनाध्मानज्वरशूलाङ्गमर्दनैः ।
पार्श्वरुग्वेष्टनैर्विद्याद्वायुना स्नेहमावृतम् ॥

5.7.5

स्निग्धाम्ललवणोष्णैस्तं रास्नापीतद्रुतैलिकैः ।
सौवीरकसुराकोलकुलत्थयवसाधितैः ॥

5.7.6

निरूहैर्निर्हरेत् सम्यक् समूत्रैः पाञ्चमूलिकैः ।
ताभ्यामेव च तैलाभ्यां सायं भुक्ते ऽनुवासयेत् ॥

5.7.7

तृड्दाहरागसम्मोहवैवर्ण्यतमकज्वरैः ।
विद्यात् पित्तावृतं स्वादुतिक्तैस्तं बस्तिभिर्हरेत् ॥

5.7.8

तन्द्राशीतज्वरालस्यप्रसेकारुचिगौरवैः ।
समूर्छाग्लानिभिर्विद्याच्छ्लेष्मणा स्नेहमावृतम् ॥

5.7.9

कषायतिक्तकटुकैः सुरामूत्रोपसाधितैः ।
फलतैलयुतैः साम्लैर्बस्तिभिस्तं विनिर्हरेत् ॥

5.7.10

छर्दिमूर्छारुचिग्लानिशूलनिद्राङ्गमर्दनैः ।
आमलिङ्गैः सदाहैस्तं विद्यादत्यशनावृतम् ॥

5.7.11

कटूनां लवणानां च क्वाथैश्चूर्णैश्च पाचनम् ।
मृदुर्विरेकः सर्वं च तत्रामविहितं हितम् ॥

5.7.12

विण्मूत्रानिलसङ्गार्तिगुरुत्वाध्मानहृद्ग्रहैः ।
स्नेहं विडावृतं ज्ञात्वा स्नेहस्वेदैः सबस्तिभिः ॥

5.7.13

श्यामाबिल्वादिसिद्धैश्च निरूहैः सानुवासनैः ।
निर्हरेद्विधिना सम्यगुदावर्तहरेण च ॥

5.7.14

अभुक्ते शूनपायोर्वा पेयामात्राशितस्य वा ।
गुदे प्रणिहितः स्नेहो वेगाद्धावत्यनावृतः ।
ऊर्ध्वकायं ततः कण्ठादूर्ध्वेभ्यः खेभ्य एत्यपि ॥

5.7.15

मूत्रश्यामात्रिवृत्सिद्धो यवकोलकुलत्थवान् ।
तत्सिद्धतैलो देयः स्यान्निरूहः सानुवासनः ॥

5.7.16

कण्ठादागच्छतः स्तम्भकण्ठग्रहविरेचनैः ।
छर्दिघ्नीभिः क्रियाभिश्च तस्य कुर्यान्निवर्तनम् ॥

5.7.17

नापक्वं प्रणयेत् स्नेहं गुदं स ह्युपलिम्पति ।
ततः कुर्यात् सरुङ्मोहकण्डूशोफान् क्रियात्र च ।
तीक्ष्णो बस्तिस्तथा तैलमर्कपत्ररसे शृतम् ॥

5.7.18

ह्रस्वं दीर्घं तनु स्थूलं जीर्णं शिथिलबन्धनम् ।
पार्श्वच्छिद्रं तथा वक्रमष्टौ नेत्राणि वर्जयेत् ॥

5.7.19

अप्राप्त्यतिगतिक्षोभकर्षणनस्रवाः ।
गुडपीडा गतिर्जिह्मा तेषां दोषा यथाक्रमम् ॥

5.7.20

मांसलस्निग्धविषमजालवत्स्थूलवातलः ।
छिन्नः क्लिन्नश्च तानष्टौ बस्तीन् कर्मसु वर्जयेत् ॥

5.7.21

गतिवैषम्यदौर्गन्ध्यजिह्मत्वस्रुतिदुर्ग्रहाः ।
फेनिलच्युत्यधार्यत्वं बस्तेः स्युर्बस्तिदोषतः ॥

5.7.22

उच्चकैरत्यवाक्शीर्षं न्युब्जं सङ्कुचितं स्थितम् ।
उत्तानं दक्षिणं पार्श्वं सप्त शय्याः परित्यजेत् ॥

5.7.23

मूत्राघातो ऽतिसम्प्राप्तिरप्राप्तिः साधुनागतिः ।
आश्वागतिर्मरुत्कोपस्तृप्तिः पक्वाशयस्य च ।
तद्दोषाः स्युर्विधातव्यं यथौपयिकमत्र च ॥

5.7.24

सवातातिद्रुतोत्क्षिप्ततिर्यगुल्लुप्तकम्पिताः ।
अतिमन्दकबाह्यातिवेगदोषाः प्रणेतृतः ॥

5.7.25

अनुच्छ्रवास्य तु बद्धे वा दत्ते निःशेष एव वा ।
प्रविश्य क्षुभितो वायुः शूलतोदकरो भवेत् ।
तत्राभ्यङ्गो गुदे स्वेदो वातघ्नान्यशनानि च ॥

5.7.26

द्रुतं प्रणीते निष्कृष्टे सहसोत्क्षिप्त एव वा ।
स्यात् कटीगुदजङ्क्षोरुबस्तिस्तम्भार्तिभेदनम् ॥
भोजनं तत्र वातघ्नं स्वेदाभ्यङ्गाः सबस्तयः ॥

5.7.27

तिर्यग्वल्यावृते द्वारे बद्धे वापि न गच्छति ।
नेत्रे तदृजु निष्कृष्य संशोध्य च पुनर्नयेत् ॥

5.7.28

पीड्यमाने ऽन्तरामुक्ते गुदे प्रतिहतो ऽनिलः ।
उरः शिरोरुजं सादमूर्वोश्च जनयेद्बली ।
बस्तिःस्यात्तत्रबिल्वादिः फलश्यामादिमूत्रवान् ॥

5.7.29

स्याद्दाहो दवथुः शोफः कम्पेनाभिहते गुदे ।
कषायमधुराः शीताः सेकास्तत्र सबस्तयः ॥

5.7.30

अतिमात्रप्रणीतेन नेत्रेण क्षणनाद्वलेः ।
स्यात् सार्तिदाहनिस्तोदगुरुवर्चःप्रवर्तनम् ।
तत्र सर्पिः पिचुः क्षीरं पिच्छाबस्तिश्च शस्यते ॥

5.7.31

न भावयति मन्दस्तु बाह्यश्चाशु निवर्तते ।
स्नेहस्तत्र पुनः सम्यक् प्रणेयः सिद्धिमिच्छता ॥

5.7.32

अतिप्रपीडितः कोष्ठे तिष्ठत्यायाति वा गलम् ।
तत्र बस्तिर्विरेकश्च गलपीडादि कर्म च ॥

5.7.33

वमनाद्यैर्विशुद्धं च क्षामदेहबलानलम् ।
यथाण्डं तरुणं पूर्णं तैलपात्रं यथा तथा ।
भिषक् प्रयत्नतो रक्षेत् सर्वस्मादपचारतः ॥

5.7.34

दद्यान्मधुरहृद्यानि ततो ऽम्ललवणौ रसौ ।
स्वादुतिक्तौ ततो भूयः कषायकटुकौ ततः ॥

5.7.35

अन्योन्यप्रत्यनीकानां रसानां स्निग्धरूक्षयोः ।
व्यत्यासादुपयोगेन क्रमात्तं प्रकृतिं नयेत् ।
सर्वंसहः स्थिरबलो विज्ञेयः प्रकृतिं गतः ॥

5.7.36

अत्रान्तरे त्यजेदष्टौ भाष्यादीनि विशेषतः ।
उच्चैर्भाष्याच्छिरोरोगतिमिरोरःस्वरव्यथाः ॥

5.7.37

रक्तनिष्ठीवतमकज्वराद्यास्तत्र साधनम् ।
अभ्यङ्गस्वेदनस्याधोभक्तस्नेहोपसेवनम् ।
मौनं विधिर्वातहरो यथास्वं च विकारजित् ॥

5.7.38

अत्यास्यायानयानाभ्यां सन्धिमूर्धत्रिकादिरुक् ।
अतिचङ्क्रमणात् पादजङ्क्षोरुसदनादयः ॥

5.7.39

तेषां वातहरं सर्वं स्नेहस्वेदादि शस्यते ।
अजीर्णभोजनादामविषच्छर्दिज्वरादयः ॥

5.7.40

तत्र मात्राशितीयोक्तो विधेयो विधिरामहा ।
अहितान्नाद्यथादोषं रोगाः स्युर्भेषजानि च ॥

5.7.41

हलीमकादयः प्रोक्ता दिवास्वप्नात् पुरा गदाः ।
विदध्यात् कफजित्तेषु धूमरूक्षान्नलङ्क्षनम् ॥

5.7.42

व्यवायाज्जीवितभ्रंशस्तैस्तैरस्यानिलामयैः ।
गुदो ऽवलुप्यत इव भ्रमतीव च चेतना ॥

5.7.43

मेढ्रं धूमायति मनस्तमसीव प्रवेश्यते ।
जीवनीयशृतक्षीरसर्पिषोरुपसेवनम् ।
आहारो बृंहणस्तत्र वृष्यास्ते ते च बस्तयः ॥

5.7.44

वेगरोधोर्ध्ववातत्वात् प्रागुक्ता ये सदातुराः ।
तेषां विबद्धे पवने सर्वदेहोपतापित्नि ।
फलवर्तिं पुरा दद्यादथ बस्तिं चलापहम् ॥

5.7.45

निकुम्भकुम्भाग्न्युरुबूकधावनीपुनर्नवं दारु महच्च पञ्चकम् ।
फलं च मूत्रे क्वथितं समस्तु तत् घृतं सतैलं लवणानि पञ्च च ॥

5.7.46

निरूहितं धन्वरसेन भोजयेन्निकुम्भतैलेन ततो ऽनुवासयेत् ।
बलां सरास्नां फलबिल्वचित्रकान् द्विपञ्चमूलं कृतमालकात् फलम् ॥

5.7.47

यवान् कुलत्थांश्च पचेज्जले रसः समुस्तपाठेन्द्रयवैश्च कल्कवान् ।
सतैलसर्पिर्गुडसैन्धवो हितः सदातुराणां बलपुष्टिवर्णदः ॥

5.7.48

तथानुवास्यं मधुकेन साधितं फलेन बिल्वेन शताह्वयाथवा ।
सजीवनीयस्तु रसो ऽनुवासने निरूहणे चालवणः शिशोर्हितः ॥

5.7.49

निरूहबस्तेर्नैवान्यत् पथ्यं स्थविरबालयोः ।
बलाङ्गवर्धनं शीघ्रमादृतो योजयेदतः ॥

मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc