भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गसंग्रह · अध्याय 4.1

4.1.1

अथातो ज्वरचिकित्सितं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥

4.1.2

आमाशयस्थो हत्वाग्निं सामो मार्गान् पिधाय यत् ।
विदधाति ज्वरं दोषस्तस्मात् कुर्वीत लङ्घनम् ॥

4.1.3

प्राग्रूपेषु ज्वरादौ वा बलं यत्नेन पालयन् ।
बलाधिष्ठानमारोग्यमारोग्यार्थः क्रियाक्रमः ॥

4.1.4

लङ्घनैः क्षपिते दोषे दीप्ते ऽग्नौ लाघवे सति ।
स्वास्थ्यं क्षुत्तृङ् रुचिः पक्तिर्बलेमाजश्च जायते ॥

4.1.5

तत्रोत्कृष्टे समुत्क्लिष्टे कफप्राये चले मले ।
सहृल्लासप्रसेकान्नद्वेषकासविषूचिके ॥

4.1.6

सद्योभुक्तस्य सञ्जाते ज्वरे सामे विशेषतः ।
वमनं वमनार्हस्य शस्तं कुर्यात्तदन्यथा ॥

4.1.7

श्वासातीसारसन्मोहहृद्रोगविषमज्वरान् ॥

4.1.8

पिप्पलीभिर्युतां गालां कलिङ्गैर्मधुकेन वा ।
पीत्वोष्णतोयेन वमेन्मध्बम्बु लवणाम्बु वा ॥

4.1.9

पटोलनिम्बकर्कोटवेत्रपत्रजलानि वा ।
पेयां मण्डं रसं चेक्षोर्मद्यं कल्पोदितानि वा ॥

4.1.10

वमनानि प्रयुञ्जीत बलकालविभागवित् ।
कृते ऽकृते वा वमने ज्वरी कुर्याद्विशोषणम् ॥

4.1.11

दोषाणां समुदीर्णानां पाचनाय शमाय च ।
आमेन भस्मनेवाग्नौ छन्ने ऽन्नं न विपच्यते ॥

4.1.12

तस्मादादोषपचनाज्ज्वरितानुपवासयेत् ।
तृष्णगल्पाल्पमुष्णाम्बु पिबेद्वातकफज्वरे ॥

4.1.13

तत् कफं विलयं नीत्वा तृष्णामाशु निवर्तयेत् ।
उदीर्य चाग्निं स्रोतांसि मृदूकृत्य विशोधयेत् ॥

4.1.14

लीनपित्तानिलस्वेदशकृन्मूत्रानुलोमनम् ।
निद्राजाङ्यारुचिहरं प्राणानामवलम्बनम् ॥

4.1.15

विपरीतमतः शीतं दोषसङ्घातवर्धनम् ॥

4.1.16

उष्णमेवंगुणत्वे ऽपि युञ्ज्यान्नैकान्तपित्तले ।
उद्रिक्तपित्ते दवथुदाहमोहातिसारिणि ॥

4.1.17

विषमद्योत्थिते ग्रीष्मे क्षतक्षीणे ऽस्रपित्तिनि ।
घनचन्दनशुण्ठ्यम्बुपर्पटोशीरसाधितम् ॥

4.1.18

शीतं तेभ्यो हितं तोयं पाचनं तृड्ज्वरापहम् ।
ऊष्मा पित्तादृते नास्ति ज्वरो नास्त्यूष्मणा विना ॥

4.1.19

तस्मात् पित्तविरुद्धानि त्यजेत् पित्ताधिके ऽधिकम् ।
स्नानाभ्यङ्गप्रदेहांश्च परिशेषं च लङ्घनम् ॥

4.1.20

अजीर्ण इव शूलघ्नं सामे तीव्ररुजि ज्वरे ।
न पिबेदौषधं तद्धि भूय एवाममावहेत् ॥

4.1.21

आमाभिभूतकोष्ठस्य क्सीरं विषमहेरिव ।
सोदर्दपीनसश्वासे जङ्घापर्वास्थिशूलिनि ।
वातश्लेष्मात्मके स्वेदः प्रशस्तः स प्रवर्तयेत् ॥

4.1.22

स्वेदमूत्रशकृद्वातान् कुर्यादग्नेश्च पाटवम् ।
स्नेहोक्तमाचारविधिं सर्वतश्चानुपालयेत् ॥

4.1.23

लङ्घनं स्वेदनं कालो यवाग्वस्तिक्तको रसः ।
मलानां पाचनानि स्युर्यथावस्थं क्रमेण वा ॥

4.1.24

शुद्धवातक्षयागन्तुजीर्णज्वरिषु लङ्घनम् ।
नेष्यते तेषु हि हितं शमनं यन्न कर्शनम् ॥

4.1.25

तत्रसामज्वराकृत्या जानीयादविशोषितम् ।
द्विधिधोपक्रमज्ञानमवेक्षेत च लङ्घने ॥

4.1.26

युक्तं लङ्घितलिग्गैस्तु तं पेयाभिरुपाचरेत् ।
यथास्वौषधसिद्धाभिर्मण्डपूर्वाभिरादितः ॥

4.1.27

षडहं वा मृदुत्वं वा ज्वरो यावदवाप्नुयात् ।
तस्याग्निर्दीप्यते ताभिः समिद्भिरिव पावकः ॥

4.1.28

ताश्च भेषजसंयोगाल्लघुत्वाच्चाग्निदीपनाः ।
वातमूत्रपुरीषाणां दोषाणां चानुलोमकाः ॥

4.1.29

स्वेदनाय द्रवोष्णत्वान्मृदुत्वात्तृट्प्रशान्तये ।
आहारभावात् प्राणाय सरत्वाल्लाघवाय च ॥

4.1.30

ज्वरघ्ना ज्वरसात्म्यत्वात् तस्मात् पेयाभिरादितः ।
उपक्रमेज्ज्वरान् सर्वानृते मद्यसमुत्थितात् ॥

4.1.31

प्राग्लाजपेयां सुजरां सशुण्ठीधान्यपिप्पलीम् ।
ससैन्धवां तथाम्लार्थी तां पिबेत् सहदाडिमाम् ॥

4.1.32

सृष्टविड्बहुपित्तो वा सशुण्ठीमाक्षिकां हिमाम् ।
बस्तिपार्श्वशिरःशूली व्याघ्रीगोक्षुरसाधिताम् ॥

4.1.33

पृश्नि पर्णीबलाबिल्वनागरोत्पलधान्यकैः ।
सिद्धां ज्वरातिसार्यम्लां पेयां दीपनपाचनीम् ॥

4.1.34

ह्रस्वेनपञ्चमूलेन हिक्कारुक्श्वासकासवान् ।
पञ्चमूलेन महता कफार्तो यवसाधिताम् ॥

4.1.35

विबद्धवर्चाः सयवां पिप्पल्यामलकैः कृताम् ।
यवागूं सर्पिषा भृष्टां मलदोषानुलोमनीम् ॥

4.1.36

चविकापिप्पलीमूलद्राक्षामलकनागरैः ।
कोष्ठे विबद्धे सरुजि पिबेत्तु परिकर्तिनि ॥

4.1.37

कोलवृक्षाम्लकलशीधावनीश्रीफलैः कृताम् ।
अस्वेदनिद्रस्तृष्णार्तः सितामलकनागरैः ॥

4.1.38

सिताबदरमृद्वीकासारिवामुस्तचन्दनैः ।
तृष्णाच्छर्दिपरीदाहज्वरघ्नीं क्षौद्रसंयुताम् ॥

4.1.39

कुर्यात् पेयौषधैरेव रसयूषादिकानपि ।
मद्योद्भवे मद्यनित्ये पित्तस्थानगते कफे ॥

4.1.40

ग्रीष्मे तयोर्वाधिकयोस्तृट्छर्दिदाहपीडिते ।
ऊर्ध्वं प्रवृत्ते रक्ते च पेयां नेच्छन्ति तेषु तु ॥

4.1.41

द्राक्षादाडिमकाश्मर्यपथ्या पीलुपरूषकैः ।
समधूकैः सबदरैः सक्षौद्रान् ससितोपलान् ॥

4.1.42

ज्वरघ्नैस्तोयमृदितैरद्भिर्वा लाजतर्पणान् ।
पिबेत् सुसूक्ष्मरजसस्ततो जीर्णे तु तर्पणे ॥

4.1.43

यवाग्वां वौदनं क्षुद्वानश्नीयाद्भृष्टतण्डुलम् ।
दकलावणिकैर्यूषैः रसैर्वा मुद्गलावजैः ॥

4.1.44

इत्ययं षडहो नेयो बलं दोषं च रक्षता ।
ततः पक्वेषु दोषेषु लङ्घनाद्यैः प्रशस्यते ॥

4.1.45

कषायो दोषशेषस्य पाचनः शमनो ऽथवा ।
तिक्तः पित्ते विशेषेण प्रयोज्यः कटुकः कफे ॥

4.1.46

पित्तश्लेष्महरत्वे ऽपि कषायः स न शस्यते ।
नवज्वरे मलस्तम्भात् कषायो विषमज्वरान् ॥

4.1.47

कुरुते ऽरुचिहृल्लासहिध्माध्मानादिकानपि ।
न च्यवन्ते न पच्यन्ते कषायस्तम्भिता मलाः ॥

4.1.48

तिर्यग्गता विमार्गा वा वर्धयन्त्यपि च ज्वरम् ।
बद्धामकफवातत्वाच्छूलानाहादिकानपि ॥

4.1.49

सप्ताहादौषधं केंचिदाहुरन्ये दशाहतः ।
केचिल्लघ्वन्नभुक्तस्य योज्यमामोल्बणे न तु ॥

4.1.50

तीव्रज्वरपरीतस्य दोषवेगोदये यतः ।
दोषे ऽथवातिनिचिते तन्द्रास्तैमित्यकारिणि ॥

4.1.51

अपच्यमानं भैषज्यं भूयो ज्वलयति ज्वरम् ।
यदा ज्वरो मृदुर्देहो लघुः प्रचलिता मलाः ॥

4.1.52

अचिरज्वरितस्यापि योजयेद्भेषजं तदा ।
मुस्तया पर्पटं युक्तं शुण्ठ्या दुस्पर्शयापि वा ॥

4.1.53

पाक्यं शीतकषायं वा पाठोशीरं सवालकम् ।
पिबेत्तद्वच्च भूनिम्बगुडूचीमुस्तनागरम् ॥

4.1.54

यथायोगमिमे योज्याः कषाया दोषपाचनाः ।
ज्वरारोचकतृष्णास्यवैरस्यापक्तिनाशनाः ॥

4.1.55

पाठेन्द्रयवभूनिम्बमुस्तपर्पटकामृताः ।
जयन्त्याममतीसारं ज्वरं च समहौषधाः ॥

4.1.56

दुरालभामृतामुस्तानागरं वातजे ज्वरे ।
अथवा पिप्पलीमूलगुडूचीविश्वभेषजम् ॥

4.1.57

कनीयः पञ्चमूलं च पित्ते क्षौद्रसमन्विताः ।
कलिङ्गमुस्तकटुका मुस्तापर्पटकं तथा ॥

4.1.58

सधन्वयासभूनिम्बं वत्सकाद्यो गणः कफे ।
अथवा वृषगाङ्गेयी शृङ्गेवरदुरालभाः ॥

4.1.59

रुग्विबन्धानिलश्लेष्मयुक्ते दीपनपाचनम् ।
अभयापिप्पलीमूलशम्याककटुकाघनम् ॥

4.1.60

कलिङ्गकाः पटोलस्य पत्रं कटुकरोहिणी ।
पटोलं सारिवा मुस्ता पाठा कटुकरोहिणी ॥

4.1.61

पटोलनिम्बत्रिफलामृद्वीकामुस्तवत्सकाः ।
किराततिक्तममृता चन्दनां विश्वभेषजम् ॥

4.1.62

धात्री मुस्तामृताक्षौद्रमर्धश्लोकसमापनाः ।
पञ्चैते सन्ततादीनां पञ्चानां शमना मताः ॥

4.1.63

पटोलेन्द्रयवारिष्टभद्रमुस्तामृताद्वयम् ।
सारिवाद्वितयं पाठा त्रायन्ती कटुरोहिणी ॥

4.1.64

पटोलारिष्टमृद्वीकाशम्याकत्रिफलावृषम् ।
चन्दनोशीरधान्याब्दगुडूचीविश्वभेषजम् ॥

4.1.65

देवदारुस्थिराशुण्ठीवासाधात्रीहरीतकीः ।
पञ्च पञ्च ज्वरान् घ्नन्ति योगा मधुसितोत्कटाः ॥

4.1.66

सगुडाः सारिवाद्राक्षाशताह्वाकणरेणुकाः ।
काश्मर्यसारिवाद्राक्षात्रायमाणामृतागुडाः ॥

4.1.67

शतपुष्पावचाकुष्ठदेवदारुहरेणुकाः ।
शर्करामधुसंयुक्ताः समांसीमुस्तधान्यकाः ॥

4.1.68

कृष्णापुनर्नवाद्राक्षाशताह्वागुडसारिवाः ।
शालिपर्णीबलाद्राक्षासारिवाच्छिन्नसम्भवाः ॥

4.1.69

आरग्वधो बला रास्ना काश्मर्यं मधुकं गुडः ।
शतावरीच्छिन्नरुहास्वरसो वा गुडान्वितः ॥

4.1.70

सकृष्णाजीरकसितानागरश्चामृतारसः ।
वातज्वरं जयन्यूशु केवलो वामृतारसः ॥

4.1.71

भार्ङ्गीसरलगाङ्गेयीदारुकुष्ठैलवालुकम् ।
कोष्णं घृतगुडोपेतं पिबेद्वा वातजे ज्वरे ॥

4.1.72

पटोलादिगुडूच्यादी सूत्रोक्तौ पित्तजे ज्वरे ।
अञ्जनादिः सकाश्मर्यः सारिवादिः सशर्करः ॥

4.1.73

सितामधुककाश्मर्यशीतोशारिपरूषकम् ।
गुडूचीसारिवालोद्ध्रकमलोत्पलशर्कराः ॥

4.1.74

द्राक्षाभयातिक्तघनशम्याकफलपर्पटम् ।
श्यामापर्पटदुःस्पर्शातिक्तातिक्तसितावृषाः ॥

4.1.75

शर्करातिक्तकटुकात्रायमाणाबिभीतकम् ।
गुडूच्यामलकैर्युक्तः केवलो वापि पर्पटः ॥

4.1.76

कषायो वा हिमस्तिक्ताद्राक्षामधुकनिम्बजः ।
पित्तज्वरघ्नी कटुका श्लक्ष्णापिष्टा सशर्करा ॥

4.1.77

कफजे ऽतिविषोशीरपटोलमरिचक्षपाः ।
समूर्वेन्द्रयवद्वीपिकुष्ठनिम्बवचागुडाः ॥

4.1.78

सप्तच्छदामृतानिम्बस्फूर्जातं माक्षिकान्वितम् ।
निशात्रिकटुकं तिक्तानागपुष्पकलिङ्गकाः ॥

4.1.79

सारिवातिविषाकुष्ठदुःस्पर्शामुस्तगुग्गुलुः ।
परूषं त्रिफला तिक्ता बीजं वृषकजं घनम् ॥

4.1.80

नागरत्रिफलामुस्तामूर्वापाठाः समाक्षिकाः ।
संसर्गसन्निपातेषु मिश्रानेतान् विकल्पयेत् ॥

4.1.81

गोकण्टकबलादर्भाः ससिता वातपित्तजे ।
द्राक्षामलकभूनिम्बाः सगुडूचीशठीगुडाः ॥

4.1.82

त्रायन्ती सारिवाद्राक्षा काश्मर्यच्छिन्नजागुडाः ।
द्राक्षामसूरत्रायन्तीगुडूचीसारिवाबलाः ॥

4.1.83

द्राक्षामधूकमधुकलोद्ध्रकाश्मर्यसारिवाः ।
मुस्तामलकद्द्रीबेरपद्मकेसरपद्मकम् ॥

4.1.84

मृणालचन्दनोशीरनीलोत्पलपरूषकम् ।
फाण्टो हिमो वा द्राक्षादिर्जातीकुसुमवासितः ॥

4.1.85

युक्तो मधुसितालाजैर्जयत्यनिलपित्तजम् ।
ज्वरं मदात्ययं छर्दि मूर्छां दाहं श्रमं भ्रमम् ।
ऊर्ध्वगं रक्तपित्तं च पिपासां कामलामपि ॥

4.1.86

कफवाते वचातिक्तापाठारग्वधवत्सकाः ॥

4.1.87

पिप्पलीचूर्णयुक्तो वा क्वाथश्छिन्नोद्भवोद्भवः ।
व्याघ्रीशुण्ठ्यमृताक्वाथः पिप्पलीचूर्णसंयुतः ॥

4.1.88

वातश्लेष्मज्वरश्वासकासपीनसशूलजित् ।
पथ्या कुस्तुम्बरीमुस्ताशुण्ठीकत्तृणपर्पटम् ॥

4.1.89

सकट्फलवचाभार्ङ्गीदेवाह्वं मधुहिङ्गुमत् ।
कफवातज्वरष्ठीवकुक्षिहृत्पार्श्ववेदनाः ॥

4.1.90

कण्ठामयास्यश्वयथुकासश्वासान्नियच्छति ॥

4.1.91

आरग्वधादिः सक्षौद्रः कफपित्तज्वरं जयेत् ।
तथा तिक्तावृषोशीरत्रायन्तीत्रिफलामृताः ।
पटोलातिविषानिम्बमूर्वाधन्वयवासाकाः ॥

4.1.92

वृषपुष्पच्छदरसः शर्करामाक्षिकान्वितः ।
पित्तश्लेष्मज्वरं हन्ति सासृक्पित्तं सकामलम् ॥

4.1.93

अनन्ताविश्वभैषज्यकटुकातोयतोयदाः ।
ज्वरतृड्भ्रमसम्मोहधूमकाम्लकनाशनाः ॥

4.1.94

सन्निपातज्वरे व्याघ्नीदेवदारुनिशाद्वयम् ।
पटोलपत्रनिम्बत्वक् त्रिफलाकटुकायुतम् ॥

4.1.95

मुस्तापर्पटकं पथ्या मृद्वीका कटुरोहिणी ।
त्रायन्तीकणतन्मूलद्राक्षापथ्यामधूलिकाः ॥

4.1.96

त्रिफलोशीरषड्ग्रन्थायष्टीमधुबलाघनाः ।
नागरं पौष्करं मूलं गुडूची कण्टकारिका ॥

4.1.97

सकासश्वासपार्श्वार्तौ वातश्लेष्मोत्तरे ज्वरे ।
मधूकपुष्पमृद्वीका त्रायमाणा परूषकम् ॥

4.1.98

सोशीरतिक्तात्रिफलाकाश्मर्यं कल्पयेद्धिमम् ।
कषायं तं पिबन् काले ज्वरान् सर्वानपोहति ॥

4.1.99

जात्यामलकमुस्तानि तद्वद्धन्वयवासकम् ।
बद्धविट् कटुकाद्राक्षात्रायन्तीत्रिफलागुडान् ॥

4.1.100

जीर्णौषधो ऽन्नं पेयाद्यमाचरेच्छ्लेष्मवान्न तु ।
पेया कफं वर्धयति पङ्कं पांसुषु वृष्टिवत् ॥

4.1.101

श्लेष्माभिष्यण्णदेहानामतः प्रागपि योजयेत् ।
यूषान् कुलत्थचणककलायादिकृतान् लघून् ।
रूक्षांस्तिक्तरसोपेतान् हृद्यान् रुचिकरान् पटून् ॥

4.1.102

रक्ताद्याः शालयो जीर्णाः षष्टिकाश्च ज्वरे हिताः ।
श्लेष्मोत्तरे वीततुषास्तथा वाट्यकृता यवाः ॥

4.1.103

ओदनस्तैः स्रुतो द्विस्त्रिः प्रयोक्तव्यो यथायथम् ।
दोषदूष्यादिबलतो ज्वरघ्नक्वाथसाधितः ॥

4.1.104

मुद्गाद्यैर्लघुभिर्यूषाः कुलत्थैश्च ज्वरापहाः ।
कारवेल्लककर्कोटबालमूलकपर्पटैः ।
वार्ताकनिम्बकुसुमपटोलफलपल्लवैः ॥

4.1.105

अत्यन्तलघुभिर्मांसैर्जाङ्गलैश्च हिता रसाः ।
व्याघ्रीपरूषतर्कारीद्राक्षामलकदाडिमैः ॥

4.1.106

संस्कृताः पिप्पलीशुण्ठीधान्यजीरकसैन्धवैः ।
सितामधुभ्यां प्रायेण संयुता वा कृताकृताः ॥

4.1.107

अनम्लतक्रसिद्धानि रुच्यानि व्यञ्जनानि च ।
अच्छान्यनलसम्पन्नान्यनुपाने ऽपि योजयेत् ।
तानि क्वथितशीतं च वारि मद्यं च सात्म्यतः ॥

4.1.108

कषायपानपथ्यान्नैर्दशाह इति लङ्घते ।
सर्पिर्दद्यात् कफे मन्दे वातपित्तोत्तरे ज्वरे ।
पक्वेषु दोषेष्वमृतं तद्विषोपममन्यथा ॥

4.1.109

दशाहे स्यादतीते ऽपि ज्वरोपद्रववृद्धिकृत् ।
लङ्घनादिक्रमं तत्र कुर्यादा कफसङ्क्षयात् ॥

4.1.110

सज्वरं ज्वरमुक्तं वा दिनान्ते भोजयेल्लघु ।
श्लेष्मक्षयविवृद्धोष्मा बलवाननलस्तदा ॥

4.1.111

यथोचिते ऽथवा काले दोषसात्म्यानुरोधतः ।
प्रागल्पवह्निर्भुञ्जानो न ह्यजीर्णेन पीड्यते ॥

मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc