भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गसंग्रह · अध्याय 4.21

4.21.1

अथातः कुष्ठचिकित्सितं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥

4.21.2

पूर्वरूपेष्वेव कुष्ठिनं स्नेहपानेनोपक्रमेत ।
तत्र वातोत्तरे मेषशृङ्गीशार्ङ्गेष्टैरण्डगुडूचीद्विपञ्चमूलसिद्धं तैलं घृतं वा पानाभ्यङ्गयोर्विदध्यात् ॥

4.21.3

पित्तोत्तरे धवाश्वकर्णककुभवचापुनर्नवपलाशपिचुमन्दमधुकलोध्रसमङ्गासिद्धं सर्पिः ।
अथवा पटोलपिचुमन्ददार्वीदुरालभातिक्तरोहिणीपाठापर्पटकत्रायमाणानां पालिकान् भागान् जलाढकद्वये ऽष्टभागशेषं क्वाथयेत् ।
तेन कार्षिकैश्चन्दनोपकुल्यामुस्तात्रायन्तीन्द्रयवभूनिम्बैः कल्कितैः सपिषो द्वादशपलं साधयेत् ।
एतत्तिक्तकं सर्पिः कुष्ठविसर्पविस्फोटगण्डगण्डमालाश्वयथुपिटकारक्तपित्तदुर्नामवातशोणितकामलापाण्ड्वामयोन्माददाहतृड्भ्रमकण्डूकुष्ठनाडीगुल्ममदतिमिरव्यङ्गश्वित्रापस्मारभगन्धरोदरप्रदरज्वरगरविद्रधिग्रहणीहृद्रोगानपहरति ॥

4.21.4

सप्तच्छदकटुकातिविषाशम्याकपाठामुस्तत्रिफलोशीरपटोलपर्पटकपिप्पलीद्वयद्विरजनीद्विसारिवा चन्दनदुरालभापद्मकवचाशतावरीविशालाकुटजबीजवृषमूर्वागुडूचीभूनिम्बत्रायमाणामधुकगर्भं द्विगुणामलकरसमष्टगुणाम्बु सर्पिर्विपक्वं महातिक्तकाख्यं घृतमधिकगुणं पूर्वस्मात् ।
गुग्गुलुपञ्चतिक्तं वा पिबेत् ॥

4.21.5

कफोत्तरे सालप्रियालशम्याकारिष्टसप्तपर्णचित्रकमरिचवचाकुष्ठैः साधितम् ।
अथवा बृहतीद्वयकाकमाचीशुकनासाक्वाथे मरिचविडङ्गशिग्रुजातीदेवदारुक्षवकहरिद्राभयाकल्केन वाजिमूत्रेण च सिद्धं सर्पिः ॥

4.21.6

सर्वेषु च भल्लातकतुवरकसिद्धार्थकान्यतमतैलम् ।
भल्लातकपथ्याकृमिघ्नसिद्धं वा हविः ॥

4.21.7

ततः स्निग्धस्य यथादोषं यथासन्नं च संशोधनानि प्रयुञ्जीत ।
सिरां च बलापेक्षी विध्येदेकां द्वे तिस्रश्चतस्रः पञ्च वा ।
अन्तरान्तरा च पुनःपुनः स्नेहं पिबेत् ।
दुर्बलं हि शून्यकोष्ठं कुष्ठिनं वायुरभिभवति ।
वमने त्वस्य मधुककुटजबीजनिम्बपटोलपल्लवानि विदध्यात् ।
कुम्भनिकुम्भत्रिफला विरेचने माणिभद्रवटकांश्च ॥

4.21.8

पटोलविशालयोर्मूलं त्रिफला च पृथक् त्रिभागोनत्रिशाणाः कटुकात्रायमाणे शाणांशे शुण्ठ्यास्त्रिभागोनः शाणः तदेतत् पलमैकध्यं सलिले विपाच्य पाययेत् ।
ऊर्ध्वाधोविरिक्तश्च जीर्णे जाङ्गलरसेनाश्नीयात् ।
एवमेतत् षड्रात्रप्रयोगात् परं पित्तकफशोफकुष्ठदुष्टनाडीव्रणार्शोभगन्दरग्रहणीपाण्डुहलीमककामलाविषमज्वरहृद्बस्तिवेदनाघ्नम् ॥

4.21.9

उभयानुलोमनं वा ब्राह्मीस्वरससाधितं सर्पिः पिबेत् ।
आवर्तकीतुलां सलिलार्मणे ऽष्टांशशिष्टां विपाच्य तेन निर्यूहेण तन्मूलैश्च घृतप्रस्थं साधयेत् ।
ततो मात्रामेकाहान्तरं पिबेत् ।
ऊर्ध्वाधो विरिच्यमानस्तृषितः ।
शीतलवणमारनालं जीर्णस्नेहश्च तेनैव कोद्रवौदनमश्नीयात् ।
अनेन कुष्ठश्वित्रापचीभगन्दरनाडीव्रणाखुविषाणि सिध्यन्ति ।
मेध्यं चैतत् पुंसवनं च ॥

4.21.10

दार्वीपटोलबृहतीसेव्यमदननिम्बकृतमालघनेन्द्रयवैः सस्नेहैरास्थापनम् ।
एभिरेव च विपक्वः स्नेहो ऽनुवासनार्हस्यानुवासनम् ।
दन्तीमरिचफणिज्जकार्द्रककरञ्जबीजपिप्पलीविडङ्गसैन्धवैरूर्ध्वजत्रुगते कुष्ठे कृमिषु च शिरोविरेकः ।
सूत्रस्थानोक्तो वैरेचनिकधूमश्च ॥

4.21.11

ततः सर्वतो विशुद्धस्यान्तर्बहिः शमनानि प्रयुञ्जीत ॥

4.21.12

खदिरकदरतिनिशासनशिरीषशिंशपाशाकसर्जार्जुनजम्बूकरवीरधवामलकीमुष्ककाक्षिकबदरीवञ्जुलनिम्बकरञ्जकदम्बमधूकसारान् सार्द्रान् कृतमालनिचुलपटोलाङ्कोलबलाबिल्वकुटजकटभीपारिभद्रसहचरगृध्रनखीवरणवर्धमानार्कसौभञ्जनाटरूषकशतावरीश्वदंष्ट्राहिमाराश्वकर्णश्रीपर्णीस्वयंगुप्ताग्निमन्थेन्द्रवारुणीकाकोदुम्बरिकामेषशृङ्गीटुण्टुकगुडूचीवर्षाभूवायसीबृहतीद्वयरोहिणीमूर्वाशार्ङ्गष्टामूलानि च शकलयित्वा पृथक् त्रिंशत्पलिकानि सङ्क्षुद्य महति कटाहे ऽष्टगुणेनाम्भसा क्वाथयेत् ।
अष्टभागशेषं निर्यूहमवतार्य परिस्राव्य च तस्मिन् सर्पिषः पलशतत्रयं विपचेदीषदवशेषकषाये च विदलीकृतारुष्करसहस्रत्रयमत्रावाप्य पुनः पाचयेद्विगतस्वरसान्यरुष्कराण्यपास्य तस्मिन् स्नेहे सुचूर्णितानि प्रक्षिपेत् ।
व्याधिघातव्योषनाकुलीमार्कवार्ककाकादनीतगरकटुकाकुष्ठबिल्वहिङ्गुविडङ्गचित्रकातिविषामुस्तेन्द्रयवेन्द्रवारुणीरूप्य मललोहरजोलोहकान्तरसाञ्जनाभ्रशुकनासादेवदालीत्रिफलालाङ्गलिकीविशालाकुम्भनिकुम्भवचावाराहीमहाद्रुमकोशातकीप्रपुन्नाटसोमपर्णीनलिकाद्वयपटोलीजातीपल्लवताप्यकारवेल्लीकूलिकाकन्दकसप्तच्छदशार्ङ्गेष्टोत्पलसारिवागुग्गुलुशिलाजतुमूर्वाकुस्तुम्बरीजीवकद्वयपाठेन्द्रुरेखावज्रकन्दहरिद्राद्वयलवणपञ्चकानि प्रत्येकं त्रिपलिकानि शृङ्गीविषपलं चैकं ततो दर्व्या समन्तादाघट्य सुगुप्तं भूमौ धान्ये वा मासं निखनेत् ॥

4.21.13

अथ कृतसंशुद्धिस्वस्त्ययनः कुष्ठी प्रातस्ततो मात्रामुपयुञ्जीत ।
जीर्णे च यथेष्टमाहारं तेनास्य पूर्वमङ्गानि तुद्यन्ते भिद्यन्ते शूयन्ते स्फुरन्ति स्फुटन्ति च ।
ततः सप्तरात्रात् पुनः स्वस्थीभवन्ति ।
अपि च ॥

4.21.14

योगराजमवलिह्य समस्तं संज्ञयैव कथितोत्तमशक्तिम् ।
हन्ति कुष्ठमतिपातितगात्रं स्नायुजालपरिशेषमशेषम् ॥

4.21.15

श्वासाग्निसादारुचिकासयक्ष्मगुल्माढ्यवातग्रहणीप्रमेहान् ।
शोफं कृमीन् पाण्डुगदं ज्वरांश्च निवर्तयत्येष रसायनाग्र्यः ॥

4.21.16

त्रिफलादशमूलमूर्वामुस्तसप्तच्छददारुनिम्बत्वग्गवाक्षीचित्रकमञ्जिष्ठाव्योषचूर्णं नवगुणैः सक्तुभिर्युक्तं सक्षौद्रं शीलयेत् ॥

4.21.17

अथवा क्षुण्णान्यवान् निस्तुषान् रात्रौ गोमूत्रपर्युषितानहनि किलिञ्जे शोषयेदेवं सप्ताहं भावयेच्छोषयेच्च ।
ततस्तान् सक्तून् कृत्वा भल्लातकप्रपुन्नाटावल्गुजचित्रकविडङ्गमुस्तचूर्णचतुर्भागयुक्तानसनादिकषायेण पाययेत् ॥

4.21.18

एवमसनादिक्वाथपीतानामारग्वधादिकषायपीतान वा गोजीर्णकानां वा यवानां सक्तूनरुष्कराग्निमन्थचूर्णमिश्रान् खदिरासनसाररोहितकगुडूचीनामन्यतमस्य कषायेण दाडिमाम्लवेतसाम्लेन सैन्धवलवणेन सितामधुमधुरेणालोड्य पाययेत् ।
एष सर्वमन्थकल्पः ।
यावकांश्च भक्ष्यानपूपपूर्णकोशशष्कुली प्रभृतीन् कुर्यात् ।
यववच्च गोधूमैः ॥

4.21.19

सुरां कल्पयेत् पलाशक्षारभावितशालितण्डुलपिष्टेन क्षारोदकेनैव स्वेदितेन प्रियङ्गुगजपिप्पलीचित्रककेबुकैलावालुकपरिपेलवलोध्रमरिचविडङ्गचूर्णमिश्रेण नवे चैनां भाजने जतुसृते क्षौद्रपिप्पलीलिप्ते स्थापयेत् ।
ततो गन्धरसोपपन्नां कुष्ठिने पातुं दद्यात् ॥

4.21.20

खदिरशिंशपासारमुत्तमकारणीं ब्रह्मीं कोशवतीं च कषायकल्पेन विपचेत् ।
तेन क्वाथेन तण्डुलान् भावयेत् ।
पिष्टं च स्वेदयेत् ।
अभिषुणुयाच्च पूर्ववत् ॥

4.21.21

त्रिवृच्छ्यामाग्निमन्थसप्तलाकेबुकशङ्खिनीतिल्वकत्रिफलापलाशशिंशपानां रसमादाय पलाशद्रोण्यामभ्यासिचय खदिराङ्गारतप्तमयःपिण्डमेकविंशतिवारान्निर्वाप्य ततस्तं रसमासिच्य स्थाल्यां गोमयाग्निना साधयेत् ।
सिध्यति चावपेत् ।
पिप्पलीचूर्णस्य भागं द्वौ मधुनस्तावद्घृतस्य ततश्चतुर्भागावशिष्टे ऽवतीर्णे भूयो ऽग्नितप्तमयःपिण्डं तस्मिन् प्रक्षिपेत् प्रशान्तं च लोहपात्रे सुगुप्तं निदध्यात् ।
इयमयस्कृतिः दुस्साधमपि कुष्ठं मेहं वा साधयति ।
स्थूलं कर्शयति शोफमुपहन्ति सन्नमग्निमुद्धरति ।
विशेषेण राजयक्ष्मिणामुपदिश्यते ।
वर्षशतायुश्चैनामुपयुज्य पुरुषो भवति ॥

4.21.22

असनादिक्वाथमासिच्य पलाशद्रोण्यमयोघनैस्तप्तैः संयोज्य निर्वाप्य च कृतसंस्कारे कलशे प्रक्षिप्य वत्सकादिं प्रतिवाप्य क्षौद्रं च सुगुप्तं मासं निधायोपयुञ्जीत ॥

4.21.23

एवं न्यग्रोधादिष्वारग्वधादिषु चायस्कृतिं विदध्यात् ।
खदिरसुरदारुक्वाथप्रस्थं क्षौद्रप्रस्थं मत्स्यण्डिकाप्प्रस्थं लोहचूर्णार्धप्रस्थं त्रिफलाचतुर्जातकमरिचानि च कार्षिकाणि प्रक्षिप्यायसे भाण्डे मासस्थितं तदुपयोजयेत् ॥

4.21.24

रसायनप्रयोगेण च लोहतुलां तुवरकास्थीनि भल्लातकान्यलम्बुषामवल्गुजं गुग्गुलुमर्शोविहितविधानेन वा चित्रकमिति ॥

4.21.25

भवति चात्र ।
किलासकुष्ठग्रहणीप्रमेहस्थूलत्वदुर्नामभगन्दरेषु ।
पाण्डुत्वशूनत्वकफामयेषु मन्थादियोगान् विदधीत धीमान् ॥

4.21.26

शालयो यवगोधूमकोरदूषाः प्रियङ्गवः ।
मुद्गा मसूरास्तुवरी तिक्तशाकानि जाङ्गलम् ॥

4.21.27

त्रिफलारुष्करारिष्टक्षौद्रयोजितभावितम् ।
धात्रीखदिरनिम्बाम्बुरसं मुद्गपटोलजम् ॥

4.21.28

मद्यान्यौषधगर्भाणि मथितं चेन्दुराजिमत् ।
अन्नपानं हितं कुष्ठे न त्वम्ललवणोषणम् ।
दधिदुग्धगुडानूपतिलमाषांस्त्यजेत्तराम् ॥

4.21.29

तुलार्धं निम्बपञ्चाङ्ग्यास्तथा खदिरसारतः ।
हरीतकीदलतुलां भल्लातकतुलां दश ॥

4.21.30

कृष्णाविडङ्गकुडवावैकध्यं विपचेज्जले ।
कषायं तं परिस्राव्य निदध्यात्ताम्रभाजने ॥

4.21.31

षण्मासतः पिबेत् कुष्ठकृमिमेहैर्विमुच्यते ।
निम्बारिष्ट इति ख्यातो वरुणेनैष निर्मितः ॥

4.21.32

विडङ्गसारामलकाभयानां पलं पलं त्रीणि पलानि कुम्भात् ।
गुडस्य च द्वादश मासमेष जितात्मना हन्त्युपयुज्यमानः ॥

4.21.33

कुष्ठश्चित्रश्वासकासोदरार्शोमेहप्लीहग्रन्थिरुग्जन्तुगुल्मान् ।
सिद्धं योगं प्राह यक्षो मुमुह्षोर्भिक्षोः प्राणान् माणिभद्रः किलेमम् ॥

4.21.34

कटुकापटोलमूलोत्तमावचानिम्बरात्रिमञ्जिष्ठानाम् ।
संशीलितःकषायस्त्वगामयान् श्लेष्मपित्तबहुलान् हन्ति ॥

4.21.35

वातोत्तरांस्तु सर्पिर्विपाचितं क्वथितकल्कितैश्च कटुकाद्यैः ।
खदिरारिष्टगुडूचीसुरतरुदार्वीश्च कल्पयेत् पृथगेवम् ॥

4.21.36

शीतः कषायः खदिरस्य पीतः सक्षौद्रतार्क्ष्यो हरति प्रसह्य ।
त्वक्कण्ठरोगापचिगुल्ममेहान् बलाहकान् वायुरिव प्रचण्डः ॥

4.21.37

सर्पिर्मधुभ्यां त्रिफलारसेन विडङ्गकल्केन च सम्प्रयुक्तः ।
कुष्ठं कषायः खदिरस्य हन्ति तिष्ठन् कषायं मनसीव धर्मः ॥

4.21.38

खदिरस्य लूनशिरसो मूले खातस्य मध्यमं मूलम् ।
छित्वाधो ऽयःकुम्भं रससंग्रहणाय निदधीत ॥

4.21.39

लिप्तात् कृष्णमृदेन्धनैश्च निचितादादीपिताद्वह्निना ।
तस्माद्यश्च्यवते रसः स सहितः क्षौद्राज्यधात्रीरसैः ।
पीतः कुष्ठभगन्दरारुरपचीमेहास्रपाण्डून् जयेत् ।
प्रस्थस्तस्य जरां च भोज्यमिह तु त्याज्यं च भल्लातवत् ॥

4.21.40

योज्य खदिरवन्निम्बशिंशपारग्वधासनम् ।
रोहतिकं सुराह्वं च धदिरोदकपायिनः ॥

4.21.41

दार्वी रसाञ्जनं वा गोमूत्रेण प्रबाधते कुष्ठम् ।
अभया प्रयोजिता वा मासं सव्योषगुडतैला ॥

4.21.42

दर्वीकलिङ्गकटुकातिविषाग्निपाठामूत्रेण सूक्ष्मरजसो धरणप्रमाणाः ।
पीता जयन्ति गुदजोदरगुल्मकुष्ठकोष्ठानिलाढ्यपवनग्रहणीप्रमेहान् ॥

4.21.43

लाक्षादन्तीमधुरसवराद्वीपिपाठाविडङ्गप्रत्यक्पुष्पीत्रिकटुरजनीसप्तपर्णाटरूषम् ॥

4.21.44

रक्ता निम्बं सुरतरुकृतं पञ्चमूल्यौ च चूर्णं पीत्वा मासं जयति हितभुग्गव्यमूत्रेण कुष्ठम् ॥

4.21.45

दशपलमरिष्टपल्लवकुसुमजटात्वक्फलं यथाकालम् ।
प्रयाहरेत् समस्तं कृतमालतरोश्च तत्तद्वत् ॥

4.21.46

सञ्चूर्ण्यासनखदिरक्वाथेनाप्लाव्य शोषयेदनिले ।
चित्रकघनभल्लातकगोक्षुरकमहौषधत्रिफलाः ॥

4.21.47

लोहविडङ्गावल्गुजसितोपलाः पलसमा रजीकृत्य ।
सप्ताहमेकतस्तद्रसेन भृङ्ग्यास्ततो भाव्यम् ॥

4.21.48

अथ पीतमक्षमात्रं घृतेन दुग्धेन कोष्णसलिलैर्वा ।
अचिरात् करोति वह्निं मतिं स्मृतिं पाटवं मेधाम् ॥

4.21.49

कृमिकुष्ठगण्डपाण्डुप्रमेहवक्त्रामयारुचिच्छर्दीः ।
अपचीभगन्दरस्थौल्यदुष्टनाडीव्रणव्यङ्गान् ॥

4.21.50

कफपित्तजान् विकारान् विशेषतः सुविषमान् निवर्तयति ।
वर्षाद्विषगरकृत्या नित्याभ्यासेन खलतिपलितानि ॥

4.21.51

त्रिकटूत्तमातिलारुष्कराज्यमाक्षिकसितोपलाविहिता ।
गुटिका रसायनं स्यात् कुष्ठजिच्च विष्या च सप्तसमा ॥

4.21.52

चन्द्रशकलाग्निरजनीविडङ्गतुवरास्थ्यरुष्करत्रिफलाभिः ।
वटका गुडांशक्लृप्ताः समस्तकुष्ठानि नाशयन्त्यभ्यस्ताः ॥

4.21.53

विडङ्गभल्लातकबाकुचीनां सद्वीपिवाराहिहरीतकीनाम् ।
सलाङ्गलीकृष्णतिकोपकुल्या गुडेन पिण्डी विनिहन्ति कुष्ठम् ॥

4.21.54

पथ्याकलिङ्गकपलाशफलेन्दुराजीभल्लातकास्थिचतुरङ्गुलचित्रकार्कैः ।
सावर्तकीकृमिहरैः क्रमवर्धितांशैः मूत्रेण तुल्यतुवरैर्वटका गदघ्नाः ॥

4.21.55

शशाङ्कलेखा सविडङ्गसारा सपिप्पलीका सहुताशमूला ।
सायोमला सामलका सतैला कुष्ठानि कृच्छ्राणि निहन्ति लीढा ॥

4.21.56

भूनिम्बनिम्बत्रिफलापद्मकातिविषाकणाः ।
मूर्वापटोलीद्विनिशापाठातिक्तेन्द्रवारुणीः ॥

4.21.57

सकलिङ्गवचास्तुल्या द्विगुणाश्च यथोत्तरम् ।
लिह्याद्दन्तीत्रिवृद्ब्राह्मीश्चूर्णिता मधुसर्पिषा ॥

4.21.58

कुष्ठमेहप्रसुप्तीनां परमं स्यात्तदौषधम् ।
वराकणाविडङ्गान् वा लिह्यात्तैलाज्यमाक्षिकैः ॥

4.21.59

खदिरशकलचूर्णं क्षौद्रसर्पिर्विमिश्रं ।
सगिरिजतुविडङ्गं मात्रया सेवमानः ।
लघुमितहितभोजी ब्रह्मचारी जितात्मा ।
श्वयथुकिटिभकोठश्वित्रकुष्ठानि हन्यात् ॥

4.21.60

खदिरासनसारस्य तुलां द्रोणे ऽम्भसः क्षिपेत् ।
अष्टमे ऽहनि तत्तोयं पचेदादर्विलेपनात् ॥

4.21.61

त्रिफलार्धतुलाचूर्णं तत्पादेन तु बाकुचीम् ।
तदर्धं द्वीपिनो मूलं तद्वद्ब्राह्मीं समार्कवाम् ॥

4.21.62

लोहक्रिमिघ्नद्विप्रस्थं क्षिप्त्वा तद्वटकीकृतम् ।
कुष्ठमेहग्रहण्यर्शोभगन्दरिषु पूजितम् ॥

4.21.63

लाङ्गलीत्रिफलालोहचूर्णं दशपलं पृथक् ।
गुटिकात्रिशतं षष्टिं कुर्याद्भृङ्गरसाप्लुतम् ॥

4.21.64

छायाशुष्कां च तत्रार्धगुटिकां भक्षयेत् पुरः ।
जीर्णे रसेन रूक्षेण पेयापूर्वं च भोजयेत् ॥

4.21.65

यन्त्रितो ब्रह्मचर्याद्यैः क्रमेण गुटिकामपि ।
खादेत् परस्तान्मासस्य भवेत् कामचरः क्रमात् ॥

4.21.66

एवं सर्वाणि कुष्ठानि जयत्यतिबलान्यपि ।
धीमेधास्मृतियुक्तश्च नीरुग्जीवेत् समाः शतम् ॥

4.21.67

वासामृतानिम्बवरापटोलव्याघ्रीकरञ्जोदककल्कपक्वम् ।
सर्पिर्विंसर्पज्वरकामलास्रकुष्ठापहं वज्रकमामनन्ति ॥

4.21.68

त्रिफलात्रिकटुद्विकण्टकारीकटुकाकुम्भनिकुम्भराजवृक्षैः ।
सवचातिविषाग्निकैः सपाठैः पिचुभागैर्नववज्रदुग्धमुष्ट्या ॥

4.21.69

पिष्टैः सिद्धं सर्पिषः प्रस्थमेभिः क्रूरे कोष्ठे स्नेहनं रेचनं च ।
कुष्ठश्वित्रप्लीहवर्ध्माश्मगुल्मान् हन्यात् कृच्छ्रांस्तन्महावज्रकाख्यम् ॥

4.21.70

यतेर्लेलीतकवसा क्षौद्रजातीरसान्विता ।
कुष्ठघ्नी समसर्पिर्वा सगायत्र्यसनोदका ॥

4.21.71

मूत्रे विनीता त्रिफलारसे वा सिद्धा घृते वाम्भसि केवले वा ।
रसायनं पथ्यभुजो हरिद्रा निहन्ति पाण्ड्वामयकुष्ठमेहान् ॥

4.21.72

पिबेदमृतवल्या वा स्वरसं यन्त्रपीडितम् ।
मेध्यं तत् कुष्ठमेहार्शश्छर्दिवातास्रनाशनम् ॥

4.21.73

स्थिरकठिनमण्डलानां कुष्ठानां पोट्टलैर्हितः स्वेदः ।
स्विन्नोत्सन्नं विलिखेत् कुष्ठं तीक्ष्णेन शस्त्रेण ॥

4.21.74

रुधिरागमार्थमथवाशृङ्गालाबूभिरपहरेद्रक्तम् ।
प्रच्छेदल्पं कुष्ठं निरेचयेद्वा जलौकोभिः ॥

4.21.75

ये लेपाः कुष्ठानां युज्यन्ते निर्हृतास्रदोषाणाम् ।
संशोधिताशयानां सद्यः सिद्धिर्भवति तेषाम् ॥

4.21.76

येषु न शस्त्रं क्रमते स्पर्शेन्द्रियनाशनेषु कुष्ठेषु ।
तेषु निपात्यः क्षारो रक्तं दोषं च विस्राव्य ॥

4.21.77

लेपो ऽतिकठिनपरुषे सुप्ते कुष्ठे स्थिरे पुराणे च ।
पीतागदस्य कार्यो विषैः समन्त्रागदैश्चानु ॥

4.21.78

स्तब्धानि सुप्तसुप्तान्यस्वेदनकण्डुलानि कुष्ठानि ।
कूर्चैर्दन्तीत्रिवृताकरवीरकरञ्जकुटजानाम् ॥

4.21.79

जात्यर्कनिम्बजैर्वा पत्रैः शस्त्रैः समुद्रफेनेन ।
घृष्टानि गोमयैर्वा ततः प्रदेहैः प्रदेह्यानि ॥

4.21.80

आरग्वधः सैडगजः करञ्जो वासा गुडूची मदनं हरिद्रे ।
श्र्याह्वः सुराह्वः खदिरो धवश्च निम्बो विडङ्गः करवीरकश्च ॥

4.21.81

ग्रन्थिश्च भूर्जो लशुनः शिरीषः सलोमशो गुग्गुलुकृष्णगन्धे ।
फणिज्जको वत्सकसप्तपर्णपीलूनि कुष्ठं सुमनःप्रवालाः ॥

4.21.82

वचाहरेणुस्त्रिवृता निकुम्भो भल्लातकं गैरिकमञ्जनं च ।
मनःशिलाले गृहधूम एला कासीसलोध्रार्जुनमुस्तसर्जाः ॥

4.21.83

इत्यर्धरूपैर्विहिताः षडेते गोपित्तपीताः पुनरेव पिष्टाः ।
सिद्धाः परं सर्षपतैलयुक्ताश्चूर्णाः प्रदेहा बहुशाः प्रयोज्याः ॥

4.21.84

कुष्ठानि कृच्छ्राणि नवं किलासं सुरेन्द्रलुप्तं किटिभं सदद्रुम् ।
भगन्दरार्शांस्यपचीं सपामां हन्युः प्रयुक्तानचिरान्नराणाम् ॥

4.21.85

निम्बं हरिद्रे सुरसं पटोलं कुष्ठाश्वगन्धे सुरदारुशिग्रु ।
ससर्षपं तुम्बुरुधान्यवन्यं चण्डां च चूर्णानि समानि कुर्यात् ॥

4.21.86

तैस्तक्रपिष्टैः प्रथमं शरीरं तैलाक्तमुद्वर्तयितुं यतेत ।
तथास्य कण्डूःपिटकाः सकोठाः कुष्ठानि शोफाश्च शमं व्रजन्ति ॥

4.21.87

मुस्तामृतासङ्गकटङ्कटेरीकासीसकम्पिल्लककुष्ठलोध्राः ।
गन्धोपलः सर्जरसं विडङ्गं मनःशिलाले करवीरकत्वक् ॥

4.21.88

तैलक्तगात्रस्य कृतानि चूर्णान्येतानि दद्यादवचूर्णनार्थम् ।
दद्रुःसकण्डूः किटिभानि पामा विचर्चिका चेति तथा न सन्ति ॥

4.21.89

काण्डे महावृक्षभवे निलीनः स्विन्नः कुकूले पुटपाकयुक्त्या ।
विचर्चिकां सर्षपकल्कपिण्डो निहन्ति लज्जामिव रागवेगः ॥

4.21.90

मनःशिलाले मरिचानि तैलमार्कं पयः कुष्ठहरः प्रदेहः ।
तथा करञ्जप्रपुनाटबीजं कुष्ठान्वितं गोसलिलेन पिष्टम् ॥

4.21.91

गुग्गुलुमरिचविडङ्गैः सर्षपकासीससर्जरसमुस्तैः ।
श्रीवेष्टकालगन्धैर्मनःशिलाकुष्ठकम्पिल्लैः ॥

4.21.92

उभयहरिद्रासहितैश्चात्रिकतैलेन मिश्रितैरेभिः ।
दिनकरकराभितप्तैः कुष्ठं घृष्टं च नष्टं च ॥

4.21.93

मरिचं तमालपत्रं कुष्ठं समनःशिलं सकासीसम् ।
तैलेन युक्तमुषितं सप्ताहं भाजने ताम्रे ॥

4.21.94

तेनालिप्तं सिध्म सप्ताहात् घर्मसेविनो ऽपैति ।
मासान्नवं किलासं स्नानेन विना विशुद्धस्य ॥

4.21.95

मयूरकं जर्जरितं समूलं दग्ध्वा परिस्राव्य च सप्तकृत्वः ।
तेनाम्भसा कङ्गुणिकोत्थतैलं सिद्धं परं सिध्मनिबर्हणाय ॥

4.21.96

जीवन्ती मञ्जिष्ठा दार्वी काम्पिल्लकं पयस्तुत्थम् ।
एष घृततैलपाकः सिद्धः सिद्धे च सर्जरसः ॥

4.21.97

देयः समधूच्छिष्टो विपादिका तेन नश्यति ह्यक्ता ।
चर्मैर्कुष्ठकिटिभं कुष्ठं शाम्यत्यलसकं च ॥

4.21.98

सप्तपर्णकरञ्जार्कमालतीकरवीरजम् ।
मूलं स्नुहीशिरीषाभ्यां चित्रकास्फोतयोरपि ॥

4.21.99

करञ्जबीजद्विनिशाव्योषैडगजसर्षपाः ।
वरा वेल्लं च तैस्तैलं सगोमूत्रैर्विपाचितम् ॥

4.21.100

कुष्ठदुष्टव्रणग्रन्थिगण्डमालाभगन्दरान् ।
विशेषाद्वातकफजान् हन्त्यभ्यङ्गेन वज्रकम् ॥

4.21.101

एरण्डतार्क्ष्यघननीपकदम्बभार्ङ्गीकम्पिल्लवेल्लफलिनीसुरवारुणीभिः ।
निर्गुण्ड्यरुष्करसुराह्वसुवर्णदुग्धाश्रीवेष्टगुग्गुलुशिलाहरितालविश्वैः ॥

4.21.102

तुल्यस्नुगर्कदुग्धं सिद्धं तैलं स्मृतं महावज्रम् ।
अतिशयितवज्रकगुणं श्वित्रार्शोग्रन्थिमालाघ्नम् ॥

4.21.103

कनकक्षीरी शैला भार्ङ्गी दन्त्याः फलानि मूलं च ।
जातीप्रवालसर्षपलशुनविडङ्गं करञ्जत्वक् ॥

4.21.104

सप्तच्छदार्कपल्लवमूलत्वङ्निम्बचित्रकास्फोतम् ।
गुञ्जैरण्डकबृहतीमूलत्वक्सुरसार्जकफलानि ॥

4.21.105

कुष्ठं पाठा मुस्ता षड्ग्रन्थातुम्बुरुत्वचो मूर्वा ।
एडगजकुटजशिग्रुत्र्यूषणभल्लातकक्षवकाः ॥

4.21.106

हरितालमवाक्पुष्पी तुत्थं कम्पिल्लको ऽमृतासङ्गः ।
सौराष्ट्री कासीसं दार्वीत्वक् स्वर्जिकालवणम् ॥

4.21.107

एतैस्तैलं तैलं कटुतैलं वा चतुर्गुणे मूत्रे ।
करवीरमूलपल्लवतोये च विपाचितं जयति ॥

4.21.108

कटुकालाबुन्यस्तं जित्याभ्यङ्गेन वातकफकुष्ठम् ।
मण्डलदद्रूकोष्ठकृमिपामाविचर्चिकाः सुतराम् ॥

4.21.109

सिक्थकतुत्थकगुग्गुलुसिन्दूररसाञ्जनैः कटुकतैलम् ।
पामाकिटिभविचर्चिषु साधितमभ्यञ्जने श्रेष्ठम् ॥

4.21.110

शैलेयकम्पिल्लकपट्टिकाह्वसुराष्ट्रजासर्जरसोपलानि ।
शिला च चूर्णो नवनीतयुक्तं कुष्ठे स्रवत्यभ्यधिकं प्रशस्तः ॥

4.21.111

एडगजकुष्ठसैन्धवसिद्धार्थविडङ्गकाञ्जिकैर्लिप्तम् ।
कृमिपामासिध्मदद्रूमण्डलकुष्ठं शमं याति ॥

4.21.112

लाक्षाव्योषं प्रापुनाटं च बीजं सश्रीवेष्टाः कुष्ठसिद्धार्थकाश्च ।
तक्रोन्मिश्रः स्याद्धरिद्रा च लेपो दद्रूषूक्तो मूलकोत्थं च बीजम् ॥

4.21.113

दूर्वाभयासैन्धवचक्रमर्द कुष्ठेरकाः काञ्जिकतक्रपिष्टाः ।
त्रिभिः प्रलेपैरपि बद्धमूलां दद्रूं च कण्डूं च विनाशयन्ति ॥

4.21.114

मनःशिलात्वक्कुटजं सकुष्ठं सलोमशः सैडगजः करञ्जः ।
ग्रन्थिश्च भौर्जः करवीरमूलं चूर्णानि साध्यानि तुषोदकेन ॥

4.21.115

पलाशनिर्दाहरसेन वापि कर्षोन्मितान्याढक सम्मितेन ।
दर्वीप्रलेपं प्रवदन्ति लेपमेतत् परं कुष्ठनिषूदनाय ॥

4.21.116

एलाचित्रकनिम्बवृषकं कुरुविन्दनागरार्कं च ।
चूर्णीकृतमष्टाहं भावयितव्यं पलाशस्य ॥

4.21.117

क्षारेण गवां मूत्रस्रुतेन तेनास्य मण्डलान्याशु ।
भिद्यन्ते दीर्यन्ति च लिप्तान्यर्काभितप्तानि ॥

4.21.118

मांसी मरिचं लवणं रजनी तगरं सुधा गृहाद्धूमः ।
मूत्रं पित्तं क्षारः पालाशः कुष्ठनुल्लेपः ॥

4.21.119

मुस्तं त्रिफला मदनं करञ्ज आरग्वधः कलिङ्गयवाः ।
ससप्ताह्वकुष्ठफलिनीदार्व्यःसिद्धार्थकं स्नानम् ॥

4.21.120

एष कषायो वमनं विरेचनं वर्णदस्तथोद्घर्षः ।
त्वग्दोषकुष्ठशोफप्रबाधनः पाण्डुरोगघ्नः ॥

4.21.121

करवीरनिम्बकुटजाच्छम्याकाच्चित्रकाच्च मूलानाम् ।
मूत्रे दर्वीलेपः क्वाथो लेपेन कुष्ठघ्नः ॥

4.21.122

श्वेतकरवीरमूलं कुटजकरञ्जात् फलं त्वचो दार्व्याः ।
सुमनःप्रवालयुक्तो लेपः कुष्ठापहः सिद्धः ॥

4.21.123

शैरीषी त्वक् पुष्पं कार्पास्या राजवृक्षपत्राणि ।
पिष्टा च काकमाची चतुर्विधः कुष्ठहा लेपः ॥

4.21.124

दार्वीरसाञ्जनस्य च निम्बपटोलस्य खदिरसारस्य ।
आरग्वधवृक्षकयोस्त्रिफलायाः सप्तपर्णस्य ॥

4.21.125

इति षट् कषाययोगाः कुष्ठघ्नाः सप्तमश्च तिनिशस्य ।
स्नाने पाने च हितास्तथाष्टमश्चाश्वमारस्य ॥

4.21.126

आलेपनं प्रघर्षणमवचूर्णनमेत एव च कषायाः ।
तैलघृतपाकयोगैश्चेष्यन्ते कुष्ठशान्त्यर्थम् ॥

4.21.127

सर्षपकरञ्जकोशातकानि तैलान्यथेङ्गुदीनां च ।
कुष्ठेषु हितान्याहुस्तैलं श्रेष्ठं च खदिरसारस्य ॥

4.21.128

शीताः प्रदेहसेकास्तिक्तं सर्पिः सिराविरेकश्च ।
विशरणदाहक्लेदे विस्फोटे चर्मदलने च ॥

4.21.129

शीर्णनखरोममांसः कृमिमानन्नाम्भसी त्यजेत् कुष्ठी ।
सध्योदुग्धं दुग्धं षण्मासान् कारभं भजेत्समधु ॥

4.21.130

एडगजः सविडङ्गो मूलान्यारग्वधस्य कुष्ठानाम् ।
उद्दालनं च दन्ता गोश्ववराहोष्ट्रदन्ताश्च ॥

4.21.131

रजनीद्वयं कृमिघ्नं प्रपुनाटं राजवृक्षमूलं च ।
कुष्ठोत्पाटनमग्र्यं सपिप्पलीपाकलं योज्यम् ॥

4.21.132

श्वित्राणां सविशेषं योक्तव्यं सर्वतो विशुद्धानाम् ।
उत्सन्नेषु च लेपाः सवर्णकरणास्तथाभ्यङ्गाः ॥

4.21.133

पक्षात् पक्षात् छर्दनान्यभ्युपेयान्मासान्मासाच्छोधनं चाप्यधस्तात् ।
शुद्धिर्मूर्ध्नःस्यात्त्रिरात्रात्त्रिरात्रात् षष्ठे षष्ठे मास्यसृङ्मोक्षणं च ॥

4.21.134

यो दुर्वान्तो दुर्विरिक्तो ऽथवा स्यात् कुष्ठी दोषैरुद्धतैर्व्याप्यते ऽसौ ।
निस्सन्देहं यात्यसाध्यत्वमेवं तस्मात् कृत्स्नान्निर्हरेदस्य दोषान् ॥

4.21.135

व्रतदमयमसेवात्यागशीलाभियोगो द्विजगुरुसुरपूजा सर्वसत्त्वेषु मैत्री ।
जिनजिनसुतताराभास्कराराधनानि प्रकटितमलपापं कुष्ठमुन्मूलयन्ति ॥

मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc