अष्टाङ्गसंग्रह · अध्याय 4.5
अथातः क्षतक्षयकासचिकित्सितं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥
उरस्यन्तःक्षते सद्यो लाक्षां क्षौद्रयुतां पिबेत् ।
क्षीरणे शालीन् जीर्णे ऽद्यात् क्षीरेणैव सशर्करान् ॥
पार्श्वबस्तिसरुक्चाल्पपित्ताग्निस्तां सुरायुताम् ।
भिन्नविट् तु समुस्तातिविषापाठां सवत्सकाम् ॥
लाक्षां सर्पिर्मधूच्छिष्टं जीवनीयगणं सिताम् ।
त्वक्क्षीरीं समितं क्षीरे पक्त्वा दीप्तानलः पिबेत् ॥
इक्ष्वालिकाबिसग्रन्थिपद्मकेसरचन्द्रनैः ।
शृतं पयो मधुयुतं सन्धानार्थं पिबेत् क्षती ॥
यवानां चूर्णमामानां क्षीरसिद्धं घृतान्वितम् ।
ज्वरदाहे सिताक्षौद्रसक्तून् वा पयसा पिबेत् ॥
कासवांस्तु पिबेत्सर्पिर्मधुरौषधसाधितम् ।
गुडोदकं वा क्वथितं सक्षौद्रमरिचं हिमम् ॥
चूर्णमामलकानां वा क्षीरे पक्वं घृतान्वितम् ।
रसायनविधानेन पिप्पलीर्वा प्रयोजयेत् ॥
कासी पर्वास्थिशूली च लिह्यात्सघृतमाक्षिकाः ।
मधूकमधुकद्राक्षात्वक्क्षीरीपिप्पलीबलाः ॥
त्रिजातमर्धकर्षांशं पिप्पल्यर्धपलं सिता ।
द्राक्षा मधूकं खर्जूरं पलांशं श्लक्ष्णचूर्णितम् ॥
मधुना गुटिका घ्नन्ति ता वृष्याः पित्तशोणितम् ।
कासश्वासारुचिच्छार्दिमूर्छाहिध्मामदभ्रमान् ॥
क्षतक्षयस्वरभ्रंशप्लीहशोषाढ्यमारुतान् ।
रक्तनिष्ठीवहृत्पार्श्वरुक्पिपासाज्वरानपि ॥
रक्ते ऽतिवृद्धे च्छागं वा जाङ्गलं वा पिबेदसृक् ।
वर्षाभूशर्करारक्तशालितण्डुलजं रजः ॥
रक्तष्ठीवी पिबेत् सिद्धं द्राक्षारसपयोघृतैः ।
मधूकमधुकक्षीरसिद्धं वा तण्डुलीयकम् ॥
यथास्वं मार्गविसृते रक्ते कुर्याच्च भेषजम् ।
पिप्पलीमधुकं पिष्टं कार्षिकं ससितोपलम् ॥
प्रास्थिकं गव्यमाजं च क्षीरमिक्षुरसं तथा ।
यवगोधूममृद्वीकाचूर्णमामलकाद्रसः ॥
तैलं च प्रसृतांशानि तत् सर्वं मृदुनाग्निना ।
पचेल्लेहो घृतक्षौद्रयुतः स क्षतकासनुत् ॥
श्वासहृद्रोगकासघ्नो हितो वृद्धाल्परेतसाम् ।
मूढवातस्त्वजामेदः सुराभृष्टं ससैन्धवम् ॥
क्षामः क्षीणः क्षतोरस्को मन्दनिद्रो ऽग्निदीप्तिमान् ।
शतक्षीरसरेणाद्यात् सघृतक्षौद्रशर्करम् ॥
शर्करायवगोधूमं जीवकर्षभकौ मधु ।
घृतक्षीरानुपानं वा लिह्यात् क्षीणः क्षती कृशः ॥
क्रव्यात्पिशितनिर्यूहं घृतभृष्टं पिबेच्च सः ।
पिप्पलीक्षौद्रसंयुक्तं मांसशोणितवर्धनम् ॥
न्यग्रोधोदुम्बराश्वत्थप्लक्षसालप्रियङ्गुभिः ।
तालमस्तकजम्वूत्वक्प्रियालैश्च सपद्मकैः ॥
साश्वकर्णैः शृतात् क्षीरादद्याज्जातेन सर्पिषा ।
शाल्योदनं क्षतोरस्कः क्षीणशुक्रबलेन्द्रियः ॥
वातपित्तार्दिते ऽभ्यङ्गो गात्रभेदे घृतैर्मतः ।
तैलैश्चानिलरोगघ्नैः पीडिते मातरिश्वना ॥
हृत्पार्श्वार्तिषु पानं स्यात् जीवनीयस्य सर्पिषः ।
कुर्याद्वा वातरोगघ्नं पित्तरक्तविरोधि यत् ॥
यष्ट्याह्वनागबलयोः क्वाथे क्षीरसमं घृतम् ।
पयस्यापिप्पलीवांशीकल्कसिद्धं क्षते हितम् ॥
घृतं वाष्टगुणे क्षीरे कोललाक्षरसान्वितम् ।
कल्कैः कट्वङ्गदार्वीत्वग्वत्सकत्वक्दलैर्घृतम् ॥
जीवनीयो गणः शुण्ठी वरी वीरापुनर्नवौ ।
बलाभार्ङ्गीस्वगुप्तर्धिशठीतामलकीकणाः ॥
शृङ्गाटकं पयस्या च पञ्चमूलं च यल्लधु ।
द्राक्षाक्षोडादि च फलं मधुरस्निग्धबृंहणम् ॥
तैः पचेत् सर्पिषः प्रस्थं कार्षांशैः श्लक्ष्णकल्कितैः ।
क्षीरधात्रीविदारीक्षुच्छागमांसरसान्वितम् ॥
प्रस्थार्धं मधुनः शीते शर्करार्धतुलारजः ।
पलार्धिकं च मरिचत्वगेलापत्रकेसरम् ॥
विनीय चूर्णितं तस्माल्लिह्मान्मात्रां यथानलम् ।
अमृतप्राशमित्येतन्नराणाममृतं घृतम् ॥
सुधामृतरसं प्राश्यं क्षीरमांसरसाशिना ।
नष्टशुक्रक्षतक्षीणदुर्बलव्याधिकर्शितान् ॥
स्त्रीप्रसक्तान् कृशान् वर्णस्वरहीनांश्च बृंहयेत् ।
कासहिध्माज्वरश्वासदाहतृष्णास्रपित्तनुत् ।
पुत्रदं छर्दिमूर्छाहृद्योनिमूत्रामयापहम् ॥
श्वदंष्ट्रोशीरमञ्जिष्ठाबलाकाश्मर्यकत्तृणम् ।
दर्भमूलं पृथक्पर्णीं पलाशर्षभकौ स्थिराम् ॥
पालिकानि पचेत्तेषां रसे क्षीरचतुर्गुणे ।
कल्कैः स्वगुप्ताजीवन्तीमेदर्षभकजीवकैः ॥
शतावर्यृद्धिमृद्वीकाशर्कराश्रावणीबिसैः ।
प्रस्थः सिद्धो घृताद्वातपित्तहृद्रोगशूलनुत् ॥
मूत्रकृच्छ्रप्रमेहार्शः कासशोषक्षयापहः ।
धनुःस्त्रीमद्यभाराध्वखिन्नानां बलमांसदः ॥
मधुकाष्टपलद्राक्षाप्रस्थक्वाथे पचेद् घृतम् ।
पिप्पल्यष्टपले कल्के प्रस्थं सिद्धे च शीतले ॥
पृथगष्टपलं क्षौद्रशर्कराभ्यां च मिश्रयेत् ।
समसक्तु क्षतक्षीणरक्तगुल्मेषु तद्धितम् ॥
धात्रीफलविदारीक्षुजीवनीयरसात् घृतात् ।
गव्याजयोश्च पयसोः प्रस्थं प्रस्थं विपाचयेत् ॥
सिद्धशीते सिताक्षौद्रद्विप्रस्थं विनयेत्ततः ।
यक्ष्मापस्मारपित्तासृक्कासमेहक्षयापहम् ।
वयःस्थापनमायुष्यं मांसशुक्रबलप्रदम् ॥
घृतं तु पित्ते ऽभ्यधिके लिह्याद्व्यते ऽधिके पिबेत् ।
लीढं निर्वापयेत् पित्तमल्पत्वाद्धन्ति नानलम् ।
आक्रामत्यनिलं पीतमूष्माणं निरुणाद्धि च ॥
क्षामक्षीणकृशाङ्गानामेतान्येव घृतानि तु ।
त्वक्क्षीरीपिप्पलीलाजचूर्णैः स्त्यानानि योजयेत् ॥
सर्पिर्गुडान् समध्वंशान् कृत्वा दद्यात् पयोनु च ।
रेतोवीर्यं बलं पुष्टिं तैराशुतरमाप्नुयात् ॥
बला विदारी ह्रस्वं च पञ्चमूलं पुनर्नवम् ।
पञ्चानां क्षीरिवृक्षाणां शुङ्गा मुष्ट्यंशकास्तथा ॥
एषां कषाये द्विक्षीरे विदार्याजरसांशके ।
जीवनीयैः पचेत् पिष्टैरक्षमात्रिर्घृताढकम् ॥
सितापलानि पूते च शीते द्वात्रिंशदावपेत् ।
गोधूमपिप्पलीवांशीचूर्णं शृङ्गाटकस्य च ॥
समाक्षिकं कौडविकं तत्सर्वं खजमूर्च्छितम् ।
स्त्यानं सर्पिर्गुडान् कृत्वा भूर्जपत्रेण वेष्टयेत् ॥
तान् जग्ध्वा पालिकान् क्षीरं मद्यंत्वनुपिबेत् कफे ।
शोषे कासे क्षते क्षीणे श्रमस्त्रीभारकर्शिते ॥
रक्तनिष्ठीवने तापे पीनसे चोरसि स्थिते ।
शस्ताः पार्श्वशिरःशूले भेदे च स्वरवर्णयोः ॥
सर्शकराशृते क्षीरघृततैलाढकत्रये ।
चूर्णीकृताः क्षिपेत् पक्वसान्द्रे दशपलाः पृथक् ॥
द्राक्षात्मगुप्तावर्षाभूसमङ्गाभीरुपिप्पलीः ।
तद्वद्विदार्यामलके प्रस्थार्धं विश्वभेषजम् ॥
क्षामः क्षीणः क्षतः शुष्यंस्तान्खादेत् पालिकैर्गुडैः ।
तथा सद्यो रसादीनां वृध्या पुष्टिं समश्नुते ॥
गोक्षीरार्धाढकं सर्पिः प्रस्थमिक्षुरसाढकम् ।
रसाद्विदार्याः कुडवं रसात् प्रस्थं च तैत्तिरात् ॥
दद्यात् सिध्यति तस्मिंस्तु पिष्टानिक्षुरसैरिमान् ।
मधूकषुष्पं कुडवं कुडवं च प्रियालतः ॥
पलद्वयं तवक्षीर्याः खर्जूराणि च विंशतिः ।
पृथग्विभीतकान्मज्ञः पिप्पल्याश्च चतुर्थिकाम् ॥
त्रिंशत्पलानि खण्डाच्च मधुकात् पाणिमानिकाम् ।
तथार्धपलिकान्यत्र जीवनीयानि दापयेत् ॥
सिद्धे द्विकुडवं क्षौद्राच्छीते दत्वा च मोदकान् ।
कारयेन्मरिचाजाजीपलचूर्णावचूर्णितान् ॥
वातासृक्पित्तरोगेषु क्षतकासक्षयेषु च ।
क्षीणौजःस्वरशुक्रेषु योनिदोषेषु संस्रवे ।
मृतप्रजासु वन्ध्यासु हितं गर्भस्य च स्रुतौ ॥
वीतत्वगास्थिकूष्माण्डतुलां स्विन्नां पुनः पचेत् ॥
घट्टयन् सर्पिषः प्रस्थे क्षौद्रवर्णे ऽत्र च क्षिपेत् ।
स्वण्डाच्छतं कणाशुण्ठ्योर्द्विपलं जीरकादपि ॥
त्रिजातधान्यमरिचं पृथगर्धपलांशकम् ।
अवतारितशीते च दत्वा क्षौद्रं घृतार्धिकम् ॥
स्वजेनामथ्य च स्थाप्यं तन्निहन्त्युपयोजितम् ।
कासहिध्माज्वरश्वासरक्तपित्तक्षतक्षयान् ॥
उरःसन्धानजननं मेधास्मृतिबलप्रदम् ।
अश्विभ्यांन्निर्मितं हृद्यं कूष्माण्डकरसायनम् ॥
पिवेन्नागबलामूलस्यार्धकर्षाभिवर्धितम् ।
पलं क्षीरयुतं मासं क्षीरवृत्तिरनन्नभुक् ॥
एष प्रयोगः पुष्ट्यायुर्बलवर्णकरः परम् ।
मण्डूकपर्ण्याः कल्पो ऽयं यष्ट्या वित्तौषधस्य च ॥
पादशेषं जलद्रोणे पचेन्नागबलातुलाम् ।
तेन क्वाथेन तुल्यांशं घृतं क्षीरं च साधयेत् ॥
पलार्धिकैश्चातिबलाबलायष्टीपुनर्नवैः ।
प्रपौण्डरीककाश्मर्यप्रियालकपिकच्छुभिः ॥
अश्वगन्धासिताभीरुमेदायुग्मत्रिकण्टकैः ।
काकोलीक्षीरकाकोलीक्षीरशुक्लाद्विजीरकैः ॥
मृणालबिसखर्जूरशृङ्गाटककशेरुकैः ।
एतन्नागबलासर्पिः पित्तरक्तं क्षतक्षयम् ॥
जयेत्तृड्भ्रमदाहांश्च बलपुष्टिकरं परम् ।
वर्ण्यमायुष्यमोजस्यं वलीपलितनाशनम् ।
उपयुज्य तु षण्मासाद् वृद्धो ऽपि तरुणायते ॥
शर्करा पिप्पलीचूर्णैः सर्पिषा माक्षिकेण च ।
संयुतं वा शृतं क्षीरं पिबेत् कासज्वरापहम् ॥
फलाम्लं सर्पिषा भृष्टं विदारीक्षुरसे कृतम् ।
स्त्रीषु क्षीणः पिबेद्यूषं जीवनं बृंहणं परम् ॥
सक्तूनां वस्त्रपूतानां मन्थं क्षौद्रघृतावितम् ।
यवान्नसात्म्यो दीप्ताग्निः क्षतक्षीणः पिबेन्नरः ॥
जीवनीयोपसिद्धं वा जाङ्गलं घृतभर्जितम् ।
रसं प्रयोजयेत् क्षीणे व्यञ्जनार्थं सशर्करम् ॥
गोमहिष्यश्वनागाजैः क्षीरैर्मांससैस्तथा ।
यवान्नं भोजयेद्यूषैः फलाम्लैर्वा घृताप्लुतैः ॥
दीप्ते ऽग्नौ विधिरेष स्यान्मन्दे दीपनपाचनः ।
यक्ष्मोक्तः क्षतिनां शस्तो ग्राही शकृति तु द्रवे ॥
दशमूलं स्वयंगुप्तां शंखपुष्पीं शठीं बलाम् ।
हस्तिपिप्पल्यपामार्गपिप्पलीमूलचित्रकान् ॥
भार्ङ्गी पुष्करमूलं च द्विपलांशान्यवाढकम् ।
हरीतकीशतं चैकं जलपञ्चाढके पचेत् ॥
यवस्वेदे कषायं तं पूतं तच्चाभयाशतम् ।
पचेद्गुडतुलां दत्वा कुडवं च पृथग्घृतात् ॥
तैलात् सपिप्पलीचूर्णात् सिद्धशीते च माक्षिकात् ।
लेहाद्द्वे चाभये नित्यमतः खादेद्रसायनात् ॥
तद्वलीपलितं हन्याद्वर्णायुर्बलवर्धनम् ।
पञ्चकासान् क्षयं श्वासं सहिध्मं विषमज्वरम् ॥
मेहगुल्मग्रहण्यर्शोहृद्रोगरुचिपीनसान् ।
अगस्त्यविहितं धन्यमिदं श्रेष्ठं रसायनम् ॥
दशमूलं बलां मूर्वां हरिद्रे पिप्पलीद्वयम् ।
पाठाश्वगन्धापामार्गस्वगुप्तातिविषामृताः ॥
बालबिल्वं त्रिवृद्दन्तीमूलं पत्रं च चित्रकात् ।
पयस्यां कुटजं हिंस्रां पुष्पं सारं च बीजकात् ॥
बोलस्थविरभल्लातविकङ्कतशतावरीः ।
पूतीकरञ्जशम्याकचन्द्रलेखासहाचरम् ॥
सौभाञ्जनकनिम्बत्वगिक्षुरं च पलांशकम् ।
पथ्यासहस्रं सशतं यवानां चाढकद्वयम् ॥
पचेदष्टगुणे तोये यवस्वेदे ऽवतारयेत् ।
पूते क्षिपेत् सपथ्ये च तत्र जीर्णगुडात्तुलाम् ॥
तैलाज्यधात्रीरसतः प्रस्थं प्रस्थं ततः पुनः ।
अधिश्रयेन्मृदावग्नौ दर्वीलेपे ऽवतार्य च ॥
शीते प्रस्थद्वयं क्षौद्रात् पिप्पलीकुडवं क्षिपेत् ।
चूर्णीकृतात्त्रिजाताच्च त्रिपलं निखनेत्ततः ॥
धान्ये पुराणकुम्भस्थं मासं खादेच्च पूर्ववत् ।
रसायनं वसिष्ठोक्तमेतत् पूर्वगुणाधिकम् ।
स्वस्थानां निष्परीहारं सर्वर्तुषु च शस्यते ॥
पालिकं सैन्धवं शुण्ठी द्वे च सौवर्चलात् पले ।
कुडवांशानि वृक्षाम्लं दाडिमं पत्रमार्जकात् ॥
एकैका मरिचाजाज्योर्धान्यकाद्वे चतुर्थिके ।
शर्करायाः पलान्यत्र दश द्वे च प्रदापयेत् ॥
कृत्वा चूर्णमतो मात्रामन्नपानेषु दापयेत् ।
रुच्यं तद्दीपनं बल्यं पार्श्वार्तिश्वासकासनुत् ॥
एकां षोडशिकां धान्याद् द्वे द्वे चाजाजिदीप्यकात् ।
ताभ्यां दाडिमवृक्षाम्ले द्विर्द्विस्सौवर्चलात् पले ॥
शुण्ठ्याः कर्षं दधित्थस्य मध्यात् पञ्चपलानि च ।
तच्चूण षोडशपलैः शर्कराया विमिश्रयेत् ॥
षाडवोयं प्रदेयः स्यादन्नपानेषु पूर्ववत् ।
विधिश्च यक्ष्मपित्तास्रविहितः शस्यते क्षते ॥
निवृत्ते क्षतदोषे तु कफे वृद्ध उरः शिरः ।
दाल्येते कासिनो यस्य स ना धूमानिमान्पिबेत् ॥
द्विमेदाद्विबलायष्टीकल्कैः क्षौमे सुभाविते ।
वर्तिं कृत्वा पिबेद्धूमं जीवनीयघृतानुपः ॥
मनःशिला बला साजगन्धा त्वक्क्षीरिनागरैः ।
तद्वदेवानुपानं तु शर्करेक्षुगुडोदकम् ॥
पिष्ट्वा मनःशिलां तुल्यामार्द्रया वटशुङ्गया ।
ससर्पिष्कं पिबेद्धूमं तित्तिरिप्रतिभोजनः ॥
क्षयजे बृंहणं पूर्वं कुर्यादग्नेश्च वर्धनम् ।
बहुदोषाय सस्नेहं मृदु दद्याद्विरेचनम् ॥
शम्याकेन त्रिवृतया मृद्वीकारसयुक्तया ।
तिल्वकस्य कषायेण विदारीस्वरसेन च ।
सर्पिः सिद्धं पिबेद्युक्त्या क्षीणदेहो विशोधनम् ॥
पित्ते कफे धातुषु च क्षीणेषु क्षयकासवान् ।
घृतं कर्कटकीक्षीरद्विबलासाधितं पिबेत् ॥
विदारीभिः कदम्बैर्वा तालसस्यैश्च साधितम् ।
घृतं पयश्च मूत्रस्य वैवर्ण्ये कृच्छ्रनिर्गमे ॥
शूने सवेदने मेढ्रे पायौ सश्रोणिवङ्क्षणे ।
घृतमण्डेन लघुनानुवास्यो मिश्रकेण वा ॥
जाङ्गलैः प्रतिभुक्तस्य वर्तकाद्या बिलेशयाः ।
क्रमशः प्रसहास्तद्वत् प्रयोज्याः पिशिताशिनः ॥
औष्ण्यात् प्रमाथिभावाच्च स्रोतोभ्यश्च्यावयन्ति ते ।
कफं शुद्धैश्च तैः पुष्टिं कुर्यात् सम्यग्वहन् रसः ॥
चविकात्रिफलाभार्ङ्गीदशमूलैः सचित्रकैः ।
कुलत्थपिप्पलीमूलपाठाकोलयवैर्जले ॥
शृतैर्नागरदुस्पर्शापिप्पलीशठिपौष्करैः ।
पिष्टैः कर्कटशृङ्ग्या च समैः सर्पिर्विपाचयेत् ॥
सिद्धे ऽस्मिंश्चूर्णितौ क्षारौ द्वौ पञ्च लवणानि च ।
दत्वा युक्त्या पिबेन्मात्रां क्षयकासनिपीडितः ॥
कासमर्दाभयामुस्तापाठाकट्फलनागरैः ।
पिप्पल्या कटुरोहिण्या काश्मर्या सुरसेन च ॥
अक्षमात्रैर्घृतप्रस्थं क्षीरद्राक्षारसाढके ।
पचेच्छोषज्वरप्लीहसर्वकासहरं शिवम् ॥
वृषव्याघ्रीगुडूचीनां पत्रमूलफलाङ्कुरात् ।
रसकल्कैर्घृतं पक्वं हन्ति कासज्वरारुचीः ॥
द्विगुणे दाडिमरसे सिद्धं वा व्योषसंयुतम् ।
पिबेदुपरिभक्तस्य यवक्षारयुतं नरः ॥
पिप्पलीनुडसिद्धं वा छागक्षीरयुतं घृतम् ।
एतान्यग्निविवृध्यर्थं सर्पीषि क्षयकासिनाम् ।
स्युर्दोषबद्धकण्ठोरःस्रोतसां च विशुद्धये ॥
श्वाविदां सूचयो दग्धाः सघृतक्षौद्रशर्कराः ।
श्वासकासहरा बर्हिपादौ वा क्षौद्रसर्पिषा ॥
एरण्डपत्रक्षारं वा व्योषतैलगुडान्वितम् ।
लेहयेत् क्षारमेवं वा सुरसैरण्डपत्रजम् ॥
लिह्यात्त्र्यूषणचूर्णं वा पुराणगुडसर्पिषा ।
चित्रकत्रिफलाजाजी कर्कटाख्या कटुत्रिकम् ।
द्राक्षां च क्षौद्रसर्पिर्भ्यां लिह्यादद्याद्गुडेन वा ॥
पाठामधुकजीवन्तीत्वक्क्षीरीत्रिफलाघनम् ।
शठीद्विबृहतीद्राक्षापिप्पल्येलावितुन्नकम् ॥
सारिवापुष्करजटाकर्कटाख्यारसाञ्जनम् ।
पुनर्नवालोहरजस्त्रायमाणायवानिका ॥
ऋद्धिस्तामलकी भार्ङ्गी विडङ्गं धन्वयासकम् ।
क्षारचित्रकचव्याम्लवेतसव्योषदारु च ।
सर्वकासान् जयेल्लीढं तच्चूर्णं मधुसर्पिषा ॥
पद्मकं त्रिफला व्योषं विडङ्गं देवदारु च ।
बलारास्ना च तच्चूर्णं समस्तसमशर्करम् ॥
स्वादेन्मधुघृताभ्यां वा लिह्यात् कासहरं परम् ।
तद्वन्मारिचचूर्णं वा सघृतक्षौद्रशर्करम् ॥
पथ्याशुण्ठीघनगुदैर्गुटिकां धारयेन्मुखे ।
सर्वेषु कासश्वासेषु केवलं वा बिभीतकम् ॥
कल्के तिल्वकपत्राणां घृतभृष्टे सशर्करे ।
पेयोत्कार्यथवा च्छर्दितृट्कासामातिसारजित् ॥
गौरसर्षपगण्डीरविडङ्गव्योषचित्रकान् ।
साभयान् साधयेत्तोये यवागूस्तेन चाम्भसा ॥
ससर्पिर्लवणा कासे हिध्माश्वासे सपीनसे ।
पाण्ड्वामये क्षये शोफे कर्णशूले च शस्यते ॥
कण्टकारीरसे सिद्धो मुद्गयूषः सुसंस्कृतः ।
सगौरामलकः साम्लः सर्वकासभिषग्जितम् ॥
वातघ्नौषधनिःक्वाथे क्षीरं यूषान् रसानपि ।
वैष्किरान् प्रातुदान् बैलान् दापयेत् क्षयकासिने ॥
क्षतकासे च ये धूमाः सानुपाना निदर्शिताः ।
क्षयकासे ऽपि ते योज्या वक्ष्यते यच्च यक्ष्मणि ॥
बृंहणं दीपनं चाग्नेः स्रोतसां च विशोधनम् ।
व्यत्यासात् क्षयकासिभ्यो बल्यं सर्वं प्रशस्यते ॥
सन्निपातोद्भवो घोरः क्षयकासो यतस्ततः ।
यथादोषबलं तस्य सन्निपातहितं हितम् ॥
मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0