भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गसंग्रह · अध्याय 4.23

4.23.1

अथातो वातव्याधिचिकित्सितं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥

4.23.2

सर्वेषु केवलानिलविकारेष्वन्तर्बहिः स्नेहस्वेदौ साल्वलेनोपनाहो निवातं स्थानं प्रावरणानि दशमूलक्वाथसिद्धा महास्नेहप्रगाढाः स्निग्धा दध्यम्ला नागरपिप्पलीतीक्ष्णा ग्राम्यानूपौदकशिरःपिशितरसाः पयांसि यूषाः प्रीणनानि चान्नानि ।
तैरेव च मांसैर्महास्नेहसंसृष्टैस्तदक्तानामभीक्ष्णं पिण्डादिस्वेदाः ॥

4.23.3

अपि च ।
कोलकुलत्थामरतरुयवमिसिमाषातसीवचाकुष्ठम् ।
रास्नातैलफलानि च वातजिदुत्कारिकाम्लोष्णा ॥

4.23.4

बिडालनकुलोष्ट्रसृगालादिचर्मभिर्बन्धः ।
स्निग्धा बस्तयो नावनानि च प्रयोज्यानि ।
दोषोपक्रमणीयं चेक्षेत ॥

4.23.5

स्निग्धस्विन्नस्य हि तोदभेदायामशूलादयो वातविकाराः शीघ्रमुपशाम्यन्ति ।
स्नेहश्च धातून् पुष्णाति बलं च देहे जनयति ।
तस्मात् पुनः पुनः स्नेहस्वेदौ शीलयेत् ।
तन्मृदूकृते च कोष्ठे नावतिष्ठन्त्यनिलामयाः ॥

4.23.6

यदि तु सदोषत्वान्न निवर्तन्ते ततः सर्वशरीरगे ऽपि वायौ विशेषतः पक्वाशयाश्रिते मृदुस्नेहविरेचनं तिल्वकसर्पिः सातलाघृतमैरण्डतैलं वा क्षीरेण दद्यात् ।
एवं हि विशुद्धस्रोतसो ऽनावृतः पवनो विचरन्नाशु शान्तिमेति ॥

4.23.7

अपि च ।
स्निग्धाम्ललवणोष्णाद्यैराहारैर्हि मलश्चितः ।
स्रोतो बध्वानिलं रुन्ध्यात्तस्मात्तमनुलोमयेत् ॥

4.23.8

अथ दुर्बले विरेच्ये निरूहं पाचनीयदीपनीयद्रव्ययुक्तमेवंविधं च भोज्यम् ।
भोज्ययुक्तं वा स्रंसनमवचारयेत् ।
विशुद्धस्य च समिद्धे ऽग्रावसकृत् स्नेहस्वेदौ स्वाद्वम्ललवणं चान्नपानम् ।
एवमप्यनिवृत्ताववपीडकस्नेहान् बस्तिकर्म च प्रयोजयेत् ॥

4.23.9

आमाशयगते कृतवमनस्य षड्ढरणं चूर्णं परतश्च यथार्हं स्नेहादीन् ।
नाभिदेशमाश्रिते बिल्वशलाटुभिः सिद्धान् मत्स्यान् ।
अशेषकोष्ठाश्रिते पुनरर्शोग्रहणीविहितमाममलपाचनं क्षारोपयोगानन्तर्गुल्मोपक्रमं च प्रयुञ्जीत ।
हृदयस्थे अंशुमत्या शृतं पयः ॥

4.23.10

श्रोत्रादिगते शिरोगते च विशेषेण स्नैहिकं नस्यं धूमं शिरोबस्तिमर्दनालेपनान्यथास्वं च स्रोतसां प्रीणनम् ॥

4.23.11

त्वचि स्थिते ऽभ्यङ्गस्वेदनिवातानि ।
रक्ते शीतप्रदेहविरेकरक्तमोक्षाः ।
मांसमेदसोर्विरेकास्थापनशमनानि ।
अस्थिमज्ज्ञोरन्तर्बहिःस्नेहाः ।
शुक्रप्राप्ते हर्षः शुक्रलं चान्नपानम् ।
विबद्धे तु शुक्रे विरेचनम् ।
ततो ऽनुबन्धे ऽनन्तरोक्तां क्रियां कुर्यात् पुत्रकामीयं चेक्षेत ॥

4.23.12

शुष्यति तु गर्भे बालेषु च यष्टीमधुककाश्मर्यफलसारिवाशर्कराशृतं पयो दद्यात् ।
मांसादमांसरसांश्च बृंहणीयस्नेहयुक्तान् ॥

4.23.13

सिरास्नावसन्धिप्राप्ते ऽभ्यङ्गमर्दनस्वेदोपनाहबन्धाग्निकर्माणि ।
सङ्कोचे माषसैन्धवसाधितं तैलमभ्यङ्गः ।
स्वापे बहुशो रक्तावसेचनम् ।
न त्वङ्गम्लानौ शोषभयात् ।
स्रुतरक्तस्य तैललवणागारधूमैः प्रदेहः ॥

4.23.14

अथापतानकिनमस्रस्ताक्षमस्तब्धलाङ्गुलमवेदनमस्वेदनमप्रलापिनमखट्वाघातिनमबहिरायामिनं चोपक्रमेत ॥

4.23.15

तत्र प्रागेव स्निग्धस्विन्नाङ्गं व्योषविडङ्गश्वेतमरिचैरन्यैश्च तीक्ष्णैः शिरोविरेचनैः स्रोतोविशुद्धये कृतनस्यमनन्तरं चैनं विदार्यादिक्वाथमांसरसक्षीरदधिविपक्वं सर्पिरच्छं पाययेत् ।
तथा नातिमात्रमनिलः प्रसरति ॥

4.23.16

ततो भद्रदार्वादिवर्गं वातघ्नमाहृत्य सयवकोलकुलत्थं सानूपमांसं च निष्क्वाथ्य तत्कषायेणाम्लक्षीरवता मधुरवर्गप्रतीवापं महास्नेहं विपचेत् ।
तमपतानकिनमभ्यङ्गपरिषेकावगाहपानभोजनानुवासननावनेषु विदध्यात् ॥

4.23.17

बलीयसि च वाते सुखोष्णकरीषपूर्णे कूपे निखन्यादामुखम् ।
तप्तायां वा रथकारचुल्यां शिलायां वा सुरापरिषिक्तायां शाययेत् पलालावच्छन्नम् ।
स्वेदयेद्वा पिण्डेन ।
मूलकोरुबूकस्फूर्जातकार्कसप्तलाशङ्खिनीस्वरससिद्धं वा तलमभ्यङ्गादिषु योज्यम् अभुक्तवता चैतत् पीतमम्लदधिमरिचवचायुक्तमाक्षेपकमपहन्ति ॥

4.23.18

तिलपीडनोपकरणद्रव्याण्यल्पकालतैलपरिपीतान्यवक्षुद्य महति कटाहे पानीयेनाप्लाव्य क्वाथयेदास्नेहोपगमात् ।
ततस्तत् स्नेहमम्भस उपरिष्टात् पाणिशरावयोरन्यतरेणादाय वातघ्नौषधदत्तप्रतीवापं स्नेहपाककल्पेन पचेत् ।
एतदणुतैलं सर्ववातविकारहरम् ।
अणुतैलद्रव्येभ्यो निषपद्यत इत्यणुतैलम् ॥

4.23.19

वेगान्तरेषु च तीक्ष्णान्यवपीडानि प्रधमनानि वासकृद्दद्यात् ।
तथास्य श्लेष्मापगमनेन श्वसनविमोक्षात् संज्ञा पुनः पुनर्नोपरुध्यते ।
कुक्कुटकुलीरशिंशुमारवराहवसाः पाययेत् ।
यवकोलकुलत्थमूलकदधिघृततैलसिद्धां च यवागूम्
सर्वाकारं च गतवेगः स्नेहविरेचनास्थापनानुवासनानि सेवेत ॥

4.23.20

त्रिवृदृन्तीसुवर्णक्षीरीशङ्खिनीविडङ्गत्रिफलानामक्षसमाः कल्काः बिल्वमात्रकं तिल्वकमूलानां त्रिफलारसदधिपात्रे द्वे घृतपात्रमकं सर्वमैकध्यं प्रतिसंसृज्य विपचेदेतत्तिल्वकसर्पिः स्नेहविरेचनमनिलरोगेषु ।
तिल्वकविधिरेव चाशोकरम्यकयोर्द्रष्टव्यः ।
शुद्धवातपतानकविधानमेतत् ।
संसृष्टे यथासंसर्गम् ॥

4.23.21

सकफे तु वाते तुल्बुरुफलाभयाहिङ्गुपुष्करमूललवणत्रयचूर्णं यवक्वाथेन कृत्पार्श्वार्तिहरं पिबेत् ।
हिङ्गुनागरदाडिमाम्लवेतससौवर्चलचूर्णं वा ।
मुस्तपिप्पलीनागरातिविषाबिभीतकभार्ङ्गीचूर्णं वा मद्येनोष्णाम्बुना वापतन्त्रककासहृद्रोगहरम् ।
सौवर्चलाभयाव्योषसिद्धं सर्पिः ।
रास्नाम्लवेतससैन्धववचाहरातकाकल्कश्च घृतभृष्टो भक्षितः ॥

4.23.22

शुण्ठीचित्रकभार्ङ्गीशुकनासानिचुलमहावल्लीबृहतीद्वयकाकमाचीपुनर्नवैरक्षमात्रैर्घृतप्रस्थं साधयेत् ।
तत् पीतं परमपतन्त्रकश्वासहिध्माहृद्रोगघ्नम् ।
पथ्याशतार्धकल्केन वा सौवर्चलपलद्वययुक्तं चतुर्गुणक्षीरं घृतप्रस्थं विपाचयेत् तदपतन्त्रकघ्नम् ।
न चास्य शोधनार्थं बस्तयस्तीक्ष्णाः प्रयोक्तव्याः ।
हृद्रोगचिकित्सितं चेक्षते ॥

4.23.23

अन्तर्बहिरायामावेकायामवत् साधयेत् ।
तैलद्रोण्यां चात्र शयनम् ।
अन्तरायामश्चैतयोर्घोरतरः अपि च ॥

4.23.24

विवर्णदन्तवदनः स्रस्ताङ्गो नष्टचेतनः ।
प्रस्विद्यंश्च धनुष्कम्पी दशरात्रं न जीवति ॥

4.23.25

वेगेष्वतो ऽन्यथा जीवेन्मन्देषु विनतो जडः ।
खञ्जः कुणिः पक्षहतः पङ्गुलो विकलोथवा ॥

4.23.26

हनुस्तम्भमप्यर्दितवच्चिकित्सेत् ।
स्वेदयित्वा च हनू स्तब्धौ स्रस्तौ स्वस्थानमानीय पाणिभ्यां पीडयेत् ।
विवृतास्ये चिबुकं चोन्नामयेत् ।
संवृतास्ये च नामयेत् ॥

4.23.27

जिह्वास्तम्भे सामान्योक्तो विधिरेकायामे च ।
तथा महातृणपञ्चमूलविदार्यादिजीवनीयानि मेद्यमांसान्यौदककन्दांश्च द्विगुणोदके क्षीरशेषं निष्क्वाथ्य परिस्राव्य तैलप्रस्थेनोन्मिश्रं पुनरधिश्रयेत् ।
क्षीरानुगमे चावतार्य शीतं मन्थयेत् ।
ततः स्नेहमादाय पूर्ववद्विपचेत् ।
एतत् क्षीरतैलं पानाभ्यङ्गादिषु विधेयम् ।
तैलविहीनमिदमेव क्षीरघृतमक्षितर्पणम् ॥

4.23.28

तिल्वकफलसिद्धक्षीरदध्ना च सह मांसरसान् कल्पयेत् ।
यथोक्ताश्च यवागूः स्निग्धाश्च नस्यधूमकवलग्रहाः प्रयोज्याः ।
कृष्णभूमिकेदारं रोहिणीकाष्ठैर्नातिशुष्कैर्दाहयेत् ।
उपलिप्य च गोमयेन पुनः खदिरकाष्ठैर्दग्ध्वा तद्भस्मापनीय तत्र शीतीभूते तैलं निषेचयेत् ।
उषितं च निशां खानयेत् ।
तामनुगततैलां मृत्तिकामादाय पञ्चमूलेन सह क्वाथयेत् ।
तमपि क्वाथं परिस्रुतमष्टगुणेन पयसा तैलावशेषं पाचयेत् ।
एतदप्यणुतैलं नावनात् सर्ववातव्याधिहरम् ॥

4.23.29

तद्वच्च पञ्चमूलकाष्ठैर्दग्ध्वा भस्मापनीय विदार्यादिसिद्धेन तैलेन शतशो निषिच्य पूर्ववन्मृदमादायोष्णोदकवति कटाहे ऽभ्यासिच्य तैलं पाणिना पिचुना वा गृहीत्वा वातहरौषधक्वाथमांसरसक्षीराम्लभागसहस्रेण सहस्रपाकं साधयेद्यावता कालेन शक्नुयात् पक्तुं प्रतिवापश्चात्र हैमवता दक्षिणापथगा चाश्वगन्धा वातघ्नानि च द्रव्याणि ।
सिध्यति चास्मिन् शङ्खमाध्मापयेत् ।
दुन्दुभीन् वादयेत् ।
ब्राह्मणानध्यापयेत् भोजयेच्च ।
छत्रं धारयेत् ।
बालव्यजनैश्च वीजयेत् ।
तत्सिद्धं नस्यपानाभ्यङ्गबस्तिषु प्रयुञ्जीत ।
एतत्सहस्रपाकमनिवार्यवीर्यं तैलमेवं भागशतपक्वं शतपाकम् ।
अभीक्ष्णं च स्वेदयेत् ।
ततः स्निग्धस्विन्नस्य श्लक्ष्णस्य मृदुनश्चर्मणो वाससो वा चतुरङ्गुलविस्तृताभिः पट्टिकाभिर्वक्रीभूतप्रदेशानवगृह्णन् सर्वतो वेष्टयेत् बध्नीयात् ।
निशि बध्वा दिवा मुञ्चेद्दिवा वा जिशि ।
मोक्षान्ते चोत्कारिकाभिः सुस्निग्धाभिर्वातघ्नप्रक्लृप्ताभिः स्वेदयेत् ।
अव्यथं च प्रतिलोमं प्रमार्जयन्नृजु कुर्वंश्च पुनर्बध्नीयात् ।
एवं सप्तरात्रम् ।
सशोफे तु वमनमाचरेत् ।
सदाहरागे बलवतः सिराव्यधम् ।
घृतक्षीरबस्तिसेकान् वातपित्तघ्नक्रियां च ॥

4.23.30

एकाङ्गरोगिणमम्लानगात्रं स्नेहस्वेदोपपन्नं मृदुना संशोधनेन संशोध्यानुवास्यास्थाप्य चाक्षेपकविधानेनोपचरेत् ।
विशेषतो बलातैलमनुवासनार्थे ।
दोषसंसर्गे यथासंसर्गम् ।
कुक्कुटीं वा रसायनविधानेनोपयुञ्जीत ।
अपबाहुके नाचनमूर्ध्वभक्तं च निरामे स्नेहपानम् ।
विश्वभीप्रभृतिषु पाददाहान्तेषु यथोक्तां सिरां विध्वा वातव्याधिवदुपाचरेत् ॥

4.23.31

ऊरुस्तम्भे तु स्नेहासृक्स्राववमनाविरेचनबस्तिकर्माणि परिहरेत् ।
आमश्लेष्मभ्यां सह तेषां विरोधात् ।
ऊरुलीनानां वायुना स्तब्धानां च वमनादिभिरूर्ध्वं नेतुमम्भसामिव निम्नात् स्थलमशक्यत्वात् ।
ततस्तत्र तु बहुशः शमनशोषणानि युक्त्यावेक्ष्य युञ्जीत ।
रूक्षोपचारान् यवश्यामाककोद्रवोद्दालकमलवणमल्पतैलसिद्धं शाकं क्षारारिष्टमधूदकानि च शीलयेत् ॥

4.23.32

स सैन्धवं वचादिं हरिद्रादिं वत्सकादिं वा ।
षड्धरणं वा हरीतकीः पिप्पलीर्वा ।
शार्ङ्गेष्टामदनदन्तीवत्सकं वा ।
स्वादुकण्टकारग्वधदार्वीमरुबकपाठाकरञ्जकूलकचूर्णं वा सक्षौद्रं मस्तुना पिबेत् ।
चित्रकदेवदारुकुष्ठपाठातिक्तकरोहिणीर्वा मधुना लिह्यात् ।
त्रिफलापिप्पलीमुस्तचविकाकटुरोहिणीर्वा ।
स्वेदांश्च रूक्षान् कुर्यात् ॥

4.23.33

अत्यपतृप्तं तु रूक्षं क्षाममनिद्रं जाङ्गलरसैः शालिभिश्च तर्पयेत् ।
सर्षपतैलं वा सरलकुष्ठश्रीवेष्टकसुरदारुनागकेसराजगन्धासिद्धं सक्षौद्रं पिबेत् ।
ससैन्धवपलं शुण्ठीचित्रकपिप्पलीमूलानां पृथक् द्विपलं दश भल्लातकास्थीनि कल्कीकृत्यैकध्यमारनालाढकेन सह तैलप्रस्थं पचेत् ।
तत्सर्ववातविकारेषु पथ्यं विशेषादूरुस्तम्भार्शोगृध्रसीघ्नमपत्यदं च ।
बहिरपि श्लेष्मक्षपणाय क्षौद्रसर्षपकरञ्जफलवल्मीकमृद्गोमूत्रैरुष्णैर्लेपयेत् ।
सौभाञ्जनतर्कारीद्वयसरलार्जुनकरञ्जाढकीगोक्षुरकैर्लेपोन्मर्दनसेकान् कुर्यात् ।
व्यायामैश्च विविधर्मेदः क्षपयेत् ।
स्थलान्युल्लङ्क्षयेत् ।
प्रतिस्रोतः सरितमव्यालां तरेत् ।
एवमूरुस्तम्भो हि शुष्केश्लेष्मणि प्रशाम्यतीति ॥

4.23.34

भवति चात्र ।
सहचरं सुरदारु सनागरं क्वथितमम्भसि तैलविमिश्रितम् ।
पवनपीडितदेहगतिः पिबन् द्रुतविलम्बितगो भवतीच्छया ॥

4.23.35

रास्नामहौषधद्वीप्पिप्पलीशठिपौष्करम् ।
पिष्ट्वा विपाचयेत्सर्पिर्वातरोगहरं परम् ॥

4.23.36

निम्बामृतावृषपटोलनिदिग्धिकानां भागान् पृथग्दशपलान् विपचेद्घटे ऽपाम् ।
अष्टांशशेषितरसेन पुनश्च तेन प्रस्थं घृतस्य विपचेत् पिचुभागकल्कैः ॥

4.23.37

पाठाविडङ्गसुरदारुगजोपकुल्याद्विक्षारनागरनिशामिसिचव्यकुष्ठैः ।
तेजोवतीमरिचवत्सकदीप्यकाग्निरोहिण्यरुष्करवचाकणमूलयुक्तैः ॥

4.23.38

मञ्जिष्ठयातिविषया विषया यवान्या संशुद्धगुग्गुलुपलैरपि पञ्चसङ्ख्यैः ।
तत् सेवितं विधमति प्रबलं समीरं सन्ध्यस्थिमज्जगतमप्यथ कुष्ठमीदृक् ॥

4.23.39

नाडीव्रणार्बुदभगन्दरगण्डमाला जत्रूर्ध्वसर्वगदगुल्मगुदोत्थमेहान् ।
यक्ष्मारुचिश्वसनपीनसकासशोषहृत्पाण्डुरोगमदविद्रधिवातरक्तम् ॥

4.23.40

द्रोणे ऽम्भसः पचेद्भागान् दशमूलाच्चतुष्पलान् ।
यवकोलकुलत्थानां भागैः प्रस्थोन्मितैः सह ॥

4.23.41

पादशेषे रसे पिष्टैर्जीवनीयैः सशर्करैः ।
तद्वत्खर्जूरकाश्मर्यद्राक्षाबदरफल्गुभिः ॥

4.23.42

सक्षीरैः सर्पिषः प्रस्थः सिद्धः केवलवातनुत् ।
योज्यो निरत्ययः पाननस्याभ्यञ्जनबस्तिषु ॥

4.23.43

बलाबिल्वशृते क्षीरे घृतमण्डं विपाचयेत् ।
तस्य शुक्तिः प्रकुञ्चो वा नस्यं वाते शिरोगते ॥

4.23.44

तद्वत्सिद्धा वसा नक्रमत्स्यकूर्मबुलूकजा ।
प्रत्यग्रा विधिनानेन नस्यपानेषु योजयेत् ॥

4.23.45

जीर्णं पिण्याकं पञ्चमूलं पृथक् च क्वाथं क्वाथाभ्यामेकतस्तैलमाभ्याम् क्षीरादष्टांशं पाचयेत्तेन पानाद्वाता नश्येयुः श्लेष्मयुक्ता विशेषात् ॥

4.23.46

समूलशाखस्य सहाचरस्य तुलां समेतां दशमूलतश्च ।
अभीरुमूलाच्च तुलार्धमेतदष्टांशशेषं विपचेद्वहे ऽपाम् ॥

4.23.47

तत्र सेव्यनखकुष्ठहिमैलास्पृक्प्रियङ्गुनलिकाम्बुशिलाजैः ।
लोहितानलदलोहसुराह्वैः कोपनामिशितुरुष्कनतैश्च ॥

4.23.48

तुल्यक्षीरं पालिकैस्तैलपात्रं सिद्धं कृच्छ्रान् शीलितं हन्ति वातान् ।
कम्पाक्षेपस्तम्भशोषादियुक्तान् गुल्मोन्मादौ पीनसान्योनिरोगान् ॥

4.23.49

केतकिमूलबलातिबलानां यद्बहलेन रसेन विपक्वम् ।
तैलमनल्पतुषोदकयुक्तं मारुतमस्थिगतं तदपोहेत् ॥

4.23.50

तुलां लशुनकन्दस्य तुलार्धं जाङ्गलात् पलात् ।
दशमूलाच्च विपचेद्भागान् पञ्चपलान् पृथक् ॥

4.23.51

तोयार्मणेण पादस्थे समं तैलं पयो दधि ।
तत्र दद्यात् पलांशांश्च रास्नामधुकजीवकान् ॥

4.23.52

मिशिस्थिरामहामेदाचपलातिविषाबलाः ।
काकोली पौष्करं मूलमश्वगन्धां च साधितम् ॥

4.23.53

तत्परं वातरोगघ्नं गुल्मानाहार्तिशूलनुत् ।
भग्नजर्जरिताङ्गानां पथ्यमग्नेश्च दीपनम् ॥

4.23.54

समूलजालां विपचेत् प्रसारिणीं तुलोन्मितां पादधृते घटे ऽम्भसः ।
पृथक् सतैलं दधि तत्समं क्षिपेत् समं च ताभ्यां विजयां ततः पचेत् ॥

4.23.55

प्रसारिणीजीवकसिन्धुजन्मयष्ट्याह्वरास्नाग्निकयावशूकैः ।
सग्रन्थिकाख्यैर्द्विपलैः सुपिष्टैः भल्लातकानां दशकैस्त्रिभीश्च ॥

4.23.56

शुण्ठीपलत्रययुतैर्विनिहन्ति पाननस्यादिभिस्तदखिलान् मरुतो विकारान् कुष्ठप्रमेहहतनाममनोविकारश्वासास्थिभङ्गजठरक्रिमिबीजदोषान् ॥

4.23.57

पचेत् सहाचरतुलां जलद्रोणचतुष्टये ।
द्रोणशेषे समक्षीरे तत्र तैलाढकं पचेत् ॥

4.23.58

सहाचरस्य मूलानां कल्कितैर्दशाभिः पलैः ।
अथवा नतषड्ग्रन्थास्थिराकुष्ठसुराह्वयात् ॥

4.23.59

सैलानलदशौलेयशताह्वारक्तचन्दनात् ।
सिद्धे ऽस्मिन् शर्कराचूर्णादष्टादशपलं क्षिपेत् ॥

4.23.60

भेडस्य संमतं तैलं तत् कृच्छ्राननिलामयान् ।
वातकुण्डलिकोन्मादभूतापस्मारवर्ध्म च ।
गुल्महृद्रोगदुर्नामयोनिरोगांश्च नाशयेत् ॥

4.23.61

श्वदंष्ट्रककषायस्य प्रस्थौ द्वौ पयसा समौ ।
षट्पलं शृङ्गवेरस्य गुडस्य च पलाष्टकम् ।
तैलप्रस्थं विपक्वं तद्दद्यात् सर्वानिलार्तिषु ॥

4.23.62

बलाशतं छिन्नरुहापादं रास्नाष्टभागिकम् ।
जलाढकशते पक्त्वा शतभागाथिते रसे ॥

4.23.63

दधिमस्त्विक्षुनिर्यासशुक्तैस्तैलाढकं समैः ।
पचेत्साजपयोर्धांशं कल्कैरेभिः पलोन्मितैः ॥

4.23.64

शठीसरलदार्वेलामञ्जिष्ठागरुचन्दनैः ।
पद्मकातिबलामुस्तासूप्यपर्णीहरेणुभिः ॥

4.23.65

यष्ठ्याह्वसुरसव्याघ्रनखर्षभकजीवकैः ।
पलाशरसकस्तूरीनलिकाजातिकोशकैः ॥

4.23.66

स्पृक्काकुङ्कुमशैलेयजातीकटुफलाम्बुभिः ।
त्वक्कुन्दुरुककर्पूरतुरुष्कश्रीनिवासकैः ॥

4.23.67

लवङ्गनखकंकोलकुष्ठमांसीप्रियङ्गुभिः ।
स्थौणेयतगरध्यामवचामदनकप्लवैः ॥

4.23.68

सनागकेसरैः सिद्धे दद्याच्चात्रावतारिते ।
पत्रकल्कं ततः पूतं विधिना तत् प्रयोजितम् ॥

4.23.69

श्वासं कासं ज्वरं मूर्छां छर्दिं तृष्णां क्षतं क्षयम् ।
प्लीहशोषावपस्मारमलक्ष्मीं च प्रणाशयेत् ।
बलातैलमिदं श्रेष्ठं वातव्याधिविनाशनम् ॥

4.23.70

अमृतायास्तुलाः पञ्च पचेत्तोयवहद्वये ।
पादशेषे समक्षीरं तैलस्य द्व्याढकं पचेत् ॥

4.23.71

एलामांसीनतोशीरसारिवाकुष्ठचन्दनैः ।
शतपुष्पाबलामेदामहामेदर्धिजीवकैः ॥

4.23.72

काकोलीक्षीरकाकोलीश्रावण्यतिबलानखैः ।
महाश्रावणिजीवन्तीविदारीकपिकच्छुभिः ॥

4.23.73

शतावरीतामलकीकर्कटाह्वाहरेणुभिः ।
वचागोक्षुरकैरण्डारास्नाकालासहाचरैः ॥

4.23.74

वीरामहैलर्षभकत्रिदशाह्वैश्च कार्षिकैः ।
मञ्जिष्ठायास्त्रिकर्षेण मधुकाष्टपलेन च ॥

4.23.75

कल्कैस्तत्क्षीणवीर्याग्निबलसम्मूढचेतसः ।
उन्मादारत्यपस्मारैरार्तांश्च प्रकृतिं नयेत् ॥

4.23.76

वातव्याधिहरं श्रेष्ठं तैलाग्र्यममृताह्वयम् ।
रास्नासहस्रनिर्यूहे तैलद्रोणं विपाचयेत् ।
गन्धैर्हैमवतैः पिष्टैरेलाद्यैश्चानिलार्तिनुत् ।
एष कल्पो ऽश्वगन्धाया बलातिबलयोरपि ॥

4.23.77

क्वाथकल्कपयोभिर्वा बलादीनां पृथक् पचेत् ।
यवकोलकुलत्थानां मत्स्यानां शिग्रुबिल्वयोः ॥

4.23.78

रसेन मूलकानां च तैलं दधिपयोन्वितम् ।
साधयेत्तत् परं सर्वपवनव्याधिभेषजम् ॥

4.23.79

यच्च शीतज्वरे तैलमगर्वाद्यमुदाहृतम् ।
सहस्रशतशः पक्त्वा सिद्धं वातामयापहम् ॥

4.23.80

फलत्रिकस्य प्रस्थं स्यात् कुलत्थं कुडवद्वयम् ।
कृष्णगन्धात्वगाढक्योः पृथक् पञ्चपलानि तु ॥

4.23.81

रास्नाचित्रकयोर्द्वे द्वे दशमूलात् पलं पलम् ।
जलद्रोणे पचेत् पादशेषे प्रस्थोन्मितं पृथक् ॥

4.23.82

सुरारनालदध्यम्लसौवीरकतुषोदकम् ।
कोलदाडिमवृक्षाम्लरसं क्षीरं वसां नवाम् ॥

4.23.83

मज्जानं तैलमाज्यं च जीवनीयपलानि षट् ।
कल्कमेकत्र तत् सिद्धं सिद्धं शुद्धानिलामये ॥

4.23.84

सिरापर्वास्थिगे वाते सर्वाङ्गैकाङ्गरोगिषु ।
वेपनाक्षेपशूलेषु तमभ्यङ्गं प्रयोजयेत् ॥

4.23.85

आनूपजाङ्गलोत्थानामस्थीनि विपचेज्जले ।
तत्स्नेहं दशमूलस्य कषायेण पुनः पचेत् ॥

4.23.86

जीवकर्षभकास्फोतविदारीकपिकच्छुभिः ।
वातघ्नैर्दीपनीयैश्च कल्कैर्द्विक्षीरभागिकैः ॥

4.23.87

सिरापर्वास्थिकोष्ठस्थं पानाद्यैर्हन्ति तच्चलम् ।
क्षीणौजोमज्जशुक्राणामेतत् स्यादमृतोपमम् ॥

4.23.88

पाने नस्ये ऽन्वासने ऽभ्यञ्जने च स्नेहाः काले सम्यगेते प्रयुक्ताः ।
दुष्टान् वातानाशु शान्तिं नयेयुर्वन्ध्या नरीः पुत्रभाजश्च कुर्युः ॥

4.23.89

स्नेहस्वेदैर्द्रुतः श्लेष्मा यदा पक्वाशये स्थितः ।
पित्तं वा दर्शयेद्रूपं बस्तिभिस्तं विनिर्जयेत् ॥

मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc