भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गसंग्रह · अध्याय 4.9

4.9.1

अथातो मदात्ययचिकित्सितं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥

4.9.2

यं दोषमधिकं पश्येत्तस्यादौ प्रतिकारयेत् ।
कफस्थानानुपूर्व्या वा तुल्यदोषे मदात्यये ।
पित्तमारुतपर्यन्तः प्रायेण हि मदात्ययः ॥

4.9.3

हीनमिथ्यातिपीतेन यो व्याधिरुपजायते ।
समपीतेन तेनैव स मद्येनोपशाम्यति ॥

4.9.4

मद्यस्य विषसादृश्याद्विषं तूत्कर्षवृत्तिभिः ।
तीक्ष्णादिभिर्गुणैर्योगाद्विषान्तरमपेक्षते ॥

4.9.5

तीक्ष्णोष्णेनातिमात्रेण पीतेनाम्लविदाहिना ।
मद्येनान्नरसक्लेदो विदग्धः क्षारतां गतः ॥

4.9.6

यान् कुर्यान्मदतृण्मोहज्वरान्तर्दाहविभ्रमान् ।
मद्योत्क्लिष्टेन दोषेण रुद्धः स्रोतस्सु मारुतः ॥

4.9.7

सुतीव्रा देवना याश्च शिरस्यस्थिषु सन्धिषु ।
जीर्णाममद्यदोषस्य प्रकाङ्क्षालाघवे सति ।
यौगिकं विधिवद्युकं मद्यमेव निहन्ति तान् ॥

4.9.8

क्षारो हि याति माधुर्यं शीघ्रमम्लोपसंहितः ।
मद्यमम्लेषु च श्रेष्ठं दोषविष्यन्दनादलम् ॥

4.9.9

तीक्ष्णोष्णाद्यैः पुराप्रोक्तैर्दीपनाद्यैस्तथागुणैः ।
सात्म्यत्वाच्च तदेवास्य धातुसाम्यकरं परम् ॥

4.9.10

सप्ताहमष्टरात्रं वा कुर्यात् पानात्ययौषधम् ।
जीर्यत्येतावता पानं कालेन विपथाश्रितम् ॥

4.9.11

परं ततो ऽनुबध्नाति यो रोगस्तस्य भेषजम् ।
यथायथं प्रयुञ्जीत कृतपानात्ययौषधम् ॥

4.9.12

तत्र वातोल्बणे मद्यं दद्यात् पिष्टकृतं युतम् ।
बीजपूरकवृक्षाम्लकोलदाडिमदीप्यकैः ॥

4.9.13

यवानीहपुषाजाजीव्योषत्रिलवणार्द्रकैः ।
शूल्यैर्मांसैर्हरितकैः स्नेहवद्भिश्च सक्तुभिः ॥

4.9.14

उष्णस्निग्धाम्ललवणा मेद्यमांसरसा हिताः ।
आम्राम्रातकपेशीभिः संस्कृता रागषाडवाः ॥

4.9.15

गोधूममाषविकृतीर्मृदुचित्रा मुखप्रियाः ।
आर्दिकार्द्रककुल्माषशुक्तमांसादिगर्भिणीः ॥

4.9.16

सुरभिर्लवणा शीता निगदा वाच्छवारुणी ।
स्वरसो दाडिमात् क्वाथः पञ्चमूलात् कनीयसः ॥

4.9.17

शुण्ठीधान्यात्तथा मस्तु शुक्ताम्भोच्छाम्लकाञ्जिकम् ।
अभ्यङ्गोद्वर्तनस्नानमुष्णं प्रावरणं घनम् ॥

4.9.18

घनश्चागरुजो धूपः पङ्कश्चागरुकुङ्कुमात् ।
कुचोरुश्रोणिशालिन्यो यौवनोष्णाङ्गयष्टयः ।
हर्षेणालिङ्गने युक्ताः प्रियाः संवाहनेषु च ॥

4.9.19

पित्तोल्बणे बहुजलं शार्करं मधु वा युतम् ।
रसैर्दाडिमखर्जूरभव्यद्राक्षापरूषजैः ॥

4.9.20

सुशीतं ससितासक्तु योज्यं तादृक् च पानकम् ।
स्वादुवर्गकसायैर्वा युक्तं मद्यं समाक्षिकम् ॥

4.9.21

शालिषष्टिकमश्नीयाच्छशाजैणकपिञ्जलैः ।
सतीनमुद्गामलकपटोलीदाडिमैरपि ॥

4.9.22

कफपित्तं समुत्क्लिष्टमुल्लिखेत्तृड्विदाहवान् ।
पीत्वाम्बु शीतं मद्यं वा भूरीक्षुरससंयुतम् ॥

4.9.23

द्राक्षारसं वा संसर्गी तर्पणादिः परं हिताम् ।
तथाग्निर्दीप्यते तस्य दोषशेषान्नपाचकः ॥

4.9.24

कासे सरक्तनिष्ठीवे पार्श्वस्तनरुजासु च ।
तृष्णायां सविदाहायां सोत्क्लेशे हृदयोरसि ॥

4.9.25

गुडूचीभद्रमुस्तानां पटोलस्याथवा रसम् ।
सनागरं योजयेत तित्तिरिप्रतिभोजनम् ॥

4.9.26

तृष्यते चातिबलवद्वातपित्ते समुद्धते ।
दद्याद्द्राक्षारसं पानं शीतं दोषानुलोमनम् ॥

4.9.27

जीर्णे ऽद्यान्मधुराम्लेन छागमांसरसेन च ।
तृष्यल्पशः पिबेन्मद्यं मदं रक्षन् बहूदकम् ॥

4.9.28

मुस्तदाडिमलाजाम्बु जलं वा पर्णिनीशृतम् ।
पाटल्युत्पलकन्दैर्वा स्वभावादेव वा हिमम् ॥

4.9.29

मद्यातिपानादब्धातौ क्षीणे तेजसि चोद्धते ।
यः शुष्कगलताल्वोष्ठो जिह्वां निष्कृष्य चेष्टते ॥

4.9.30

पाययेत् कामतो ऽम्भस्तं निशीथपवनाहतम् ।
कोलदाडिमवृक्षाम्लचुक्रीकाचुत्रिकारसः ।
पञ्चाम्लको मुखालेपः सद्यस्तृष्णां नियच्छति ॥

4.9.31

त्वचं प्राप्तश्च पानोष्मा पित्तरक्ताभिमूर्छितः ।
दाहं प्रकुरुते घोरं विह्वलो येन मुह्यति ॥

4.9.32

तृष्णादाहपरीतस्य तस्य दाहज्वरापहम् ।
विधिं यथोक्तं युञ्जीत बाह्यान्तः परिमार्जनम् ॥

4.9.33

प्रभातमारुतोद्धूताः प्रालेयजलवर्षिणः ।
स्मर्यमाणा अपि घ्नन्ति दाहं मलयपादपाः ॥

4.9.34

मुक्ताकलापाः शशिरश्मिशुभ्रा मृणालपद्मोत्पलपत्ररम्याः ।
सेकावगाहाः सजला जलार्द्रा वाताः सुशीता मणयो महार्हाः ॥

4.9.35

अलिञ्जराः पद्मपुटापिधानाः प्रवालवर्णा हिमवारिपूर्णाः ।
परिस्रवन्तो दृतयो महान्तः पुत्राः प्रिया दर्पणमण्डलानि ॥

4.9.36

नार्यश्च नेत्रोत्पलकर्णपूरा मध्यं वयः किञ्चिदिव स्पृशन्त्यः ।
मनो ऽनुकूला हरिचन्दनार्द्रास्तृड्दाहमूर्च्छादवथून् जयन्ति ॥

4.9.37

करेणुकाभिः परिवारितेन विक्षोभणं वारणयूथपेन ।
आस्फालनं शीकरवर्षणं च सिन्धोः स्मरन् दाहतृषोरगम्यः ॥

4.9.38

सरिद्ध्रदानां हिमवद्दरीणां चन्द्रोदयानां कमलाकराणाम् ।
मनोरमान्यापि कथाप्रवृत्ता दाहं च तृष्णां च निहन्ति सद्यः ॥

4.9.39

लाजोत्पलोशीरकुचन्दनाम्बु शीताभिधानं मधुशर्कराढ्यम् ।
मद्योद्भवां पित्तकृतां च तृष्णां सदाहशोषां विनिहन्ति पीतम् ॥

4.9.40

प्रियङ्गुपत्रप्लवलोध्रसेव्यद्द्रीबेरकालेयकनागपुष्पैः ।
शीताम्बुपिष्टैर्नवकर्परस्थैस्तृड्दाहहा सर्वशरीरलेपः ॥

4.9.41

अशाम्यत्यथवा दाहे रसैस्तृप्तस्य जाङ्गलैः ।
शाखाश्रयां यथान्यायं रोहिणीं व्यधयेत्सिराम् ॥

4.9.42

जल्लेखनोपवासाभ्यां विजयेत कफोल्बणं ।
तृषितो ऽम्बु पिबेत् सिद्धं मुस्तया पर्पटेन वा ॥

4.9.43

स्थिराशुण्ठीबलोदीच्यदुस्पर्शान्यतमेन वा ।
सिद्धमेतच्च सर्वेषु पानदोषेषु शस्यते ॥

4.9.44

निरामं क्षुधितं काले पाययेत् बहुमाक्षिकम् ।
शार्करं मधु वा जीर्णमरिष्टं सीधुमेव वा ।
रूक्षतर्पणसंयुक्तं यवानीनागरान्वितम् ॥

4.9.45

यूषेण यवगोधूमं तनुनाल्पेन भोजयेत् ।
उष्णाम्लकटुतिक्तेन कौलत्थेनाल्पसर्पिषा ॥

4.9.46

शुष्कमूलकजैश्छागै रसैर्वा धन्वचारिणाम् ।
साम्लवेतसवृक्षाम्लपटोलीव्योषदाडिमैः ॥

4.9.47

प्रभूतशुण्ठीमरिचहरितार्द्रकपेशिकम् ।
बीजपूररसाद्यम्लं भृष्टं नीरसवर्तितम् ॥

4.9.48

करीरकरमर्दादिरोचिष्णुबहुसालनम् ।
प्रव्यक्ताष्टाङ्गलवणं विकल्पितनिमर्दकम् ।
यथाग्नि भक्षयन्मांसं माधवं निगदं पिबेत् ॥

4.9.49

सितासौवर्चलाजाजीतिन्तिणीकाम्लवेतसम् ।
त्वगेलामरिचार्धांशमष्टाङ्गलवणं हितम् ।
स्रोतोविशुध्यग्निकरं कफप्राये मदात्यये ॥

4.9.50

कटुस्कन्धयुतां श्वेतां मृद्वीकां निष्कुलीकृताम् ।
रसेन मातुलुङ्गस्य कलकयेद्दाडिमस्य वा ।
तया क्षौद्रयुतो रागाः कृतो रोचनदीपनः ॥

4.9.51

सौवर्चलैलामरिचदीप्यकाजाजि चोचवत् ।
कार्व्याः कल्पयेदेवं शूक्तं मत्स्यण्डिकान्वितम् ॥

4.9.52

धान्यसौवर्चलाजाजीकारवीमरिचान्वितान् ।
सगुडान् मधुयुक्तेन व्यक्ताम्लान् मरिचोत्कटान् ॥

4.9.53

रूक्षोष्णोद्वर्तनोद्घर्षस्नानभोजनलङ्घनैः ।
सकामाभिः सह स्त्रीभिर्युक्त्या जागरणेन च ।
मदात्ययः कफप्रायः शीघ्रं समुपशाम्यति ॥

4.9.54

यदिदं कर्म निर्दिष्टं पृथग्दोषबलं प्रति ।
सन्निपाते दशविधे तच्छेषे ऽपि विकल्पयेत् ॥

4.9.55

त्वन्नागपुष्पमगधामरिचाजाजिधान्यकैः ।
परूषकमधूकैलासुराह्वैश्च सितान्वितैः ॥

4.9.56

सकपित्थरसं हृद्यं पानकं शशिबोधितम् ।
मदात्ययेषु सर्वेषु पेयं रुच्यग्निदीपनम् ॥

4.9.57

तद्वद्दाडिममृद्वीकाकणाकाश्मर्यदारुभिः ।
सबीजपूरकरसैर्बिडसौवर्चलान्वितम् ॥

4.9.58

फलैर्वा विविधैरम्लैः सत्रिवृच्चूर्णशर्करम् ।
कच्छुदाराङ्कुरद्राक्षावर्षाभूजीरकद्वयम् ॥

4.9.59

मधूकयष्टीत्वक्कृष्णाकेसरं श्लक्ष्णचूर्णितम् ।
पिबेदालोड्य दुग्धेन सूक्ष्मतान्तवगालितम् ॥

4.9.60

नाक्षोभ्य हि मनो मद्यं शरीरमविहन्य वा ।
कुर्यान्मदात्ययं तस्मादिष्यते हर्षणी क्रिया ॥

4.9.61

सेव्याः सर्वेन्द्रियसुखा धर्मकल्पद्रुमाङ्कुराः ।
विषयातिशयाः पञ्च शराः कुसुमधन्वनः ॥

4.9.62

संशुद्धिशमनाद्येषु मददोषः कृतेष्वपि ।
न चेच्छाम्येत् कफे क्षीणे जाते दौर्बल्यलाघवे ॥

4.9.63

तस्य मद्यविदग्धस्य वातपित्ताधिकस्य च ।
ग्रीष्मोपतप्तस्य तरोर्यथा वर्षं तथा पयः ॥

4.9.64

मद्यक्षीणस्य हि क्षीरं क्षीणमाश्वेव पुष्यति ।
ओजस्तुल्यं गुणैः सर्वैर्विपरीतं च मद्यतः ॥

4.9.65

पयसा विहते रोगे बले जाते निवर्तयेत् ।
क्षीरप्रयोगं मद्यं च क्रमेणाल्पाल्पमाचरेत् ॥

4.9.66

न विक्षयध्वंसकोत्थैः स्पृश्येतोपद्रवैर्यथा ।
तयोस्तु स्यात् घृतं क्षीरं बस्तयो बृंहणाः शिवाः ।
अभ्यङ्गोद्वर्तनस्नानान्यन्नपानं च वातजित् ॥

4.9.67

युक्तमद्यस्य मद्योत्थो न व्याधिरुपजायते ।
अतो ऽस्य वक्ष्यते योगो यः सुखायैव केवलम् ॥

4.9.68

आश्विनं या महत्तेजो बलं सारस्वतं च या ।
दधात्यैन्द्रं च या वीर्यं प्रभावं वैष्णवं च या ॥

4.9.69

अस्त्रं मकरकेतोर्या पुरुषार्थो बलस्य या ।
सौत्रामण्यां द्विजमुखे हुताशे हूयते च या ॥

4.9.70

या सर्वौसधिसम्पूर्णान्मथ्यमानात्सुरासुरैः ।
महोदधेः समुद्भूता श्रीशशाङ्कामृतैः सह ॥

4.9.71

मधुमाधवमैरेयसीधुगौडासवादिभिः ।
मदशाक्तिमनुज्झन्ती या रूपैर्बहुभिः स्थिता ॥

4.9.72

यामास्वाद्य विलासिन्यो यथार्थं नाम बिभ्रति ।
कुलाङ्गनापि यां पीत्वा नयत्युद्धतमानसा ॥

4.9.73

अनङ्गालिङ्गितैरङ्गैः क्वापि चेतो मुनेरपि ।
तरङ्गभङ्गभ्रुकुटीतर्जनैर्मानिनीमनः ॥

4.9.74

एकं प्रसाद्य कुरुते या द्वयोरपि निर्वृतिम् ।
यथाकामभटावाप्तिपरिहृष्टाप्सस्रोगणे ॥

4.9.75

तृणवत् पुरुषा युद्धे यामास्वाद्य जहत्यसून् ।
यां शीलयित्वापि चिरं बहुधा बहुविग्रहाम् ॥

4.9.76

नित्यं हर्षातिवेगेन तत् पूर्वमिव सेवते ।
शोकोद्वेगारतिभयैर्यां दृष्ट्वा नाभिभूयते ॥

4.9.77

गोष्ठीमहोत्सवोद्यानं न यस्याः शोभते विना ।
स्मृत्वा स्मृत्वा च बहुशो वियुक्तः शोचते यया ॥

4.9.78

अप्रसन्नापि या प्रीत्यै प्रसन्ना स्वर्ग एव या ।
अपीन्द्रं मन्यते दुस्स्थं हृद्यस्थितया यया ॥

4.9.79

अनिर्देश्यसुखास्वादा स्वसंवेद्यैव या परम् ।
इति चित्रास्ववस्थासु प्रियामनुकरोति या ॥

4.9.80

प्रियातिप्रियतां याति यत् प्रियस्य विशेषतः ।
या प्रीतिर्या रतिर्वाग्या या पुष्टिरिति च स्तुता ॥

4.9.81

वेददानवगन्धर्वयक्षराक्षसमानुषैः ।
पानप्रवृत्तौ सत्यां तु तां सुरां विधिना पिबेत् ॥

4.9.82

सम्भवन्ति न ते रोगा मेदोनिलकफोद्भवाः ।
विधियुक्तादृते मद्याद्ये न सिध्यन्ति दारुणाः ॥

4.9.83

अस्ति देहस्य सावस्था यस्यां पानं निवार्यते ।
अन्यत्र मद्यान्निगदाद्विविधौषधसम्भृतात् ॥

4.9.84

आनूपं जाङ्गलं मांसं विधिनाप्युपकल्पितम् ।
मद्यं सहायमप्राप्य सम्यक् परिणमेत् कथम् ॥

4.9.85

सुतीक्ष्णमारुतव्याधिघातिनो लशुनस्य च ।
मद्यमांसवियुक्तस्य प्रयोगे स्यात् कियान् गुणः ॥

4.9.86

निगूढशल्याहरणे शस्त्रक्षाराग्निकर्मणि ।
पीतमद्यो विषहते सुखं वैद्यविकत्थनाम् ॥

4.9.87

अनलोत्तेजनं रुच्यं शोकश्रमविनाशनम् ।
न चातः परमस्त्यन्यदारोग्यबलपुष्टिकृत् ॥

4.9.88

रक्षता जीवितं तस्मात् पेयमात्मवता सदा ।
आश्रितोपाश्रितहितं परमं धर्मसाधनम् ॥

4.9.89

स्रातः प्रणम्य सुरविप्रगुरून्यथास्वं वृत्तिं विधाय च समस्तपरिग्रहस्य ।
आपानभूमिमथ गन्धजलाभिषिक्तामाहारमण्डपसमीपगतां श्रयेत ॥

4.9.90

स्वास्तृते ऽथ शयने कमनीये मित्रभृत्यरमणीसमवेतः ।
स्वं यशः कथकचारणसङ्घैरुद्धतं निशमयन्नतिलोकम् ॥

4.9.91

विलासिनीनां च विलासशोभि गीतं सनृत्तं कलतूर्यघोषैः ।
काञ्चीकलापैश्चलकिङ्किणीकैः क्रीडाविहङ्गैश्च कृतानुनादम् ॥

4.9.92

मणिकनकसमुत्थैरावरेयैर्विचित्रैः सजलविविधभाक्तिक्षौमवस्त्रावृताङ्गैः ।
अपि मुनिजनचित्तक्षोभसम्पादनीभिश्चकितहरिणलोलप्रेक्षणीभिः प्रैयाभिः ॥

4.9.93

स्तननितम्बकृतादतिगौरवादलसमाकुलमीश्वरसंश्रयात् ।
इति गतं दधतीभिरसंस्थितं तरुणचित्तविलोभनकार्मणम् ॥

4.9.94

यौवनासवमत्ताभिर्विलासाधिष्ठितात्माभिः ।
सञ्चार्यमाणं युगपत्तन्वङ्गीभिरितस्ततः ॥

4.9.95

तालवृन्तनलिनीदलानिलैः शीतलीकृतमतीव शीतलैः ।
दर्शने ऽपि विदधद्वशानुगं स्वादितं किमुत चित्तजन्मनः ॥

4.9.96

चूतरसेन्दुमृगैः कृतवासं मल्लिकयोज्ज्वलया च सनाथम् ।
स्फटिकशुक्तिगतं सतरङ्गं कान्तमनङ्गमिवोद्वहदङ्गम् ॥

4.9.97

तालीसाद्यं चूर्णमेलादिकं वा हृद्यं प्राश्य प्राग्वयस्स्थापनं वा ।
तत्प्रार्थिभ्यो भूमिभागे सुमृष्टे तोयोन्मिश्रं दापयित्वा ततश्च ॥

4.9.98

धृतिमान् स्मृतिमान् नित्यमनूनाधिकमाचरन् ।
उचितेनोपचारेण सर्वमेवोपलालयन् ॥

4.9.99

जितविकसितासितसरोजनयनसङ्क्रान्तिवार्धितश्रीकम् ।
कान्तामुखमिव सौरभहृतमधुपगणं पिबेन्मद्यम् ॥

4.9.100

पीत्वैवं चषकत्रयं परिजनं सम्मान्य सर्वं ततो ।
गत्वाहारभुवं पुरः सुभिषजो भुञ्जीत भूयो ऽत्र च ।
मांसापूपघृतार्द्रकादिहरितैर्युक्तं ससौवर्चलैर्द्विस्त्रिर्वा चाल्पमेव वनितासंवल्गनार्थं पिबेत् ॥

4.9.101

रहसि दयितामङ्के कृत्वा भुजान्तरपीडनात् पुलकिततनुं जातस्वेदां सकम्पपयोधराम् ।
यदि सरभसं सीधोर्वारं न पाययते कृती किमनुभवति क्लेशप्रायं तदा गृहतन्त्रताम् ॥

4.9.102

वरतनुवक्त्रसङ्गतिसुगन्धितरं सरकं द्रुतमिव पद्मरागमणिमासवरूपधरम् ।
भवति रतिश्रमेण च मदः पिबतो ऽल्पमपि क्षयमत ओजसः परिहरन् स शयीत परम् ॥

4.9.103

इत्थं युक्त्या पिबन्मद्यं न त्रिवर्गाद्विहीयते ।
असारसंसारसुखं परमं चाधिगच्छति ॥

4.9.104

ऐश्वर्यस्योपभोगो ऽयं स्पृहणीयः सुरैरपि ।
अन्यथा हि विपत्सु स्यात् पश्चात्तापेन्धनं धनम् ॥

4.9.105

उपभोगेन रहितो भोगवानिति निन्द्यते ।
निर्मितो ऽतिकदर्यो ऽयं विधिना निधिपालकः ॥

4.9.106

तस्माद्व्यवस्थया पानं पानस्य सततं हितम् ।
जित्वाविषयलुब्धानामिन्द्रियाणां स्वतन्त्रताम् ॥

4.9.107

विधिर्वसुमतामेष भविष्यद्वसवस्तु ये ।
यथोपपत्ति तैर्मद्यं पातव्यं मात्रया हितम् ॥

4.9.108

यावद्दृष्टेर्न सम्भ्रान्तिर्यावन्न क्षोभ्यते मनः ।
तावदेव विरन्तव्यं मद्यादात्मवता सदा ॥

4.9.109

अभ्यङ्गोद्वर्तनस्नानवासधूपानुलेपनैः ।
स्निग्धोष्णैर्भावितश्चान्नैः पानं वातोत्तरः पिबेत् ॥

4.9.110

शीतोपचारैर्विविधैर्माधुरस्निग्धशीतलैः ।
पैत्तिको भावितश्चान्नैः पिबन्मद्य न सीदति ॥

4.9.111

उपचारैरशिशिरैर्यवगोधूमभुक् पिबेत् ।
श्लैष्मिको धन्वजैर्मांसैर्मद्यं मारिचिकैः सह ॥

4.9.112

तत्र वाते हितं मद्यं प्रायः पैष्टिकगौडिम ।
पित्ते साम्भो मधु कफे मार्द्वीकारिष्टमाधवम् ॥

4.9.113

प्राक् पिबेछ्लैष्मिको मद्यं भुक्तस्योपरि पैत्तिकः ॥
वातिकस्तु पिबेन्मध्ये समदोषो यथेच्छति ॥

4.9.114

मदेषु वातपित्तघ्नं प्रायो मूर्छासु चेष्यते ।
सर्वत्रापि विशेषेण पित्तमेवोपलक्षयेत् ॥

4.9.115

शीताः प्रदेहा मणयः सेका व्यजनमारुताः ।
सिताद्राक्षेक्षुखर्जूरकाश्मर्यस्वरसाः पयः ॥

4.9.116

सिद्धा मधुरवर्गेण रसा यूषाः सदाडिमाः ।
षष्टिकाः शालयो मुद्गा यवाः सर्पिश्च जीवनम् ॥

4.9.117

कल्याणकं पञ्चगव्यं षट्पलं पयसाग्निकम् ।
पिप्पल्यो वा शिलाह्वं वा रसायनविधानतः ।
त्रिफला वा प्रयोक्तव्या सघृतक्षौद्रशर्करा ॥

4.9.118

प्रसक्तवेगेषु हितं मुखनासावरोधनम् ।
पिबेद्वा मानुषीक्षीरं तेन दद्याच्च नावनम् ॥

4.9.119

मृणालबिसकृष्णा वा लिह्यात् क्षौद्रेण साभयाः ।
दुरालभां वा मुस्तां वा शीतेन सलिलेन वा ॥

4.9.120

पिबेन्मरिचकोलस्थिमज्जोशीराहिकेसरम् ।
धात्रीफलरसे सिद्धं पथ्याक्वाथेन वा घृतम् ॥

4.9.121

कुर्यात् क्रियां ज्वरोक्तां च यथादोषबलोदयम् ।
पञ्च कर्माणि शस्तानि तथा रक्तावसेचनम् ॥

4.9.122

सत्वस्यालम्बनं ज्ञानमगृद्धिर्विषयेषु च ॥

4.9.123

मदेष्वतिप्रवृद्धेषु मूर्छायेषु च योजयेत् ।
तीक्ष्णं संन्यासविहितं विषघ्नं विषजेषु च ॥

4.9.124

आशु प्रयोज्यं संन्यासे सुतीक्ष्णं नस्यमञ्जनम् ।
धूमं प्रधमनं तोदः सूचीभिश्च नखान्तरे ॥

4.9.125

केशानां लुञ्चनं दाहो दशनवृश्चिकैः ।
कट्वम्लगालनं वक्त्रे कपिकच्छ्वावघर्षणम् ॥

4.9.126

उत्थितो लब्धसंज्ञश्च लशुनस्वरसं पिबेत् ।
खादेत्सव्योषलवणं बीजपूरककेसरम् ।
लघ्वन्नं कटुतीक्ष्णमद्यात् स्रोतोविशुद्धये ॥

4.9.127

विस्मापनैः संस्मरणः प्रियश्रवणदर्शनैः ।
पटुभिर्गीतवादित्रशब्दैर्व्यायामशीलनैः ॥

4.9.128

स्रंसनोल्लेखनैर्धूमैः शोणितस्यावसेचनैः ।
उपाचरेत्तं प्रततमनुबन्धभयात् पुनः ।
तस्य संरक्षितव्यं च मनः प्रलयहेतुतः ॥

मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc