भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गसंग्रह · अध्याय 5.3

5.3.1

अथातो वमनविरेचनव्यापत्सिद्धिं नामाध्यायं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥

5.3.2

अतिक्षुधितेनातिमृदुकोष्ठेनाल्पश्लेष्मणा दुर्वमेन हीनमात्रमतिमात्रं तीक्ष्णमतिशीतमजीर्णे वा पीतं वमनमधो गच्छति ।
तत्रेप्सितानवाप्तिर्दोषोत्क्लेशश्च ।
तं पुनराशु स्नेहयित्वा यौगिकैर्मात्राकालाद्यपेक्षं वामयेत् ।
व्यापत्कराणि च पूर्वोक्तमतिक्रमं स्मरन् परिहरेत् ॥

5.3.3

अजीर्णिनः श्लेष्मवतो ऽत्युष्णतीक्ष्णलवणमतिमात्रमहृद्यं वा विरेचनमन्यद्वा भेषजमूर्ध्वं प्रवर्तते ।
तत्र पूर्वोक्ता व्यापत्साधनं च ।
तत ऊर्ध्वमप्युत्तिष्ठति हृद्यलेहवटकवर्ज्यमौषधं न तृतीयमवचारयेत् ॥

5.3.4

क्रूरकोष्ठस्यातितीक्ष्णाग्रेरल्पमल्पवीर्यं वा भेषजमूर्ध्वभागिकमधोभागिकं वा भक्तवदुपैति पाकम् ।
तत्र समुदीर्णा दोषा यथाकालमनिर्ह्रियमाणा विभ्रमं कुर्वन्ति ।
तं स्निग्धकोष्ठमनल्पममन्दं चौषधं पाययेत् ॥

5.3.5

कषायमल्पमप्रत्यग्रं रूक्षं वा भेषजमस्निग्धस्विन्नेन वा पीतं शीतोपचारेण वा स्तब्धं दोषविग्रथितमयोगी भवति ।
तत्र वमने भूयो वामयेत् ।
विरेचने स्निग्धस्विन्नं पुनर्विरेचयेत् ।
उत्क्लिष्टभूरिदोषं वा तृतीये ऽहनि ।
उभयोश्च संशोधनयोर्लवणतैलाभ्यक्तं पिण्डप्रस्तराभ्यां स्वेदयेत् ॥

5.3.6

स्निग्धस्विन्नस्य च वमनमकृत्वा विरेचनं पीतवतः सामस्य वा मृदु वा विरिक्तस्याधोभागेत्यर्थगुरुस्तब्धोदरता शूलो वातमूत्रपुरीषसङ्गश्च भवति ।
तमप्ययोगिनं समूत्रैस्तीक्ष्णैरास्थाप्य जाङ्गलरसैश्च भोजयित्वा फलदारुपिप्पलीसिद्धेन तैलेनानुवास्य वातहरैश्च स्नेहैरुपस्नेह्य पुनस्तीक्ष्णैर्विरेचयेत् ॥

5.3.7

कफोल्बणस्यातिस्निग्धस्य गुरुकोष्ठस्य मन्दाग्नेर्वा मृदुप्रणीतमौषधं भृशमुत्क्लेश्य दोषान् जाड्यतन्द्रादौर्बल्याङ्गसादान् जनयति ।
तच्छीघ्रमुल्लिखेत् ।
लङ्घनेन च सन्धुक्षिताग्निं पुनःस्निग्धं तीक्ष्णोष्णैर्विशोधयेत् ॥

5.3.8

सशेषान्नाय वातश्लेष्मवते रूक्षाय सोदावर्ताय मन्दाग्नये वा शीतं रूक्षं वा दत्तमौषधं भृशमाध्मानं करोति ।
तत्र मलसङ्गात् समुन्नह्यत्युदरमन्तःशूलं दृतिवत् पार्श्वयोरापूर्णता शिरःपृष्ठरुजा श्वासकासौ पायुबस्तिनिस्तोदश्च भवति ।
तमुदावर्तानाहहराभ्यङ्गस्वेदवर्तिदीपनचूर्णबस्तिक्रियाभिरुपचरेत् ॥

5.3.9

क्षामेणाल्पबलेन मृदुकोष्ठाग्निना रूक्षेणास्निग्धेन वा स्विन्नेन सामेन वा बलवदौषधमुपयुक्तं सपित्तमनिलं प्रदूष्य परिकर्तिकामापादयति ।
तत्र नाभिबस्तिगुदमेढ्रे सदाहपरिकर्तनमनिलसङ्गो विष्टम्भश्च ॥

5.3.10

तं कृष्णतिलमधुकमधुयुक्तैः पिच्छाबस्तिभिरास्थापयेत् ।
क्षीरिवृक्षशृतक्षीरेण वा ।
शीताम्बुपरिषिक्तं चैनं पयसा भुक्तवन्तं घृतमण्डेन यष्टीमधुकतैलेन वानुवासयेत् ।
क्षामस्य च मधुरो बृंहणश्च सर्वो विधिरिष्टः ॥

5.3.11

सामे लङ्घनदीपनं च लघुरूक्षोष्णं चान्नपानम् ।
निरामीभूते ऽनुबन्धे लघु क्षारम्लम् ।
सवाते दधिसाराम्लं दाडिमत्वचा युक्तं भोजने पाने च प्रयुञ्जीत सदाडिमरसं च सर्पिः पिबेदुष्णाम्बुना वा तिलदेवदारुकल्कम् ॥

5.3.12

क्रूरकोष्ठस्य बहुदोषस्याल्पमल्पगुणं मृदुस्निग्धं वा शोधनमवचारितमुत्क्लेश्य दोषान् न निर्हरति ।
अल्पाल्पं च पित्तकफसंसृष्टं परिस्रवति ।
विष्टम्भगौरवशोफकण्डूपाण्डुताङ्गसादगुल्मशूलानि चापादयति ॥

5.3.13

तं तिनिशधवाश्च्वकर्णपलाशबलानिर्यूहैर्मधुयुक्तैरास्थापयेत् ।
उपशान्तपरिस्रवं च पुनरुपस्निग्धं तीक्ष्णैः शोधयेत् ।
शुद्धे च दीपनांश्चूर्णासवारिष्टादीन् योजयेत् ॥

5.3.14

पीतौषधो यदा वेगमुदीरयति निगृह्णाति वा ।
तदा प्रवाहिकास्य जायते ।
तस्यां सदाहशूलं सपिच्छं श्वेतं कृष्णं रक्तं वा भृशं प्रवाहमाणः कफमुपविशति ।
तं परिस्रवविधिनोपचरेत् ॥

5.3.15

पीतौषधस्य भेषजोद्गारच्छर्द्यादीनां निग्रहाद्वातादयः कुपिता हृदयमुपसृत्य हृद्ग्रहं घोरमावहन्ति ।
ततः प्रधानमर्मोपतापाद्वेदनाभिरत्यर्थमातुरः पीड्यते ।
मोहहिध्माकासलालापार्श्वशूलयुतो वेपथुमान् नष्टसंज्ञो दन्तान् कटकटापयत्युद्वृत्ताक्षो जिह्वां खादति ।
तं हृदयोपसरणमाहुः ॥

5.3.16

तस्मै भिषक् शीघ्रममुह्यन्नभ्यङ्गपूर्वं धान्यस्वेदेन परिस्वेद्य तीक्ष्णमवपीडं दद्यात् ।
यष्टीमधुकमिश्रेण तण्डुलाम्बुना वमनम् ।
कटुभिर्वा कफोत्तराय ।
ततो दोषशेषं पाचनीयैः पाचयेद्यथादोषोच्छ्रयं च बस्तीन् वितरेत् ॥

5.3.17

अस्निग्धस्विन्नेनाब्रह्मचरिणा वेगधारिणा मृदुकोष्ठेन सुकुमारेण वा रूक्षमौषधमतिमात्रं प्रयुक्तमतिविरेकाद्वायुं कोपयति ।
तेन सर्वाङ्गप्रग्रहो भवति ।
तस्य विशेषात् पार्श्वपृष्ठश्रोणिमन्याममसु शूलमूर्च्छाभ्रमकल्पस्तम्भो निस्तोदो भेद उद्वेष्टनं संज्ञानाशश्च स्यात् ।
तमभ्यज्य धान्यैः स्वेदयित्वा यष्टीमधुकविपक्वेन तैलेनानुवासयेत् ।
वातहरं चान्नपानम् ॥

5.3.18

स्निग्धस्विन्नस्यातिमृदुकोष्ठस्य क्षुधितस्य वा तीक्ष्णमतिभूरि वा प्रयुक्तमौषधं सर्वशो निर्हृत्य मलान् धातूनपि द्रवीकृत्य विस्रावयेदतियोगेन ।
तं शतधौतघृतेनाभ्यज्य कषायस्वादुशीतैः प्रदेहपरिषेकावगाहान्नपानैः शर्करामधुमद्भिश्च लहः स्तम्भयेत् ॥

5.3.19

चन्दनाञ्जनोशीरच्छागासृक्शीतोदकैर्लाजसक्तून् पाययेत् ।
पिच्छाबस्तींश्चस्मै दद्यान्मधुरवर्गसिद्धं च क्षीरसर्पिः सर्पिर्मण्डो ऽनुवासनम् ।
रक्तपित्तविधानं च कुर्यात् ॥

5.3.20

विशेषेण वमनातियोगे सघृततसिताक्षौद्रं फलरसैर्मन्थं पिबेत् ।
क्षीरिवृक्षशुङ्गसिद्धां वा समाक्षिकां पेयां क्षीरं वा संग्राहिद्रव्यसिद्धं च क्षीरं भोजने ऽवचारयेत् ॥

5.3.21

सोद्गारायां च छर्द्यां धनिकामधूकमधुरसामुस्ताञ्जनानि मधुना लिह्यात् ।
वाक्सङ्गे हनुसङ्गे ऽनिलार्तौ च घृतमांसरससिद्धामल्पतण्डुलां पेयां पिबेत् ।
स्नेहस्वेदौ चावचारयेत् ॥

5.3.22

जिह्वाप्रवेशे स्निग्धाम्ललवणान् कवलगण्डूषान् हृद्यांश्चाजमांसरसान् ।
पुरतश्चास्य फलान्यम्लानि खादयेत् ॥

5.3.23

निर्गतां तु जिह्वां तिलद्राक्षाकल्कलिप्तां व्योषलवणचूर्णप्रघृष्टां वा प्रवेशयेत् ।
अक्षिणी व्यावृत्ते घृताभ्यक्ते पीडयेद्विसंज्ञं सामवेणुगीतशब्दान् श्रावयेत् ॥

5.3.24

विरेचनातियोगे तण्डुलाम्भसा मधुमिश्रेण वमेत् प्रियङ्वादिं च तण्डुलोदकेन पिबेद्रोध्ररसाञ्जनदाडिमत्वचो वा ।
सोमवल्कलट्फलोत्पलसमङ्गापद्मकेसराणि वा ।
क्षौद्रशर्करामधुकौडुम्बरत्वचो वा ।
रक्तातिसारक्रियां च कुर्वीत ॥

5.3.25

गुदं निःसृतमभ्यज्य स्वेदयित्वा कषायैश्चस्तम्भयित्वा प्रवेशयेत् ।
पूर्ववच्च वाक्सङ्गादीन् साधयेत् ॥

5.3.26

उभयत्र च जीवरक्तपित्तयोर्ज्ञानार्थं रक्ते शुक्लं पिचु प्लोतं वा क्षिपेत् ।
तस्मिन्नावाने कोष्णाम्बुक्षालितशुद्धे जीवरक्तम् ।
विवर्णे तु रक्तपित्तं विद्यात् ।
अन्नं वा तद्विमिश्रं शुने काकाय वा दद्यात् ।
तस्मिन् भुक्ते जीवं वदेदभुक्ते पित्तम् ॥

5.3.27

आमरणाच्च तस्य तृण्मूर्छामदार्तस्य क्रियां पित्तघ्नीमतियोगोक्तां च कुर्यात् ।
एणादिरुधिरं वातिस्रुतरक्तोक्तविधिना सक्षौद्रं शीघ्रमुपयुञ्जीत ।
तद्धि सद्यो जीवमभिसन्दधाति ।
श्यामाकाश्मर्यमधुकदूर्वोशीरैर्वा शृतं पयो घृतमण्डाञ्जनयुक्तं शीतं बस्तौ निषेचयेत् ॥

5.3.28

शेषेष्वपि चासम्यक्प्रयुक्तवमनविरेचनोपद्रवेषु यथामयं दोषादीनपेक्ष्य प्रतिकुर्याद्बस्तिव्यापत्सिद्धिं चेक्षेत ॥

5.3.29

एवमुभयतोभागे ऽपि शोधने यथावस्थमुत्तिष्ठेत ।
या तु विरेचने परिकर्तिका तद्वमने कण्ठक्षणनम् ।
यदधःपरिस्रवः स कफप्रसेको यदधःप्रवाहणं स शुष्कोद्गार इति ।
भवति चात्र ॥

5.3.30

अतिमात्रमकाले ऽल्पं तुल्यवीयरभावितम् ।
असम्यक्संस्कृतं जीर्णं व्यापद्येतौषधं ध्रुवम् ॥

5.3.31

छर्दनं न तु दुश्छद दुर्विरेच्यं न रेचनम् ।
पाययेदौषधं भूयस्तन्निहन्ति तथा हि तौ ॥

5.3.32

यस्योर्ध्वं कफसंसृष्टं पीतं यात्यानुलोमिकम् ।
वमितं कवलैः शुद्धं लङ्घितं पाययेत्तु तम् ॥

5.3.33

विबद्धे ऽल्पे चिराद्दोषे स्रवत्युष्णं पिबेज्जलम् ।
तेनाध्मानं वमिस्तृष्णा विबन्धश्चाशु शाम्यति ॥

5.3.34

भेषजं दोषरुद्धं चेन्नोध्व नाधः प्रवर्तते ।
सोद्गारं साङ्गशूलं वा स्वेदं तत्रावचारयेत् ॥

5.3.35

सम्पग्विरिक्तस्योद्गारे भेषजं क्षिप्रमुल्लिखेत् ।
अजीर्णमप्रवृत्तौ तु सुशीतैः स्तम्भयेद्भिषक् ॥

5.3.36

कदाचिच्छ्लेष्मणा रुद्धं तिष्ठत्युरसि भेषजम् ।
क्षीणे श्लेष्मणि सायाह्ने रात्रौ वा तत् प्रवर्तते ॥

5.3.37

रुक्षानाहारयोर्जीर्णे तिष्ठत्यूर्ध्वं गते ऽपि वा ।
वायुना भेषजे त्वन्यत् सस्नेहलवणं पिबेत् ॥

5.3.38

तृण्मोहभ्रममूर्छाद्याः स्युर्जीर्यति च भेषजे ।
पित्तघ्नं स्वादु शीतं च भेषजं तत्र शस्यते ॥

5.3.39

लालाहृल्लासविष्टम्भरोमहर्षाः कफावृते ।
भेषजं तत्र तीक्ष्णोष्णं कट्वादि कफनुद्धितम् ॥

5.3.40

प्रतिकूला गतिः पाको ग्रथितत्वं सगौरवम् ।
दोषोत्क्लेशो भृशाध्मानं परिकर्तः परिस्रवः ॥

5.3.41

प्रवाहिका हृद्ग्रहणं सर्वगात्रपरिग्रहः ।
सह धातुस्रवेणैता द्वादशोक्ताः ससाधनाः ।
व्यापदो विधिविभ्रंशात् द्विविधे ऽपि विरेचने ॥

5.3.42

उत्पद्यमानासु च तासु तासु व्यापत्सु संशोधनविभ्रमेण ।
दिशानयैवाशु यतेत सिद्ध्यै ज्योतिर्हि शास्त्रं नयदुर्नयानाम् ॥

मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc