अष्टाङ्गसंग्रह · अध्याय 4.3
अथातो रक्तपित्तचिकित्सितं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥
ऊर्ध्वगं बलिनो ऽवेगमेकदोषानुगं नवम् ।
रक्तपित्तं सुखे काले साधयेन्निरुपद्रवम् ॥
अधोगं यापयेद्रक्तं यच्च दोषद्वयानुगम् ।
शान्तं शान्तं पुनः कुप्यन्मार्गान्मार्गान्तरञ्च यत् ॥
अतिप्रवृत्तं मन्दाग्नोस्त्रिदोषं द्विपथं त्यजेत् ।
ज्ञात्वा निदानमयनं मलावनुबलौ बलम् ॥
देशकालाद्यवस्थां च रक्तपित्ते प्रयोजयेत् ।
लङ्घनं बृंहणं चादौ शोधनं शमनं तथा ॥
सन्तर्पणोत्थं बलिनो बहुदोषस्य साधयेत् ।
ऊर्ध्वभागं विरेकेण वमनेन त्वधोगतम् ।
शमनैर्बृंहणैश्चान्यल्लङ्घ्यबृंह्यानवेक्ष्य च ॥
ऊर्ध्वं प्रवृत्ते शमनौ रसौ तिक्तकषायकौ ।
उपवासश्च निःशुण्ठीषडङ्गोदकपायिनः ॥
अधोगे रक्तपित्ते तु बृंहणो मधुरो रसः ।
ऊर्ध्वगे तर्पणं योज्यं पेया पूर्वमधोगते ॥
अश्नतो बलिनो ऽशुद्धं न धार्यं तद्धि रोगकृत् ।
धारयेदन्यथा शीघ्रमग्निवच्छीघ्रकारि तत् ॥
त्रिवृतात्रिफलाधात्रीत्रायन्त्यारग्वधाभयाः ।
गवाक्षीक्षुरसक्षीरद्राक्षाक्षौद्रसितोत्कटाः ।
यथास्वं कल्पविहिता विरेकार्थं प्रयोजयेत् ॥
त्रिवृच्छ्यामाकषायेण कल्केन च सशर्करम् ।
साधयेद्विधिवल्लेहं लिह्यात् पाणितलं ततः ॥
त्रिफला त्रिवृता श्यामा पिप्पली शर्करा मधु ।
मोदकः सन्निपातोर्ध्वरक्तपित्तज्वरापहः ॥
त्रिवृत्समसिता तद्वत् पिप्पलीपादसंयुता ।
वमनं फलसंयुक्तं तर्पणं ससितामधु ॥
ससितं वा जलं क्षौद्रयुक्तं वा मधुकोदकम् ।
फलेन्द्रयवगाङ्गेयीमधुकं वा समाक्षिकम् ॥
क्षीरं वा रसमिक्षोर्वा शुद्धस्यानन्तरो विधिः ।
यथास्वं मन्थपेयादिः प्रयोज्यो रक्षता बलम् ॥
मन्थो ज्वरोक्तो द्राक्षादिः पित्तघ्नैर्वा फलः कृतः ।
मधुखर्जूरमृद्वीकापरूषकसिताम्भसा ॥
मन्थो वा पञ्चसारेण सघृतैर्लाजसक्तुभिः ।
दाडिमामलकाम्लो वा मन्दाग्न्यम्लाभिलाषिणः ॥
कमलोत्पलकिञ्जल्कपृश्निपर्णीप्रियङ्गुकाः ।
उशीरं शाबरं लोध्रं शृङ्गवेरं कुचन्दनम् ॥
ह्रीबेरं धातकीपुस्पं बिल्वमध्यं दुरालभा ।
अर्धार्धैर्विहिताः पेया वक्ष्यन्ते पादयौगिकाः ॥
भूनिम्बसेव्यजलदाश्चन्दनाम्बुप्रियङ्गवः ।
शालिपर्ण्या युता मुद्गाः पृश्निपर्ण्या मसूरकाः ॥
तुवर्यो वातिबलया बलया वा हरेणवः ।
तत्कषाये हिताः पेया मांसपेयास्तथा रसाः ॥
अनम्लाः किञ्चिदम्ला वा सघृतक्षौद्रशर्कराः ।
शूकशिम्बीभवं धान्यं शाकं मांसं च शस्यते ॥
अन्नस्वरूपविज्ञाने यदुक्तं लघु शीतलम् ।
पूर्वोक्तमम्बु पानीयं पञ्चमूलेन वा शृतम् ॥
लघुना शृतशीतं वा मध्वम्भो वा फलाम्बु वा ।
पद्मकाद्यञ्जनादिं च सारिवादिं च कल्पयेत् ॥
अन्नपाने गणं तद्वद्दशकं दाहनाशनम् ।
कफानुगे यूषशाकं मारुतानुगते रसः ॥
अभीरोरङ्कुरैर्लावाः सहमुद्गाः पटोलजैः ।
मकुष्ठाधन्वयासोत्थैरस्रपित्ते परं मताः ॥
शशः सवास्तुकः शस्तो विबन्धे तित्तिरिः पुनः ।
उदुम्बरस्य निर्यूहे साधितो मारुते ऽधिके ॥
प्लक्षस्य बर्हिणस्तद्वन्न्यग्रोधस्य च कुक्कुटः ।
बिसोत्पलमृणालानां वर्तकक्रकरौ हितौ ॥
वर्तिकाम्भोजनालानामश्वत्थस्य कपिञ्जलः ।
यत्किञ्चिद्रक्तपित्तस्य निदानं तच्च वर्जयेत् ॥
वासारसेन फलिनीमृल्लोध्राञ्जनमाक्षिकम् ।
पित्तासृक् शमयेत् पीतं निर्यासो वाटरूषकात् ॥
शर्करामधुसंयुक्तः केवलो वा शृतो ऽपि वा ।
वृषः सद्यो जयत्यस्रं स ह्यस्य परमौषधम् ॥
वासारसेन भूनिम्बकटुकाशर्कराः पिबेत् ।
तेनैव वा क्षौद्रयुतं पद्मकेसरपद्मकम् ॥
सलोध्रनागकुसुमशाड्वलोत्पलवास्तुकम् ।
लिह्याद्वा मधुसर्पिर्भ्यां गवाश्वशकृतो रसम् ॥
पथ्यारजन्यहिंस्रा वा पलाण्डुं तद्वदेव वा ।
फलिनीलोध्रखदिरशाल्मकोविदारजम् ॥
शिरीषशेलुककुभीसिन्दुवारातिमुक्तजम् ।
पलाशयूथिकाशिग्रुमधूकासनजन्म च ॥
मधुना चूर्णितं पुष्पमेकत्र पृथगेव वा ।
पुष्पैरेभिर्विपक्वं च सक्षौद्रं माहिषं घृतम् ॥
लिह्यात् क्षौद्रेण पथ्यां वा किञ्जल्कं कमलस्य वा ।
लाजाः शृङ्गाटकं मुस्तं खर्जूरं कृष्णमृत्तिकाम् ॥
क्षीरिवृक्षाङ्कुरान् द्राक्षां तवक्षीरीं सितोपलाम् ।
गैरिकं मधुकं लोध्रं शङ्खं शम्बूकमञ्जनम् ॥
तण्डूलीयकमूलं वा बीजं वा वास्तुकोद्भवम् ।
पटोलमालतीनिम्बचन्दनद्वयपद्मकम् ॥
लोध्रो वृषस्तण्डुलीयः कृष्णा मृन्मदयन्तिका ।
शतावरी गोपकन्याकाकोल्यौ मधुयष्टिका ॥
रक्तपित्तहराः क्वाथास्त्रयः समधुशर्कराः ।
सक्षौद्रं ग्रथिते रक्ते लिह्यात् पारावताच्छकृत् ॥
अतिनिस्रुतरक्तो वा क्षौद्रेण रुधिरं पिबेत् ।
जाङ्गलं भक्षयेद्वाजं मासं पित्तयुतं यकृत् ॥
लोध्रकालीयकोशीरफलिनीशङ्खगैरिकम् ।
पटोलपत्रं दुस्पर्शा समङ्गा सारिवालता ॥
त्वग्जम्बुवेतसाश्वत्थहयाह्वोदुम्बरार्जुनात् ।
किराततिक्तक्रमुकमुस्तकट्फलपद्मकम् ॥
प्रपौण्डरीकद्द्रीबेरकमलोत्पलपर्पटम् ।
चन्दनेन पृथग्युक्तं समस्तं वा सशर्करम् ॥
फाण्टीकृतं शृतं शीतं चूर्णं वा तण्डुलाम्भसा ।
पीतमाशु जयत्यस्रं तृड्दाहतमकानपि ॥
चन्दनोशीरजलदलाजमुद्गकणायवैः ।
बलाजले पर्युषितैः कषायो रक्तपित्तहा ॥
प्रसादश्चन्दनाम्भोजसेव्यमृद्भृष्टलोष्टजः ।
सुशीतः ससिताक्षौद्रः शोणितातिप्रवृत्तिजित् ॥
तद्वदच्छः सितालोध्रमधुकोशीरचन्दनात् ।
मृच्छ्यामासारिवामुस्ताधातकीयष्टिकान्वितात् ॥
वैडूर्यमुक्तामृच्छङ्खगैरिकामलकोदकम् ।
मधूदकं रसं चेक्षोः पिबेन् जयति शोणितम् ॥
आपोथ्य वा नवे कुम्भे प्लावयेदिक्षुगण्डिकाः ।
स्थितं तत् गुप्तमाकाशे रात्रिं प्रातः स्रुतं जलम् ॥
मधुमद्विकचाम्भोजकृतोत्तंसं च तद्गुणम् ।
त्रपुसीमूलकल्कं वा सक्षौद्रं तण्डुलाम्बुना ॥
पिबेत् करञ्जबीजं वा तेनक्षौद्रसितायुतम् ।
लोध्रचन्दनयष्ट्याह्वं तेन यष्ट्याह्वमेव वा ॥
नीलोत्पलं सिता यष्टी मधुकं पद्मकेसरम् ।
छिन्नोद्भवा च शीतो ऽयं कषायो रक्तपित्तजित् ॥
ये च पित्तज्वरे प्रोक्ताः कषायास्तांश्च योजयेत् ।
कषायैर्विविधैरेभिर्दोप्ते ऽग्नौ विजिते कफे ॥
रक्तपित्तं न चेच्छाम्येत्तत्र वातोल्बणे पयः ।
युञ्ज्याज्छागं शृतं तद्वत् गव्यं पञ्चगुणे ऽम्भसि ॥
पञ्चमूलेन लघुना शृतं वा ससितामधु ।
जीवकर्षभकद्राक्षाबलागोक्षुरनागरैः ॥
पृथक् पृथक् शृतं शीतं सघृतं सितयाथवा ।
क्षीरेण वमनीपुष्पं मधुकं मधुशर्कराम् ॥
गोकण्टकाभीरुशृतं पर्णिनीभिस्तथा पयः ।
हन्त्याशु रक्तं सरुजं विशेषान्मूत्रमार्गगम् ॥
विण्मार्गगे विशेषेण हितं मोचरसेन तु ।
वटप्ररोहैः शुङ्गैर्वा शुण्ठ्युदीच्योत्पलैरपि ॥
रक्तातिसारदुर्नामचिकित्सां चात्र कल्पयेत् ।
पीत्वा कषायान् पयसा भुञ्जीत पयसैव तु ।
कषाययोगैरेभिर्वा विपक्वं पाययेत् घृतम् ॥
समूलमस्तकं क्षुण्णं वृषमष्टगुणे ऽम्भसि ।
पक्त्वाष्टांशावशेषेण घृतं तेन विपाचयेत् ॥
तत्पुष्पगर्भं तच्छीतं सक्षौद्रं पित्तशोणितम् ।
पित्तगुल्मज्वरश्वासकासहृद्रोगकामलाः ॥
तिमिरभ्रमवीसर्पस्वरसादांश्च नाशयेत् ।
पलाशवृन्तस्वरसे तद्गर्भं च घृतं पचेत् ॥
सक्षौद्रं तच्च रक्तघ्नं तद्वद्वत्सकसाधितम् ।
लोध्रोत्पलसमङ्गाभिस्तथैव त्रायमाणया ॥
लाजगोधूममधुकसिताचूर्णं पयोद्रवम् ।
घृतेनोत्करिकां कृत्वा खादेत् पित्तास्रवारिणीम् ॥
रक्ते सपिच्छे सकफे ग्राथिते कण्ठमार्गगे ।
लिह्यान्माक्षिकसर्पिर्भ्यां क्षारमुत्पलनालजम् ॥
मृणालाम्भोजकिञ्जम्ल्कश्यामासनमधूकजम् ।
तद्वत् पृथक् पृथक् क्षारं घृतं क्षीरेण साधयेत् ॥
पिष्टैरभीरुकाकोलीमेदावृक्षाम्लदाडिमैः ।
फलपूरकमूलेन विदार्या मधुकेन च ॥
तद्विबन्धज्वरानाहशूलकासास्रपित्तजित् ।
पञ्चभिः पञ्चमूलैश्च सिद्धमाद्यैस्तदर्थकृत् ॥
गुदागमे विशेषेण शोणिते बस्तिरिष्यते ।
मधुकाञ्जनमाञ्जिष्ठामृणालोत्पलगैरिकैः ॥
सुवर्णलोध्रकालीयसमङ्गाम्बुजचन्दनैः ।
सौगन्धिकसिताशङ्खैः पिष्टैर्मधुघृतान्वितैः ॥
क्षीरेणास्थापयेदेनं स्नातं च शिशिराम्भसा ।
क्षीरेणैवाशयेच्छालीस्ततो मधुकसर्पिषा ॥
काले ऽनुवासयेदेवमतिसारे ऽपि दुस्तरे ।
जीर्णे ऽसृक्प्रबले कुर्याद्विरेके चातियोगिनि ॥
विदार्यादिगणेनेष्टं शृतं वास्थापने पयः ।
सक्षौद्रशर्करासर्पिः सर्पिश्चैवानुवासने ॥
मूत्राशयस्थं शमयेद्रक्तमुत्तरबस्तिभिः ।
ईदृशैरेव तद्वच्च प्रदरे ऽपि विधिः स्मृतः ॥
छेदभेदादिभिश्चातिप्रवृत्ते शुद्धशोणिते ।
विशेषात् प्रदरस्योक्तं योनिरोगेषु चैषधम् ॥
घ्राणगे रुधिरे शुद्धे नावनं चानुषेचयेत् ।
कषाययोगान् पूर्वेक्तान् क्षीरेक्ष्वादिरसाप्लुतान् ॥
क्षीरादीन् ससितं तोयं केवलं वा हितं जलम् ।
रसो दाडिमपुष्पाणामाम्रास्थ्नः शाड्वलस्य च ॥
कल्पयेच्छीतवर्गं च प्रदेहाभ्यञ्जनादिषु ।
यच्च पित्तज्वरे प्रोक्तं बहिरन्तश्च भेषजम् ।
रक्तपित्ते हितं तच्च क्षतक्षीणे हितं च यत् ॥
मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0