भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गसंग्रह · अध्याय 4.8

4.8.1

अथातः छर्द्रिहृद्रोगतृष्णाचिकित्सितं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥

4.8.2

आमाशयोत्क्लेशभवाः प्रायश्छर्द्यो हितं ततः ।
लङ्घनं प्रागृते वायोः वमनं तत्र योजयेत् ॥

4.8.3

बलिनो बहुदोषस्य वमतः प्रततं बहु ।
ततो विरेकं क्रमशो हृद्यं मद्यैः फलाम्बुभिः ॥

4.8.4

क्षीरैर्वा सह स ह्यूर्ध्वं गतं दोषं नयत्यधः ।
शमनं चौषधं रूक्षदुर्बलस्य तदेव तु ॥

4.8.5

परिशुष्कं प्रियं सात्म्यमन्नं लघु च शस्यते ।
उपवासस्तथा यूषा रसाः काम्बलिकाः खलाः ॥

4.8.6

शाकानि लेहा भोज्यानि रागषाडवपानकाः ।
भक्ष्याः शुष्का विचित्राश्च फलानि स्नानघर्षणम् ॥

4.8.7

गन्धाः सुगन्धयो गन्धफलपुष्पान्न पानजाः ।
भुक्तमात्रस्य सहसा मुखे शीताम्बुसेचनम् ॥

4.8.8

हन्ति मारुतजां छार्दिं सर्पिः पीतं ससैन्धवम् ।
किञ्चिदुष्णं विशेषेण सकासहृदयद्रवाम् ॥

4.8.9

व्योषत्रिलवणाढ्यं वा सिद्धं वा दाडिमाम्बुना ।
सशुण्ठीदधिधान्येन पीतं तुल्याम्बु वा पयः ॥

4.8.10

व्यक्तसैन्धवसर्पिर्वा फलाम्लो वैष्किरो रसः ।
स्निग्धं च भोजनं शुण्ठीदधिदाडिमसाधितम् ।
कोष्णं सलवणं चात्र हितं स्नेहविरेचनम् ॥

4.8.11

पित्तजायां विरेकाथ द्राक्षेक्षुस्वरसैस्त्रिवृत् ।
सर्पिर्वा तैल्वकं योज्यं वृद्धं च श्लेष्मधामगम् ॥

4.8.12

ऊर्ध्वमेव हरेत् पित्तं स्वादुतिक्तैर्विशुद्धिमान् ।
पिबेन्मन्थं यवागूं वा लाजैः समधुशर्करैः ।
गुद्गजाङ्गलजैरद्याद्व्यञ्जनैः शालिषष्टिकम् ॥

4.8.13

मृद्भृष्टलोष्टप्रभवं सुशीतं सलिलं पिबेत् ।
मुद्गोशीरकणाधान्यैः सह वा संस्थितं निशाम् ।
द्राक्षारसं रसञ्चेक्षोर्गुडूच्यम्बु पयो ऽपि ॥

4.8.14

जम्ब्वाम्रपल्लवोशीरवटाश्वत्थाङ्कुरोद्भवः ।
क्वाथः क्षौद्रयुतः पीतः शीतो वा विनियच्छति ॥

4.8.15

छर्दिं ज्वरमतीसारं मूर्छां तृष्णां च दुर्जयाम् ।
धात्रीरसेन शीतं वा पिबेन्मुद्गदलाम्बु वा ॥

4.8.16

कोलमज्जासितालाजमक्षिकाविट्कणाञ्जनम् ।
कोलास्थिमज्जास्रोतोजलाजोत्पलरजांसि वा ॥

4.8.17

लिह्यात् क्षौद्रेण पथ्यां वा द्राक्षां वा बदराणि वा ।
पिबेच्छीताम्बुना शालिस्वर्णगैरिकजं रजः ।
पिष्टं वा चन्दनद्राक्षामांसीसेव्याम्बुगैरिकम् ॥

4.8.18

शालितण्डुलतोयेन पिबेद्वा ससितामधु ।
मधूकमधुकद्राक्षाकमलामलकाम्बुदम् ॥

4.8.19

ससारिवापरूषाक्षं मूर्वां वा माक्षिकान्विताम् ।
मधुकं सात्मगुप्तं वा शीतं धात्रीरसेन वा ॥

4.8.20

कफजायां वमेन्निम्बकृष्णापिण्डीतसर्षपैः ।
युक्तेन कोष्णतोयेन दुर्बलं चोपवासयेत् ॥

4.8.21

आरग्वधादेर्निर्यूहं शीतं क्षौद्रयुतं पिबेत् ।
त्रिफलाकणचव्याद्वा पेयां पत्रैः करञ्जजैः ॥

4.8.22

मन्थान्यवैर्वा बहुशश्छर्दिघ्नौषधभावितैः ।
कफघ्नमन्नं हृद्यं च रागाः सार्जकभूस्तृणाः ॥

4.8.23

लीढं मनश्शिलाकृष्णामरिचं बीजपूरकात् ।
स्वरसेन कपित्थाच्च सक्षौद्रेण वमिं जयेत् ॥

4.8.24

समुस्तां मधुना शृङ्गीं कोलाम्लं वा सजाम्बवम् ।
तद्वद्विडङ्गत्रिफलाकृमिघ्नपरिपेलवम् ॥

4.8.25

तद्वद्दुरालभां खादेत् कपित्थं त्र्यूषणेन वा ।
अनुकूलोपचारेण याति द्विष्टार्थजा शमम् ॥

4.8.26

कृमिजा कृमिहृद्रोगगदितैश्च भिषग्जितैः ।
यथास्वं परिशिष्टाश्च तत्कृताश्च तथामयाः ॥

4.8.27

त्वरमाणो जयेच्छर्दिं प्रसक्तामनुबन्धिनीम् ।
कोष्ठाश्रयमहामर्मपीडाकरतरा हि सा ॥

4.8.28

नचान्नेन विना कायस्तन्मयो वर्तते ऽपि च ।
धातुक्षयो ऽतिवमथौ समीरणसमीरणात् ॥

4.8.29

नियतं जायते तस्माद्द्रुतं तत्र प्रयोजयेत् ।
प्रच्छर्दनातियोगोक्तं क्रमं स्तम्भनबृंहणम् ॥

4.8.30

सर्पिर्गुडान् रसान् क्षीरं घृतं कल्याणजीवनम् ।
धान्वन्तरं त्र्यूषणं वा दोषदेहानुरोधतः ॥

4.8.31

हृद्रोगचिकित्सितम् ।
हृद्रोगे वातजे तैलं मस्तुसौवीरतक्रवत् ।
पिबेत् सुखोष्णं सबिडं गुल्मानाहार्तिजिच्च तत् ॥

4.8.32

तलं च लवणैः सिद्धं समूत्राम्लं तथागुणम् ।
बिल्वं रास्नां यवान् कोलं देवदारु पुनर्नवम् ॥

4.8.33

कुलत्थान् पञ्चमूलं च पक्त्वा तस्मिन् जले पचेत् ।
तैलं तन्नावने पाने बस्तौ च विनियोजयेत् ॥

4.8.34

शुण्ठीवयस्थालवणकायस्थाहिङ्गुपौष्करैः ।
पथ्यया च शृतं पार्श्वहृद्रुजागुल्मजिद्घृतम् ॥

4.8.35

सौवर्चलस्य द्विपले पथ्यापञ्चाशदन्विते ।
घृतस्य साधितः प्रस्था हृद्रोगश्वासगुल्मनुत् ॥

4.8.36

दाडिमं कृष्णलवणं हिङ्गुशुण्ठ्यम्लवेतसम् ।
अपतन्त्रकहृद्रोगश्वासघ्नं चूर्णमुत्तमम् ॥

4.8.37

पुष्कराह्वशठीशुण्ठीबीजपूरजटाभयाः ।
पीताः कल्कीकृताः क्षारघृताम्ललवणैर्युताः ।
विकर्तिकाशूलहरा क्वाथः कोष्णश्च तद्गुणः ॥

4.8.38

यवानीलवणक्षारवचाजाज्यौषधैः कृतः ।
सपीतदारुबीजाह्वपलाशशठिपौष्करैः ॥

4.8.39

पञ्चकोलशठीपथ्यागुडबीजाह्वपौष्करम् ।
वारुणीकल्कितं भृष्टं यमके लवणान्वितम् ॥

4.8.40

हृत्पार्श्वयोनिशूलेषु खादेत् गुल्मोदरेषु च ।
स्निग्धाश्चेह हिताः स्वेदाः संस्कृतानि घृतानि च ॥

4.8.41

लघुना पञ्चमूलेन शुण्ठ्या वा साधितं जलम् ।
वारुणीदधिमण्डं वा धान्याम्लं वा पिबेत्तृषि ॥

4.8.42

सायामस्तम्भशूलामे हृदि मारुतदूषिते ।
क्रियषा सद्रवायामपमोहे तु हिता रसाः ॥

4.8.43

स्नेहाढ्यास्तित्तिरिक्रौञ्चशिखिवर्तकदक्षजाः ।
बलातैलं सहृद्रोगी पिबेद्वा सुकुमारकम् ॥

4.8.44

यष्ट्याह्वशतपाकं वा महास्नेहं तथोत्तमम् ।
रास्नाजीवकजीवन्तीबलाव्याघ्रीपुनर्नवैः ॥

4.8.45

भार्ङ्गीस्थिरावचाव्योषैर्महास्नेहं विपाचयेत् ।
दधिपादं तथाम्लैश्च लाभतः स निषेवितः ।
तर्पणो बृंहणो बल्यो वातहृद्रोगनाशनः ॥

4.8.46

त्र्यूषणत्रिफलापाठमधूकं मधुकं चुटी ।
पञ्चमूलं लघु बले मेदे ऋद्दिः शतावरी ॥

4.8.47

कण्डूकरी तामलकी जीवकं चाक्षसंमितैः ।
तैः पचेत् सर्पिषः प्रस्थं दध्नः प्रस्थेन माहिषात् ॥

4.8.48

युक्तं सिद्धं च मधुना तन्निहन्ति निषेवितम् ।
हृत्पाण्डुग्रहणीदोषकासश्वासहलीमकान् ॥

4.8.49

दीप्ते ऽग्नौ सद्रवायामे हृद्रोगे वातिके हितम् ।
क्षीरं दधि गुडः सर्पिरौदकानूपमामिषम् ॥

4.8.50

घृतान्येव च वर्ज्यानि ह्रद्रोगेषु चतुर्ष्वपि ।
शेषेषु स्तम्भजाड्यामसंयुक्ते ऽपि च वातिके ।
कफानुबन्धे तस्मिंस्तु रूक्षोष्णामाचरेत् क्रियाम् ॥

4.8.51

पैत्ते द्राक्षेक्षुनिर्याससिताक्षाद्रपरूषकैः ।
युक्तो विरेको हृद्यः स्यात् क्रमः शुद्धे च पित्तहा ॥

4.8.52

क्षतपित्तज्वरोक्तं च बाह्यान्तःपरिमार्जनम् ।
कट्वीमधुककल्कं च पिबेत् ससितमम्भसा ॥

4.8.53

श्रेयसीशर्कराद्राक्षाजीवकर्षभकोत्पलैः ।
बलाखर्जूरकाकोलीमेदायुग्मैश्च साधितम् ॥

4.8.54

सक्षीरं माहिषं सर्पिः पित्तहृद्रोगनाशनम् ।
प्रपौण्डरीकमधुकबिसग्रन्थिकशेरुकाः ॥

4.8.55

सशुण्ठीशैवलास्ताभिः सक्षीरं विपचेत् घृतम् ।
शीतं समधु तच्चेष्टं स्वादुवर्गकृतं च यत् ।
बस्तिं च दद्यात् सक्षौद्रं तैलं मधुकसाधितम् ॥

4.8.56

कफोद्भवे वमेत् स्विन्नः पिचुमन्दवचाम्भसा ।
कुलत्थधन्वोत्थरसतीक्ष्णमद्ययवाशनः ॥

4.8.57

पिबेच्चूर्णं वचाहिङ्गुलवणद्वयनागरात् ।
सैला यवानककणा यवक्षारात् सुखाम्बुना ॥

4.8.58

फलधान्याम्लकौलत्थयूषमूत्रासवैस्तथा ।
पुष्कराह्वाभयाशुण्ठीशठीरास्नावचाकणात् ।
क्वाथं तथाभयाशुण्ठीमाद्रीपीतद्रुकट्फलात् ॥

4.8.59

क्वाथे रौहीतकाश्वत्थखदिरोदुम्बरार्जुने ।
सपलाशवटे व्योषत्रिवृच्चूर्णान्विते कृतः ॥

4.8.60

सुखोदकानुपानः स्याल्लेहः कफविकारहा ।
श्लेष्मगुल्मोदिताज्यानि क्षारांश्च विविधान् पिबेत् ॥

4.8.61

प्रयोजयेच्छिलाह्रं वा ब्राह्मं चात्र रसायनम् ।
तथामलकलेहं वा प्राशं वागस्त्यनिर्मितम् ॥

4.8.62

स्याच्छूलं यस्य भुक्ते ऽति जीर्यत्यल्पं जरां गते ।
शाम्येत् सकुष्ठकृमिजिल्लवणद्वयतिल्वकैः ॥

4.8.63

सदेवदार्वतिविषैश्चूर्णमुष्णाम्बुना पिबेत् ।
यस्य जीर्णे ऽधिकं स्नेहैः स विरेच्यः फलैःपुनः ॥

4.8.64

जीर्यत्यन्ने तथा मूलैस्तीक्ष्णैः शूले सदाधिके ।
प्रायो ऽनिलो रुद्धगतिः कुप्यत्यामाशये यतः ॥

4.8.65

तस्यानुलोमनं कार्यं शुद्धिलङ्घनपाचनैः ।
कृमिघ्नमौषधं सर्वं कृमिजे हृदयामये ॥

4.8.66

तृष्णाचिकित्सितम् ।
तृष्णासु वातपित्तघ्नो विधिः प्रायेण शस्यते ।
सर्वासु शीतो बाह्यान्तस्तथा शमनशोधनः ॥

4.8.67

दिव्याम्बु शीतं सक्षौद्रं तद्वद्भौमं च तद्गुणम् ।
निर्वापितं तप्तलोष्टकपालसिकतादिभिः ॥

4.8.68

सशर्करं वा क्वथितं पञ्चमूलेन वा जलम् ।
दर्भपूर्वेण मन्थश्च प्रशस्तो लाजसक्तुभिः ॥

4.8.69

वाट्यश्चामयवैः शीतः शर्करामाक्षिकान्वितः ।
यवागूः शालिभिस्तद्वत् कोद्रवैश्च चिरन्तनैः ॥

4.8.70

शीतेन शीतवीर्यैश्च द्रव्यैः सिद्धेन भोजनम् ।
हिमाम्बुपरिषिक्तस्य पयसा ससितामधु ॥

4.8.71

रसैश्चानम्ललवणैर्जाङ्गलैर्घृतभर्जितैः ।
मुद्गादीनां तथा यूषैर्जीवनीयरसान्वितैः ॥

4.8.72

नस्यं क्षीरघृतं सिद्धं शीतैरिक्षोस्तथा रसः ।
नारीक्षीरेण वा घृष्टमुष्ट्रास्थि ससितं हितम् ॥

4.8.73

निर्वापणाश्च गण्डूषाः सूत्रस्थानोदिता हिताः ।
दाहज्वरोक्ता लेपाद्या निरीहत्वं मनोरतिः ॥

4.8.74

महासरिद्ध्रदादीनां दर्शनस्मरणादि च ।
तृष्णायां पवनोत्थायां सगुडं दधि शस्यते ।
रसाश्च बृंहणाः शीता विदार्यादिगणाम्बु च ॥

4.8.75

पित्तजायां सितायुक्तः पक्वोदुम्बरजो रसः ।
तत्क्वाथो वा हिमस्तद्वत्सारिवादिगणाम्बु वा ॥

4.8.76

तद्विधैश्च गणः शीतकषायान् ससितामधून् ।
मधुरैरौषधैस्तद्वत् क्षीरिवृक्षैश्च कल्पितान् ॥

4.8.77

बीजपूरकमृद्वीकावटवेतसपल्लवान् ।
मूलानि कुशकाशानां यष्ट्याह्वं च जले शृतम् ॥

4.8.78

अपाकशर्कराच्छिन्नरुहालोद्ध्राञ्जनाम्बु वा ।
कार्पसीफलकल्कं वा ससितक्षीरभोजनः ॥

4.8.79

ज्वरोदितं वा द्राक्षादिपञ्चसाराम्बु वा पिबेत् ॥

4.8.80

कफोद्भवायां वमनं निम्बप्रसववारिणा ।
बिल्वाढकीपञ्चकोलदर्भपञ्चकसाधितम् ॥

4.8.81

जलं पिबेद्रजन्या वा सिद्धं सक्षौद्रशर्करम् ।
मुद्गयूषं च सव्योषपटोलीनिम्बपल्लवम् ।
यवान्नं तीक्ष्णकवलनस्यलेहांश्च शीलयेत् ॥

4.8.82

सर्वैरामाच्च तद्धन्त्री क्रियेष्टा वमनं तथा ।
त्र्यूषणारुष्करवचाफलाम्लोष्णाम्बुमस्तुभिः ॥

4.8.83

अन्नात्ययान्मण्डमुष्णं हिमं मन्थं च कालवित् ।
तृषि श्रमान्मांसरसं मन्थं वा ससितं पिबेत् ॥

4.8.84

आतपात् ससितं मन्थं यवकोलजसक्तुभिः ।
सर्वाण्यङ्गानि लिम्पेच्च तिलपिण्याककाञ्जिकैः ॥

4.8.85

शीतस्नानाच्च मद्याम्बु पिबेत्तृड्वान् गुडाम्बु वा ।
मद्यादर्धजलं मद्यं स्नातो ऽम्ललवणैर्युतम् ॥

4.8.86

स्नेहतीक्ष्णतराग्निस्तु स्वभावशिशिरं जलम् ।
स्नेहादुष्णाम्ब्वजीर्णात्तु जीर्णान्मण्डं पिपासितः ॥

4.8.87

पिबेत् स्निग्धान्नतृषितो हिमस्पर्धि गुडोदकम् ।
गुर्वाद्यन्नेन तृषितः पीत्वोष्णाम्बु तदुल्लिखेत् ॥

4.8.88

क्षयजायां क्षयहितं सर्वं बृंहणमौषधम् ।
कृशदुर्बलरूक्षाणां क्षीरं छागो रसो ऽथवा ।
क्षीरं च सोर्ध्ववातायां क्षयकासहरैः शृतम् ॥

4.8.89

रोगोपसर्गजातायां धान्याम्बु ससिताम्धु ।
पाने प्रशस्तं सर्वा च क्रिया रोगाद्यपेक्षया ॥

4.8.90

तृष्णक् पूर्वामयक्षीणो न लभेत जलं यदि ।
मरणं दीर्घरोगं वा प्राप्नुयात् त्वरितं ततः ॥

4.8.91

सात्म्यान्नपानभौषज्यैस्तृष्णां तस्य जयेत्पुरः ।
तस्यां ज्जितायामन्यो ऽपि व्याधिः शक्यश्चिकित्सितुम् ॥

मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc