भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गसंग्रह · अध्याय 5.1

5.1.1

अथातो वमनकल्पं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥

5.1.2

वमनद्रव्याणां मदनजीमूतकेक्ष्वाकुद्विकोशातकीकुटजफलानि श्रेष्ठानि तेष्वपि मदनफलम् ॥

5.1.3

दोषदूष्यादिवशाच्चैषामेतत्कल्पनानां च प्राधान्यम् ॥

5.1.4

दोषादीनामेव चातिबह्ववस्थाभेदाद्वमनादिषु कल्पनानां व्यापदां साधनानां च यदसङ्ख्येयत्वमतो बुद्धिमतां विकल्पमार्गप्रदर्शनार्थमुदाहरणमात्रं कल्पसिद्धिस्थानमुपदेक्ष्यते ॥

5.1.5

अथ वसन्तग्रीष्मयोरन्तरे प्रशस्ते ऽहनि मुहूर्ते च नातिहरितपाण्डूनि मदनफलान्यादाय तानि प्रमृज्य कुशमूटके बध्वा गोमयेनालिप्य यवबुसमाषशालिव्रीहिकुलत्थमुद्गान्यतमराशावष्टरात्रमुषितान्युद्धृत्यातपे शोषयेत् ।
सुशुष्काणां पिप्पलीरुद् वृत्य दधिघृतमधुपललमृदिताः पुनः शोषयित्वा नवं कलशमरजस्कमाकण्ठं पूरयित्वा सुगुप्तं निधापयेत् ॥

5.1.6

ततः प्रयोगकाले तासां फलपिप्पलीनामन्तर्नखमुष्टिं यावद्वा साधु मन्येत तावज्जर्जरीकृत्य यष्टीमधुककषाये कोविदारकच्छुदारनीपविदुलबिम्बीशणपुष्पीसदापुष्पीप्रत्यक्पुष्प्यन्यतमकषाये वा रात्रिमुषितं विमृदितं पूतं सूत्रोक्तविधिना पाययेत् ।
श्लेष्मज्वरगुल्मप्रतिश्यायान्तर्विद्रधिषु विशेषेण पुनः पुनरापित्तागमनात् ।
तेन साधु वमति ॥

5.1.7

फलपिप्पलीनां चूर्णं वा स्वक्वाथभावितं त्रिभागत्रिफलाचूर्णं कोविदारादिनिर्यूहेण बलवत्कफप्रसेकापच्यर्बुदग्रन्थिज्वरोदरारोचकेषु पिबेत् ॥

5.1.8

फलमज्जचूर्णं वा जीमूतादिनिर्यूहेण पित्ते कफस्थानगते ॥

5.1.9

फलमज्जसिद्धं वा पयस्तस्मिन्नेव वा यवागूमधोभागे रक्तपित्ते हृद्दाहे च ॥

5.1.10

तस्य वा पयसः शीतस्य सन्तानिकाञ्जलिं पित्ते प्रकुपिते उरसि कण्ठे हृदये च तनुकफोपदिग्धे ॥

5.1.11

तज्जं वा दधि दध्युत्तरं वा कफच्छर्दिप्रसेकतमकेषु ।
तस्माद्वा पयसो नवनीतमुत्पन्नं फलादिषट्कक्वाथसिद्धं कफाभिभूते ऽग्नौ शुष्यच्छरीरे च ॥

5.1.12

फलमज्जचूर्णमिश्रेण वारग्वधादि द्रव्याणां घोण्टनिम्बबाणवर्जानां ससोमवल्कपञ्चकोलकानामन्यतमस्य निर्यूहेण साधितं लेहमुपयुञ्जीत ॥

5.1.13

फलमज्जचूर्णमिश्रेण वा रेणुकैलाशताह्वाकुस्तुम्बुरुतगरकृष्ठत्वक्चोरकमरुबकागरुगुग्गुलुवालकश्रीवेष्टकपरिपेलवमांसीशैलेयस्थौणेयकसुरसारेवतपूत्यशोकरोहिणीनां द्वाविंशतेरन्यतमस्य कषायेण साधितामुत्कारिकां मोदकं वा भक्षयेत् ॥

5.1.14

फलपिप्पलीस्वरसकषायपरिपीतैर्वा तिलशालितण्डुलपिष्टैस्तत्कषायोपसृष्टैः सुरसादिद्रव्यान्यतमनिर्यूहोपसृष्टैर्वा शष्कुलीरपूपानन्यान् वा भक्ष्यान् साधयित्वा भक्षयेत् ॥

5.1.15

फलपिप्पलीनां वा भल्लातकविधिस्रुतं स्वरसमादर्वीप्रलेपात् पक्त्वा लेहयेत् ।
अन्नपानेषु वा तं लेहमवचारयेत् ।
तत्कषायैरेव चान्नपानानि कल्पयेत् ॥

5.1.16

फलमज्जक्वाथं वा वत्सकादिप्रतिवापं निम्बरूपिकान्यतरकषायोपसर्जनं सन्तर्पणोत्थसर्वश्लेष्मव्याधिहरम् ॥

5.1.17

फलपिप्पलीनां वा फलादिनिर्यूहेणैकविंशतिकृत्वः सुभावितानां कुसुमरजःसदृशेन चूर्णेनावचूर्णयेत् सरसि सरोरुहं बृहत्सायाह्ने तद्रात्रिमुषितं प्रभाते पुनरवचूर्णितमुद् वृत्य हरिद्राकृसराक्षरियवागूनामन्य तमं सैन्धवगुडफाणितोपेतमाकण्ठं पीतवानुपजिघ्रेत् ।
सुकुमारः समुचितसुरभिर्गन्धसम्पदुत्क्लिष्टकफपित्तो भेषजद्वेषी च तथा हि सुखेन छर्दयति ॥

5.1.18

एतेन सर्वमाल्यगन्धप्रावरणपटा व्याख्याताः ।
एवमेव च फलाभावे मदनपुष्पाणि शलटूनि च कल्पयेत् ।
इति फलविधानमुक्तम् ॥

5.1.19

एवं च जीमूतादीनपि कल्पयेत् ।
विशेषतस्तु ज्वरश्वासहिध्मादिषु जीमूतकम् ॥

5.1.20

तत्र पुष्पेषु क्षीरम् ।
फलेषु क्षीरपेयाम् ।
लोमशेषु सन्तानिकाम् ।
निर्लोमकेषु दधि दध्युत्तरं वा ।
हरितपाण्डुषु क्षीरं दध्यम्लं वा ।
तत्कषायसंसृष्टां पर्यागतानां जीर्णानां जीमूतकफलानां शुष्काणां चूर्णं पयसा वातपित्ते पिबेत् ॥

5.1.21

द्वित्राणि वापोथ्यारग्वधादीनां नवानामन्यतमस्य पटोल्या वा निर्यूहेणासुतानि मथित्वा पित्तश्लेष्मजे ज्वरे ।
जीमूतचूर्णं कल्कं वा शीताम्बुना पित्तजे ।
तदेवोष्णेन वातकफजे कफजे वा ॥

5.1.22

जीवकर्षभकेक्षुशतावरीणामन्यतमस्य स्वरसेन वातपित्तजे ।
अथवा पूर्ववत् सिद्धं घृतम् ॥

5.1.23

इक्ष्वाकुस्तु विशेषेण कासश्वासज्वरच्छर्दिविषश्लेष्मरोगेषूपयोज्यः ।
तस्यापुष्पफलस्य प्रवालैः शृतं क्षीरमुद्रिक्तपित्ते कफज्वरे ॥

5.1.24

पुष्पादिषु च सुतरां जीमूतवत् प्रयोगाः ।
इक्ष्वाकुफलस्वरसं वा त्रिगुणक्षीरसाधितमुरस्थिते कफे पीनसे स्वरसादे वा वमनार्थी पिबेत् ।
जीर्णे वा समुद्वृतबीजे क्षीरं प्रक्षिपेत् ।
तत्र जातं दधि श्लेष्मकासश्वासच्छर्दिषु ॥

5.1.25

इक्ष्वाकुबीजानि वा छागक्षीरभावितानि विषगुल्मोदरगरगण्डग्रन्थ्यर्बुदश्लीपदेषु इक्ष्वाकुफलमध्यं वा मस्तुना कुष्ठविषपाण्ड्वामयेषु ।
तद्विपक्वं वा तक्रं समधुसैन्धवम् ।
तदेव वा मध्यं सगुडपललं भक्षयेत् ॥

5.1.26

इक्ष्वाकुफलतैलं वा पिबेत् ।
तत्फलस्वरसभावितैर्वा सक्तुभिर्मन्थं श्लेष्मज्वरकासकण्ठरोगारोचकेषु ।
इक्ष्वाकुकल्कं वा मांसरसेन वातकफगुल्मप्रसक्तज्वरेषु ॥

5.1.27

बिल्वमूलद्विप्रस्थक्वाथेन वा तुम्बीबीजानि क्वाथयेत् ततस्तस्मिन् त्रिभागेन घृतम् ।
घृतसमानि च पिष्ट्वा तुम्बीबीजानि ।
तदर्धांशानि च प्रत्येकं जीमूतमहाजालिनीवत्सककृतवेधनानि ।
क्वाथतुल्यमावपेत् त्रिकटुकम् ।
पुनरधिश्रित्य लेहं साधयेत्तमवलिह्य प्रमथ्यामनुपिबेत् ॥

5.1.28

अयमेव च कल्पः काश्मर्यादिषु चतुर्षु महापञ्चमूलाङ्गेषु पृथक् पृथगुक्तो वेदितव्यः ॥

5.1.29

धामार्गवो विशेषेण गरगुल्मोदरकासकफसञ्चयोत्थरोगेषु स्थिरेषु गुरुषु च श्लेष्माशयस्थे वातश्लेष्मणि च कण्ठाश्रये प्रकल्प्यः ।
जीवनीयान्यतमचूर्णसंयुक्तान् समधुशर्करांस्तत्कषायैर्लेहान् पित्तोपसर्जने श्लेष्मणि विदध्यात् ॥

5.1.30

सुमनःसौमनस्यायनीहरिद्राचोरकहैमवतीमहासहाक्षुद्रसहावृश्चीवबिम्बीपुनर्नवकासमर्दान्यतमकषायेण वा धामार्गवफलमेकं द्वे वा मनोविकारेषु ॥

5.1.31

कृतवेधनमत्यर्थकटुतीक्ष्णोष्णं सुतरां गरोदरगुल्मप्लीहपाण्डुरोगश्वयथुषु कल्पयेत् ॥

5.1.32

कुटजफलं पुनः सुकुमारेषूल्बणास्रपित्तकफेषु वातशोणितविसर्पज्वरकुष्ठादिषु च योजयेत् ।
कुटजफलचूर्णान्यर्कक्षीरेण सप्ताहं भावयित्वा जीवककषायेण पिबेत् ।
फलजीमूतकेक्ष्वाकुजीवन्तीमूलान्यतमकषायेण वा सर्षपमधूकलवणान्यतमाम्भसा वा कुटजफलचूर्णं कृसरया वा वमनाय कल्पयेदिति ।
भवति चात्र ॥

5.1.33

वमनानां दिगित्येषा सुतरामुपयोगिनाम् ।
बीजेनानेन मतिमानन्यानपि च कल्पयेदिति ॥

मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc