भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गसंग्रह · अध्याय 5.5

5.5.1

अथातः सिद्धबस्तिकल्पं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ।
सिद्धबस्तीन् प्रयुञ्जीत सर्वदा सर्वदेहिनाम् ।
निर्व्यापदो बहुफलान् बलपुष्टिकरान् सुखान् ॥

5.5.2

मधुतैले समे कर्षः सन्धवात् द्विपचुर्मिसिः ।
एरण्डमूलक्वाथेन निरूहो माधुतैलिकः ।
रसायनं प्रमेहार्शः कृमिगुल्मान्त्रवृद्धिनुत् ॥

5.5.3

सयष्टिमधुकश्चैष चक्षुष्यो रक्तपित्तजित् ।
यापनो घनकल्केन मधुतैलरसाज्यवान् ॥

5.5.4

पायुजानूरुवृषणबस्तिमेहनशूलजित् ।
प्रसृतांशैर्घृतक्षौद्रवसातैलैः प्रक्ल्पयेत् ।
यापनं सैन्धवार्धाक्षहपुषार्धपलान्वितम् ॥

5.5.5

एरण्डमूलनिष्क्वाथो मधुतैलं ससैधवम् ।
एष युक्तरथो बस्तिः सवचापिप्पलीफलः ॥

5.5.6

सक्वाथो मधुषड्ग्रन्थाशताह्वाहिङ्गुसैन्धवः ।
सुरदारु च रास्ना च बस्तिर्दोषहरः शिवः ॥

5.5.7

पञ्चमूलस्य निष्क्वाथस्तैलं मागधिका मधु ।
ससैन्धवः समधुकः सिद्धबस्तिरिति स्मृतः ॥

5.5.8

द्विपञ्चमूलत्रिफलाफलबिल्वानि पाचयेत् ।
गोमूत्रे तेन पिष्टैश्च पाठातोयदवत्सकैः ॥

5.5.9

सफलैः क्षौद्रतैलाभ्यां क्षारेण लवणेन च ।
युक्तो बस्तिः कफव्याधिपाण्डुरोगविषूचिषु ।
शुक्रानिलविबन्धेषु बस्त्याटोपे च पूजितः ॥

5.5.10

मुस्तापाठामृतैरण्डबलारास्नापुनर्नवम् ।
मञ्जिष्ठारग्वधोशीरत्रायमाणाक्षरोहिणीः ॥

5.5.11

कनीयः पञ्चमूलं च पालिकं मदनाष्टकम् ।
जलाढके पचेत्तच्च पादशेषं परिस्रुतम् ॥

5.5.12

क्षीरद्विप्रस्थसंयुक्तं क्षीरशेषं पुनः पचेत् ।
सपादजाङ्गलरसः ससर्पिर्मधुसैन्धवः ॥

5.5.13

पिष्टैर्यष्टीमिसिश्यामाकलिङ्गकरसाञ्जनैः ।
बस्तिः सुखोष्णो मांसाग्निबलशुक्रविवर्धनः ॥

5.5.14

वातासृङ्मोहमेहार्शोगुल्मविण्मूत्रसङ्ग्रहम् ।
विषमज्वरवीसर्पवर्ध्माध्मानप्रवाहिकाः ॥

5.5.15

वङ्क्षणोरुकटीकुक्षिमन्याश्रोत्रशिरोरुजः ।
हन्यादसृग्दरोन्मादशोफकासाश्मकुण्डलान् ।
चक्षुष्यः पुत्रदो राजा यापनानां रसायनम् ॥

5.5.16

पृथक् पलांशं विपचेत् पञ्चमूलमगोक्षुरम् ।
क्षीराढके चतुर्थस्थं पिष्टैर्यष्ट्यादिभिर्युतम् ॥

5.5.17

क्षौद्रतैलाज्यसिन्धूत्थयुक्तं बस्तिः सुपूजितः ।
विशेषाद्बालवृद्धस्त्रीसुकुमारसुखात्मनाम् ॥

5.5.18

तद्वत् सहाचरबलासारिवादर्भसाधितम् ।
क्षीरं बस्तिस्तथाभीरुगुडूचीबृहतीद्वयैः ।
सिद्धं पयो मागधिकायष्टीमधुककल्कवत् ॥

5.5.19

पञ्चमूलं बृहत्यादि प्रतिद्रव्यं पलोन्मितम् ।
द्विपलं शालिगोधूमयवमाषं सयष्टिकम् ॥

5.5.20

तैः सिद्धं छागलं क्षीरं कुक्कुटाण्डरसः सिता ।
साज्यक्षौद्रद्विलवणस्तैर्बस्तिः शुक्रकृत्परम् ।
कल्पो ऽयं शिखिगोनर्दमत्स्याद्यण्डरसेष्वपि ॥

5.5.21

रसः कुलीरमांसस्य चटकाण्डरसान्वितः ।
सशर्कराघृतमधुर्बस्तिर्वृष्यतमो मतः ॥

5.5.22

बस्तसूकरजैर्मुष्कैः कुलीरचटकामिषैः ।
सिद्धं पयो बस्तशुक्रमुच्चटेक्षुरकं मधु ॥

5.5.23

तैर्घृताढ्यो ऽल्पलवणो बस्तिर्वृष्यतमः परम् ।
सिद्धेन पयसा भोज्यमात्मगुप्तोच्चटेक्षुरैः ॥

5.5.24

अतो दशदशाहेन यस्तु बस्तीन् निषेवते ।
वाजीव पुष्टः सवृषो गच्छति प्रमदाशतम् ।
एते माक्षिकसंयुक्ताः कुर्वन्त्यतिवृषं नरम् ॥

5.5.25

नातियोगं न चायोगं स्ताम्भिनस्ते च कुर्वते ॥

5.5.26

निरूहा लेखनाः प्रायो बृंहणाः स्नेहबस्तयः ।
यापनेषूभयं तस्मान्नेष्टं तेष्वनुवासनम् ॥

5.5.27

मृदुत्वान्न निवर्तन्ते यस्य त्वेते प्रयोजिताः ।
समूत्रैर्बस्तिभिस्तीक्ष्णैरास्थाप्यः क्षिप्रमेव सः ॥

5.5.28

शोफाग्निनाशपाण्डुत्वशूलार्शःपरिकर्तिकाः ।
स्युर्ज्वराश्चातिसाराश्च यापनात्यर्थसेवनात् ॥

5.5.29

अरिष्टक्षारशीध्वाद्यैस्तत्रेष्टा दीपनी क्रिया ।
युक्त्या तस्मान्निषेवेत यापनान् न प्रसङ्गतः ॥

5.5.30

मृद्वल्पौषधसंयोगात् पादहीनप्रमाणतः ।
अल्पकालोपयोगाच्च तेषु निष्परिहारता ॥

5.5.31

द्रव्येषु यापनीयेषु सिद्धान् स्नेहान् पृथक् पृथक् ।
बस्तीन् सर्वेषु वा युञ्ज्यात् परिहारविवर्जितान् ॥

5.5.32

सहाचराभीरुबलारास्नागोक्षुरकात् पृथक् ।
तुलां जलद्रोणशते पचेत् द्रोणावशेषिते ॥

5.5.33

पूतशीते बिसद्राक्षातवक्षीरीनिदिग्धिकाः ।
महासहाक्षुद्रसहायष्टीमधुमधूलिकाः ॥

5.5.34

जीवकर्षभकोदीच्यमृणालोत्पलचन्दनम् ।
खर्जूरतालमज्जात्मगुप्तामलकीकणाः ॥

5.5.35

पटोलमेदात्वक्पत्रशीतपाक्योदनाह्वयाः ।
कल्कीकृत्य क्षिपेत्तस्मिन् पृथक् च प्रस्थसम्मितम् ॥

5.5.36

रसं वराहमहिषबस्तमुष्कोद्भवं तथा ।
शिखिकुक्कुटहंसाण्डसम्भवं तैलसर्पिषी ॥

5.5.37

धात्रीविदारीस्वरसं गव्यक्षीराढकद्वयम् ।
ब्रह्मभेरीमृदङ्गादिनिनादैः साधितं च तत् ॥

5.5.38

सितच्छत्रत्रकृतच्छायं सितवस्त्रावगुण्ठितम् ।
आरोपितं गजस्कन्धे पूजयित्वा वृषध्वजम् ॥

5.5.39

कृत्वा स्वस्त्ययनं दद्यात् स्नेहबस्तिमयन्त्रणम् ।
प्राप्तस्तेनातिवृषतां श्रमयेद्वनिताशतम् ॥

5.5.40

निर्वलीपलितः कान्तश्चिरजीवी भवेत् स च ।
नष्टशुक्रक्षतक्षीणविषमज्वरिणां हितः ।
व्यापन्नार्तवशुक्राणां पुत्रदाता रसायनम् ॥

5.5.41

एवं च बस्तयो ऽन्ये ऽपि कल्प्याः पाक्याश्च नैकशः ।
शतं वारान् सहस्रं वा पाचयेत् सम्भवे सति ॥

5.5.42

दोषघ्नाः सपरीहारा वक्ष्यन्ते स्नेहबस्तयः ॥

5.5.43

दशमूलं बलां रास्नामश्वगन्धां पुनर्नवाम् ।
गुडूच्यैरण्डपूतीकभार्ङ्गीवृषकरोहिषम् ॥

5.5.44

शतावरीं सहचरं काकनासां पलांशकम् ।
यवमाषातसीकोलकुलत्थान् प्रसृतोन्मितान् ॥

5.5.45

वहे विपाच्य तोयस्य द्रोणशेषेण तेन च ।
पचेत्तैलाढकं पेष्यैर्जीवनीयैः पलोन्मितैः ॥

5.5.46

अनुवासनमित्येतत् सर्ववातविकारनुत् ।
अनूपानां वसा तद्वज्जीवनीयोपसाधिता ॥

5.5.47

शताह्वायवबिल्वाम्लैस्तैलं सिद्धं समीरणे ।
सैन्धवेनाग्निव्रणेन तप्तं चानिलजिद्धृतम् ॥

5.5.48

जीवन्तीं मदनं मेदां श्रावणीं मधुकं बलाम् ।
शताह्वर्षभकौ कृष्णां काकनासां शतावरीम् ॥

5.5.49

स्वगुप्तां क्षीरकाकोलीं कर्कटाख्यां शठीं वचाम् ।
पिष्ट्वा तैलं घृतं क्षीरे साधयेत चतुर्गुणे ॥

5.5.50

बृंहणं वातपित्तघ्नं बलशुक्राग्निवर्धनम् ।
रजःशुक्रामयहरं पुत्रीयं चानुव सनम् ॥

5.5.51

शिशिरस्पर्शवीर्यैश्च पिष्टैः क्षीरे चतुर्गुणे ।
तैलपादं घृतं सिद्धं पित्तघ्नमनुवासनम् ॥

5.5.52

सैन्धवं मदनं कुष्ठं शताह्वा निचुलो वचा ।
द्रीबेरं मधुकं भार्ङ्गी देवदारुसकट्फलम् ॥

5.5.53

नागरं पुष्करं मेदा चविका चित्रकः शठी ।
विडङ्गातिविषे श्यामा हरेणुर्नीलिनी स्थिरा ॥

5.5.54

बिल्वाजमोदचपला दन्ती रास्ना च तैः स्मैः ।
साध्यमेरण्डतैलं वा तैलं वा कफरोगनुत् ॥

5.5.55

वर्ध्मोदावर्तगुल्मार्शःप्लीहमेहाढ्यमारुतान् ।
आनाहमश्मरीं चाशु हन्यात्तदनुवासनम् ॥

5.5.56

साधितं पञ्चमूलेन तैलं बिल्वादिनाथवा ।
अन्वासनं श्लेष्महरं द्रव्यैर्वा कफघातिभिः ।
फलैरष्टगुणे चाम्ले सिद्धमन्वासनं कफे ॥

5.5.57

शूलानाहे तु तद्युक्तो निरूहः पटुमूत्रवान् ।
पृच्छति स्म मुनिमित्यथ धीमानग्निवेश इह किन्तु फलानाम् ।
बस्तिकर्मणि हितं सततं स्यात् तं पुनर्वसुरिति प्रशशास ॥

5.5.58

इह कुष्ठहिता गरागरी हितमिक्ष्वाकुफलं प्रमेहिणाम् ।
कुटजस्य फलं हृदामये प्रवरं कोशफलं तु पाण्डुषु ॥

5.5.59

उदरे कृतवेधनं हितं मदनं सर्वगदाविरोधि च ।
मधुरं सकषायतिक्तकं तदरूक्षं सकटूष्णपिच्छिलम् ॥

5.5.60

कफपित्तहृदाशुकारि यन्निरपायं पवनानुलोमि च ।
प्रवरं तदतः फलादिषु स्मृतमास्थापनयोजनास्विति ॥

5.5.61

अथ मुनिवृषभे निगद्य वाक्यं स्थितवति विज्ञपयाम्बभूव भूयः ।
इदमतिगहनं सहान्यशिष्यैरवनिगतो ऽञ्जलिमग्रतो निधाय ॥

5.5.62

चित्रकर्मगुणकृद्गुरुणोक्तो बस्तिरूर्ध्वमथ चैति न नाभेः ।
शीघ्नमापतति चानु स देहात् सर्वतः कथमपोहति दोषान् ॥

5.5.63

ऊचे गुरुस्तिमितमारुतवश्यमेतत् देहस्य यद्बहिरुपाश्रितमन्तरे वा ।
दुष्टस्य तस्य जनयन्ननुलोमतां तु बस्तिर्हिनस्ति विषमानपि रोगपूगान् ॥

5.5.64

शाखागताः कोष्ठगताश्च रोगा मर्मोर्ध्वसर्वावयवाङ्गजाश्च ।
ये सन्ति तेषां न तु कश्चिदन्यो वायोः परं जन्मनि हेतुरस्ति ॥

5.5.65

विट्श्लेष्मपित्तादिमलाचयानां विक्षेपसंहारकरो हि वायुः ।
तस्यातिवृद्धस्य शमाय नान्यद्बस्तेः समं भेषजमस्ति यस्मात् ॥

5.5.66

शाम्यन्ति यत्नेन जिते ऽनिले च तदीरिताः पित्तकफादयो ऽपि ।
तस्माच्चिकित्सार्धमिति ब्रुवन्ति सर्वां चिकित्सामपि बस्तिमेके ॥

5.5.67

यच्च पक्वाशस्थो ऽपि दोषानापादमस्तकम् ।
वीर्येण बस्तिरादत्ते खस्थो ऽर्को भूरसानिव ॥

5.5.68

यत्तत्रौषधवीर्यं हि तदपानेन वायुना ।
पर्याप्तमचिरादेव समानः प्रतिपद्यते ॥

5.5.69

समानाद्दुत्तरंचैवं व्यानाद्याः पवनाः क्रमात् ।
ते तृप्ताः प्रकृतिं याताः शरीरानुग्रहे स्थिताः ॥

5.5.70

प्रसह्य पित्तश्लेष्माणौ यथास्थानं निवेश्य च ।
सन्तर्पयन्ति परितः स्वान् स्वान् भूतगुणांस्तनौ ॥

5.5.71

व्यानस्तिर्यगपानो ऽधः प्राणश्चोर्ध्वं प्रकर्षति ।
यथास्वमेव नाडीभिर्हारिणीभिरिवोदकम् ॥

5.5.72

एवं वातैः सिराभिश्च वपुर्बस्तिः सुयोजितः ।
व्याप्नुवत् प्रसभं हन्ति सकृछ्रानपि यक्ष्मणः ॥

5.5.73

बस्तिस्तस्मात् सर्वकर्मप्रधानं सर्वातङ्कान् हन्ति निःशेषतश्च ।
स्रोतांस्यन्तः शोधयित्वा च कुर्यादोजस्तेजः शुक्रमेधाग्निकीप्तिम् ॥

मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc