अष्टाङ्गसंग्रह · अध्याय 4.2
अथातो जीर्णज्वरचिकित्सितं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥
देहधात्वबलत्वेन ज्वरो जीर्णो ऽनुवर्तते ॥
रूक्षं हि तेजो ज्वरकृत्तेजसा रूक्षितस्य च ।
वमनस्वेदकालाम्बुकषायलघुभोजनैः ॥
यः स्यादतिबलो धातुः सहचारी सदागतिः ।
तस्य संशमनं सर्पिर्दीप्तस्येवाम्बु वेश्मनः ॥
वातपित्तजितामग्न्यं संस्कारमनुरुध्यते ।
सुतरां तद्ध्यतो दद्याद्यथास्वौषधसाधितम् ॥
विपरीतं ज्वरोष्माणं जयेत् पित्तं च शैत्यतः ।
स्नेहाद्वातं घृतं तुल्यं योगसंस्कारतः कफम् ॥
पूर्वे कषायाः सघृताः सर्वे योज्या यथामलम् ।
त्रिफलापिचुमन्दत्वङ्मधुकं बृहतीद्वयम् ।
समसूरदलं क्वाथः सघृतो ज्वरकासहा ॥
निदिग्धिकातामलफीत्रायमाणाकलिङ्गकैः ।
कृष्णांशुमत्यतिविषाकटुकासेव्यचन्दनैः ॥
धात्रीबिल्वघनद्राक्षासारिवाभिश्च साधितम् ।
हन्ति सद्यो घृतं जीर्णज्वरं कासं हलीमकम् ।
अरुचिं विषमं वह्निं यक्ष्माणं च नवोत्थितम् ॥
वासागुडूचीत्रिफलात्रायमाणायवासकात् ।
क्वाथे क्षीरे च विपचेत् ज्वरघ्नं कल्कितैर्घृतम् ।
पिप्पलीमुस्तमृद्वीकाचन्दनोत्पलनागैरः ॥
बलादुरालभामुस्तात्रायतीनिम्बपर्पटम् ।
पञ्चमूलद्वयं यच्च क्वाथयित्वा घृतं पचेत् ।
सक्षीरं कल्कितैर्द्राक्षामेदामलकपौष्करैः ॥
शठीतामलकीयुक्तैस्तच्च ज्वरहरं परम् ।
क्षयकासशिरःपार्श्वहृच्छूलांसाभितापनुत् ॥
कुलत्थकोलत्रिफलादशमूलयवान् पचेत् ।
द्विपलान् सलिलद्रोणे पूते पिष्ट्वाक्सकान् क्षिपेत् ॥
पञ्चकोलकसप्ताह्ववयस्थानिम्बतुम्बुरून् ।
शठीपुष्करमूलार्कमूलप्रतिविषावचाः ॥
किराततिक्तकं मुस्तं कर्कटाख्यां दुरालभाम् ।
नक्तमालमुभे पाठे कटुकाशिग्रुतेजनीः ॥
सोमवल्कद्विरजनीकण्टकीकण्टकारिकाः ।
पटोलहिङ्गुगोजिह्वाकेबुकं मदनाज्झटा ॥
लवणानि पलांशानि क्षारानर्धपलोन्मितान् ।
प्रस्थं चाज्यस्य तत्सिद्धं दीपनं कफवातजित् ॥
हृत्प्लीहग्रहणीगुल्मकासश्वासार्शसां हितम् ।
दीर्घज्वराभिभूतानां ज्वरिणाममृतोपमम् ॥
मञ्जिष्ठातिविषापथ्यावचानागररोहिणीः ।
देवदारु हरिद्रां च द्रोणे ऽपां पालिकान् पचेत् ।
क्वाथे ऽस्मिन् साधयेत् पिष्टैर्घृतप्रस्थं पिचून्मितैः ॥
शृङ्गवेरकणाहिङ्गुद्विक्षारपटुपञ्चकैः ।
तत्कफावृतसर्वोत्थज्वरिणाममृतोपमम् ॥
वर्ध्महिध्मारुचिश्वासकासपाण्डुविकारिणाम् ।
गलग्रह (ग्रन्थि) प्रमेहार्शः प्लीहापस्मारशोफिनाम् ।
उदावर्तपरीतानां मन्दाग्निकृमिकोष्ठिनाम् ॥
गुडूच्या रसकल्काभ्यां त्रिफलाया वृषस्य च ।
मृद्वीकाया बलायाश्च सिद्धाः स्नेहा ज्वरच्छिदः ॥
जीर्णे घृते च भुञ्जीत मुदुमांसरसौदनम् ।
बलं ह्यलं दोषहरं परं तच्च बलप्रदम् ॥
कफपित्तहरा मुद्गकारवेल्लादिजा रसाः ।
प्रायेण तस्मान्न हिता जीर्णे वातोत्तरे ज्वरे ।
शूलोदावर्तविष्टम्भजनना ज्वरवर्धनाः ॥
न शाम्यत्येवमपि चेज्ज्वरः कुर्वीत शोधनम् ।
शोधनार्हस्य वमनं प्रागुक्तं तस्य योजयेत् ।
आमाशयगते दोषे बलिनः पालयन् बलम् ॥
सन्तर्पणोत्थे वमनं पिप्पलीलवणाम्बुना ।
शर्करामाक्षिकाम्भोभिर्दाहतृष्णोल्बणे ज्वरे ॥
पक्वे तु शिथिले दोषे ज्वरे वा विषमद्यजे ।
मोदकं त्रिफलाश्यामात्रिवृत्पिप्पलिकेसरैः ॥
ससितामधुभिर्दद्याद्व्योषाद्यं वा विरेचनम् ।
द्राक्षाधात्रीरसं तद्वत्सद्राक्षां वा हरीतकीम् ।
रसमामलकानां वा घृतभृष्टं ज्वरापहम् ॥
लिह्याद्वा त्रिवृतश्चूर्णं कृष्णात्रिफलयोस्तथा ।
सर्पिर्मधुभ्यां त्रिफलां पिबेद्राक्सारसेन वा ॥
आरग्वधं वा पयसा मृद्वीकानां रसेन वा ।
त्रिफलां त्रायमाणां वा पयसा ज्वरितः पिबेत् ॥
सघृतं त्रिफलाक्वाथं सर्पिषा वा विना शृतम् ।
पयो ऽनुपानमुष्णं वा मृद्वीकास्वरसं पिबेत् ।
विरिक्तानां च संसर्गी मण्डपूर्वा यथाक्रमम् ॥
च्यवमानं ज्वरोत्क्लिष्टमुपेक्षेत मलं सदा ।
पक्वो ऽपि हि विकुर्वीत दोषः कोष्ठे कृतास्पदः ॥
अतिप्रवर्तमानं वा पाचयन् सङ्ग्रहं नयेत् ॥
आमसङ्ग्रहणे दोषा दोषोपक्रम ईरिताः ॥
पाययेद्दोषहरणं मोहादामज्वरे तु यः ।
प्रसुप्तं कृष्णसर्पं स कराग्रेण परामृशेत् ॥
ज्वरक्षीणस्य न हितं वमनं न विरेचनम् ।
कामं तु पयसा तस्य निरूहैर्वा हरेन्मलान् ॥
क्षीरोचितस्य प्रक्षीणश्लेष्मणो दाहतृङ्वतः ।
क्षीरं पित्तानिलार्तस्य पथ्यमप्यतिसारिणः ॥
तद्वपुर्लंघनोत्तप्तं प्लुष्टं वनमिवाग्निना ।
दिव्याम्बु जीवयेत्तस्य ज्वरं चाशु नियच्छति ॥
संस्कृतं शीतमुष्णं वा तस्माद्धारोष्णमेव वा ।
विभज्य काले युञ्जीत ज्वरिणं हन्त्यतो ऽन्यथा ॥
पयः सशुण्ठीखर्जूरमृद्वीकाशर्कराघृतम् ।
शृतशीतं मधुयुतं तृड्दाहज्वरनाशनम् ॥
तद्वद्द्राक्षाबलायष्टीसारिबाकणचन्दनैः ।
चतुर्गुणेनाम्भसा वा पिप्पल्या वा शृतं पिबेत् ॥
कासाच्छ्वासाच्छिरश्शूलान् पार्श्वशूलाच्चिरज्वरात् ।
मुच्यते ज्वरितः पीत्वा पञ्चमूलीशृतं पयः ॥
शृतमरेण्डमूलेन बालविल्वेन वा ज्वरात् ।
धारोष्णं वा पयः पीत्वा विबद्धानिलवर्चसः ।
सरक्तपिच्छातिसृतेः सतृट्शूलप्रवाहिकात् ॥
सिद्धं शुण्ठीबलाव्याघ्नीगोकण्टकगुडैः पयः ।
शोफमूत्रशकृद्वातविबन्धज्वरकासजित् ॥
वृश्चीवबिल्ववर्षाभूसाधितं ज्वरशोफनुत् ।
शिंशिपासारसिद्धं च क्षीरमाशु ज्वरापहम् ॥
निरूहस्तु बलं वह्निं विज्वरत्वं मुदं रुचिम् ।
दोषे युक्तः करोत्याशु पक्वे पक्वाशयं गते ॥
पित्तं वा कफपित्तं वा पक्वाशयगतं हरेत् ।
स्रंसनं त्रीनपि मलान् बस्तिः पक्वाशयाश्रयान् ॥
प्रक्षीणकफपित्तस्य त्रिकपृष्ठकटीग्रहे ।
दीप्ताग्नेर्बद्धशकृतः प्रयुञ्जीतानुवासनम् ॥
पटोलनिम्बच्छदनकटुकाचतुरङ्गुलैः ।
स्थिराबलागोक्षुरकमदनोशीरवालकैः ॥
पयस्यर्धोदके क्वाथं क्षीरशेषं विमिश्रितम् ।
कल्कितैर्मुस्तमदनकृष्णामधुकवत्सकैः ।
बस्तिं मधुघृताभ्यां च पीडयेज्ज्वरनाशनम् ॥
चतस्रः पर्णिनीर्यष्टीफलोशीरनृपद्रुमान् ।
क्वाथयेत् कल्कयेद्यष्टीशताह्वाफलिनीफलम् ।
मुस्तं च बस्तिः सगुडक्षौद्रसर्पिर्ज्वरापहः ॥
त्रायमाणामृतायष्टीमदनांशुमतीद्वयैः ।
सबलाचन्दनवृषैर्जाङ्गलैश्च मृगद्विजैः ॥
क्वाथे कृते क्षिपेत् पिष्ट्वा फलयष्टीकणाघनम् ।
स सद्यो ज्वरहा बस्तिः साज्यक्षौद्रो ऽल्पसैन्धवः ॥
आम्रादीनां त्वचं शङ्खं चन्दनं मधुकोत्पलम् ।
स्वर्णगौरिकमाञ्जिष्ठामृणालाञ्जनपद्मकम् ॥
क्षीरेण कल्कितं बस्तिं शीतं समधुशर्करम् ।
दाहज्वरहरं दद्यात्सिद्धं तैश्चानुवासनम् ॥
जीवन्तीं मदनं मेदां पिप्पलीं मधुकं वचाम् ।
ऋद्धिं रास्नां बिल्वं शतपुष्पां शतावरीम् ॥
पिष्ट्वा क्षीरं जलं सर्पिस्तैलं चैकत्र साधितम् ।
ज्वरे ऽनुवासनं कुर्यात्तथा स्नेहं यथामलम् ॥
चन्दनागरुकाश्मर्यपटोलमदनोत्पलैः ।
पटोलारिष्टमदनगुडूचीमधुकैरपि ।
ये च सिद्धिषु वक्ष्यन्ते बस्तयो ज्वरनाशनाः ॥
शिरोरुग्गौरवश्लेष्महरमिन्द्रियबोधनम् ।
जीर्णज्वरे रुचिकरं दद्यान्नस्यं विरेचनम् ।
स्नैहिकं शून्यशिरसो दाहार्ते पित्तनाशनम् ॥
धूमगण्डूषकवलान् यथादोषं च कल्पयेत् ।
प्रतिश्यायास्यवैरस्यशिरः कण्ठामयापहान् ॥
अरुचौ मातुलुङ्गस्य केसरं साज्यसैन्धवम् ।
धात्रीद्राक्षासितानां वा कल्कमास्येन धारयेत् ॥
यथोपशयसंस्पर्शान् शीतोष्णद्रव्यकल्पितान् ।
अभ्यङ्गालेपसेकादीन् ज्वरे जीर्णे त्वगाश्रिते ।
कुर्यादञ्जनधूपांश्च तथैवागन्तुजे ऽपि तान् ॥
दाहे सहस्रधौतेन सर्पिषाभ्यङ्गमाचरेत् ॥
सूत्रोक्तैश्च गणैस्तैस्तैर्मधुराम्लकषायकैः ।
दूर्वादिभिर्वा पित्तघ्नैः शोधनादिगणोदितैः ॥
शीतवीर्यैर्हिमस्पर्शैः क्वाथकल्कीकृतैः पचेत् ।
तैलं सक्षीरमभ्यङ्गात्सद्यो दाहज्वरापहम् ॥
चन्दनं मधुकं काला द्राक्षा मधुरसा निशा ।
तत्सिद्धं पूर्ववत्तैलं दाहज्वरहरं परम् ॥
शिरो गात्रं च तैरेव नातिपिष्टैः प्रलेपयेत् ।
तत्क्वाथेन परीषेकमवगाहं च योजयेत् ।
तथारनालसलिलक्षीरशुक्तघृतादिभिः ॥
कपित्थमातुलुङ्गाम्लविदारीलोध्रदाडिमैः ।
बदरीपल्लवोत्थेन फेनेनारिष्टकस्य वा ॥
कर्पूरपद्मकोशीरकालीयाम्बुकुचन्दनैः ।
तुङ्गप्रियङ्गुशैवालकमलोत्पलकर्दमैः ॥
वेत्राग्रलोध्रपुण्ड्राह्वैरारनालेन कल्कितैः ।
लेपा व्यस्तैः समस्तैर्वा दाहघ्ना वर्णकारिणः ॥
धात्रीत्वक्पत्रनलदशङ्खव्याघ्रनखोत्पलैः ।
चन्दनाञ्जनमुस्तैश्च सवृक्षाम्लाम्लवेतसैः ॥
सजीवकैः समधुकैः सपलाशैः सदाडिमैः ।
बीजपूररसक्षौद्रशुक्तयुक्तैः प्रलेपितैः ॥
शिरस्यङ्गे च तृट्छर्दिदाहमोहशिरोरुजः ।
नश्यन्ति गण्डाः पिटकाः प्रलापश्च ज्वरार्तिजः ॥
गौरामलककल्कश्च साम्लः साज्यश्च तद्गुणः ।
मधूकमधुकोदीच्यनीलोत्पलमधूलिकाः ॥
जयन्ति मधुसर्पिर्भ्यां लीढा दाहज्वरभ्रमान् ।
कासासृक्पित्तवीसर्पश्वासहिध्मावमीरपि ॥
वाम्यं च वामयेदाशु शीतेन मधुवारिणा ।
यो वर्णितः पित्तहरो दोषोपक्रमणे क्रमः ।
तं च शीलयतः शीघ्रं सदाहो नश्यति ज्वरः ॥
वल्लकीमधुरं गीतं चन्द्रिका हर्म्यमस्तकम् ।
हरन्ति दाहं हाराश्च हरिचन्दनशीतलाः ॥
दाहं मन्दानिलोद्धूताः कुल्याः सलिलमालिनः ।
चलत्प्रवालाङ्गुलिभिस्तर्जयन्ति महाद्रुमाः ॥
वाचः शिशूनामव्यक्ता योषितो मदनातुराः ।
दाहं निर्भत्सयन्त्याशु सज्जनानां च सूनृताः ॥
रुचिभेदानुरोधेन नानाशक्तिसमन्वितः ।
दाहशीतज्वरहरः कान्ताकान्ताङ्गसङ्गमः ।
दाहशीतव्युपशमे तास्ततो ऽपनयेत् पुनः ॥
वीर्योष्णैरुष्णसंस्पर्शैस्तगरागरुकुङ्कुमैः ।
कुष्ठस्थौणेयशैलेयसरलामरदारुभिः ॥
नखरास्नापुरवचाचण्डलौद्वयचोरकैः ।
पृथ्वीकाशिग्रुसुरसहिंस्राध्यामकसर्षपैः ॥
दशमूलमृतैरण्डद्वयपत्तूररोहिषैः ।
तमालपत्रपूतीकसल्लकीधान्यदीप्यकैः ॥
मिसिमाषकुलत्थाग्निप्रकीर्यानाकुलीद्वयैः ।
अन्यैश्च तद्विधैर्द्रव्यैः शीते तैलं ज्वरे पचेत् ॥
क्वथितैः कल्फितैर्युक्तैः सुरासौवीरकादिभिः ।
तेनाभ्यज्यात् सुखोष्णेन तैः सुपिष्टैश्च लेपयेत् ॥
कवोष्णैस्तैः परीषेकमवगाहं च योजयेत् ।
केवलैरपि तद्वच्च शुक्तगोमूत्रमस्तुभिः ॥
कुङ्कुमागरुकस्तूरीनखैलासुरदारुभिः ।
शैलेयचण्डात्वङ्मुस्तरास्नाकपिवचामयैः ॥
पृथक् प्रदेहाः सर्वैर्वा शीतघ्ना दृढकल्किताः ।
यवचूर्णं घृताभ्यक्तं पचेत् क्षीरे चतुर्गुणे ॥
दर्वीप्रलेपनं लेपं ज्वरार्तस्य प्रयोजयेत् ।
आरग्वधादिवर्गं च पानाभ्यञ्जनलेपने ॥
धूपानगरुजान्ये च वक्ष्यन्ते विषमज्वरे ।
अग्न्यनग्निकृतान् स्वेदान् स्वेदि भेषजभोजनम् ॥
संसर्गबलयोगे च वातश्लेष्मनिबर्हणम् ।
गर्भभूवेश्मशयनं कुथकम्बलरल्लकान् ॥
निर्धूमदीप्तैरङ्गारैर्हसन्तीश्च हसन्तिकाः ।
मद्यं सत्र्यूषणं तक्रं कुलत्थव्रीहिकोद्रवान् ॥
संशीलयेद्वेपथुमान् यच्चान्यदपि पित्तलम् ।
अजाज्याः सगुडं कल्कं सगुडं वामृतारसम् ॥
रसं वार्ताकफलजं पिबेद्वा मधुसंयुतम् ।
मधुकागरुकौन्तीनां कल्को व्याघ्रनखस्य च ॥
मद्येन पीतः सक्षौद्रस्तीव्रशीतज्वरापहः ।
दयिताः स्तनशालिन्यः पीना विभ्रमभूषणाः ॥
यौवनासवमत्ताश्च तमालिङ्गेयुरङ्गनाः ।
वीतशीतं च विज्ञाय तास्ततो ऽपनयेत् पुनः ॥
आनाहे कालवित् कुर्यात् क्रियामलसकोदिताम् ।
पिप्पलीपिप्पलीमूलयवानीचित्रसाधिताम् ॥
यवागूं पाययेच्चैनमनिलस्यानुलोमनीम् ।
सोपद्रवो ऽपि चेदेवं ज्वरः शीतो न शाम्यति ॥
अत्युदीर्णे ऽनिलकफे स्वस्थाने पित्तधाम्नि वा ।
तक्रानुपानं त्रपुसं भक्षयित्वानलं भजेत् ॥
आ स्स्वेदसम्भवात्तिष्ठेत् प्रावृतस्तद्वदातपे ।
ततो विमृदितस्नातो युक्ताशी स्याद्गते ज्वरो ॥
शमं तौ पित्तवृध्यैव प्रपद्येते स्वधाम च ।
निवर्तते ततः शीघ्रं वातश्लेष्मोद्भवो ज्वरः ॥
स्वर्ज्जिकाकुष्ठमञ्जिष्ठालाक्षामूर्वानिशौषधैः ।
सतक्रं साधितं तैलमभ्यङ्गाद्दाहशीतजित् ॥
वमनैश्च विरेकैश्च बस्तिभिश्च यथाक्रमम् ।
ज्वरानुपचरेद्धीमान् कफपित्तानिलोद्भवान् ॥
संसृष्टैः सन्निपतितैरेकानेकोल्बणैः समैः ।
ज्वरान् दोषक्रमापेक्षी यथोक्तैरौषधैर्जयेत् ॥
वर्धनेनैकदोसस्य क्षपणेनोच्छ्रितस्य वा ।
कफस्थानानुपूर्व्या वा सन्निपातज्वरं जयेत् ॥
निद्रानिवारणोपायः सन्यासाभिहितो हितः ।
सन्निपाते विशेषेण दारुणो ऽयमुपद्रवः ॥
सन्निपातज्वरस्यान्ते कर्णमूले सुदारुणः ।
शोफः सञ्जायते तेन कश्चिदेव विमुच्यते ॥
रक्तावसेचनैः शीघ्रं सर्पिष्पानैश्च तं जयेत् ।
प्रदेहैः कफपित्तघ्नैर्नावनैः कवलग्रहैः ॥
शीतोष्णस्निग्धरूक्षाद्यैर्ज्वरो यस्य न शाम्यति ।
शाखानुसारी तस्याशु मुञ्चेद्बाह्वाःक्रमात्सिराम् ॥
अयमेव विधिः कार्यो विषमे ऽपि यथायथम् ।
ज्वरे विभज्य वातादीन्यश्चानन्तरमुच्यते ॥
पटोलकटुकामुस्ताप्राणदामधुकैः कृताः ।
त्रिचतुष्पञ्चशः क्वाथा विषमज्वरनाशनाः ॥
योजयेत्त्रिफलां पथ्या गुडूचीं पिप्पलीं पृथक् ।
तैस्तैर्विधानैः सगुडं भल्लातकमथापि वा ॥
लङ्घनं बृंहणं वापि ज्वरागमनवासरे ।
प्रातः सतैलं लशुनं प्राग्भक्तं वा तथा घृतम् ॥
जीर्णं तद्वद्दधि पयस्तक्रं सर्पिश्च षट्पलम् ।
कल्याणकं पञ्चगव्यं तिक्ताख्यं वृषसाधितम् ॥
पञ्चगव्यस्य महतो विधिना पञ्चमाहिषम् ।
पञ्चाजं चतुरौष्ट्रं च सिद्धं सिद्धं घृतं तथा ॥
कटुरोहिणिमञ्जिष्ठावृषग्रन्थिकचित्रकैः ।
पाठास्वगुप्ताद्विनिशैः पञ्चगव्यस्य पञ्चसु ॥
प्रस्थेषु संयुतैः सेव्यं विषमज्वरजित् परम् ।
वाक्स्वरस्मृतिमेधाग्निबलारोग्यवृषत्वकृत् ॥
कोलाग्निमन्थत्रिफलाक्वाथे दध्ना घृतं पचेत् ।
तिल्वकावापमेतच्च विषमज्वरनाशनम् ॥
शृतक्षीरघृतक्षौद्रसिताकृष्णाः स्वजाहताः ।
विषमज्वरहृद्रोगक्षतकासक्षयापहाः ॥
सुरां तीक्ष्णं च यन्मद्य्ंअ शिखितित्तिरिदक्षजम् ।
मांसं मेध्योष्णवीर्यं च सहान्नेन प्रकामतः ॥
सेवित्वा तदहः स्वप्यादथवा पुनरुल्लिखेत् ।
सर्पिषो महतीं मात्रां पीत्वा वा छर्दयेत् पुनः ॥
नीलिनीमजगन्धां च त्रिवृतां कटुरोहिणीम् ।
पिबेज्ज्वरस्यागमने स्नेहस्वेदोपपादितः ॥
आस्थापनं वा तदहर्दद्यात्स्विन्नस्य यापनम् ।
पयसा वृपदंशस्य शकृद्वा तदहः पिबेत् ॥
मस्तुना वा वृषशकृत् सुरया वाथ सैन्धवम् ।
मनोह्वा सैन्धवं कृष्णा तैलेन नयनाञ्जनम् ॥
योज्या हिङ्गुसमा व्याघ्रीवसा नस्ये ससैन्धवा ।
पुराणसर्पिः संहस्य वसा तद्वत् ससैन्धवा ॥
पलङ्कषा निम्बपत्रं वचा कुष्ठं हरीतकी ।
सर्षपाः सयवाः सर्पिर्धूपो विड्वा बिडालजा ॥
पुरध्यामवचासर्जनिम्बार्कागरुदारुभिः ।
धूपो ज्वरेषु सर्वेषु कार्यो ऽयमपराजितः ॥
सहदेवावचाभद्रानाकुलीभिःप्रयोजयेत् ।
धूपनोद्वर्तनालेपान् सर्वज्वरनिबर्हणान् ॥
धूमनस्याञ्जनोत्तासा ये चोक्ताश्चित्तवैकृते ।
दवाश्रयं च भैषज्यं ज्वरान् सर्वानपोहति ।
विशेषाद्विषमान् प्रायस्ते ह्यागन्त्वनुबन्धजाः ॥
यथास्वं च सिरां विध्येदशान्तौ विषमज्वरे ॥
रससंस्थे तु सर्वस्मिन् कुर्याद्वमनलङ्घने ।
सेकसंशमनालेपरक्तमोक्षानसृक्स्थिते ॥
तीक्ष्णान् विरेकान् मांसस्थे मेदोघ्नं मेदसि स्थिते ।
अस्थिस्थे वातशमनमभ्यङ्गस्वेदमर्दनम् ।
ज्वरे वातार्तिशमनं विशेषाद्बस्तिकर्म च ॥
केवलानिलवीसर्पविस्फोटाभिहतज्वरे ।
सर्पिष्पानहिमालेपसेकमांसरसाशनम् ॥
कुर्याद्यथास्वमुक्तं च रक्तमोक्षादिसाधनम् ।
ग्रहोत्थे भूतविद्योक्तं मणिमन्त्रादिसाधनम् ।
औषधीगन्धजे पित्तशमनं विषजिद्रिषे ॥
इष्टैरर्थैर्मनोज्ञैश्च यथादोसशमेन च ।
हिताहितविवेकैश्च ज्वरं क्रोधादिजं जयेत् ॥
क्रोधजो याति कामेन शान्तिं क्रोधेन कामजः ।
भयशोकोद्भवौ ताभ्यां भीशोकाभ्यां तथेतरौ ।
शापाथर्वणमन्त्रोत्थे विधिर्दैवव्यपाश्रयः ॥
ते ज्वराः केवलाःपूर्व व्याप्यन्ते ऽनन्तरं मलैः ।
तस्माद्दोषानुसारेण तेष्वाहारादि कल्पयेत् ।
न हि ज्वरो ऽनुबध्नाति मारुताद्यैर्विनाकृतः ॥
कथास्त्रिवर्गसंयुक्ता रुङ्निद्रादिविनोदिनीः ।
शस्ता विचित्राः शृणुयान्न प्रेतव्याधिताश्रयाः ॥
ज्वरकालस्मृतिं चास्य हारिभिर्विषयैर्हरेत् ।
त्यजेदाबललाभाच्च व्यायामस्नानमैथुनम् ॥
गुर्वसात्म्यं विदाह्यन्नं यच्चान्यज्ज्वरकारणम् ।
न विज्वरो ऽपि सहसा सर्वान्नीनो भवेत् तथा ॥
सद्यः प्राणहरो यस्मात्तस्मात्तस्य विशेषतः ।
तस्यां तस्यामवस्थायां कुर्यात्तत्तधिषग्जितम् ॥
मनोभिरामा विषया वचनं ह्लादि दक्षिणम् ।
करुणार्द्रं मनः शुद्धं सर्वज्वरनिषूदनम् ॥
मातरं पितरं देवान् वैद्यान् विप्रान् हरं हरिम् ।
पूजयेच्छीलयेद्दानदमसत्यदयार्जवान् ।
धारयेच्च सदा मन्त्रमणिरत्नमहौषधीः ॥
आर्यावलोकितं पर्णशबरीमपराजिताम् ।
प्रणमेदार्यतारां च सर्वज्वरनिवृत्तये ॥
जपंस्तथा गतोष्णीषं सर्वव्याधिचिकित्सितम् ।
आगन्तुदोषसहजैः सर्वरोगैर्विमुच्यते ॥
मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0