अष्टाङ्गसंग्रह · अध्याय 4.19
अथातः श्वयथुचिकित्सितं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥
श्वयथुषु दोषजेषु सर्वेषु सर्वसरेष्वामानुबद्धेषु लङ्घन पाचनशोधनान्यादौ योजयेत् ।
स्नेहजेषु विरूक्षणान्यौषधानि विरूक्षणोत्थेषु स्नेहनानि ।
तत्रामजेषु लङ्घितवतो लघ्वन्नमशितस्य भद्रदारुनागरमरिचप्रतिविषाविडङ्गेन्द्रयवानुष्णाम्बुना ।
नागरदेवदारुपथ्यावर्षाभ्वो वा ।
पञ्चकोलकाजाजीनिदिग्धिकामुस्तपाठारजनीर्वा ।
मूत्रवर्तिं वा नवायसं वा ।
गुरुभिन्नपुरीषस्तु तक्रं सव्योषसौवर्चलक्षौद्रम् ।
गुडहरीतकीं वा शीलयेत् ॥
इतरस्त्रिवृत्त्र्यूषणकटुरोहिण्ययश्चूर्णानि त्रिफलाक्वाथेन ।
व्योषयवक्षारायोरजांसि वा ।
बिभीतककल्कं वा तण्डुलाम्बुना ।
गुग्गुलुं वा गोमूत्रेण ।
हरीतकीं वा ।
तुल्यगुडां वा शुण्ठीं पुनर्नवकषायानुपानाम् ।
आर्द्रकं वा तुल्यगुडमर्धपलाभिवृद्धं पञ्चपलप्रकर्षं प्रयुञ्जीत ।
मासमयं प्रयोगः शोफशोषार्शः श्वासकासप्रसेकपीनसालसकाग्निसादगुल्मोदरप्रमेहपाण्डुकामलामनोविकारानपहरति ।
आर्द्रकरसं वा शालिक्षीराहारः पिबेत् ॥
निवृत्तामदोषः शृतानि पयांसि सर्पींषि च ।
त्रिकटुकैरण्डश्यामामूलैः सिद्धं क्षीरम् ।
महौषधमुरुङ्गीमूलाभ्यां वा ।
वर्षाभूमयूरकपञ्चकोलैर्वा ।
कुम्भनिकुम्भव्योषाग्निकैर्वा करभीक्षीरवृत्तिर्वा स्यात् गोमूत्रं महषीमूत्रं वा सक्षीरं क्षीराशनः पिबेत् ॥
दाडिमयवानीयवानकधनिकापाठाम्लवेतसमरिचपञ्चकोलबिल्वफलयावशूकानक्षमात्रान् सलिलाढके विपाच्य तत्कषायेण घृतप्रस्थं साधयेच्छोफार्शोगुल्ममेहाग्निसादहरम् ।
अर्शोविहितविधिना चित्रकदध्नो नवनीतमाददीत ।
तच्चित्रकमूलगर्भं सचित्रककल्कतक्रसिद्धं समानं पूर्वेण ॥
यथादोषोच्छ्रयं च धान्वन्तरं कल्याणकं पञ्चगव्यं तिक्तं महातिक्तमुदरोक्तानि वा तिल्वकचतुर्थानि घृतानि पाययेत् ॥
दशमूलक्वाथकंसे पथ्याशतं गुडतुलोन्मिश्रमाधिश्रयेत् ।
लेहीभूते तत्र त्रिकटुकत्रिजातकयवक्षारचूर्णं प्रक्षिपेत् क्षौद्रार्धप्रस्थं च ।
एता दशमूलहरीतक्यो ऽतिप्रवृद्धमपि श्वयथुमुदरारोचकाविपाकपाण्डुरोगगुल्ममेहश्वासकासकार्श्यामवाताम्लपित्तमूत्रशुक्रदोषांश्च निघ्नन्ति ॥
शठीपुष्करमूलकारवीचित्रकाजाजीजीवन्तीबिल्वमध्ययवक्षारवृक्षाम्लैर्दशमूलेन च परिगृहीतानि घृततैलभृष्टानि पेयादीन्यन्नान्यल्पस्नेहलवणान्युपकल्पयेत् ।
स्पर्शसुखांश्चाभ्यङ्गप्रदेहसेकान् ॥
शैलेयस्थौणेयकश्रीवेष्टकागरुदेवदारुहरेणुकाकुष्ठध्यामकपद्मकमांसीमागधिकावन्यधान्यतालीसपत्रकचतुर्जातकपलाशाम्बुदाम्बुप्रियङ्गुस्पृक्कानखैः श्लक्ष्णपिष्टैस्तैलमभ्यङ्गं पचेत् ।
तैश्च प्रदेहं कुर्यात् ।
सर्षपसौवर्चलसैन्धवशार्ङ्गेष्टाभिश्च ।
केवलैर्वाक्षमज्जाभिः ॥
विशेषतश्चैकाङ्गजेषु पुनर्नवहिंस्राकोशातकीकरवीरकिंशुकातिविषर्धिवृद्धिमूषिकपर्णीहस्तिकर्णनलिकानाकुलीस्थूलकाकादनीसालत्रिफलादेवदारुलोध्रतालपर्णीदशपत्रिकाजयन्तीभिः प्रलेपः ॥
मूलकतोयेन कवोष्णेन वृक्षकार्कनक्तमालनिम्बवर्षाभूक्वाथेन वा स्नानम् ॥
अथानिलजे श्वयथौ त्रिवृतमेरण्डतैलं वार्धमासं मासं वा पिबेत् ।
एरण्डतैलमेव च विड्वातसङ्गे प्राग्भक्तं पयसा रसैर्वा ।
वातहराभ्यङ्गस्वेदोपनाहांश्च कुर्यात् ।
विशेषेण चैकाङ्गगे मातुलुङ्गाग्निमन्थशुण्ठी देवदारुहिंस्राप्रलेपः ॥
पित्तजे न्यग्रोधादिसिद्धं सर्पिः पिबेत् ।
तिक्तकं वा ।
मूर्छारतितृड्दाहेषु क्षीरम् ।
तदेव तु स्रंसनार्थी मूत्रयुक्तम् ।
अभयामरदारुमधुककटुकादन्तीचन्दननिचुलपटोलमूर्वादार्वीत्रायमाणोपकुल्याविशालाक्वाथः ससर्पिरुपयुक्तः श्वयथुविषवीसर्पज्वरदाहपिपासान्तःसन्तापसन्निपातानुपशमयति ।
घृतक्षीरक्षीरिवृक्षवेतसमञ्जिष्ठामृणालचन्दनादिभिः शीतवीर्यैः कल्पयेदभ्यङ्गादीन् ॥
कफोत्थे त्वारग्वधादिसाधितं तैलं पिबेत् ।
क्षारमूत्रतक्रासवारिष्टांश्च ।
भल्लातकचित्रकव्योषविडङ्गबृहतीफलानि पृथक् प्रस्थांशान्यच्छधान्याम्लद्रोणे गोमयाग्निना त्रिभागशेषमवतारयेत् ।
तत्पूतशीतं मस्तुकलशेन सितोपलातुलया च युक्तमग्निकमागधिकाकल्कलिप्ते दृढे भाण्डे समावाप्य वैहायसे सुगुप्तं स्थापयेत् ।
ततो दशाहस्थितो ऽयमुपयुक्तो भल्लातकारिष्टः शोफोदरार्शोभगन्दरग्रहणीकृमिकुष्ठमेहकार्श्यकिक्कसान् सत्वरमपनयति ॥
त्रिफलामरिचद्राक्षापिप्पलीकाश्मर्यफलानां प्रत्येकं शतं गुडतुलामुदकद्रोणं च मधुलिप्तभाजनस्थं सप्ताहमुष्णे काले द्विसप्ताहं शीते धारयेत् ।
अयमष्टशतरिष्टः समानः पूर्वेण ।
पुराणपिण्याककृष्णाशिग्रुत्वगतसीसिकता मूत्रपिष्टाः सुखोष्णाः प्रलेपे दद्यात् ।
एक्राङ्गगे तु कालासरलाजशृङ्ग्यजगन्धाश्वगन्धैकैषिकाः ।
शुण्ठीकुलत्थतर्कारीकुष्ठार्जकचित्रकजलमूत्राणि स्नाने ।
चण्डागरुणी विलेपने ॥
संसर्गसन्निपातयोर्यथादोषोदयमिदमेव साधनम् ।
एकदेशाश्रये च श्वयथौ यथासन्नं वमनादीनि रक्तावसेचनं च कुर्वीतेति ।
भवति चात्र ॥
प्रायो ऽभिघातादनिलः सरक्तः शोफं सरागं प्रकरोति तत्र ।
विसर्पनुन्मारुतरक्तनुच्च कार्यं विषघ्नं विषजे च कर्म ॥
ग्राम्याब्जानूपं पिशितमबलं शुष्कशाकं तिलान्नं ।
गौडं पिष्टान्नं दधिसलवणं पिच्छिलं मद्यमम्लम् ।
धाना वल्लूरं समशनमथो गुर्वसात्म्यं विदाहि ।
स्वप्नं चारात्रौ श्वयथुगदवान् वर्जयेन्मैथुनं च ॥
मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0