भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गसंग्रह · अध्याय 5.2

5.2.1

अथातो विरेचनकल्पं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥

5.2.2

विरेचनद्रव्याणां मूलेषु त्रिवृत् ।
त्वक्षु तिल्वकः ।
क्षीरेषु स्नुही ।
फलेषु हरीतकी प्रधानानि ।
त्रिवृतायाः खलु द्विविधं मूलमरुणं श्यावं च ।
तत्रारुणं कषायमधुरं विपाके कटुकं रूक्षं श्लेष्मपित्तहरं कल्पनांविशेषात् पुनः सर्वव्याधिप्रशमनम् ।
सुखविरेचनत्वात् शिशुस्थविरसुकुमारमृदुकोष्ठेषु प्रशस्तं त्रिवृच्छब्दवाच्यं च ॥

5.2.3

इतरदपि तस्मात् गुणैः किञ्चिदूनं तीक्ष्णं कण्ठहृदयकर्षणं मूर्छासम्मोहकृदाशु दोषहरत्वात् बहुदोषक्लेशक्षमक्रूरकोष्ठेषु प्रशस्तं श्यामाशब्दवाच्यं च ॥

5.2.4

अथ तयोर्मूलमतिर्यग्विसृतं गम्भीरानुगतं श्लक्ष्णमाहरेत् ।
ततस्त्वचं शोषयित्वा सम्यक् सुगुप्तं स्थापयेत् ॥

5.2.5

तच्चूर्णं शुण्ठीसैन्धवयुक्तमम्लैर्मांसरसेन वा पिबेद्वातामयेषु ।
क्षीरक्षौद्रद्राक्षेक्षुकाश्मर्यस्वरससर्पिःस्वादुद्रव्यक्वाथैः सशर्करं पित्तोत्थेषु ।
मूत्रक्सौद्रद्राक्षारिष्टपीलुरसत्रिफलापञ्चकोलक्वाथैर्व्योषचूर्णानुविद्धं कफजेषु ॥

5.2.6

एभिरेव च द्रव्यैर्यथास्वं घृतशर्कराद्राक्षेक्षुरसतुगाक्षीरीमधुराणि मातुलुङ्गदाडिमामलककोलकरमर्दकपित्थरसतक्राम्लानि सैन्धवलवणानि व्योषतीक्ष्णानि विविधवेशवारपरिपूरितानि सहकाररसत्रिजातनागकेसरकर्पूरसुरभीणि लेहगुटिकामोदकभक्ष्यभोज्यान्युपकल्पयेदिति ।
भवति चात्र ॥

5.2.7

त्रिवृत्कल्ककषायेण साधितः ससितो हिमः ।
मधुत्रिजातसंयुक्तो लेहो हृद्यं विरेचनम् ॥

5.2.8

अजगन्धा तुगाक्सीरी विदारी शर्करा त्रिवृत् ।
चूर्णितं मधुसर्पिर्भ्यां लीढ्वा साधु विरिच्यते ।
सन्निपातज्वरस्तम्भपिपासादाहपीडितः ॥

5.2.9

लिम्पेदन्तस्त्रिवृतया द्विधाकृत्वेक्षुगण्डिकाम् ।
एकीकृत्य च तत्स्विन्नं पुटपाकेन भक्षयेत् ॥

5.2.10

त्वगेलाभ्यां समा नीली तैस्त्रिवृत्तश्च शर्करा ।
चूर्णं फलरसक्षौद्रसक्तुभिस्तर्पणं पिबेत् ॥

5.2.11

वातपित्तकफोत्थेषु रोगेष्वल्पानलेषु च ।
नरेषु सुकुमारेषु निरपायं विरेचनम् ॥

5.2.12

विडङ्गतण्डुलवरायावशूककणास्त्रिवृत् ।
सर्वतो ऽर्धेन तल्लीढं मध्वाज्येन गुडेन वा ॥

5.2.13

गुल्मं प्लीहोदरं कासं हलीमकमरोचकम् ।
कफवातकृतांश्चान्यान् परिमार्ष्टिगदान् बहून् ॥

5.2.14

विडङ्गपिप्पलीमूलत्रिफलाधान्यचित्रकान् ।
मरिचेन्द्रयवाजाजीपिप्पलीहस्तिपिप्पलीः ॥

5.2.15

दीप्यकं पञ्चलवणं चूर्णितं कार्षिकं पृथक् ।
तिलतैलत्रिवृच्चूर्णभागौ चाष्टपलोन्मितौ ॥

5.2.16

धात्रीफलरसप्रस्थांस्त्रीन् गुडार्धतुलान्वितान् ।
पक्त्वा मृद्वग्निना खादेत्ततो मात्रामयन्त्रणः ॥

5.2.17

कुष्ठार्शःकामलागुल्ममेहोदरभगन्दरान् ।
ग्रहणीपाण्डुरोगांश्च हन्ति पुंसवनश्च सः ॥

5.2.18

गुडः कल्याणको नाम सर्वर्तुषु च यौगिकः ।
व्योषत्रिजातकाम्भोदकृमिघ्नामलकैस्त्रिवृत् ॥

5.2.19

सर्वैः समा समसिता क्षौद्रेण गुटिकाः कृताः ।
मूत्रकृच्छ्रज्वरच्छर्दिकासशोषभ्रमक्षये ।
तापे पाण्ड्वामये ऽल्पेग्नौ शस्ताः सर्वविषेषु च ॥

5.2.20

त्रिवृता कौटजं बीजं पिप्पली विश्वभेषजम् ।
क्षौद्रद्राक्षारसोपेतं वर्षाकाले विरेचनम् ॥

5.2.21

त्रिवृद्दुरालभामुस्ताशर्करोदीच्यचन्दनम् ।
द्राक्षाम्बुना सयष्ट्याह्वसातलं जलदात्यये ॥

5.2.22

त्रिवृतां चित्रकं पाठामजाजीं सरलं वचाम् ।
स्वर्णक्षीरीं च हेमन्ते चूर्णमुष्णाम्बुना पिबेत् ॥

5.2.23

त्रिवृता शर्करातुल्या ग्रीष्मकाले विरेचनम् ॥

5.2.24

त्रिवृत्त्रायन्तिहपुषासातलाकटुरोहिणीः ।
स्वर्णक्षीरीं च संचूर्ण्य गोमूत्रे भावयेत्त्र्यहम् ।
एष सर्वर्तुको योगः स्निग्धानां मलदोषहृत् ॥

5.2.25

श्यामात्रिवृद्दुरालम्भाहास्तिपिप्पलिवत्सकम् ।
नीलिनीकटुकामुस्ताश्रेष्ठायुक्तं सुचूर्णितम् ।
रसाज्योष्णाम्बुभिः शस्तं रूक्षाणामपि सर्वदा ॥

5.2.26

त्र्यूषणं त्रिफला हिङ्गु कार्षिकं त्रिवृतापलम् ।
सौवर्चलार्धकर्षं च पलार्धं चाम्लवेतसात् ॥

5.2.27

तच्चूर्णं शर्करातुल्यं मण्डेनाम्लेन वा पिबेत् ।
गुल्मपार्श्वार्तिनुत् सिद्धं जीर्णे चास्मिन्रसौदनम् ॥

5.2.28

त्रिवृतात्रिफलादन्तीसातलाव्योषसैन्धवैः ।
प्रकल्प्य चूर्णं सप्ताहं भाव्यमामलकाद्रसे ।
तद्योज्यं तर्पणे यूषे पिशिते रागयुक्तिषु ॥

5.2.29

तुल्याम्लं त्रिवृताकल्कसिद्धं गुल्महरं घृतम् ।
श्यामात्रिवृत्कषायेण सिद्धं सर्पिः पयो ऽपि वा ॥

5.2.30

त्रिवृन्मुष्टींस्तु सनखानष्टौ द्रोणे ऽम्भसः पचेत् ।
पादशेषं कषायं तं पूतं गुडतुलायुतम् ॥

5.2.31

स्निग्धे स्थाप्यं घटे क्षौद्रपिप्पलीफलचित्रकैः ।
लिप्ते मासे गते पीतं पाण्डुश्वयथुगुल्मजित् ॥

5.2.32

सुरा वा त्रिवृतापादाकण्वा तत्क्वाथसंयुता ।
यवैः श्यामात्रिवृत्क्वाथस्विन्नैः कुल्माषमम्भसा ।
आसुतं षडहं पल्ले जातं सौवीरकं पिबेत् ॥

5.2.33

भृष्टान्वा सतुषान्शुष्कान्यवांस्तच्चूर्णसंयुतान् ।
आसुतानम्भसा तद्वत् पिबेज्जातं तुषोदकम् ॥

5.2.34

ज्वरहृद्रोगवातासृगुदावर्तादिरोगिषु ।
राजवृक्षो ऽधिकं पथ्यो मृदुर्मधुरशीतलः ॥

5.2.35

बाले वृद्धे क्षते क्षीणे सुकुमारे च मानवे ।
योज्यो मृद्वनपायित्वाद्विशेषाच्चतुरङ्गुलः ॥

5.2.36

फलकाले परिणतं फलं तस्य समाहरेत् ।
तेषां गुणवतां भारं सिकतासु विनिक्षिपेत् ॥

5.2.37

सप्तरात्रात्समुद्धृत्य शोषयेदातपे ततः ।
ततोमज्जानमुद्धृत्य शुचौ पात्रे निधापयेत् ॥

5.2.38

द्राक्षारसेन तं दद्याद्दाहोदावर्तपीडिते ।
चतुर्वर्षे सुखं बाले यावद्द्वादशवार्षिके ॥

5.2.39

चतुरङ्गुलमज्ञो वा कषायं पाययेद्धिमम् ।
दधिमण्डसुरामण्डधात्रीफलरसैः पृथक् ।
सौवीरकेण वा युक्तं कल्केन त्रैवृतेन वा ॥

5.2.40

चतुरङ्गुलसिद्धाद्वा क्षीराद्यदुदियात् घृतम् ।
मज्जकल्केन धात्रीणां रसे तत्साधितं पिबेत् ॥

5.2.41

तदेव दशमूलस्य कुलत्थानां यवस्य च ।
कषाये साधितं सापःकल्कैःश्यामादिभिः पिबेत् ॥

5.2.42

दन्तीकषाये तन्मज्ज्ञो गुडं जीर्णं च निक्षिपेत् ।
तमरिष्टं स्थितं मासं पाययेत् पक्षमेव वा ॥

5.2.43

त्वचं तिल्वकमूलस्य त्यक्ताभ्यन्तरवल्कलम् ।
विशोष्य चूर्णयित्वा च द्वौ भागौ गालयेत्ततः ॥

5.2.44

लोध्रस्यैव कषायेण तृतीयं तेन भावयेत् ।
कषाये दशमूलस्य तं भागं भावितं पुनः ॥

5.2.45

शुष्कचूर्णं पुनः कृत्वा ततः पाणितलं पिबेत् ।
मस्तुमूत्रसुरामण्डकोलधात्रीफलाम्बुभिः ॥

5.2.46

मेषशृङ्ग्यभयाकृष्णाचित्रकैः क्वथिते जले ।
मरुजाः सुनुयात्तच्चजातं सौवीरकं यदा ।
भवेदञ्जलिनातस्य लोध्रकल्कं पिबेत्तदा ॥

5.2.47

सुरां लोध्रकषायेण जातां पक्षस्थितां पिबेत् ।
तिल्वकस्य कषायेण कल्केन च सशर्करः ।
सघृतः साधितो लेहः स च श्रेष्ठं विरेचनम् ॥

5.2.48

सुधा भिनत्ति दोषाणां महान्तमपि सञ्चयम् ।
आश्वेव कष्टविभ्रंशा नैव तां कल्पयेदतः ॥

5.2.49

मृदुकोष्ठे ऽबले बाले स्थविरे दीर्घरोगिणि ।
कल्प्या गुल्मोदरगरत्वग्रोगमधुमेहिषु ।
पाण्डौ दूषीविषे शोफे दोषविभ्रान्तचेतसि ॥

5.2.50

सा श्रेष्ठा कण्टकैस्तीक्ष्णैर्बहुभिश्च समाचिता ।
द्विवर्षां वा त्रिवर्षां वा शिशिरान्ते विशेषतः ॥

5.2.51

तां पाटयित्वा शस्त्रेण क्षीरमुद्धारयेत्ततः ।
बिल्वादीनां बृहत्योर्वा क्वाथेन सममेकशः ॥

5.2.52

मिश्रयित्वा सुधाक्षीरं ततो ऽङ्गारेषु शोषयेत् ।
पिबेत् कृत्वा तु गुटिकां मस्तुमूत्रसुरादिभिः ॥

5.2.53

त्रिवृतादीन्नव वरां स्वर्णक्षीरीं ससातलाम् ।
सप्ताहं स्नुक्पयःपीतान्रसेनाज्येन वा पिबेत् ।
तद्वद्व्योषोत्तमाकुम्भनिकुम्भाग्नीन् गुडाम्बुना ॥

5.2.54

अद्यात्च्छ्यामात्रिवृत्क्वाथं स्नुक्क्षीरघृतफाणितैः ।
कासारिरसयूषाद्यैर्युक्तं वा स्नुक्पयः पिबेत् ॥

5.2.55

निकुम्भकुम्भशम्याकशङ्खिनीसप्तलारजः ।
रात्रौ मूत्रे दिवा घर्मे सप्ताहं स्थापयेदिति ॥

5.2.56

स्नुक्क्षीरे ऽपि ततस्तेन माल्यं वासो ऽवचूर्णितम् ।
आजिघ्नन् प्रावृणानश्च मृदुकोष्ठो विरिच्यते ॥

5.2.57

नातिशुष्कं फलं ग्राह्यं शङ्खिन्या निस्तुषीकृतम् ।
सप्तलायास्तथा मूलं ते तु तीक्ष्णविकाषिणी ।
श्लेष्मामयोदरगरश्वयथ्वादिषु कल्पयेत् ॥

5.2.58

अक्षमात्रं तयोः पिण्डं मदिरालवणान्वितम् ।
हृद्रोगे वातकफजे तद्वद्गुल्मे ऽपि योजयेत् ॥

5.2.59

शङ्खिनीचूर्णभागौ द्वौ तिलकल्कस्य चापरः ।
हरीतकीकषायेण ततैलं पीडितं पिबेत् ।
अतसीसर्षपैरण्डकरञ्जेष्वप्ययं विधिः ॥

5.2.60

दन्तिदन्तस्थिरस्थूलं मूलं दन्तीद्रवन्तिजम् ।
आताम्रश्यावतीक्ष्णोष्णमाशुकारि विकाषि च ॥

5.2.61

गुरुप्रकोपिवातस्य पीतश्लेष्मविलायनम् ।
तत्क्षौद्रपिप्पलीलिप्तं स्वेदयेन्मृत्कुशान्तरे ।
शोषयेच्चातपे ऽग्न्यर्कौ हतो ह्यस्य विकाषिताम् ॥

5.2.62

तत् पिबेन्मस्तुमदिरातक्रपीलुरसासवैः ।
अभिष्यण्णतनुर्गुल्मी प्रमेही जठरी गरी ।
गोमृगाजरसैः पाण्डुः कृमिकोष्ठी भगन्दरी ॥

5.2.63

सिद्धं तत् क्वाथकल्काभ्यां दशमूलरसेन च ।
विसर्पाविद्रध्यलजीकक्ष्यादाहान् जयेत् घृतम् ॥

5.2.64

तैलं तु गुल्ममेहार्शोविबन्धकफमारुतान् ।
महास्नेहः शकृच्छुक्रवातसङ्गानिलव्यथाः ॥

5.2.65

दन्त्या रसे ऽजशृङ्ग्याश्च गुडक्षौद्रघृतान्वितः ।
लेहः सिद्धो विरेकार्थे दाहसन्तापमेहनुत् ।
वाततर्षे ज्वरे पैत्ते स्यात्स एवाजगन्धया ॥

5.2.66

दन्तीद्रवन्त्योर्मूलानि पचेद्धात्रीरसे ततः ।
त्रीनंशान् फाणितात् द्वौ च भृष्टस्तैले घृते ऽथवा ॥

5.2.67

श्यामादिकल्कयुक्तो ऽयं लेहः सिद्धं विरेचनम् ।
पथ्याक्षदशमूलानां तद्वल्लेहाः पृथग्रसैः ॥

5.2.68

तयोर्बिडसमं चूर्णं तद्रसेनैव भावितम् ।
विबद्धविशि वातोत्थे गुल्मे चाम्लयुतं हितम् ।
मुद्र्गादिसिद्धैस्तन्मूलैर्यूषादींश्च प्रकल्पयेत् ॥

5.2.69

दन्तीद्रवन्तीमरिचस्वर्णक्षीरीयवासकम् ।
सशुण्ठ्यग्निकपृथ्वीकं चूर्णितं सप्त वासरान् ॥

5.2.70

मूत्रभावितमाज्येन विबेज्जीर्णे च तर्पणम् ।
सर्वदा सर्वरोगेषु बाले वृद्धे च तद्धितम् ॥

5.2.71

दुर्भुक्ताजीर्णपांश्वार्तिर्गुल्मप्लीहोदरेषु च ।
गण्डमालासु वाते च पाण्डुरोगे च शस्यते ॥

5.2.72

गुडस्याष्टपले पथ्या विंशतिः स्यात् पल्ं पलम् ।
दन्तीचित्रकयोः कर्षौ पिप्पलीत्रिवृतोर्दश ॥

5.2.73

प्रकल्प्य मोदकानेकं दशमे दशमे ऽहनि ।
उष्णाम्भो ऽनुपिबन् खादेत्तान् सर्वान् विधिनामुना ॥

5.2.74

एते निष्परिहाराः स्युः सर्वव्याधिनिबर्हणाः ।
विशेषाद्ग्रहणीपाण्डुकण्डूकोठार्शसां हिताः ।
विरेचने मुख्यतमा नवैते त्रिवृतादयः ॥

5.2.75

हरीतकीमपि त्रिवृद्धिधानेनोपकल्पयेत् ।
विशेषात् ग्रहणीशोफपाण्डुमेहोदरापहाम् ॥

5.2.76

पिबेत् पथ्यां ससिन्धूत्थविडङ्गोषणनागराम् ।
मूत्रेण वत्सकादेर्वा निर्यूहेण हरीतकीम् ॥

5.2.77

पथ्यानागरचूर्णं वा संयुतं नीलिनीफलैः ।
गुडेन भक्षयेत्तोयं कवोष्णं च पिबेदनु ॥

5.2.78

पथ्यात्रिवृद्भ्यां गुटिकाः कार्या द्राक्षारसाप्लुताः ।
माषप्रमाणास्ताः शुष्का लिह्याद्यक्ष्मी घृतद्रुताः ।
पथ्यात्रिवृत्पटूष्णाम्बु सर्वत्रेष्टं विरेचनम् ॥

5.2.79

स्नुक्क्षीरभाविते पथ्याचूर्णे कुर्वीत मोदकान् ।
कोलास्थिमात्रान् शुष्कांश्च नवनीतेन लेहयेत् ।
गुल्मोदरयकृत्प्लीहशूलानाहविबन्धिनः ॥

5.2.80

लिह्यादेरण्डतैलेन कुष्ठं त्रिकटुकान्वितम् ।
सुखोदकं चानुपिबेत्सुखमेतद्विरेचनम् ॥

5.2.81

अल्पस्यापि महार्थत्वं प्रभूतस्याल्पकर्मताम् ।
कुर्यात् संश्लेषविश्लेषकालसंस्कारयुक्तिभिः ॥

5.2.82

त्वक्केसराम्रातकदाडिमैलासितोपलामाक्षिकमातुगुङ्गैः ।
मद्येन तस्तैश्च मनो ऽनुकूलैर्युक्तानि देयानि विरेचनानि ॥

मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc