अष्टाङ्गसंग्रह · अध्याय 4.24
अथातो वातशोणितचिकित्सितं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥
वातशोणितिनः स्निग्धस्य दाहरागरुक्तोदेषु जलौकोभिः कण्डूपतापस्वापचिमिचिमायनेषु शृङ्गतुम्बैर्दशाद्देशान्तरं सञ्चरत् सिरया प्रच्छानेन वा दुष्टमसृगसकृदल्पमवसेचयेत् ॥
असृक्क्षये हि गम्भीरशोफस्तम्भकम्पग्लानि सङ्गोचादयः स्युः ।
सिराव्यधोक्ताश्च मूर्छादयः ।
नैव च स्रावयेदङ्गग्लानौ रूक्षे वातोत्तरं च रक्तम् ।
ततश्च पुनः स्नेहयुक्तानि रूक्षाणि वा विरेचनानि बस्तिकर्म चासकृत् प्रयोजयेत् ॥
अथ वातप्रबले पुराणघृतं पिबेच्छतावरीघृतं वा ॥
दशमूलपुनर्नवद्वयैरण्डमुद्गपर्णीमाषपर्णीमहामेदाशतावरीरास्नावाक्पुष्पीशङ्खपुष्पीबलातिबला द्विपलांशाः पृथक् जलद्रोणे विपाचयेत् ।
पादशेषे च तत्तुल्यानि पृथक् छागमांसामलकेक्षुरसघृतक्षीराणि संयोज्य कल्कं च पिप्पलीमरिचकाश्मर्यफलोत्पलद्विमेदाद्विश्रावणीवीरापुनर्नवनागरसमङ्गातुगाक्षीरीक्षीरकाकोलीद्राक्षाक्षोडपद्मबीजशृङ्गाटकनिकोचकभव्योरुमाणखर्जूरवाताममुञ्जाताभिषुकाणां पुनः पचेत् ।
एतज्जीवनीयाख्यं सर्पिर्वातविकारान् विशेषतश्च पाण्डुरोगज्वरापस्मारभगन्दरश्वासकासहिध्मास्वरभेदपार्श्वशूलयकृत्प्लीहमूत्रसङ्गाश्मरीवात्तशोणितसर्वाङ्गैकाङ्गरोगानपहरति ।
बल्यं वर्ण्यं वृष्यं चक्षुष्यं पुत्रदं च ।
तैलसात्म्यो वा क्षीरसितोपेतं तैलं पिबेत् ॥
अथवा शतावरीमयूरकक्षीरविदारीबलाद्वयतृणपञ्चमूलक्वाथे पद्मकादिगर्भं साधितम् ।
बलातैलं वा वातव्याध्युक्तम् ।
शतपाकं वा ।
वातहरसिद्धेन पयसाम्लैर्वा स्पर्शसुखं परिषेकं कुर्वीत ॥
प्रत्येकशो यवगोधूमतिलमुद्गमाषेषु काकोलीजीवकर्षभकबलातिबलातिबलाशृगालविन्नामेषशृङ्गीप्रियालसितोपलासुरभिवचाकशेरुकल्कमिश्रेषूपनाहार्थं सर्पिस्तैलवसामज्जदुग्धसिद्धान् पञ्च पायसानुपकल्पयेत् ।
स्नैहिकफलमज्जोत्कारिकां वा ।
बिल्वपेशिकातगरदेवदारुसरलरास्नाहरेणुकुष्ठशतपुष्पाभिर्वा दधिमस्तुयुक्ताभिरुपनाहः ॥
यवमधुकैरण्डबीजपुनर्नवैर्धान्याम्बुपिष्टैः प्रलेपः ।
मातुलुङ्गाम्लवेतससैन्धवघृतमिश्रं वा शिग्रुमूलम् ।
सहचरजीवन्तीमूलं वा ।
रास्नामधुकगुडूचीबलाद्वयजीवकर्षभकल्कक्षीरसिद्धं ससिक्थकं सर्पिरभ्यङ्गः ॥
पित्तप्रबले द्राक्षारेवतफलपयस्यामधुकचन्दनकाश्मर्यकषायं शर्करामधुमधुरं पाययेत् ।
शतावरीपटोलत्रिफलागुडूचीकटुकाकषायं वा ।
स्वादुतिक्तवर्गसिद्धं च सर्पिः क्षीरं च ।
रास्नाभीरुदशमूलबलासिद्धं वा ।
धारोष्णं वा ।
विरेकार्थे त्रिवृच्चूर्णयुक्तं वा ।
क्षीराहारो वा क्षीरेणैरण्डतैलं बहुशः पिबेत् ।
अमृतारग्वधाटरूषककषायेण वा ।
क्षीरबस्तीन् वा सघृतान् दद्यात् ॥
शीतैश्च चन्दनपद्मकबिसमृणालादिभिः शृतेन क्षीरेण परिषेकः ।
क्षीरेक्षुरसमधुशर्करातण्डुलोदकेन वा ।
द्राक्षामधुककाश्मर्ययुतेन वा ।
धान्याम्लेन वा जीवनीयसिद्धेन वा सर्पिषा शतधौतेन वा ॥
मसूरोशीरप्रपौण्डरीकदार्वीमधुकमञ्जिष्ठाचन्दनोत्पलपद्मकैरकासक्तुभिः सघृतक्षीरशर्करैः प्रेदहे दाहरागरुग्विसर्पशोफहरः ।
गोधूमचूर्णो वा छागक्षीरसंयुक्तो लेपः ।
तिलाश्च पयसा पिष्टाः भृष्टाः कपाले पुनः पयसि प्रक्षिप्य निर्वापिताः ॥
रक्तप्रबले ऽप्येवं बहुशश्च शोणितमवसेचयेत् ॥
श्लेष्मप्रबले धात्रीनिशामुस्ताकषायं मधुमधुरपिबेत् ।
त्रिफलाकषायं वा ।
मधुकशृङ्गिवेराभयाकटुरोहिणीनिर्यूहं वा ।
यथार्हस्नेहपीतं च मृदु वामयेद्विरूक्षयेच्च ।
न चातिसेकलेपान् दद्यात् ॥
निम्बसर्षपाश्वगन्धाक्षारतिलैः कोष्णैर्लेपः ।
वचागारधूमद्विनिशाकुष्ठशतपुष्पाभिर्वा ।
पुनर्नवेन वा सघृतेन ।
तिलसर्षपातसीयवचूर्णो वा ।
श्लेष्मातककपित्थमधुशिग्रुमिश्रः क्षारमूत्रपिष्टः कटुकस्कन्धसिद्धैः क्षारोदकतैलमूत्रैः सेकः ॥
संसर्गे मिश्रं यथोद्रेकं वा प्रतिकुर्यात् ।
सर्वेषु च यथायथं गुडूचीं गुडहरीतकीं पिप्पलीवर्धमानं वा शीलयेद्बस्तिकर्म चाभीक्ष्णमिति ।
भवति चात्र ॥
बाह्यमालेपनाभ्यङ्गपरिषेकावगाहनैः ।
विरेकास्थापनस्नेहपानैरान्तरमाचरेत् ॥
सर्पिस्तैलवसामज्जपानाभ्यञ्जनबस्तिभिः ।
लेपोपनाहसेकैश्च कोष्णैर्वातोत्तरं जयेत् ॥
विरेचनैर्घृतक्षीरपानसेचनबस्तिभिः ।
पित्तरक्तोत्तरं वातरक्तं लेपैश्च शीतलैः ॥
वमनं मृदु नात्यर्थं स्नेहसेकादिलङ्घनम् ।
कोष्णा लेपाश्च शस्यन्ते वातरक्ते कफोत्तरे ॥
वातश्लेष्मोत्तरे शीतैः प्रलिप्ते वातशोणिते ।
विदाहशोफरुक्कण्डूविवृद्धिः स्तम्भनाद्भवेत् ॥
पित्तरक्तोत्तरे वातरक्ते लेपादयो हिमाः ।
उष्णैः प्लोषोषरुग्रागस्वेदावदरणोद्भवः ॥
मधुयष्ट्याः पलशतात् कषाये पादशेषिते ।
तैलाढकं समक्षीरं पचेत् कल्कैः पलोन्मितैः ॥
शतपुष्पावरीमूर्वापयस्याभीरुचन्दनैः ।
स्थिराहंसपदीमांसीद्विमेदामधुपर्णिभिः ॥
काकोलीक्षीरकाकोलीतामलक्यर्धिपद्मकैः ।
जीवन्तीजीवकर्षभत्वक्पत्रनखवालकैः ॥
प्रपौण्डरीकमञ्जिष्ठासारिवैन्द्रीवितुन्नकैः ।
चतुष्प्रयोगं वातासृक्पित्तदाहज्वरार्तिनुत् ॥
मधुयष्ट्याः पलं दत्वा तैलप्रस्थं चतुर्गुणे ।
क्षीरे पचेच्छतं वारांस्तदेवं मधुकाच्छते ॥
सिद्धं योज्यं तृडुन्मादश्वासकासविसर्पिषु ।
हृत्पाण्डुरोगवातासृक्पित्तादिषु च पूर्ववत् ॥
कुपिते मार्गसंरोधान्मेदसो वा कफस्य वा ।
अतिवृद्ध्यानिले शस्तं नादौ स्नेहनबृंहणम् ॥
कृत्वा तत्राढ्यवातोक्तं वातशोणितिकं ततः ।
भेषजं स्नेहनं कुर्याद्यच्च रक्तप्रसादनम् ॥
गम्भीरे रक्तमाक्रान्तं स्याच्चेद्वातेन वर्जयेत् ।
रक्तपित्तातिवृध्या तु पाकमाशु निगच्छति ॥
भिन्नं स्रवति तद्रक्तं विदग्धं पूयमेव वा ।
तयोश्चिकित्सां व्रणवत् भेदशोधनरोपणीम् ॥
कुर्यादुपद्रवाणां च तस्मात्तस्माच्चिकित्सितात् ।
प्राणादिकोपे युगपद्यथोद्दिष्टं यथामयम् ।
यथासन्नं च भैषज्यं विकल्प्यं स्याद्यथाबलम् ॥
नीते निरामतां सामे स्वेदलङ्घनपाचनैः ।
रूक्षैश्चालेपसेकाद्यैः कुर्यात् केवलवातनुत् ॥
वायौ पित्तावृते शीतामुष्णां च बहुशः क्रियाम् ।
व्यत्यासाद्योजयेत्सर्पिर्जीवनीयं च पाययेत् ॥
धन्वमांसं यवः शालिर्विरेकः क्षीरवान्मृदुः ।
सक्षीरा बस्तयः क्षीरं पञ्चमूलबलाशृतम् ॥
काले ऽनुवासनं तैलैर्मधुरौषधसाधितैः ।
यष्टीमधुबलातैलघृतक्षीरैश्च सेचनम् ।
पञ्चमूलकषायेण वारिणा शीतलेन वा ॥
कफावृते यवान्नानि जाङ्गला मृगपक्षिणः ।
स्वेदास्तीक्ष्णा निरूहाश्च वमनं सविरेचनम् ॥
पुराणसर्पिस्तैलं च तिलसर्षपजं हितम् ।
संसृष्टे कफपित्ताभ्यां पित्तमादौ विनिर्जयेत् ॥
कारयेद्रक्तसंसृष्टे वातशोणितिकीं क्रियाम् ।
स्वेदाभ्यङ्गरसाः क्षीरं स्नेहो मांसावृते हितम् ॥
प्रमेहमेदोवातघ्नमाढ्यवाते भिषग्जितम् ।
महास्नेहो ऽस्थिमज्जस्थे पूर्वोक्तं रेतसावृते ॥
अन्नावृते पाचनीयं वमनं दीपनं लघु ।
मूत्रावृते मूत्रलानि स्वेदाश्चोत्तरबस्तयः ।
एरण्डतैलं वर्चस्थे बस्तिस्नेहाश्च भेदिनः ॥
कफपित्ताविरुद्धं यद्यच्च वातानुलोमनम् ।
सर्वस्थानावृतेप्याशु तत्कार्यं मातरिश्वनि ॥
अनभिष्यन्दि च स्निग्धं स्रोतसां शुद्धिकारणम् ।
यापना बस्तयः प्रायो मधुराः सानुवासनाः ॥
प्रसमीक्ष्य बलाधिक्यं मृदु कार्यं विरेचनम् ।
रसायनानां सर्वेषामुपयोगः प्रशस्यते ॥
शिलाह्वस्य विशेषेण पयसा शुद्धगुग्गुलोः ।
लेहो वा भार्गवस्तद्वदेकादशसिताशतः ॥
अपाने त्वावृते सर्वं दीपनं ग्राहि भेषजम् ।
वातानुलोमनं कार्यं मूत्राशयविशोधनम् ॥
इति सङ्क्षेपतः प्रोक्तमावृतानां चिकित्सितम् ।
प्राणाद्यानां भिषक् कुर्याद्वितर्क्य स्वयमेव तत् ॥
उदानं योजयेदूर्ध्वमपानं चानुलोमयेत् ।
समानं शमयोद्विद्वांस्त्रिधा व्यानं च योजयेत् ॥
प्राणो रक्ष्यश्चतुर्भ्यो ऽपि तत्स्थितौ देहसंस्थितिः ।
स्वं स्वं स्थानं नयेदेवं वृतान् वातान् विमार्गगान् ॥
सर्वं चावरणं पित्तरक्तसंसर्गवर्जितम् ।
रसायनविधानेन लघुनो हन्ति शीलितः ॥
पित्तावृते पित्तहरं मरुतश्चानुलोमनम् ।
रक्तावृते ऽपि तद्वच्च खुडोक्तं यच्च भेषजम् ।
पित्तरक्तानिलहितं विविधं च रसायनम् ॥
यथानिदानं निर्दिष्टमिति सम्यक्चिकित्सितम् ।
आयुर्वेदफलं स्थानमेतत्सद्यो ऽर्तिनाशनात् ॥
चिकित्सितं हितं पथ्यं प्रायश्चित्तं भिषग्जितम् ।
भेषजं शमनं शस्तं पर्यायैः स्मृतमौषधम् ॥
मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0