अष्टाङ्गसंग्रह · अध्याय 5.6
अथातो बस्तिव्यापत्सिद्धिं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥
विबन्धगौरवाध्मानशिरोरुग्वाहनोर्ध्वगाः ।
कुक्षिशूलाङ्गरुग्घिध्माहृत्पीडाकर्तनस्रवाः ।
अयोगादतियोगाच्च बस्तेः स्युः षट्षडापदः ॥
अस्निग्धस्विन्नदेहस्य गुरुकोष्ठस्य योजितः ।
शीतो ऽल्पस्नेहलवणद्रव्यमात्रो घनो ऽपि वा ॥
बस्तिः सङ्क्षोभ्य तं दोषं दुर्बलत्वादनिर्हरन् ।
करोति वातविण्मूत्रविबन्धमतिदारुणम् ॥
नाभिबस्तिरुनां दाहं हृल्लेपं श्वयथुं गुदे ।
कण्डूं गण्डानि वैवर्ण्यमरतिं वह्निमार्दवम् ॥
क्वाथद्वयं प्राग्विहितं मध्येदोषे ऽतिसारिणि ।
उष्णस्य तस्मादेकस्य तत्र पानं प्रशस्यते ।
फलवर्त्यस्तथा स्वेदाः कालं ज्ञात्वा विरेचनम् ॥
बिल्वमूलत्रिवृद्दारुयवकोलकुलत्थवान् ।
सुराविण्मूत्रवान् बस्तिः सप्राक्पेष्यस्तमानयेत् ॥
सशेषामे निरूहेण मृदुना दोष ईरितः ।
मूर्छयत्यनिलं मार्गं रुणद्ध्यग्निं हिनस्ति च ॥
गौरवक्लमहृच्छूलदाहसम्मोहवेष्टनम् ।
ततः कुर्यादुपचरेत्तं रूक्षस्वेदपाचनैः ॥
पिप्पलीकत्तृणोशीरदारुमूर्वाशृतं जलम् ।
पिबेत् सौवर्चलोन्मिश्रं दीपनं हृद्विशोधनम् ॥
वचानागरशठ्यो वा दधिमण्डेन मूर्छिताः ।
पेयाः प्रसन्नया वा स्युररिष्टेनासवेन वा ॥
दारुत्रिकटुकं पथ्यां पलाशं चित्रकं शठीम् ।
पिष्ट्वा कुष्ठं च मूत्रेण पिबेत् क्षारांश्च दीपनान् ।
बस्तिमस्य विदद्ध्याच्च समूत्रं दाशमूलिकम् ॥
युक्तो ऽल्पवीर्यो दोषाढ्ये रूक्षे क्रूराशये ऽथवा ।
बस्तिर्दोषावृतो रूद्धमार्गो रुन्ध्यात् समीरणम् ॥
सविमार्गो ऽनिलः कुर्यादाध्मानं मर्मपीडनम् ।
विदाहं गुदकोष्ठस्य मुष्कवङ्क्षणवेदनाम् ।
रूणद्धि हृदयं शूलैरितश्चेतश्च धावति ॥
स्वभ्यक्तस्विन्नगात्रस्य तत्र वर्तिं प्रयोजयेत् ।
बिल्वादिश्च निरूहः स्यात् पीलुसर्षपमूत्रवान् ।
सरलामरदारुभ्यां साधितं चानुवासनम् ॥
बहुदोषे ऽबले क्रूरकोष्ठे बस्तिस्तनुर्मृदुः ।
शीतो ऽल्पश्चावृतो दोषैः प्रतिहन्ति समीरणम् ॥
ऊर्ध्वं सो ऽनुसरन् देहं कुर्याद्वायुः शिरोरुजम् ।
ग्रीवास्तम्भं प्रतिश्यायं बाधिर्यं दृष्टिविभ्रमम् ॥
तमुष्णतैललवणप्रदिग्धं स्विन्नमर्दितम् ।
तीक्ष्णैर्धूमैः प्रधमनैर्नस्यैरास्यविरेचनैः ।
विरेकैर्बस्तिभिश्चाशु योज्येदानुलोमिकैः ॥
स्निग्धस्विन्ने महादोषे बस्तिर्मृद्वल्पभेषजः ।
उत्क्लेश्याल्पं हरेद्दोषं जनयेच्च प्रवाहिकाम् ॥
शोफं बस्तावपाने च सदनं चोरुजङ्क्षयोः ।
विबद्धमारुतो जन्तुरभीक्ष्णं स प्रवाहते ॥
स्वेदाभ्यङ्गनिरूहांश्च शोधनीयानुलोमिकान् ।
विदध्याल्लङ्क्षयित्वा च वृत्तिं तस्य विरिक्तवत् ॥
कुर्वतो वेगसंरोधं पीडितो वातिमात्रया ।
अस्निग्धलवणोष्णो वा बस्तिरल्पो ऽल्पभेषजः ॥
मृदुर्वा मारुतेनोर्ध्वं विक्षिप्तो मुखनासिकात् ।
निरेति मूर्छाहृल्लासतृड्दाहादीन् प्रवर्तयन् ॥
मूर्छाविकारं दृष्ट्वास्य सिञ्चेच्छीताम्बुना मुखम् ।
वीजेदाक्लमनाशाच्च प्राणायामं च कारयेत् ॥
पृष्ठपार्श्वोदरं मृद्यात् करैरुष्णैरधोमुखम् ।
केशेषूत्क्षिप्य धुन्वीत भाययेद्व्यालदंष्ट्रिभिः ।
शस्त्रोल्कारजपुरुषैर्बस्तिरेति तथा ह्यधः ॥
पाणिवस्त्रैर्गलापीडं कुर्यान्न म्रियते यथा ।
प्राणोदाननिरोधाद्धि सुप्रसिद्धतरायनः ।
अपानः पवनो बस्तिं तमाश्वेवापकर्षति ॥
कुष्ठक्रमुककल्कं च पाययेदम्लसंयुतम् ।
औष्ण्यात्तैक्ष्ण्यात् सरत्वाच्च बस्तिंतसोस्यानुलोमयेत् ।
गोमूत्रेण त्रिवृत्पथ्याकल्कं वाधोनुलोमनम् ॥
पक्वाशयस्थिते स्विन्ने निरूहो दाशमूलिकः ।
यवकोलकुलत्थैश्च विधेयो मूत्रसाधितैः ॥
बस्तिर्गोमूत्रसिद्धैर्वा सामृतावंशपल्लवैः ।
पूतीकरञ्जत्वक्पत्रशठीदेवाह्वरोहिषैः ।
सतैलगुडसिन्धूत्थो विरेकौषधकल्कवान् ॥
बिल्वादिपञ्चमूलेन सिद्धो बस्तिरुरःस्थिते ।
शिरस्थे नावनं धूमः प्रच्छाद्यं सर्षपैः शिरः ॥
बस्तिरत्युष्णतीक्ष्णाम्लघनो ऽति स्वेदितस्य वा ।
अल्पदोषे मृदौ कोष्ठे प्रयुक्तो वा पुनः पुनः ॥
अतियोगत्वमापन्नः कुक्षिशूलकरो भवेत् ।
विरेचनातियोगेन स तुल्याकृतिसाधनः ॥
पृश्निपर्णीं स्थिरां पद्मं काश्मर्यं मधुकोत्पले ।
पिष्ट्वा द्राक्षां मधूकं च क्षीरे तण्डुलधावने ॥
द्राक्षायाः पक्कलोष्टस्य प्रसादे मधुकस्य वा ।
विनीय सघृतं बस्तिं युञ्ज्याद्दाहे ऽतियोगजे ॥
स्नेहस्वेदैरसम्पाद्य गुरुतीक्ष्णो ऽतिमात्रकः ।
दुःस्थिताय प्रणिहितो बस्तिर्दुःशोधिताय वा ॥
अतिप्रवृत्तो मरुतं कोपयेत् स विमार्गगः ।
करोत्यङ्गरुजां जृम्भां स्तम्भं भेदं च पर्वणाम् ॥
तं तैललवणाभ्यक्तं स्वेदितं प्रस्तरादिभिः ।
बिल्वकोलयवैरण्डवषार्भूबृहतीद्वयःइ ॥
आस्थापयेत् ससिन्धूत्थैर्जाङ्गलैराशितं रसैः ।
तैलेनानिलजिद्द्रव्यविपक्वेनानुवासयेत् ॥
मृदुकोष्ठे ऽबले बस्तिरतितीक्ष्णो ऽतिनिर्हरन् ।
कुर्याद्धिध्मां हितं तत्र हिध्माघ्नं बृंहणं च यत् ॥
बलाबृहत्यादिवराकाश्मर्यफलसैन्धवैः ।
सप्रसन्नारनालाम्लैस्तैलं पक्त्वानुवासयेत् ॥
उष्णाम्बुनाक्षं पिप्पल्या दद्याल्लवणसंयुतम् ।
धूमलेहरसक्षीरस्वेदांश्चान्नं च वातजित् ॥
अतितीक्ष्णः सवातो वा न वा सम्यक्प्रपीडितः ।
घट्टयेद्धृदयं बस्तिस्तत्र काशकुशोत्कटैः ॥
स्यात् साम्ललवणस्कन्धकरीरबदरीनलैः ।
शृतैर्बस्तिर्हितः सिद्धो वातघ्नैश्चानुवासनम् ॥
मृदुकोष्ठाल्पदोषस्य रूक्षतीक्ष्णातिमात्रकः ।
हृत्वा बस्तिर्मलाञ्छीघ्रं वातपित्ते प्रकोपयेत् ॥
नाभिबस्तिगुदांस्ते हि कृन्ततो ऽस्य मुहुर्मुहुः ।
विवर्णाल्पाल्पमुत्थानं बस्तिनिर्लेखनाद्भवेत् ॥
स्वादुशीतौषधैस्तत्र पयस्येक्ष्वादिभिः शृतः ।
यष्ठ्याह्वतिलकल्केन बस्तिःस्यात् क्षीरभोजिनः ॥
ससर्जरसयष्ट्याह्वं जिङ्गणीकर्दमाञ्जनम् ।
विनीय दुग्धे बस्तिः स्याद्व्यक्ताम्लरसभोजिनः ।
पिच्छिलश्च हितो बस्तिः स्नेहश्च मधुरैः शृतः ॥
बस्तिःक्षाराम्लतीक्ष्णोष्णलवणः पैत्तिकस्य वा ।
गुदं लिखन् दहन् क्षिण्वन् करोत्यस्रपरिस्रवम् ॥
स विदग्धं स्रवत्यस्रं वर्णैः पित्तं च भूरिभिः ।
बहुशश्चातियोगेन मोहं गच्छति चासकृत् ॥
तत्रार्द्रैः शाल्मलीपत्रैः क्षुणैराजं पयः शृतम् ।
पूतं घृतान्वितं बस्तिं दद्यादन्यांश्च पिच्छिलान् ॥
वटादिपल्लवेष्वेवं कल्पो यवतिलेषु च ।
सुवर्चलोपोदकयोः कच्छुदारे च शस्यते ॥
गुदे च शीतमधुरान् कुर्यात् सेकप्रलेपनान् ।
रक्तपित्तातिसारघ्नी क्रिया चात्र प्रशस्यते ॥
दाहादिषु त्रिवृत्कल्कं मृद्वीकावारिणा पिबेत् ।
तद्धि पित्तशकृद्वातान् हत्वा दाहादिकान् जयेत् ॥
विशुद्धश्च पिबेच्छीतां यवागूं शर्करायुताम् ।
युञ्ज्याद्वातिविरिक्तस्य क्षीणविट्कस्य भोजनम् ।
माषयूषेण कुल्माषान् पानं दध्यथवा सुराम् ॥
आमं यः कुणपं रुग्वानुपवेश्येत सारुचिः ।
स घनातिविषाकुष्ठनतदारुवचाः पिबेत् ॥
शकृद्वातमसृक् पित्तं कफं वा यो ऽतिसार्यते ।
पक्वं तत्र स्ववर्गीयो बस्तिः शेष्ठं भिषग्जितम् ॥
षण्णामेषां द्विसंसर्गात्त्रिंशद्भेदा भवन्ति तु ।
केवलैः सहषट्त्रिंशद्विद्यात् सोपद्रवांश्च तान् ॥
शूलप्रवाहिकाध्मानपरिकर्तारुचिज्वरान् ।
तृण्मोहदाहमूर्छादींश्चैषां विद्यादुपद्रवान् ॥
तत्रामे ऽन्तरपानं तु कट्वम्ललवणैर्युतम् ।
पाचनं शस्यते बस्तिरामे हि प्रतिषिध्यते ॥
वातघ्नग्राहिवर्गीयो बस्तिः शकृति शस्यते ।
स्वाद्वम्लो व्यक्तलवणः स्नेहबस्तिः समीरणे ॥
रक्ते रक्तेन पित्ते तु कषायस्वादुतिक्तकः ।
सार्यमाणे कफे बस्तिः कषायकटुतिक्तकः ॥
शकृता वायुना वामे तेन वर्चसि वानिले ।
संसृष्टे ऽन्तरपानं स्यात् कट्वम्ललवणैर्युतम् ॥
पित्तेनामे ऽसृजा तद्वत् तयोरामेन वा पुनः ।
संसृष्टयोर्भवेत् पानं सकटुस्वादुतिक्तकम् ॥
तथामे कफसंसृष्टे कषायकटुतिक्तकम् ।
आमेन तु कफे युक्ते कषायलवणोषणम् ॥
वातेन विशि पित्ते वा विट्पित्तास्रैस्तथानिले ।
स्यात् कषायाम्लमधुरः संसृष्टे बस्तिरुत्तमः ।
बस्तिर्वातेन रक्ते तु कार्यः स्वाद्वम्लतिक्तकः ॥
शकृच्छोणितयोः पित्तशकृतोरस्रपित्तयोः ।
बस्तिरन्योन्यसंसर्गे कसायस्वादुतिक्तकः ॥
कफेन विशि पित्ते वा कफे विट्पित्तयोः ।
कटुतिक्तकषायः स्यात् संसृष्टे बस्तिरुत्तमः ॥
मधुरोषणतिक्तस्तु रक्ते कफविमूर्छिते ।
मारुते कफसंसृष्टे कट्वम्ललवणो भवेत् ।
स्याद्बस्तिः कटुतिक्ताम्लः संसृष्टे वायुना कफे ॥
त्रिचतुःपञ्चषड्योगानेवमेव विकल्पयेत् ।
युक्तिश्चैषातिसारोक्ता सर्वरोगेष्वपि स्मृता ॥
युगपत् षड्रसं षण्णां संसर्गे पाचनं भवेत् ।
निरामाणां तु पञ्चानां बस्तिः षड्सिको हितः ॥
उदुम्बरशलाटूनि जम्ब्वाम्रोदुम्बरत्वचः ।
शङ्खं सर्जरसं लाक्षां कत्तृणं च पलांशिकम् ॥
पिष्ट्वा तैः सर्पिषः प्रस्थं क्षीरद्विगुणितं पचेत् ।
अतीसारेषु सर्वेषु पेयमेतद्यथाबलम् ॥
कच्छुराधातकीबिल्वसमङ्गारक्तमूलिभिः ।
मसूराश्वत्थशुङ्गैश्च यवागूः स्याज्जले शृतैः ॥
बालोदुम्बरकट्वङ्गसमग्गाप्लक्षपल्लवैः ।
मसूरधातकीपुष्पबलाभिश्च तथा भवेत् ॥
नानाप्रकारा जायन्ते व्यापदो बस्तिविभ्रमात् ।
यथायथं यथावस्थं तासां कुर्वीत साधनम् ॥
मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0