अष्टाङ्गसंग्रह · अध्याय 4.4
अथातः कासचिकित्सितं व्याख्यास्यामः ।
इति हस्माहुरात्रेयादयो महर्षयः ॥
केवलानिलजं कासं स्नेहैरादावुपाचरेत् ।
वातघ्नसिद्धैः स्निग्धैश्च पेयायूषरसादिभिः ॥
लेहैर्धूमैस्ततहाभ्यङ्गस्वेदसेकावगाहनैः ।
बस्तिभिर्बद्धविड्वातं सपित्तं त्वौर्ध्वभक्तिकैः ॥
गुडूचीकण्टकारीभ्यां पृथक् त्रिंशत्पलाद्रसे ।
प्रस्थः सिद्धो घृताद्वातकासनुद्वह्निदीपनः ॥
क्षाररास्नावचाहिङ्गुपाठायष्ट्याह्वधान्यकैः ।
द्विशाणैः सर्पिषः प्रस्थं पञ्चकोलयुतैः पचेत् ॥
दशमूलस्य निर्यूहे पीतं मण्डानुपायिना ।
सकासश्वासहृत्पार्श्वग्रहणीरोगगुल्मनुत् ॥
काश्मर्यत्रिफलाव्योषशठीद्राक्षापरूषकम् ।
द्वे पाठे देवदार्वृद्धिस्वगुप्ताग्निकगोक्षुरम् ॥
व्याघ्नीतामलकीमेदाकाकनासाशतावरीः ।
विदारी च घृतप्रस्थः कर्षांशैस्तैर्विपाचितः ॥
क्षीरेण च जयत्याशु ज्वरकासहलीमकान् ।
गुल्मारुचियकृत्प्लीहशिरोहृत्पार्श्ववेदनाः ॥
कामलार्शोनिलाष्ठीलाक्षतशोफक्षयांश्च सः ।
द्रोणे ऽपां साधयेद्रास्नादशमूलशतावरीः ।
पलोन्मिता द्विकुडवं कुलत्थं बदरं यवम् ॥
तुलार्धं चाजमांसस्य तेन साध्यं घृताढकम् ।
समक्षीरं पलांशैश्च जीवनीयैः समीक्ष्य तत् ॥
प्रयुक्तं वातरोगेषु पाननावनबस्तिभिः ।
पञ्चकासान् शिरःकम्पं योनिवङ्क्षणवेदनाम् ।
सर्वाङ्गैकाङ्गरोगांश्च सप्लीहोर्ध्वानिलान् जयेत् ॥
विदार्यादिगणक्वाथकल्कसिद्धं च कासजित् ।
अशोकबीजक्षवकजन्तुघ्नाञ्जनपद्मकैः ॥
सबिडैश्च घृतं सिद्धं तच्चूर्णं वा घृताप्लुतम् ।
लिह्यात् पयश्चानुपिबेदाजं कासाभिपीडितः ॥
विडङ्गं नागरं रास्नां पिप्पली हिङ्गु सैन्धवम् ।
भाङ्गर्क्षीरश्च तच्चूर्णं पिबेद्वा घृतमात्रया ।
सकफे ऽनिलजे कासे श्वासहिध्माहताग्निषु ॥
दुरालभां शृङ्गवेरं शठीं रास्नां सितोपलाम् ।
लिह्यात् कर्कटशृङ्गीं च कासे तैलेन वातजे ॥
दुस्पर्शां पिप्पलीं मुस्तं भार्ङ्गीं कर्कटकीं शठीम् ।
पुराणगुडतैलाभ्यां चूर्णितान्यवलेहयेत् ॥
तद्वत् सकृष्णां शुण्ठीं च सभार्ङ्गीं तद्वदेव च ।
पिबेत् कृष्णां च कोष्णेन सलिलेन ससैन्धवाम् ॥
मुस्तुना ससितां शुण्ठीं दध्ना वा कणरेणुकाः ।
पिबेत् बदरमज्ञो वा मदिरादधिमस्तुभिः ।
अथवा पिप्पलीकल्कं घृतभृष्टं ससैन्धवम् ॥
कासी सपीनसो धूमं स्नैहिकं विधिना पिबेत् ।
हिध्माश्वासोक्तधूमांश्च क्षीरमांसरसाशनः ॥
ग्राम्यानूपौदकैः शालियवगोधूमषष्टिकान् ।
रसैर्माषात्मगुप्तानां यूषैर्वा भोजयेद्धितान् ॥
यवानीपिप्पलीबिल्वमध्यनागरचित्रकैः ।
रास्नाजाजीपृथक्पर्णीपलाशशाठिपौष्करैः ॥
सिद्धां स्निग्धाम्ललवणां पेयामनिलजे पिबेत् ।
कटीहृत्पार्श्वकोष्ठार्तिश्वासहिध्माप्रणाशिनीम् ॥
दशमूलरसे तद्वत् पञ्चकोलगुडान्विताम् ।
पिबेत् समतिलां पेयां क्षैरेयीं वा ससैन्धवाम् ।
मात्स्यकौक्कुटवाराहैर्मांसैर्वा साज्यसैन्धवाम् ॥
वास्तुको वायसीशाकं कासघ्नः सुनिषण्णकः ।
कण्टकार्याः फलं पत्रं बालं शुष्कं च मूलकम् ॥
स्नेहास्तैलादयो भक्ष्याः क्षीरेक्षुरसगौडिकाः ।
दधिमस्त्वारनालाम्लफलाम्बुमदिराः पिबेत् ॥
पित्तकासे तु सकफे वमनं सर्पिषा हितम् ।
तथा मदनकाश्मर्यमधुकक्वथितैर्जलैः ।
फलयष्ट्याह्वकल्कैर्वा विदारीक्षुरसाप्लुतैः ॥
पित्तकासे तनुकफे त्रिवृतां मधुरैर्युताम् ।
युञ्ज्याद्विरेकाय युतां घनश्लेष्मणि तिक्तकैः ॥
हृतदोषो हिमं स्निग्धं स्वादु संसर्जनं भजेत् ।
घने कफे तु शिशिरं रूक्षं तिक्तोपसंहितम् ॥
पिप्पलीमुस्तयष्ट्याह्वद्राक्षामूर्वामहौषधम् ।
लाकामृताफलद्राक्षात्वक्क्षीरीपिप्पलीसिताः ॥
दुस्पर्शाकर्कटीशुण्ठीशठीद्राक्षासिताबलाः ।
निदिग्धिकामूलफलं वटबीजं रसाञ्जनम् ॥
खर्जूरं पिप्पली वांशी श्वदंष्ट्रा चेति पञ्च ते ।
घृतक्षौद्रयुता लेहाः श्लोकार्धैः पित्तकासिनाम् ।
पयो ऽनुपानां शृङ्गीं वा लिह्यात्साज्यसितामधु ॥
लेहः पैत्ते सिताधात्रीक्षौद्रद्राक्षाहिमोत्पलैः ।
सकफे साब्दमरिचः सघृतः सानिले हितः ॥
मृद्वीकार्धशतं त्रिंशत् पिप्पलीः शर्करापलम् ।
लेहयेन्मधुना गोर्वा क्षीरपस्य शकृद्रसम् ॥
त्वगेलाव्योषमृद्वीकापिप्पलीमूलपौष्करैः ।
लाजमुस्तशठीरास्नाधात्रीफलबिभीतकैः ।
शर्कराक्षौद्रसर्पिर्भिर्लेहो हृद्रोगकासहा ॥
पिप्पल्यामलकद्राक्षालाजलाक्षासितोपलाः ।
सञ्चूर्ण्य पक्त्वा पयसा लिह्यात् क्षौद्राष्टभागिकाः ॥
विदारीक्षुमृणालानां रसान् क्षीरं सितोपलाम् ।
पिबेत् क्षौद्रेण संयोज्य पित्तकासमपोहति ॥
मधुरैर्जाङ्गलरसैर्यवश्यामाककोद्रवाः ।
मुद्गादियूषैः शाकैश्च तिक्तकैर्मात्रया हिताः ॥
घनश्लेष्मणि लेहाश्च तिक्तका मधुसंयुताः ।
शालयः स्युस्तनुकफे षष्टिकाश्च रसादिभिः ।
शर्कराम्भो ऽनुपानार्थं द्राक्षेक्षुस्वरसः पयः ॥
काकोलीबृहतीमेदाद्वयैः सवृषनागरैः ।
पित्तकासे रसक्षीरपेयायूषान् प्रकल्पयेत् ॥
द्राक्षां कणां पञ्चमूलं तृणाख्यं च पचेज्जले ।
तेन क्षीरं शृतं शीतं पिबेत् समधुशर्करम् ॥
साधितां तेन पेयां वा सुशीतां मधुनान्विताम् ।
शठीद्द्रीबेरबृहतीशर्कराविश्वभेषजम् ।
पिष्ट्वा रसं पिबेत् पूतं वस्त्रेण घृतमूर्छितम् ॥
महिष्यजावीगोक्षीरधात्रीफलरसैः समैः ।
सर्पिः सिद्धं पिबेत् तद्वन्मधुरेण गणेन वा ॥
क्वाथीकृतेनेक्षुरसे क्षीरयुक्तेन साधितम् ।
सशर्करं पिबेत् प्रातर्लिह्याद्वा माक्षिकान्वितम् ॥
क्षीरिवृक्षाड्कुरक्वाथे पक्वं क्षीरसमं घृतम् ।
पाययेत् पित्तकासार्तं मधुना वावलेहयेत् ॥
मेदां विदारीं काकोलीं स्वयंगुप्ताफलं बलाम् ।
शर्करां जीवकं मुद्गमाषपर्ण्यौ दुरालभाम् ॥
कल्कीकृत्य पचेत् सर्पिः क्षीरेणाष्टगुणेन तत् ।
पानभोजनलेहेषु प्रयुक्तं पित्तकासजित् ॥
लिह्याद्वा चूर्णमेतेषां कषायमथवा पिबेत् ।
कफकासी पिबेदादौ सुरकाष्ठात् प्रदीपितात् ॥
स्नेहं परिस्रुतं व्योषयवक्षारावचूर्णितम् ।
स्निग्धं विरेचयेदूर्ध्वमधो मूर्ध्नि च युक्तितः ॥
तीक्ष्णैर्विरेकैर्बलिनं संसर्गीं चास्य योजयेत् ।
यवमुद्गकुलत्थान्नैरुष्णरूक्षैः कटूत्कटैः ॥
कासमर्दकवार्ताकव्याघ्नीक्षारकणान्वितैः ।
धान्वबैलरसैःस्नेहौस्तिलसर्षपनिम्बजैः ॥
दशमूलाम्बु घर्माम्बु मद्य मध्वम्बु वा पिबेत् ।
मूलैः पौष्करशम्याकपटोलैरन्वितं निशाम् ॥
पिबेद्वारि सहक्षौद्रं कालेष्वन्नस्य वा त्रिषु ।
पिप्पलीपिप्पलीमूलं शृङ्गवेरं बिभीतकम् ॥
देवदार्वभया मुस्तं पिप्पलीविश्वभेषजम् ।
गुडूची पिप्पलीभाङ्र्गीशृङ्गीकर्कटकस्य च ॥
व्योषदारुचिडङ्गानि त्रिफलाशर्कराबलाः ।
निदिग्धिकाया मूलत्वङ्मरिचैः सह योजिता ॥
शिखिकुक्कुटपिञ्छानां मषी क्षारो यवोद्भवः ।
विशाला पिप्पलीमूलं त्रिवृता च मधुद्रवाः ॥
कफकासहरा लेहाः सप्त श्लोकार्धयोजिताः ।
मधुना मरिचं लिह्यान्मधुनैव च जोङ्गकम् ॥
पृथग्रसांश्च मधुना व्याघ्रीवार्ताकभृङ्गजान् ।
कासघ्नस्याश्वशकृतः सुरसस्यासितस्य च ॥
देवदारुशठीरास्नाकर्कटाख्यादुरालभाः ।
पिप्पली नागरं मुस्तं पथ्याधात्रीसितोपलाः ॥
मधुतैलयुतावेतौ लेहौ वातानुगे कफे ।
विडङ्गं सैन्धवं हिङ्गु कुष्ठं व्योषं मनःशिलाम् ॥
कासे श्वासे च हिध्मायां लिह्यात् क्षौद्रघृताप्लुतम् ।
गुडक्षारोषणकणादाडिमं श्वासकासजित् ।
क्रमात्पलद्वयार्धाक्षकर्षार्धाक्षपलोन्मितम् ॥
द्वे पले दाडिमादष्टौ गुडाद्व्योषात् पलत्रयम् ।
रोचनं दीपनं स्वर्यं पीनसश्वासकासजित् ॥
पाठाशुण्ठीशठीमूर्वागवाक्षीपिप्पलीघनम् ।
पिष्ट्वा घर्माम्बुना हिङ्गुसैन्धवाभ्यां युतं पिबेत् ।
तद्वन्मुस्ताशठीशुण्ठीनागरातिविषभयाः ॥
पिबेज्ज्वरोक्तं पथ्यादि सशृङ्गीकं च पाचनम् ।
अथवा दीप्यकत्रिवृद्विशालाघनपौष्करम् ॥
सकणं क्वथितं मूत्रे कफकासी जले ऽपि वा ।
तैलभृष्टं च वैदेहीकल्काक्षं ससितोपलम् ॥
पाययेत् कफकासघ्नं कुलत्थसलिलाप्लुतम् ।
सौवर्चलाभयाधात्रीपिप्पलीक्षारनागरम् ॥
चूर्णितं सर्पिषा वातकफकासहरं पिबेत् ।
दशमूलाढके प्रस्थं घृतस्याक्षसमैः पचेत् ॥
पुष्कराह्वशठीविल्वसुरसव्योषहिङ्गुभिः ।
पेयानुपानं तत् सर्ववातश्लेष्मामयापहम् ॥
निर्गुण्डीपत्रनिर्याससाधितं कासजिद्घृतम् ।
घृतं रसे विडङ्गानां व्योषगर्भं च साधितम् ॥
पुनर्नव्सिताटिकासुरसकासमर्दामृता ।
पटोलबृहतीफणिज्जकरसैः पयःसंयुतैः ।
घृतं त्रिकटुना च सिद्धमुपयुज्य सञ्जायते ।
न कासविषमज्वरक्षयगुदाङ्कुरेभ्यो भयम् ॥
समूलफलपत्रायाः कण्टकार्या रसाढके ।
घृतप्रस्थं बलाव्योषविडङ्गशठिदाडिमैः ॥
सौवर्चलयवक्षारमूलामलकपौष्करैः ।
वृश्चीवबृहतीपथ्यायवानीचित्रकर्धिभिः ॥
मृद्वीकाचव्यवर्षाभूदुरालम्भाम्लवेतसैः ।
शृङ्गीतामलकीभार्ङ्गीरास्नागोक्षुरकैः पचेत् ॥
कल्कैस्तत् सर्वकासेषु श्वासहिध्मासु चेष्यते ॥
कण्टकार्यास्तुलां क्षुण्णां पक्त्वा द्रोणे ऽम्भसः पचेत् ।
तेनाढकेन क्वाथस्य घृतप्रस्यं पिचून्मितैः ॥
रास्नादुस्पर्शषङ्ग्रन्थापिप्पलीद्वयचित्रकैः ।
सौवर्चलयवक्षारकृष्णामूलैश्च तज्जयेत् ॥
कासश्वासकफष्ठीवहिध्मारोचकपीनसान् ।
पचेद्व्याघ्नीतुलां क्षुण्णां वहे ऽपामाढकस्थिते ॥
क्षिपेत् पूते तु सञ्चूर्ण्य व्योषरास्नामृताग्निकान् ।
शृङ्गीर्भार्ङ्गीघनग्रन्थिधन्वयासान् पलार्धकान् ॥
सर्पिषः षोडशपलं चत्वारिंशत्पलानि च ।
मत्स्यण्डिकायाः शुद्धायाः पुनश्च तदधिश्रयेत् ॥
दर्वीलेपिनि शीते च पृथक् द्विकुडवं क्षिपेत् ।
पिप्पलीनां तवक्षीर्या माक्षिकस्यानवस्य च ॥
लेहो ऽयं गुल्महृद्रोगदुर्नामश्वासकासजित् ।
त्रिफलापिप्पलीपाठासारिवाबृहतीद्वयम् ।
मरिचं पद्मकं मुस्तमुशीरं चाक्षसम्मितम् ॥
पक्त्वा जलाढके पादशेषे क्षीरपलाष्टकम् ।
दत्वा गुडस्य च पलं पचेदादर्विलेपनात् ॥
लेहः कफोल्बणं कासं सर्वमेव नियच्छति ।
साधितं क्षीरमेभिर्वा तिलक्षौद्रयुतं पिबेत् ॥
शमनं च पिबेद्धूमं शोधनं बहले कफे ॥
मनःशिलालमधुकमांसीमुस्ते ऽङ्गुदीत्वचः ।
धूमं कासघ्नविधिना पीत्वा क्षीरं पिबेदनु ॥
निष्ठ्यूतान्ते गुडयुतं कोष्णं धूमो निहन्ति सः ।
वातश्लेष्मोत्तरान् कासानचिरेण चिरन्तनान् ॥
प्रपौण्डरीकं मधुकं शार्ङ्गेष्टालं मनःशिलाम् ।
मरिचं पिप्पलीं द्राक्षामेलां सुरसमञ्जरीम् ॥
कृत्वा वर्तिं पिबेद्धूमं क्षौमचैलानुवर्तिनी ।
घृताक्तामनु च क्षीरं पिबेत् तद्वत् गुडाम्बु वा ॥
नेपालीतालमरिचलाक्षाञ्जनकुटन्नटैः ।
उशीररोहिषफलद्रामिलीवंशलेखनैः ॥
पूर्वकल्पेन धूमो ऽयं सानुपानो विधीयते ।
कार्पासास्थ्यश्वगन्धा च धूमः कासविनाशनः ।
कोशातकीफलान्मध्यैः पिबेद्वा समनःशिलैः ॥
तमकः कफकासे तु स्याच्चेत् पित्तानुबन्धजः ।
पित्तकासक्रियां तत्र यथावस्थं प्रयोजयत् ॥
कफानुबन्धे पवने कुर्यात् कफहरां क्रियाम् ।
पित्तानुबम्धयोर्वातकफयोः पित्तनाशिनीम् ॥
वातश्लेष्मात्मके शुष्के स्निग्धमार्द्रे विरूक्षणम् ।
कासे कर्म सपित्ते तु कफजे तिक्तसंयुतम् ॥
मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0