भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गसंग्रह · अध्याय 4.22

4.22.1

अथातः श्वित्रकृमिचिकित्सितं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥

4.22.2

कुष्ठादपि बीभत्सं यच्छीघ्रतरं च यात्यसाध्यत्वम् ।
श्वित्रमतस्तश्छान्त्यै यतेत दीप्ते यथा भवने ॥

4.22.3

मदयन्त्याः सवायस्याः सुरभ्यारग्वधस्य च ।
शतं पलानां प्रत्येकं वरायास्त्वाढकत्रयम् ॥

4.22.4

व्याघ्रीवह्निकपोतावत्सकखदिरार्कमूलदन्त्यैन्द्र्यः ।
सनिशाद्वया दशपला क्वाथे ऽमीषां क्षिपेत् पिष्ट्वा ॥

4.22.5

बीजं करञ्जेङ्गुदशिग्रुनिम्बान्नीलीं सनीलोत्पलचन्द्रलेखाम् ।
श्यामां किरातं कटुकत्रयं च पञ्चाढकं तत्र च पञ्चगव्यात् ॥

4.22.6

शमयत्यचिरेण घृतं मृदुहुतवहसाधितं महानीलम् ।
न किलासमेव केवलमपचीकृमिकासकुष्ठमभ्यस्तम् ॥

4.22.7

उन्मादापस्मारावर्शोविद्रधिशिरोरोगान् ।
गलगण्डगुल्मगण्डानर्बुदशोफप्रमेहगलरोगान् ॥

4.22.8

सविसर्पशोषपवनव्याधीन्विषमज्वरान् हन्यात् ॥

4.22.9

संशोधनं विशेषात् पीतस्नेहस्य योजयेदनु च ।
श्वित्रे स्रंसनमग्र्यं मलयूरस इष्यते सगुडः ॥

4.22.10

तं पीत्वाभ्यक्ततनुर्यथाबलं सूर्यपादसन्तापम् ।
सेवेत विरिक्तश्च त्र्यहं पिपासुः पिबेत् पेयाम् ॥

4.22.11

श्वित्रे ऽङ्गे ये स्फोटा जायन्ते कण्टकेन तान् भिन्द्यात् ।
स्फोटेषु निस्सृतेषु प्रातः प्रातः पिबेत् पक्षम् ॥

4.22.12

मलयूमसनं प्रियङ्गुं शतपुष्पां चाम्भसा समुत्क्वाथ्य ।
पालाशं वा क्षारं यथाबलं फाणितोपेतम् ॥

4.22.13

वितुषावल्गुजबजाच्चूर्णं गोवारिभाविताद्वहुशः ।
मूलक्वाहेन पिबेत् कलितरुकृतमालमदनफल्गूनाम् ॥

4.22.14

पीते किलासी तिलतैलदिग्धो दिने दिने स्याद्रविपादसेवी ।
जीर्णे च तक्राप्लुतकोद्रवाशी स्फोटोद्भवायैष विधिस्त्रिरात्रम् ॥

4.22.15

विध्वान्येद्युः स्फोटकान् कण्टकैस्तान् बस्ताम्भोभिर्घृष्टया शुक्तवर्त्या ।
लिम्पेत् कामं लेपनाद्वेदनायां लेपो योज्यः शङ्खनाभिर्जलेन ॥

4.22.16

व्योषसर्षपनिशागृहधूमैर्यावशूकपटुचित्रकयुक्तैः ।
कोलतुल्यगुटिकार्धविषांशा श्वित्रकुष्ठशमनो वरलेपः ॥

4.22.17

गव्यं मूत्रं चित्रकव्योषयुक्तं सर्पिःकुम्भे संस्थितं क्षौद्रमिश्रम् ।
पक्षादूर्ध्वं श्वित्रणा पेयमेतत् कार्यं चास्मै कुष्ठदृष्टं विधानम् ॥

4.22.18

मार्कवमथवा खादेद् भृष्टं तैलेन लोहपात्रस्थम् ।
बीजकशृतं च दुग्धं तदनुपिबेच्श्वित्रनाशाय ॥

4.22.19

पूतीकार्कव्याधिघातस्नुहीना मूत्रैः पिष्टाः पल्लवा जातिजाश्च ।
घ्नन्त्यालेपाच्श्वित्रदुर्नामदद्रून् पामाकोठान् दुष्टनाडीव्रणांश्च ॥

4.22.20

द्वैप्यं दग्धं चर्म मातङ्गजं वा श्वित्रे लेपस्तैलयुक्तो वरिष्ठः ।
पूतीकीटो राजवृक्षोद्भवेन क्षारेणाक्तः श्वित्रमेको ऽपि हन्ति ॥

4.22.21

रात्रौ गोमूत्रे वासितान् जर्जराङ्गानह्निच्छायायां शोषयेत् स्फोटहेतून् ।
एवं वारांस्त्रीन् भावयेच्श्लक्ष्णपिष्टैः स्नुह्याः क्षीरेण श्वित्रनाशाय लेपः ॥

4.22.22

अक्षतैलद्रुतालेपः कृष्णसर्पोद्भवामषी ।
शिखिपित्तं तथा दग्धं द्रीबेरं वा तदाप्लुतम् ॥

4.22.23

उपोषितायान्नकालांस्त्रीन् श्वेतकृकवाकवे ।
यष्ट्याह्वकुष्ठैडगजबीजचूर्णं घृतान्वितम् ॥

4.22.24

दद्यात्तस्य पुरीषेण श्वित्रमुद्दाल्य लेपयेत् ।
मासं हन्त्याशु तच्श्वित्रं विशेषाद्गुह्यसंश्रयम् ॥

4.22.25

लेपः पटुवेल्लशिला कासीसं रोचना कनकपुष्पी ।
गोपित्तयुक्तमथवा चपलाञ्जनयुग्मलोहरजः ॥

4.22.26

काकोदुम्बरिका वा सावल्गुजचित्रका सगोमूत्रा ।
कदलीक्षारयुतं वा खरास्थि दग्धं सगोरुधिरम् ॥

4.22.27

नीलोत्पलं सकुष्ठं ससैन्धवं हस्तिमूत्रपिष्टं वा ।
हस्तिमदाध्युषितो वा मालत्याः क्षारकक्षारः ॥

4.22.28

सिद्धार्थकाबृहत्यौ करञ्जकोशातकीफलं गुञ्जा ।
शुकनासा सगवाक्षी स्वर्णक्षीरीनिकुम्भश्च ॥

4.22.29

लाङ्गलिकी हयमारस्तिल्वकभल्लातकाश्वमूत्री च ।
मुस्ता स्नुही सहिंस्रा सुवर्णशकला फलोपेता ॥

4.22.30

मूलकबीजं व्योषं पीलुविडङ्गानि कर्णिकारश्च ।
पिचुमन्दजातीकिसलयबाकुचिकातुत्थकुष्ठानि ॥

4.22.31

कटुरोहिणीमनोह्वात्रिफला च सुकल्किता गवां मृत्रे ।
गजहयखरमूत्राणां पात्रत्रितयं स्नुगर्कदुग्धाभ्याम् ॥

4.22.32

द्वौ कुडवाविह दद्यात् सर्षपतैलाच्च चातुर्थीम् ।
दर्वीलेपं सिद्धा रसक्रिया मूत्रिका नाम ॥

4.22.33

श्वित्रं घृष्टं लिप्तं त्रीनालेपांस्तया न लङ्घयति ।
मशतिलकचर्मकीलग्रन्थ्यर्बुदसर्वकुष्ठघ्नी ॥

4.22.34

कुडवो ऽवल्गुजबीजाद्धरितालचतुर्थभागसम्मिश्रः ।
मूत्रेण गवां पिष्टः सवर्णकरणः परं श्वित्रे ॥

4.22.35

क्षारे सुदग्धे गजलिण्डजे वा गजस्य मूत्रेण परिस्रुते च ।
द्रोणप्रमाणे दशभागयुक्तं दत्वा पचेद्बीजमवल्गुजानाम् ॥

4.22.36

श्वित्रं जयेच्चिक्कणतां गतेन तेन प्रलिप्तं बहुशः प्रघृष्टम् ।
कुष्ठं मशं वा तिलकालकं वा यद्वा व्रणे स्यादधिमांसजातम् ॥

4.22.37

भल्लातकद्वीपिसुधार्कमूलगुञ्जाफलत्र्यूषणशङ्खचूर्णम् ।
तुत्थं सकुष्ठं लवणानि पञ्च क्षारद्वयं लाङ्गलिकां च पक्त्वा ॥

4.22.38

स्नुगर्कदुग्धे तद्विदधीत लेपम् ।
कुष्ठे किलासे तिलकालकेषु मशेषु दुर्नामसु चर्मकीले ॥

4.22.39

शुध्या शोणितमोक्षैर्विरूक्षणैर्भक्षणैश्च सक्तूनाम् ।
श्वित्रं कस्यचिदेव प्रशाम्यति क्षीणपापस्य ॥

4.22.40

कृमिचिकित्सितम् ।
स्निग्धस्विन्ने गुडक्षीरमत्स्याद्यैः कृमिणोदरे ।
उत्क्लेशितक्रिमिकफे शर्बरीं तां सुखोषिते ॥

4.22.41

सुरसादिगणं मूत्रे क्वाथयित्वार्धवारिणि ।
तं कषायं कणागालाकृमिजित्कल्कयोजितम् ।
सतैलस्वर्जिकाक्षारं युञ्ज्याद्बस्तिं ततो ऽहनि ॥

4.22.42

तस्मिन्नेव निरूढं तं पाययेत विरेचनम् ।
त्रिवृत्कल्कं फलकणाकषायालोडितं ततः ।
ऊर्ध्वाधःशोधिते कुर्यात् पञ्चकोलयुतं क्रमम् ॥

4.22.43

कटुतिक्तकषायाणां कषायैः परिषेचनम् ।
काले विडङ्गतैलेन ततस्तमनुवासयेत् ॥

4.22.44

शिरोरोगनिषेधोक्तमाचरेन्मूर्धगेष्वनु ।
उद्रिक्ततिक्तकटुकमल्पस्नेहं च भोजनम् ॥

4.22.45

विडङ्गकृष्णामरिचपिप्पलीमूलशिग्रुभिः ।
पिबेत् सस्वर्जिकाक्षारैर्यवागूं तक्रसाधिताम् ॥

4.22.46

रसं शिरीषकिणिहीपारिभद्रककेम्बुकात् ।
पलाशबीजपत्तूरपूतीकाद्वा पृथक् पिबेत् ।
सक्षौद्रं सुरसादीन् वा लिह्यात् क्षौद्रयुतान् पृथक् ॥

4.22.47

शतकृत्वो ऽश्वविट्चूर्णं विडङ्गक्वाथभावितम् ।
कृमिमान्मधुना लिह्यात् भावितं वा वरारसैः ।
शिरोगतेषु क्रिमिषु चूर्णं प्रधमनं च तत् ॥

4.22.48

आखुकर्णीकिसलयैः सुपिष्टैः पिष्टमिश्रितैः ।
पक्त्वा पूपलिकां खादेत् धान्याम्लं च पिबेदनु ॥

4.22.49

सपञ्चकोललवणमसान्द्रं तक्रमेव वा ।
नीपमार्कवनिर्गुण्डीपल्लवेष्वप्ययं विधिः ॥

4.22.50

विडङ्गचूर्णमिश्रैर्वा पिष्टैर्भक्ष्यान् प्रकल्पयेत् ।
विडङ्गतण्डुलैर्युक्तमर्धांशैरातपे स्थितम् ॥

4.22.51

दिनमारुष्करं तैलं पाने बस्तौ च योजयेत् ।
सुराह्वसरलस्नेहं पृथगेवं च कल्पयेत् ॥

4.22.52

तिल्वकोद्दालकपले त्रिवृच्छ्यामे तदर्धतः ।
दन्तीद्रवन्त्यावर्धेन तदर्धे चव्यचित्रकौ ॥

4.22.53

पिष्ट्वा विडङ्गयूषेण तेन भावितपीडितात् ।
तैलप्रस्थं तिलात्साध्यं क्रिमिघ्नद्विगुणे रसे ।
तच्छोधनं पिबेत् काले विदध्याच्चानुवासनम् ॥

4.22.54

कोशातकीकरञ्जोमासर्षपस्नेहकल्पनम् ।
कृत्वा तेनैव विधिना पाययेदुदरक्रिमिम् ॥

4.22.55

पुरीषजेषु सुतरां दद्याद्बस्तिविरेचने ।
शिरोविरेकं वमनं शमनं कफजन्मसु ॥

4.22.56

रक्तजानां प्रतीकारं कुर्यात् कुष्ठचिकित्सितम् ।
इन्द्रलुप्तविधिश्चात्र विधेयो रोमभोजिषु ॥

4.22.57

क्षीराणि मांसानि घृतं गुडं च दधीनि शाकानि च पर्णवन्ति ।
समासतो ऽम्लान्मधुरान्रसांश्च क्रिमीन् जिघांसुः परिवर्जयेच्च ॥

मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc