अष्टाङ्गसंग्रह · अध्याय 4.20
अथातो विसर्पचिकित्सितं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥
पूर्वरूपेष्वेव सर्वविसर्पाणां लङ्घनं रूक्षणं सिरामोक्षणमुल्लेखनं विरेचनं च कुर्यात् ।
न तु कदाचिदपि स्नेहनम् ॥
निरामेषु क्षीणकफेषु च शीतवीर्याणि सर्पींषि तिक्तकत्रायमाणाघृतादीनि पाने दद्यात् ।
तत्र मदनेन्द्रयवपटोलपिचुमन्दमधुकेक्षुरसान् वमने ऽवचारयेत् ।
द्राक्षात्रिवृत्त्रिफलात्रायमाणा विरेचने ॥
मुस्तदेवदारुकुष्ठशताह्वावाराहीधान्याककृष्णगन्धावंशार्तगलान् लेपसेकेष्वनिलजे ह्रस्ववढ्रवल्लीकण्टकपञ्चमूलानि च ॥
पित्ते तु कमलोत्पलशैवालपङ्कदूर्वामृणालशृङ्गाटककशेरुकशर्कराद्रीबेरकुचन्दनमुक्तामणिगैरिकपयस्याप्रपौण्डरीकमधुकपद्मकघृतक्षीराणि न्यग्रोधादिं च ॥
श्लेष्मण्यजगन्धाश्वगन्धासरलकालकैषिकागरुवोचरास्नावचाशीतशिवेन्द्रवल्लीगोमूत्राणि वरणादिं च संसर्गे यथादोषबलं विकल्पयेत् ॥
तत्र कफस्थानाश्रिते सामे पित्तस्थानगते च रूक्षा विशीताः प्रलेपपरिषेकाः ॥
पित्ते तनवः सुशीताः सघृता वस्त्रान्तरिताः क्षणे क्षणे चापनीयान्ये प्रयोज्याः ॥
द्वन्द्वजेषु यथायथं दोषांश्चिकित्सेत् ।
विशेषेणाग्निविसर्पे महातिक्तकं पिबेत् ।
ग्रन्थिविसर्पे रक्तपित्तसंसर्गमवेक्ष्य प्राग्लङ्घनादीनि विरेचनान्तानि शमनानि च योजयेत् ।
ततो वातश्लेष्महरं कर्म ॥
शूले च तदा स्निग्धाम्लोष्णाभिरुत्कारिकाभिर्ग्रन्थीनामुपनाहनम् ।
वातकफविसर्पोक्तैश्च लेपस्तैरेव वा सिद्धेन तैलेन तोयेन वा परिषेकः ।
लिम्पेद्वा शुष्कमूलकस्य कल्केन नक्तमालत्वचो वा ।
बिभीतकेन वा विजयाक्षनागबलाग्निमन्थभूर्जग्रन्थिवंशपत्राणां वा ॥
दन्तीचित्रकमूलत्वक्कासीसार्कस्नुहीक्षीरभल्लातकास्थिभिरुष्णैर्लेपः शिलामपि भिनत्ति ।
दीर्घकालप्रसक्ते तु ग्रन्थौ त्रिफलां प्रयुञ्जीत ।
मधुपिप्पलीर्वा ।
मुस्तासक्तुभल्लातकानि वा ।
सीघुमधुशर्करान् वा ।
मातुलुङ्गरसानुविद्धां मदिरां वा ।
गिरिजतुं वा गुल्मभेदनं वा ।
तप्तलोहोपलादिपीडनं वा ।
जत्रूर्ध्वगते तीक्ष्णधूमवमनानि च ॥
तथाप्यभेदे क्षारेणाग्निना वा दहेत् ।
पाटयित्वा वा शस्त्रेण परिशोधयेत् ।
विदग्धं वा रक्तमपनीयापनीय पुनःपुनः स्वेदयेत् ।
एवं पर्यायेण रक्तपित्ते वातश्लेष्मणि चोत्तिष्ठेत ॥
सर्वस्मिन् विसर्पे पर्यागते विदारिते च व्रणवत् ।
तैलं च दार्वीविडङ्गकम्पिल्लकैः ग्रन्थिव्रणसाधनं साधयेत् ॥
कर्दमके शीघ्रतरं सुतरां च वमनादीनि कृत्वा पुनर्जलौकोभिरसृगवसेचयेत् ।
असृक्प्रक्लेदाद्धि त्वङ्मांससिरास्नावसङ्क्लेदो भवति ।
पिबेच्च कषायं घनपटोलपिचुमन्दानाम् ।
मुस्तोशीरामलकसारिवाणाम् ।
चन्दनोत्पलयोः ।
पटोलादिवर्गस्य वा ।
घृतमिश्रं वा दार्वीत्वक्तिक्तापटोलयष्ट्याह्वारिष्टमसूरत्रिफलात्रायमाणानाम् ॥
विरेकार्थं च त्रिवृच्चूर्णं सर्पिषा पयसा द्राक्षारसेन घर्माम्भसा वा पाययेत् ।
त्रायमाणाशृतं पित्तोद्वृत्तो क्षीरमिति ।
भवति चात्र ॥
श्रेष्ठास्रस्रुतिरेवात्र विसर्पो ह्यसृगाश्रयः ।
यच्च नासावसंसृष्टो रक्तपित्तेन जायते ॥
न घृतं बहुदोषाय देयं यन्न विरेचनम् ।
तेन दोषो ह्युपस्तब्धस्त्वग्रक्तपिशितं पचेत् ॥
मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0