भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गसंग्रह · अध्याय 4.7

4.7.1

अथातो राजयक्ष्मचिकित्सितं नामाध्यायं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥

4.7.2

बलिनो बहुदोषस्य स्निग्धस्विन्नस्य शोधनम् ।
ऊर्ध्वाधो यक्ष्मिणः कुर्यात् सस्नेहं यन्न कर्शनम् ॥

4.7.3

पयसा फलयुक्तेन मधुरेण रसेन वा ।
सर्पिष्मत्या यवाग्वा वा वमनद्रव्यसिद्धया ॥

4.7.4

वमेद्विरेचनं दद्यात्त्रिवृच्श्यामानृपद्रुमान् ॥
शर्करामधुसर्पिर्भिः पयसा तर्पणेन वा ।
द्राक्षाविदारीकाश्मर्यमांसानां वा रसैर्युतान् ॥

4.7.5

शुद्धकोष्ठस्य युञ्जीत विधिं बृंहणदीपनम् ।
हृद्यानि चान्नपानानि वातघ्नानि लघूनि च ॥

4.7.6

शालिषष्टिकगोधूमयवमुद्गं समास्थितम् ।
लघुमच्युतवीर्यं च सुजरं बलकृच्च यत् ॥

4.7.7

आजं क्षीरं घृतं मांसं क्रव्यान्मांसं च शोषजित् ।
काकोलूकवृकद्वीपिगवाश्वनकुलोरगम् ॥

4.7.8

गृध्रभासखरोष्ट्रं च हितं छद्मोपसंहितम् ।
ज्ञातं जुगुप्सितं तद्धि छर्दिषे न बलौजसे ॥

4.7.9

मृगाद्याः पित्तकफयोः पवने प्रसहादयः ।
वेशवारीकृताः पथ्या रसादिषु च कल्पिताः ॥

4.7.10

भृष्टाः सर्षपतैलेन सर्पिषा वा यथायथम् ।
रसिका मृदवः स्निग्धाः पटुद्रव्याभिसंस्कृताः ॥

4.7.11

हिता मौद्गककौलत्थास्तद्वद्यूषाश्च साधिताः ।
सपिप्पलीकं सयवं सकुलत्थं सनागरम् ॥

4.7.12

सदाडिमं सामलकं स्निग्धमाजं रसं पिबेत् ।
तेन षड्विनिवर्तन्ते विकाराः पीनसादयः ॥

4.7.13

कोलदाडिमनिर्यासपिष्टयास्थिविहीनया ।
द्राक्षया स्वच्छधान्याम्बुप्लुतालोडितकल्कया ॥

4.7.14

कार्यः सौवर्चलव्योषपत्रैलादीप्यकान्वितः ।
समाक्षिकः सकर्पूरः सलवङ्कः सकेसरः ॥

4.7.15

चन्द्रकान्तो यथार्थाख्यः शोषहाग्निरुचिप्रदः ।
शुक्ताम्लधात्रीस्वरसैर्द्राक्षायाः कल्कितं पलम् ॥

4.7.16

गुडषट्पलसंयुक्तं युक्तं श्लक्ष्णैश्च कार्षिकैः ।
वृक्षाम्लधान्यद्रमिलीराजिकादाडिमोषणैः ॥

4.7.17

पलेन नागपुष्पस्य किञ्चित् सौवर्चलेन च ।
ससेव्यपत्रत्वक्तोयः सुरसारसमूर्छितः ॥

4.7.18

भूरिभूस्तृणको रागः कण्ठ्यो रुच्यः समाक्षिकः ।
पिबेच्च सुतरां मद्यं जीर्णं स्रोतोविशोधनम् ॥

4.7.19

पित्तादिषु विशेषेण मध्वरिष्टाच्छवारुणीः ।
सिद्धं वा पञ्चमूलेन तामलक्याथवा जलम् ॥

4.7.20

पर्णिनीभिश्चतसृभिर्धान्यनागरकेण वा ।
कल्पयेच्चानुकूलोस्य तेनान्नं शुचि यत्नवान् ॥

4.7.21

दशमूलेन पयसा सिद्धं मांसरसेन वा ।
बलागर्भं घृतं योज्यं क्रव्यामांसरसेन वा ॥

4.7.22

सक्षौद्रं पयसा सिद्धं सर्पिर्दशगुणेन वा ।
जीवन्तीं मधुकं द्राक्षां फलानि कुटजस्य च ॥

4.7.23

पुष्कराह्वं शठीं कृष्णां व्याघ्रीं गोक्षुरकं बलाम् ।
नीलित्पलं तामलकीं त्रायमाणां दुरालभाम् ।
कल्कीकृत्य घृतं पक्वं रोगराजहरं परम् ॥

4.7.24

दुरालभां गोक्षुरकं चतस्त्रः पर्णिनीर्बलाम् ।
भागान् पलोन्मितान् कृत्वा पलं पर्पटकस्य च ॥

4.7.25

पचेद्दशगुणे तोये दशभागावशेषिते ।
पूते तस्मिन् घृतप्रस्थं क्षीरद्विगुणितं पचेत् ॥

4.7.26

गर्भं दत्वा शठीकृष्णाभूनिम्बोत्पलसारिवाः ।
त्रायन्तीं पौष्करं मूलं सहपत्रफलां फलम् ॥

4.7.27

कुटजाच्च जयेत्तद्धि शिरःपार्श्वांसवेदनाम् ।
तृष्णां छर्दिमतीसारं कासदाहभ्रमज्वरान् ॥

4.7.28

घृतं खर्जूरमृद्वीकामधुकैः सपरूसकैः ।
सपिप्पलीकं वैस्वर्यकासश्वासज्वरापहम् ॥

4.7.29

दशमूलशृतात् क्षीरात् सर्पिर्यदुदियान्नवम् ।
सपिप्पलीकं सक्षौद्रं तत् परं स्वरबोधनम् ॥

4.7.30

शिरःपार्श्वासशूलघ्नं कासश्वासज्वरापहम् ।
पञ्चभिः पञ्चमूलैर्वा शृताद्यदुदियात् घृतम् ॥

4.7.31

पञ्चानां पञ्चमूलानां रसे क्षीरचतुर्गुणे ।
सिद्धं सर्पिर्जयत्येतद्यक्ष्मणः सप्तकं बलम् ॥

4.7.32

पञ्चकोलयवक्षारषट्पलेन पचेत् घृतम् ।
प्रस्थोन्मितं तुल्यपयः स्रोतसां तद्विशोधनम् ॥

4.7.33

गुल्मज्वरोदरप्लीहग्रहणीपाण्डुपीनसान् ।
कासश्वासाग्निसदनश्वयथूर्ध्वानिलान् जयेत् ॥

4.7.34

रास्नाबलागोक्षुरकस्थिरावर्षाभुवारिणि ।
जीवन्तीपिप्पलीगर्भं सक्षीरं शोषजिद्घृतम् ।
अश्वगन्धाशृतात् क्षीरात् घृतं च ससितापयः ॥

4.7.35

साधारणामिषतुलां तोयद्रोणद्वये पचेत् ।
तेनाष्टभागशेषेण जीवनीयैः पलोन्मितैः ॥

4.7.36

साधयेत् सर्पिषः प्रस्थं वातपित्तामयापहम् ।
मांससर्पिरिदं पीतं युक्तं मांसरसेन वा ।
कासश्वासस्वरभ्रंशशोषहृत्पार्श्वशूलजित् ॥

4.7.37

यष्टीबलागुडूच्यल्पपञ्चमूलतुलां पचेत् ।
शूर्पे ऽपामष्टभागस्थे तत्र पात्रं पचेत् घृतात् ॥

4.7.38

धात्रीविदारीक्षुरसत्रिपात्रे पयसो ऽर्मणे ।
सुपिष्टैर्जीवनीयैश्च पाराशरमिदं घृतम् ।
ससैन्यं राजयक्ष्माणमुन्मूलयति शीलितम् ॥

4.7.39

मूर्वाहरिद्राखदिरक्वाथं सर्पिः शकृद्रसम् ।
गोगजाजाविहयजं पयस्तुल्यान् दश द्रवान् ॥

4.7.40

स्वादुस्कन्धं त्रिकटुकं कल्कितं देवदारु च ।
पचेत्तच्चाशु शोषघ्नं तद्वद्वासावरीघृतम् ॥

4.7.41

द्विपञ्चमूलवरणयवबिल्वपुनर्नवाः ।
करञ्जबोलस्थविरकुलस्थबदराग्निकाः ॥

4.7.42

गर्भं दत्वा स्नुहीक्षीरं शुकाख्याचव्यसैन्धवम् ।
हरीतकीं च तच्छोषशोफमेहोदरापहम् ॥

4.7.43

यवाग्वा वा पिबेन्मात्रां लिह्याद्वा मधुनान्विताम् ।
सिद्धानां सर्पिषामेषां दद्यादन्नेन वा सह ॥

4.7.44

एलाजमोदत्रिफलासौराष्ट्रीव्योषचित्रकान् ।
सारानरिष्टगायत्रीसालबीजकसम्भवान् ॥

4.7.45

भल्लातकं विडङ्गं च पृथगष्टपलोन्मितम् ।
सलिले षोडशगुणे षोडशांशस्थितं पचेत् ॥

4.7.46

पुनस्तेन घृतप्रस्थं सिद्धे चास्मिन् पलानि षट् ।
तवक्षीर्याः क्षिपेत्त्रिंशत् सिताया द्विगुणं मधु ॥

4.7.47

घृतात्त्रिजातात्त्रिपलं ततो लीढं खजाहतम् ।
पयोनुपानं तत् प्राह्णे रसायनमयन्त्रणम् ॥

4.7.48

मेध्यं चक्षुष्यमायुष्यं दीपनं हन्ति चाचिरात् ।
मेहगुल्मक्षयव्याधिपाण्डुरोगभगन्दरान् ।
ये च सर्पिर्गुडाः प्रोक्ताः क्षते योज्याः क्षये ऽपि ते ॥

4.7.49

खर्जूरपिप्पलीद्राक्षापथ्याशृङ्गीदुरालभाः ।
त्रिफलापिप्पलीमुस्ताशृङ्गाटगुडशर्कराः ॥

4.7.50

वीराशठीपुष्कराख्यासुरसाशर्करागुडाः ।
नागरं चित्रको लाजाः पिप्पल्यामलकं गुडः ॥

4.7.51

विडङ्गसारश्चविका त्र्यूषणं च विचूर्णितम् ।
अर्धश्लोकैः स्मृता लेहाः पञ्चैते मधुसर्पिषा ।
स्वर्याः कासक्षयश्वासपार्श्वरुक्कफनाशनः ॥

4.7.52

त्वगेलापिप्पलीक्षीरीशर्करा द्विगुणाः क्रमात् ।
चूर्णिता भक्षयेल्लिह्यात् पूर्ववद्वा तथागुणाः ॥

4.7.53

तिलमाषाश्वगन्धा वा माक्षिकाजघृतदुताः ।
पूर्वोक्तेष्वेव रोगेषु वातप्रायेषु पूजिताः ॥

4.7.54

स्वरसादचिकित्सितम् ।
विशेषात् स्वरसादे ऽस्य नस्यधूमादि योजयेत् ।
तत्रापि वातजे कोष्णं पिबेदौत्तरभक्तिकम् ॥

4.7.55

कासमर्दकवार्ताकीमार्कवस्वरसैर्घृतम् ।
साधितं कासजित् स्वर्यं सिद्धमार्तगलेन वा ॥

4.7.56

बदरीपत्रकल्कं वा घृतभृष्टं ससैन्धवम् ।
तैलं वा मधुकद्राक्षापिप्पलीकृमिनुत्फलैः ॥

4.7.57

हंसपाद्याश्च मूलेन पक्वं नस्तो निषेचयेत् ।
सुखोदकानुपानं च ससर्पिष्कं गुडौदनम् ।
अश्नीयात् पायसं चैवं स्निग्धं स्वेदं च योजयेत् ॥

4.7.58

पित्तोद्भवे पिबेत् सर्पिः शृतशीतपयोनुपः ।
क्षीरिवृक्षाङ्कुरक्वाथकल्कसिद्धं समाक्षिकम् ॥

4.7.59

अश्नीयाच्च ससर्पिष्कं यष्टीमधुकपायसम् ।
बलाविदारिगन्धाभ्यां विदार्या मधुकेन च ॥

4.7.60

सिद्धं सलवणं सर्पिर्नस्यं स्वर्यमनुत्तमम् ।
प्रपौण्डरीकं मधुकं पिप्पली बृहती बला ॥

4.7.61

साधितं क्षीरसर्पिश्च तत् स्वव्र्यं नावनं परम् ।
लिह्यान्मधुरकाणां च चूर्णं मधुघृतान्वितम् ॥

4.7.62

वरीं बलां पयस्यां वा काकोलीमधुके तथा ।
एवमस्यानुपशमे ललाटे व्यधयेत् सिराम् ॥

4.7.63

पिबेत् कटूनि मूत्रेण कफजे रूक्षभोजनः ।
कट्कफलामलकव्योषं लिह्यात्तैलमधुप्लुतम् ॥

4.7.64

व्योषक्षाराग्निचविकाभार्ङ्गीपथ्यामधूनि वा ।
यवैर्यवागूं यमके कणाधात्रीकृतां पिबेत् ।
भुत्क्वाद्यात्पिप्पलीं शुण्ठीं तीक्ष्णं वा वमनं भजेत् ॥

4.7.65

शर्कराक्षौद्रमिश्राणि शृतानि मधुरैः सह ।
पिबेत् पयांसि यस्योच्चैर्वदतो विहतः स्वरः ॥

4.7.66

अरोचकचिकित्सितम् ।
विचित्रमन्नमरुचौ हितैरुपहितं हितम् ।
बहिरन्तर्मृजां चित्तनिर्वाणं हृद्यमौषधम् ॥

4.7.67

द्वौ कालौ दन्तपवनं भक्षयेन्मुखधावनैः ।
कषायैः क्षालयेदास्यं धूमं प्रायौगिकं पिबेत् ॥

4.7.68

तालीसपत्रवटकाः सकर्पूरसितोपलाः ।
शशाङ्ककिरणाख्याश्च भक्ष्या रुचिकराः परम् ॥

4.7.69

वातादरोचके तत्र पिबेच्चूर्णं प्रसन्नया ।
हरेणुकृष्णाकृमिजिद्द्राक्षासैन्धवनागरात् ॥

4.7.70

एलाभार्ङ्गीयवक्षारहिङ्गुयुक्ताद् घृतेन वा ।
छर्दयेद्वा वचाम्भोभिः पित्ताच्च गुडवारिभिः ॥

4.7.71

लिह्याद्वा शर्करासर्पिर्लवणोत्तममाक्षिकम् ।
कफाद्वमेन्निम्बजलैर्दीप्यकारग्वधोदकम् ॥

4.7.72

पानं समध्वरिष्टाश्च तीक्ष्णाः समधुमाधवाः ।
पिबेच्चूर्णं च पूर्वोक्तं हरेण्वाद्युष्णवारिणा ॥

4.7.73

त्रिकटुत्रिफलारात्रीयवक्षारं मधुप्लुतम् ।
प्रातराहारकाले च युञ्जीत मुखधावनम् ॥

4.7.74

बिडं सौवर्चलं कुष्ठमजाजी मरिचं सिता ।
धात्र्येलापद्मकोशीरपिप्पलीचन्दनोत्पलम् ॥

4.7.75

लोध्रं तेजोवती पथ्या यवक्षारं कटुत्रयम् ।
आर्द्रदाडिमनिर्यासः सजाजीसितशर्करः ॥

4.7.76

सतैलमाक्षिका युक्ताश्चत्वारः कवलग्रहाः ।
चतुरो ऽरोचकान् हन्युरेकदोषसमस्तजान् ॥

4.7.77

कारव्यजाजीमरिचद्राक्षवृक्षाम्लदाडिमम् ।
सौवर्चलगुडक्षौद्रं सर्वारोचकनाशनम् ॥

4.7.78

एलात्वङ्नागकुसुमतीक्ष्णकृष्णामहौषधम् ।
भागवृद्धं क्रमाच्चूर्णं निहन्ति समशर्करम् ॥

4.7.79

प्रसेकारुचिहृत्पार्श्वकासश्वासगलामयान् ।
यवानीतिन्तिणीकाम्लवेतसौषधदाडिमम् ॥

4.7.80

कृत्वा कोलं च कर्षांशं सितायाश्च चतुष्पलम् ।
धान्यसौवर्चलाजाजीवराङ्गं चार्धकार्षिकम् ॥

4.7.81

पिप्पलीनां शतं चैकं द्वे शते मरिचस्य च ।
चूर्णमेतत् परं रुच्यं हृद्यं ग्राहि हिनस्ति च ।
विबन्धकासहृत्पार्श्वप्लीहार्शोग्रहणीगदान् ॥

4.7.82

तालिसपत्रं मरिचं नागरं पिप्पली शुभा ।
यथोत्तरं भागवृद्धास्त्वगेले चार्धभागिके ॥

4.7.83

तद्रुच्यं दीपनं चूर्णं कणाष्टगुणशर्करम् ।
कासश्वासारुचिच्छर्दिप्लीहहृत्पार्श्वशूलजित् ॥

4.7.84

पाण्डुज्वरातिसारघ्नं मूढवातानुलोमनम् ।
तालीसपत्रचविकामरिचानां पलं पलम् ॥

4.7.85

कृष्णातन्मूलयोर्द्वे द्वे पले शुण्ठीपलत्रयम् ।
चतुर्जातमुशीरं च कर्षांशं श्लक्ष्णचूर्णितम् ॥

4.7.86

तत्र त्रिंशत् पलं दत्वा क्वथितादमलाद्गुडात् ।
कुर्वीत मोदकानक्षसम्मितांस्ते ऽपि तद्गुणाः ॥

4.7.87

प्रसेकचिकित्सितम् ।
अर्कामृताक्षारजलेशर्वरीमुषितैर्यवैः ।
प्रसेके कल्पितान् सक्तून् भक्ष्यांश्चाद्याद् बली वमेत् ॥

4.7.88

कटुतिक्तैस्तथा शूल्यं भक्षयेज्जाङ्गलं पलम् ।
शुष्कांश्च भक्ष्यान् सुलघूंश्चणकादिरसानुपः ॥

4.7.89

श्लेष्मणो ऽतिप्रसेकेन वायुः श्लेष्माणमस्यति ।
कफप्रसेकं तं विद्यात् स्निग्धोष्णैरेव निर्जयेत् ॥

4.7.90

पीनसे ऽपि क्रममिमं वमथौ च प्रयोजयेत् ।
विशेषात्पीनसे ऽभ्यङ्गान् स्नेहान् स्वेदांश्च शीलयेत् ॥

4.7.91

स्निग्धानुत्कारिकापिण्डैः शिरःपार्श्वगलादिषु ।
लवणाम्लकटूष्णांश्च रसान् स्नेहोपसंहितान् ॥

4.7.92

शिरो ऽंसपार्श्वशूलेषु यथादोषविधिं चरेत् ।
औदकानूपपिशितैरुपनाहाः सुसंस्कृताः ॥

4.7.93

शस्यन्ते सचतुस्नेहाः शिरःपार्श्वांसशूलिनाम् ।
लेपश्च नतयष्ट्याह्वशताह्वाकुष्ठचन्दनैः ॥

4.7.94

बलारास्नातिलाः सर्पिर्मधुकं नीलमुत्पलम् ।
पलङ्कषा देवदारु चन्दनं मधुकं घृतम् ॥

4.7.95

कृष्णगन्धा बला वीरा विदारी सपुनर्नवा ।
अभीरुयष्टीमधुकं पयस्या कत्तृणं घृतम् ॥

4.7.96

इत्यर्धयोगैश्चत्वारः प्रदेहाः परिकीर्तिताः ।
शस्ताः संसृष्टदोषाणां शिरःपार्श्वासशूलिनाम् ॥

4.7.97

नावनं धूमपानानि स्नेहाश्चौत्तरभक्तिकाः ।
तैलान्यभ्यङ्गयोगीनि बस्तिकर्म तथापरम् ।
शृङ्गाद्यैर्वा यथादोषं दुष्टमेषां हरेदसृक् ।
प्रदेहः सघृतैश्चेष्टः पद्मकोशीरचन्दनैः ॥

4.7.98

दूर्वामधुकमञ्जिष्ठाकेसरैर्वाघृताप्लुतैः ।
चन्दनाद्येन तैलेन शतधौतेन सर्पिषा ।
अभ्यङ्गः पयसासेकः शस्तश्चमधुकाम्बुना ॥

4.7.99

प्रायेणोपहताग्नित्वात् सपिच्छमतिसार्यते ।
तस्यातिसारग्रहणीविहितं हितमौषधम् ।
सनागरानिन्द्रयवान् पाययेत्तण्डुलाम्बना ॥

4.7.100

जीर्णेषु तेषु पेयां च चाङ्गेरीतक्रदाडिमः ।
पाठानिम्बयवानीनां चूर्णं तक्रेण वा पिबेत् ॥

4.7.101

सुरया वाप्लुतां पाठां सनागरदुरालभाम् ।
जम्ब्वाम्रबिल्वमध्यं वा सकपित्थं सनागरम् ॥

4.7.102

पेयामण्डेन योगैश्च पाठाद्यैः कारयेत् त्रिभिः ।
ससूप्यधान्यान् सस्नेहान् साल्मान् सलवणान् खलान् ।
वेतसार्जुनजम्बूनां मृणालीकृष्णगन्धयोः ॥

4.7.103

श्रापण्या मातुलुङ्गस्य धातक्या दाडिमस्य च ।
चाङ्गेर्या मदयन्त्याश्च यूथिकायाश्च पल्लवैः ॥

4.7.104

कालविद्दुग्धिकायाश्च चुक्रिकायाश्च योजयेत् ।
खलान्दधिसरोपेतान्ससर्पिष्कान्सदाडिमान् ।
रोचनान् दीपनान् दद्यादतीसारहरान् परम् ॥

4.7.105

पुरीषं यत्नतो रक्षेच्छुष्यतो राजयक्ष्मिणः ।
सर्वधातुक्षयार्तस्य बलं तस्य हि विड्बलम् ॥

4.7.106

ज्वरादिष्वपि कुर्वीत विकारेषु यथामयम् ।
बह्वामयसमूहो हि यक्ष्मातः सो ऽतिदुःसहः ॥

4.7.107

अजां वा पर्युपासीत षण्मासानुटजे वसन् ।
तत्पयोमूत्रविड्वृत्तिपरिषेकप्रघर्षणः ।
ताभिः परिवृतः स्वप्यात्तच्छकृद्रेणुसङ्करे ॥

4.7.108

एतद्रसायनं श्रेष्ठं रोगराजस्य नाशनम् ।
अजाशकृद्रसक्षीरदधिमूत्रैः शृतं घृतम् ॥

4.7.109

सपञ्चपटु पञ्चाजं क्षयी क्षीरानुपः पिबेत् ।
मांसमेवाश्नतो युक्त्या मार्द्वीकं पिबतो ऽनु च ॥

4.7.110

अविधारितवेगस्य लक्ष्मा न लभते ऽन्तरम् ।
सुरां समण्डां मार्द्वीकमरिष्टान् शीधुमाधवान् ॥

4.7.111

यथार्हमनुपानार्थं पिबेन्मांसानि भक्षयन् ।
स्रोतोविबन्धमोक्षार्थं बलौजःपुष्टये च तत् ॥

4.7.112

स्नेहक्षीराम्बुकोष्ठेषु स्वभ्यक्तमवगाहयेत् ।
उत्तीर्णं मिश्रकस्नेहैः पुनरक्तं सुखैः करैः ।
मृद्नीयात् सुखमारीनं सुखं चोद्वर्तयेत् परम् ॥

4.7.113

जीवन्तीं शतवीर्यां च विकसां सपुनर्नवाम् ।
अश्वगन्धामपामार्गं तर्कारीं मधुकं बलम् ॥

4.7.114

विदारीं सर्षपान् कुष्ठं तण्डुलानतसीफलम् ।
माषांस्तिलांश्च किण्वं च सर्वमेकत्र चूर्णयेत् ॥

4.7.115

यवचूर्णं त्रिगुणितं दध्ना युक्तं समाक्षिकम् ।
एतदुद्वर्तनं कार्यं पुष्टिवर्णबलप्रदम् ॥

4.7.116

गौरसर्षपकल्केन स्नानीयौषधिभिश्च सः ।
स्नायादृतुसुखैस्तोयैर्जीवनीयोपसाधितैः ॥

4.7.117

गन्धमाल्यादिकां भूषामलक्ष्मीनाशनीं भजेत् ।
सुहृदां दर्शनं गीतवादित्रोत्सवसंश्रुतीः ॥

4.7.118

बस्तयः क्षीरसर्पींषि मद्यं मांसं सुशीलता ।
दैवव्यपाश्रयं तद्वदथर्वोक्तं च पूजितम् ॥

4.7.119

इष्ट्या यया च चन्द्रस्य राजयक्ष्मा पुरा जितः ।
पुरोहितः प्रयुञ्जीत वेदोक्तां तां जितात्मनः ॥
॥ इति सप्तमो ऽध्यायः ॥

मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc