अष्टाङ्गसंग्रह · अध्याय 5.4
अथातो बस्तिकल्पं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥
बलां गुडूचीं त्रिफलां सरास्नां द्विपञ्चमूलं च पलोन्मितानि ।
अष्टौ फलान्यर्धतुलां च मांसात् छागात् पचेदप्सु चतुर्थशेषम् ॥
पूतो यवानीफलबिल्वकुष्ठवचाशताह्वाघनपिप्पलीनाम् ।
कल्कैर्गुडक्षौद्रघृतः सतैलैर्युक्तः सुखोष्णो लवणान्वितश्च ॥
बस्तिः परं सर्वगदप्रमाथीस्वस्थे हितो जीवनबृंहणश्च ।
बस्तौ च यस्मिन् पठितो न कल्कः सर्वत्र दद्यादमुमेव तत्र ॥
द्विपञ्चमूलस्य रसो ऽम्लयुक्तः सच्छागमांसस्य सपूर्वपेष्यः ।
त्रिस्नेहयुक्तः प्रवरो निरूहः सर्वानिलव्याधिहरः प्रदिष्टः ॥
बलापटोलीलघुपञ्चमूलत्रायान्तकैरण्डयवात् सुसिद्धात् ।
प्रस्थो रसाच्छागरसार्धयुक्तः साध्यः पुनः प्रस्थसमः स यावत् ॥
प्रियङ्गुकृष्णाघनकल्कयुक्तः सतैलसर्पिर्मधुसैन्धवश्च ।
स्याद्दीपनो मांसबलप्रदश्च चक्षुर्बलं चोपदधाति सद्यः ॥
एरण्डमूलात्त्रिपलं पलाशत्तथा पलांशं लघुपञ्चमूलम् ।
रास्नाबलाछिन्नरुहाश्वगन्धापुनर्नवारग्वधदेवदारु ॥
फलानि चाष्टौ सलिलाढकाभ्यां विपाचयेदष्टमशेषिते ऽस्मिन् ।
वचाशताह्वाहपुषाप्रियङ्गुयष्टीकणावत्सकबीजमुस्तम् ॥
दद्यात् सुपिष्टं सहतार्क्ष्यशैलमक्षप्रमाणं लवणांशयुक्तम् ।
समाक्षिकस्तैलयुतः समूत्रो बस्तिर्जयेल्लेखनदीपनो ऽसौ ॥
जङ्घोरुपादत्रिकपृष्ठकोष्ठहृद्गुह्यशूलं गुरुतां विबन्धम् ।
गुल्माश्मवर्ध्मग्रहणीगुदोत्थांस्तांस्तांश्च रोगान् कफवातजातान् ॥
चतुष्पले तैलघृतस्य भृष्टः छागाच्छतार्धो दधिदाडिमाम्लः ।
रसः सपेष्यो बलवणमांसरेतोग्नितैमिर्यशिरोरुजीष्टः ॥
यष्ट्याह्वयस्याष्टपलेन सिद्धं पयः शताह्वाफलपिप्पलीभिः ।
युक्तं ससर्पिर्मधुवातरक्तविसर्पवैस्वर्यहितो निरूहः ॥
यष्ठ्याह्वलोध्राभयचन्दनैश्च शृतं पयो ऽग्र्यं कमलोत्पलैश्च ।
सशर्कराक्षौद्रघृतं सुशीतं पित्तामयान् हन्ति सजीवनीयम् ॥
गोपाङ्गनाचन्दनशीतपाकीद्राक्षर्धिकाश्मर्यमधूकसेव्यैः ।
पयः शृतं श्रावणिमुद्गपर्णीबलास्वगुप्तामधुयष्टिकल्कैः ॥
गोधूमचूर्णैश्च पिचुप्रमाणैरिक्षोविदार्याश्च रसेन युक्तम् ।
तैलेन यष्टीमधुसाधितेन सितोपलाक्षौद्रघृतैश्च शीतः ॥
बस्तिः प्रशस्तः ससमस्तदेहदाहे सशूले ऽवयवाश्रिते वा ।
गुल्मातिसारभ्रममूत्रकृच्छ्रक्षीणे क्षतौजोबलसङ्क्षये च ॥
कोशातकारग्वधदेवदारुमूर्वाश्वदंष्ट्राकुटजार्कपाठाः ।
पक्त्वा कुलत्थान् बृहतीं च तोये रसस्य तस्य प्रसृता दश स्युः ॥
तान् सर्षपैलामदनैः सकुष्ठैरक्षप्रमाणैः प्रसृतैश्च युक्तान् ।
क्षौद्रस्य तैलस्य फलाह्वयस्य क्षारस्य तैलस्य च सार्षपस्य ॥
दद्यान्निरूहं कफरोगिताय मन्दाग्नये चाशनविद्विषे च ॥
पुनर्नवैरण्डवृषाश्मभेदवृश्चीवभूतीकबलापलाशान् ।
द्विपञ्चमूलं च पलांशकानि क्षुण्णानि धौतानि फलानि चाष्टौ ॥
बिल्वं यवाङ्कोलकुलत्थधान्यफानि च स्युः प्रसृतोन्मितानि ।
पयो जलद्व्याढकसाधितं तत् क्षीरावशिष्टं शुचिवस्त्रपूतम् ॥
वचाशताह्वामरदारुकुष्ठयष्ट्याह्वसिद्धार्थकपिप्पलीनाम् ।
कल्कैर्यवान्या मदनैश्च युक्तं नात्युष्णशीतं गुडसैन्धवाक्तम् ॥
क्षौद्रस्य तैलस्य च सर्पिषश्च नवस्य युक्तं प्रसृतित्रयेण ।
दद्यान्निरूहं विधिना विधिज्ञः ससर्वसंसर्गकृतामयघ्नः ॥
अर्धार्धविहितान् बस्तीनतश्चित्रान् प्रवक्ष्यते ।
कोशातकीद्वयेक्ष्वाकुफलजीमूतवत्सकाः ॥
श्यामात्रिवृतयोर्मूलं तथा दन्तीद्रवन्तिजम् ।
प्रकीर्या चोदकीर्या च क्षीरिणी नीलिनीफलम् ॥
सप्तपाशङ्खिनीलोध्रं फलं कम्पिल्लकस्य च ।
स्वकल्कसैन्धवयुताः पक्वाशयविशोधनाः ॥
घातकीपुष्पतर्कारीजीवन्तीमूलवत्सकाः ।
प्रग्रहः खदिरः कुष्ठं शमी पिण्डीतको यवाः ॥
प्रियङ्गुरर्कमूली च तरुणीजातियूथिकाः ।
वटाद्याः किंशुकं लोध्रमिति सङ्ग्राहिका मताः ॥
ग्राही प्रियङ्ग्वम्बष्ठादिक्वाथकल्कैः क्रमेण च ।
ऊषकादिप्रतीवापो लेखनस्त्रिफलारसः ।
मधुरक्वाथकल्केन सरसाज्येन बृंहणः ॥
बदर्यैरावणीशेलुशाल्मलीधन्वनाङ्कुराः ।
समाक्षिकाः क्षीरयुताः सासृजः पिच्छिलाः स्मृताः ॥
कोलङ्कतककाण्डेक्षुदर्भपोटेक्षुपालिभिः ।
दाहघ्नः सघृतक्षीरो द्वितीयश्चन्दनादिभिः ॥
मुष्टिः शाल्मलिवृन्तानां क्षीरसिद्धो घृतान्वितः ।
हितः प्रवाहणे तद्वद्वृन्तैः शाल्मलकस्य च ॥
कर्बुदाराढकीनीपविदुलैः क्षीरसाधितैः ।
परिकर्ते तथा वृन्तैः श्रीपर्णीकोविदारजैः ॥
परिस्रवे पयः सिद्धं सवृश्चीवपुनर्नवम् ।
आखुकर्णिकया तद्वत्तण्डुलीयकयुक्तया ॥
अश्वावरोहकः काकनासाराजकशेरुकाः ।
सिद्धाः क्षीरे ऽतियोगे स्युः क्षौद्राञ्जनघृतैर्युताः ।
न्यग्रोधाद्यैश्चतुर्भिश्च विधिनापरः ॥
बृहती क्षीरकाकोली पृश्निपर्णी शतावरी ।
काश्मर्यबदरीमूर्वास्तथोशीरप्रियङ्गवः ॥
जीवादाने शृतौ क्षीरे द्वौ घृताञ्जनसंयुतौ ।
बस्ती प्रदेयौ भिषजा शीतौ समधुशकरौ ।
गोव्यजामहिषीक्षीरैर्जीवनीययुतैरपि ॥
शशैणदक्षमार्जारमहिषाव्यजशोणितैः ।
सद्यस्कैर्मृदितैर्बस्तिर्जीवादाने प्रशस्यते ॥
अथेमान् सुकुमाराणां निरूहान् स्नेहनान् मृदून् ।
कर्मणा विप्लुतानां च वक्ष्यामि प्रसृतैः पृथक् ॥
क्षीरात् द्वौ प्रसृतौ कार्यै मधुतैलघृतात्त्रयः ।
खजेन मथितो बस्तिर्वातघ्नो बलवर्णकृत् ॥
एकैकः प्रसृतस्तैलप्रसन्नाक्षौद्रसर्पिषाम् ।
बिल्वादिमूलक्वाथात् द्वौ कौलत्थाद्द्वौ स वातजित् ॥
पटोलनिम्बपूतीकरास्नासप्तच्छदाम्भसः ।
प्रसृतः पृथगाज्याच्च बस्तिः सर्षपकल्कवान् ।
सपञ्चतिक्तो ऽभिष्यन्दकृमिकुष्ठप्रमेहहा ॥
विडङ्गत्रिफलाशिग्रुफलमुस्ताखुकर्णिजात् ।
कषायात् प्रसृताः पञ्च तैलादेको विमथ्य तान् ।
निरूहः कृमिहा वेल्लपिप्पलीकल्कयोजीतः ॥
पयस्येक्षुस्थिरारास्नाविदारीक्षौद्रसर्पिषाम् ।
एकैकः प्रसृतो बस्तिः कृष्णाकल्को वृषत्वकृत् ॥
चत्वारस्तैलगोमूत्रदधिमण्डाम्लकाञ्जिकात् ।
प्रसृताः सर्षपैः पिष्टैर्विट्सङ्गानाहभेदनः ॥
श्वदंष्ट्राश्मभिदेरण्डक्वाथतैलसुरासवात् ।
प्रसृताः पञ्च चपलाकौन्तीयष्ट्याह्वकल्कवान् ।
बस्तिः कवोष्णः साहाने मूत्रकृच्छ्रे वरो मतः ॥
मृदुबस्तिजडीभूते तीक्ष्णो ऽन्यो बस्तिरिष्यते ।
तीक्ष्णैर्विकर्षिते स्निग्धो मधुरः शिशिरो मृदुः ॥
तीक्ष्णत्वं मूत्रबिल्वाग्निलवणक्षारसर्षपैः ।
प्राप्तकालं विधातव्यं क्षीराज्याद्यैस्तु मार्दवम् ॥
बलकालदोषरोगप्रकृतीः प्रविभज्य योजितो बस्तिः ।
स्वः स्वैरौषधवर्गैः स्वान् स्वान् रोगान् निवतयति ॥
उष्णार्तानां शीतान् शीतार्ताना तथा सुखोष्णांश्च ।
तद्योग्यौषधयुक्तान् बस्तीन् सन्तर्क्य युञ्जीत ॥
बस्तीन्न बृंहणीयान् दद्याद्व्याधिषु विशोधनीयेषु ।
मेदस्विनो विशोध्या ये च नराः कुष्ठमेहार्ताः ॥
न क्षीणक्षतदुर्बलमूर्छितकृशशुष्कशुद्धदेहानाम् ।
दद्याद्विशोधनीयान् दोषनिबद्धायुषो य च ॥
मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0