अष्टाङ्गसंग्रह · अध्याय 4.6
अथातः श्वासहिध्माचिकित्सितं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥
श्वासहिध्मा यतस्तुल्यहेत्वाद्याः साधनं ततः ।
तुल्यमेव तदार्तं च पूर्वं स्वेदैरुपाचरेत् ॥
स्निग्धैर्लवणतैलाक्तं स्रोतस्सु ग्रथितः कफः ।
तैर्लीनो ऽपि विलीनोस्य कोष्ठं प्राप्तः सुनिर्हरः ॥
भवेत् खेषु मृदुत्वं च मारुते चानुलोमता ।
स्विन्नं च भोजयेदन्नं स्निग्धमानूपजै रसैः ॥
दध्युत्तरेण वा दद्यात्ततो ऽस्मै वमनं मृदु ।
विशेषात् कासवमथुहृद्ग्रहस्वरसादिने ॥
पिप्पलीसैन्धवक्षौद्रयुक्तं वाताविरोधि यत् ।
निर्हृते सुखमाप्रोति सकफे दुष्टविग्रहे ॥
स्रोतःसु च विशुद्धेषु चरत्यविहतो ऽनिलः ।
ध्मानोदावर्ततमके मातुलुङ्गाम्लवेतसैः ॥
हिङ्गुपीलुबिडयुक्तमन्नं स्यादनुलोमनम् ।
ससैधवं फलाम्लं वा कोष्णं दद्याद्विरेचनम् ॥
एते हि कफसंरुद्धगतिप्राणप्रकोपजाः ।
तस्मात्तन्मार्गशुध्यर्थमूर्ध्वाधः शोधनं हितम् ॥
उदीर्यते भृशतरं मार्गरोधाद्वहज्जलम् ।
यथा तथानिलस्तस्य मार्गमस्माद्विशोधयेत् ॥
अशान्तौ कृतसंशुद्धेर्धूमैर्लीनं मलं हरेत् ।
हरिद्रापत्रमेरण्मूलं लाक्षां मनःशिलाम् ॥
सदेवदार्वलं मांसीं पिष्ट्वा वर्तिं प्रकल्पयेत् ।
तां घृताक्तां पिबेद्धूमं यवान् वा घृतसंयुतान् ॥
मधूच्छिष्टं सर्जरसं घृतं वा गुरुवागुरु ।
चन्दनंवाजशृङ्गं वा बालान्वा स्नाव वा गवाम् ॥
ऋष्यगोधकुरङ्गैणचर्मशृङ्गखुराणि वा ।
गुग्गुलुं वा मनोह्वां वा सालनिर्यासमेव वा ॥
सल्लकीं गुग्गुलुं लोहं पद्मकं च घृताप्लुतम् ॥
अवश्यं स्वेदनीयानामस्वेद्यानामपि क्षणम् ।
स्वेदयेत् ससिताक्षीरसुखोष्णस्नेहसेचनैः ॥
उत्कारिकोपनाहैश्च स्वेदाध्यायोक्तभेषजैः ।
उरः कण्ठं च मृदुभिः सामे त्वामविधिं चरेत् ॥
अतियोगोद्धतं वातं दृष्ट्वा पवननाशनैः ।
स्निग्धै रसाद्यैर्नात्युष्णैरभ्यङ्गैश्च शमं नयेत् ॥
अनुत्क्लिष्टकफास्विन्नदुर्बलानां हि शोधनात् ।
वायुर्लब्धास्पदो मर्म संशोष्याशु हरेदसून् ॥
कषायलेहस्नेहाद्यैस्तेषां संशमयेदतः ।
क्षीणक्षतातिसारासृक्पित्तदाहानुबन्धजान् ॥
मधुरस्निग्धशीताद्यैर्हिध्माश्वासानुपाचरेत् ।
कुलत्थदशमूलानां क्वाथे स्युर्जाङ्गला रसाः ।
यूषाश्च शिग्रुवार्ताककासघ्नवृषमूलकैः ॥
पल्लवैर्निम्बकुलकबृहतीमातुलुङ्गजैः ।
व्याघ्रीदुरालभाशृङ्गीबिल्वमध्यत्रिकण्टकैः ॥
सामृताग्निकुलत्थैश्च यूषः स्यात् क्वथितैर्जलै ।
तद्वद्रास्नाबृहत्यादिबलामुद्गैः सचित्रकैः ॥
पेया च चित्रकाजाजीशृङ्गीसौवर्चलैर्हिता ।
दशमूलेन वा कासश्वासहिध्मारुजापहा ॥
दशमूलशठीरास्नाभार्ङ्गीबिल्वर्धिपौष्करैः ।
कुलीरशृङ्गीचपलातामलक्यमृतौषधैः ॥
पिबेत् कषायं जीर्णे ऽस्मिन् पेयां तैरेवसाधिताम् ।
शालिषष्टिकगोधूमयवमुद्गकुलत्थभुक् ॥
कासहृद्ग्रहपार्श्वार्तिहिध्माश्वासप्रशान्तये ।
सक्तून्वार्काङ्कुरक्षीरभावितानां समाक्षिकान् ।
यवानां दशमूलादिनिःक्वाथलुलितान् पिबेत् ॥
अन्ने च योजयेत् क्षारहिङ्वाज्यबिडदाडिमान् ।
सपौष्करशठीव्योषमातुलुङ्गाम्लवेतसान् ॥
दशमूलस्य वा क्वाथमथवा देवदारुणः ।
पिबेद्वा वारुणीमण्डं हिध्माश्वासी पिपासितः ॥
पिप्पलीपिप्पलीमूलपथ्याजन्तुघ्नचित्रकैः ।
कल्कितैर्लेपिते रूढे निक्षिपेत् घृतभाजने ॥
तक्रं मासस्थितं तद्धि दीपनं श्वासकासजित् ।
पाठां मधुरसां दारु सरलं च निशि स्थितम् ॥
सुरामण्डे ऽल्पलवणं पिबेत् प्रसृतसम्मितम् ।
शिरीषकुन्दकदलीकुसुमं पिप्पलीयुतम् ॥
तण्डुलाम्बुप्लुतं हिध्माश्वासकासहरं परम् ।
आरनालेन पिष्ट्वा वा मातुलुङ्गरसान्वितान् ॥
हिङ्गुसौवर्चलकणाकोलमुद्गान् जलेन वा ।
कोष्णेन भार्ङ्गीं शुण्ठीं च क्षारं वा मरिचान्वितम् ॥
स्वक्वाथपिष्टां लुलितां बाष्पिकां पाययेत वा ।
स्वरसं सप्तपर्णस्य पुष्पाणां वा शिरीषतः ॥
हिध्वाश्वासे मधुकणायुक्तं पित्तकफानुगे ।
उत्कारिका तुगाकृष्णामधूलीगुडनागरैः ॥
पित्तानुबन्धे योक्तव्या पवने त्वनुबन्धिनि ।
श्वाविट्छशामिषकणाघृतशल्यकशोणितैः ॥
सुवर्चलारसव्योषसर्पिर्भिः सहितं पयः ।
अनुशाल्योदनं पेयं वातपित्ते ऽनुबन्धिनि ॥
चतुर्गुणाम्बुसिद्धं वा छागं सगुडनागरम् ।
पिप्पलीमूलमधुकगुडगोश्वशकृद्रसान् ।
हिध्माभिष्यन्दकासघ्नान् लिह्यान्मधुघृतान्वितान् ॥
गोगजाश्ववराहोष्ट्रखरमेषाजविड्रसान् ॥
समध्वैकैकशो लिह्याद्बहुश्लेष्माथवा पिबेत् ।
चतुष्पाच्चर्मरोमस्थिखुरशृङ्गोद्भवां मषीम् ॥
तथैव वाजिगन्धाया लिह्याच्छ्वासी कफोल्बणः ।
क्षारं वा त्रिफलापाठाबृहतीफलमूलजम् ॥
मुक्ताप्रवालवैडूर्यशङ्खसौगन्धिकाञ्जनम् ।
मसारगल्लस्फटिककाचैलालवणद्वयम् ॥
अपामार्गफलं ताम्रमयो रूप्यं शणात् फलम् ।
ज्योतीरसेन तल्लिह्यादयो वैकं मधुद्रवम् ॥
शठीपौष्करधात्रीर्वा पौष्करं वा कणान्वितम् ।
गैरिकाञ्जनकृष्णा वा स्वरसं वा कपित्थजम् ॥
रसेन वा कपित्थस्य धात्रीसैन्धवपिप्पलीः ।
घृतक्षौद्रेण वा पथ्या विडङ्गोषणपिप्पलीः ॥
लिह्याद्वा पिप्पलीद्राक्षापथ्याशृङ्गीदुरालभाः ।
घृतमाक्षिकतैलैर्वा त्र्यूषणं क्षारसंयुतम् ।
पिप्पलीक्षौद्रयुक्तौ वा रसौ धात्रीकपित्थयोः ॥
सितोपलात्वामलकी द्राक्षा गोश्वशकृद्रसम् ।
कोललाजमधुद्राक्षापिप्पलीनागराणि वा ॥
गुडतैलनिशाद्राक्षाकणारास्नोषणानि वा ।
पिबेद्रसाम्बुमद्याद्यैर्लेहौषधरजांसि वा ॥
जीवन्तीमुस्तसुरसत्वगेलाद्वयपौष्करम् ।
चण्डातामलकीलोहभार्ङ्गीनागरवालकम् ॥
कर्कटाख्याशठीकृष्णानागकेसरचोरकम् ।
उपयुक्तं यथाकामं चूर्णं द्विगुणशर्करम् ॥
पार्श्वरुग्ज्वरकासघ्नं हिध्माश्वासहरं परम् ।
जीवन्ती चोरकः शृङ्गी पौष्करं सुरसः शठी ॥
पिप्पलीत्वग्बिडक्षारशुण्ठीहिङ्वम्लवेतसम् ।
एलातामलकीभार्ङ्गीवृक्षाम्लं चेति चूर्णितम् ॥
रसेन मातुलुङ्गस्य मद्येन हविषाथवा ।
लीढं प्रयुक्तमन्ने वा केवलं चोपयोजितम् ॥
हिध्माश्वासविबन्धार्शःकासहृत्पार्श्वशूलनुत् ।
शठीतामलकीभार्ङ्गीचण्डावालकपौष्करम् ॥
शर्कराष्टगुणं चूर्णं हिध्माश्वासहरं परम् ।
तुल्यं गुडं नागरं च भक्षयेन्नावयेत वा ॥
लशुनस्य पलाण्डोर्वा मूलं गृञ्जनकस्य वा ।
चन्दनाद्वा रसं दद्यान्नारीक्षीरेण नावनम् ॥
सशर्करां पिप्पली वा मधुकं वा मधुद्रवम् ।
स्तन्येन मक्षिकाविष्ठामलक्तकरसेन वा ॥
ससैन्धवं घृताच्छं वा सिद्धं स्तन्येन वा घृतम् ।
कल्कितैर्मधुरद्रव्यैस्तत् पिबेन्नावयेत वा ॥
सकृदुष्णं सकृच्छीतं व्यत्यासात् ससितं मधु ।
तद्वत् पयस्तहासिद्धमधोभागौषधैर्घृतम् ॥
कणासौवर्चलक्षारवयस्थाहिड्गुचोरकैः ।
सकायस्थैर्घृतं मस्तु दशमूलरसे पचेत् ॥
तत् पिबेज्जीवनीयैर्वा लिह्यात् समधु साधितम् ।
तेजोवत्यभया कुष्ठं पिप्पली कटुरोहिणी ॥
पूकीकं पौष्करं मूलं पलाशश्चित्रकः शठी ।
पटुद्वयं तामलकी जीवन्ती बैल्वपेशिका ॥
वचापत्रं च तालीसं कर्षांशैस्तैर्विंपाचयेत् ।
हिङ्गुपादैर्घृतप्रस्थं पीतमाशु निहन्ति तत् ॥
श्वासानिलार्शोग्रहणीहिध्माहृत्पार्श्ववेदनाः ।
सिद्धं वा पुरमञ्जिष्ठालाक्षासर्जरसैः पिबेत् ॥
सपद्मकमनोह्वालैर्घृतप्रस्थं पिचून्मितैः ।
वत्सकादिप्रतीवापं सिद्धं वा प्रथमे गणे ॥
सपञ्चलवणं सर्पिः श्वासकासानपोहति ।
हिंस्राविडङ्गपूतीकत्रिकटुत्रिफलाग्निकैः ॥
कोलमात्रैर्घृतप्रस्थं पाचयेत् सलिलाढके ।
क्षीरप्रस्थद्वयोपेतं तत् कासश्वासपीनसान् ॥
अर्शांस्यरोचकं गुल्मं क्षयं हिध्मां च नाशयेत् ।
सैन्धवार्धांशयुक्तं वा पुराणं पाययेद्घृतम् ।
धान्वन्तरं वृषघृतं दाधिकं त्र्यूषणादि वा ॥
शीताम्बुसेकः सहसा त्रासविक्षेपभीशुचः ।
हर्षेर्ष्योच्छ्वासरोधाश्च हितं कीटैश्च दंशनम् ॥
यत् किञ्चित् कफवातघ्नमुष्णं वातानुलोमनम् ।
तत् सेव्यं प्रायशो यच्च सुतरां मारुतापहम् ॥
वातकृद्वा कफहरं कफकृद्वानिलापहम् ।
कार्यं नैकान्तिकं ताभ्यां प्रायः श्रेयो ऽनिलापहम् ॥
सर्वेषां बृंहणे ह्यल्पः शक्यश्च प्रायशो भवेत् ।
नात्यर्थं शमने ऽपायो भृशोशक्यश्च कर्शने ॥
शमनैर्बृंहणैश्चातो भूयिष्ठं तानुपाचरेत् ।
कासश्वासक्षयच्छर्दिहिध्माश्चान्योन्यभेषजैः ॥
मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0