अष्टाङ्गसंग्रह · अध्याय 4.18
अथातः पाण्डुरोगचिकित्सितं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥
पाण्ड्वामयिनमादौ कल्याणकपञ्चगव्यतिक्तकानामन्यतमं सर्पिः पाययेत् ।
दाडिमसारतः कुडवं धान्यकार्धकुडवं पिप्पल्यष्टमिकां शुण्ठीचित्रकयोश्च पलं पलमेकतः कल्कीकृत्य तोयाढके विंशतिपलं घृतस्य सिद्धं हृत्पाण्डुरोगगुल्मप्लीहार्शःश्वासकासमूढवातवातकफार्तिहरमग्निदीपनं वन्ध्यानां सम्मतं दुःखप्रसविनीनां च ॥
दुरालभाचन्दनपटोलत्रायमाणागुडूचीकिराततिक्तरोहिणीघननिशाद्वयेन्द्रयवदेवदारुपर्पटकाजमोदैः कार्षिकैः क्षीराढके घृतप्रस्थं साधयेत् ।
पाण्डुरोगकामलारक्तपित्तज्वरदाहासृग्दरविस्फोटश्वयथुभगन्दरार्णोघ्नम् ॥
स्निग्धं चैनं तीक्ष्णिर्वामयेत् ।
पुनश्च स्निग्धं मूत्रयुक्तं गव्यं माहिषं वार्धमासं पयः पाययेत् ।
मागधिकाशृतं वा ।
मूत्रसिद्धां वा त्रिफलाम् ।
सप्ताहं मूत्रेण वा हरीतकीः कल्किताः ।
स्वर्णक्षीरीभद्रद्रारुनागरश्यामात्रिवृन्मूलानि तेनैव वा क्वथितानि ।
एभिर्वा शृतं पयः ॥
वत्सकबीजविशालाकुष्ठकटुकादारुमुस्तानां समा भागाः मूर्वाभागद्वयमतिविषाभागार्धं च चूर्णितं सुखाम्बुना पीत्वा क्षौद्रमनुलिह्यात् ।
एतत् पाण्डुकामलाज्व्रारुचिगुल्मानाहामवातरक्तपित्तकासश्वासानपोहति ॥
त्रिकटुककालतिललोहैर्वा माक्षिकधातुतुल्यैर्माक्षिकेणवटकाव्योषकाग्निविडङ्गभागा नव नव चायसचूर्णभागा मधुघृताभ्यां तक्रेणोष्णोदकेन वोपयुक्ता हृत्पाण्डुरोगकामलाकुष्ठार्शःशोफोदरप्लीहमेहहराः ॥
माक्षिकधातुचविकादारुदार्वीत्वग्ग्रन्थिकान् त्रिफलादीनि च नव विचूर्ण्य चूर्णाद्द्विगुणं च सुश्लक्ष्णं पृथङ्मण्डूरं ततो गोमूत्रं सर्वतो ऽष्टगुणं पक्त्वा तस्मिंस्तत् क्षिपेत् ।
अनन्तरं च वटकान् कुर्यात् ।
ते तक्रानुपानमभ्यस्ताः परमौषधं पाण्ड्वामयिनां शोफार्शःकुष्ठकामलामेहप्लीहाढ्यवातकफार्तानां च ॥
शिलाजतुताप्यरूप्यायोमलाः पृथक् पञ्चपलिकास्त्रिफलादयश्च विगतघनाः पलांशाः श्लक्ष्णरजसः सितोपलापलाष्टकयुक्ताः क्षौद्रद्रुता योगराजः ।
कुलत्थादियूषाशिना यथाग्न्यभ्यवहृतः समानः पूर्वेण ।
यक्ष्मविषविषज्वरकासश्वासापस्मारहरश्च ॥
त्रिफलाकुटजफलघनपटोलपिचुमन्दमहौषधकषायैर्मासमर्धमासं वा भावितान्यष्टौ शिलाह्वयपलानि समसितान्युपकुल्यातुगाक्षीरीधात्रीफलकर्कटकशृङ्ग्यः पृथक् पलांशाः निदिग्धिकाफलमूलयोः पलं त्रिजातकत्रिकर्षं च क्षौद्रत्रिपलयुक्तान् वटकान् वर्तयेत् ।
ते दाडिमाम्बुक्षीररससलिलसुरासवान्यतमानुपाना वज्राभिधाना वज्रमिवानन्तरोक्तान् रोगान् दारयन्ति ।
हृद्रोगगलरोगगरोदरासृग्दरभगन्दरगुल्मवर्ध्मशुक्रमूत्रदोषांश्च ॥
द्राक्षापिप्पलीप्रस्थद्वयं शर्करार्धतुलां तवक्षीरीनागरमधुकानि च द्विपलिकानि चूर्णयित्वामलकरसद्रोणे प्रक्षिप्य मृद्वग्निना पचेत् ।
लेहीभूते शीते च तस्मिन् मधुप्रस्थमावपेत् ।
त्रिसुगन्धिकस्य कर्षत्रयं च चूर्णीकृत्य दर्व्या परिघट्य जातीपुष्पादिवासिते मृद्भाण्डे निदध्यात् ।
अयं द्राक्षालेह उपयुज्यमानः पाण्ड्वामयहृद्रोगकामलाहलीमकज्वरगुल्मोदरशोफोदावर्तादीनपरानपि विरेकसाध्यान् व्याधीन् प्रसह्य वायुरिवाभ्राण्यपहरति ॥
भोजनं तु सात्म्यतः शालियवगोधूममुद्गजाङ्गलमांसानि पयो घृतं वृषपटोलवेतपर्पटशाकं द्राक्षादाडिमखर्जूरामलकरसानि ।
पानमनुपञ्चमूलसिद्धं वारि वाताधिके ।
घनद्रीबेरशुण्ठीसाधितं पित्तोत्तरे ।
श्लेष्मण्यरिष्टसीधुमार्द्वीकासवाः ।
सर्वत्र वा तक्रम् ॥
बीजकसारप्रस्थम् ।
वरायाः पलानि पञ्चविंशतिः ।
पञ्च द्राक्षाया बलायाः सप्त जलद्रोणे पक्त्वा पादशेषं तेभ्यो रसमादाय पूतशीते ऽस्मिन् शर्करातुलां मधुप्रस्थं कर्षांशानि च चूर्णितानि व्योषव्याघ्रनखोशीरक्रमुकैलावालुककुष्ठमधुकानि निक्षिप्य घृतभाजने सर्वमैकध्यं यवपल्ले ग्रीष्मे दशरात्रं विंशतिरात्रं शीते स्थापयेत् ।
अयं बीजकसारारिष्टः पाण्डुकामलामेहहृद्रोगवातशोणितविषमज्वरारोचककासश्वासान् निबर्हति ॥
गण्डीरतरोः समूलपुष्पशाखस्य तुलामाहरेत् ।
अर्धतुलां दशमूलस्य त्रिफलायाः पृथगर्धप्रस्थ कुटजत्वचश्च ।
कुडवांशान् मुस्तारुष्करकृमिघ्नेन्द्रयवान् ।
पालिकान् पाठादन्तीमधुरसारास्नाशठीचित्रकान् ।
मृद्वीकार्धप्रस्थं च षोडशगुणे पादशेषमम्भसि विपाच्य रसमाददीत ।
तं पूतशीतं सितोपलातुलाद्वयेन लोहचूर्णप्रस्थेन च युक्तं मागधिकार्धप्रस्थेन श्लक्ष्णपिष्टेन ग्रन्थिकपलेनार्धपलिकैश्च मरिचविडङ्गैलवालुकैः प्रलिप्ते घृतकुम्भे निधापयेत् ।
मासमात्रं स्थितो ऽयं गण्डीरारिष्टो ऽधिकगुणः पूर्वस्मात् ।
ग्रन्थ्यर्बुदकृमिहरश्च ॥
अथवा चव्यकुष्ठचित्रकप्रलिप्ते भाजने मस्तुद्रोणं गुडतुलां पिप्पलीप्रस्थत्रयं त्रिफलाप्रस्थत्रयं विडङ्गप्रस्थत्रयं कुडवांशांश्च मरिचपरूषकद्राक्षाकाश्मर्यफलेन्द्रयवान् द्विपलिकानि च दन्तीचित्रकभल्लातकानि चूर्णितानि प्रक्षिपेत् ।
ततो यवपल्लस्थं पक्षमुपेक्ष्य यथाबलं पिबेत् ।
एष मस्त्वरिष्टः पाण्डुरोगमेहस्थौल्यमेदोर्शोग्रहणीप्लीहशोफोदरभगन्दरहरः ।
परमं चाग्निदीपन इति ॥
भवति चात्र ।
पाण्डुरोगप्रशान्त्यर्थं विहितं यच्चिकित्सितम् ।
विकल्प्यमेतद्विदुषा पृथग्दोषबलं प्रति ॥
स्नेहप्रायं पवनजे तिक्तशीतं तु पत्तिके ।
श्लैष्मिके कटुरूक्षोष्णं विमिश्रं सान्निपातिके ॥
मृदं निर्घातयेत् कायात्तीक्ष्णैः संशोधनैः पुरः ।
बलाधानानि सर्पींषि शुद्धे कोष्ठे तु योजयेत् ॥
व्योषबिल्वद्विरजनीत्रिफलाद्विपुनर्नवम् ।
मुस्तान्ययोरजः पाठा विडङ्गं देवदारु च ॥
वृश्चिकाली च भार्ङ्गी च सक्षीरैस्तैः शृतं घृतम् ।
सर्वान् प्रशमयत्याशु विकारान् मृत्तिकाकृतान् ।
तद्वत् केसरयष्ट्याह्वपिप्पलीक्षीरशाद्वलैः ॥
मृद्द्वेषणाय तल्लौल्ये वितरेद्भावितां मृदम् ।
विडङ्गेनातिविषया पाठया निम्बपल्लवैः ॥
वार्ताकैः कटुरोहिण्या कौटजैर्मूर्वयाथवा ।
मृद्भेदाभिन्नदोषानुगमाद्योज्यं च भेषजम् ॥
कामलायां तु पित्तघ्नं पाण्डुरोगाविरोधि यत् ।
पथ्याशतरसे पथ्यावृन्तार्धशतकल्कितः ।
प्रस्थः सिद्धो घृताद् गुल्मकामलापाण्डुरोगजित् ॥
दन्तीचतुष्पलरसे पिष्टैर्दन्तीशलाटुभिः ।
घृतप्रस्थः शृतस्तद्वत् प्लीहाश्वयथुजिच्च सः ॥
पुराणसर्पिषः प्रस्थो द्राक्षार्धप्रस्थसाधितः ।
कामलागुल्मपाण्ड्वर्तिज्वरमेहोदरापहः ॥
हरिद्रात्रिफलानिल्बबलामधुकसाधितम् ।
सक्षीरं माहिषं सर्पिः कामलाहरमुत्तमम् ॥
गोमूत्रे द्विगुणे दार्वीकल्कार्धपलसाधितः ।
दार्वीपञ्चपलक्वाथे कल्के कालीयके परः ॥
माहिषात्सर्पिषः प्रस्थः पूर्वः पूर्वे परः परे ।
सिद्धं कालीयकक्वाथे सनिशं चोत्तरे हितम् ॥
आरग्वधं रसेनेक्षोर्विदार्यामलकस्य वा ।
सत्र्यूषणं बिल्वमात्रं पाययेत् कामलापहम् ॥
पिबेन्निकुम्भकल्कं वा द्विगुडं शीतवारिणा ।
कुम्भस्य चूर्णं सक्षौद्रं त्रैफलेन रसेन वा ।
सशर्करां त्रिभाण्डीं वा गवाक्षीं वा प्रयोजयेत् ॥
त्रिफलाया गुडूच्या वा दार्व्या निम्बस्य वा रसम् ।
प्रातः प्रातर्मधुयुतं कामलार्ताय योजयेत् ॥
तिलपिष्टनिभं यस्तु कामलावान् सृजेन्मलम् ।
कफरुद्धपथं तस्य पित्तं कफहरैर्जयेत् ॥
रूक्षशीतगुरुस्वादुव्यायामचलनिग्रहैः ।
कफसम्मूर्छितो वायुर्यदा पित्तं बहिः क्षिपेत् ॥
हारिद्रनेत्रमूत्रत्वक्श्वेतवर्चास्तदा नरः ।
भवेत्साटोपविष्टम्भो गुरुणा हृदयेन च ॥
दौर्बल्याल्पाग्निपार्श्वार्तिहिध्माश्वासारुचिज्वरैः ।
क्रमेणाल्पे ऽनुषज्येत पित्ते शाखासमाश्रिते ॥
रसैस्तं रूक्षकट्वम्लैः शिखितित्तिरिदक्षजैः ।
शुष्कमूलकजैर्यूषैः कुलत्थोत्थैश्च भोजयेत् ॥
भृशाम्लतीक्ष्णकटुकलव्णोष्णं च शस्यते ।
सबीजपूरकरसं लिह्याद्व्योषं तथाशयम् ॥
स्वं पित्तमेति तेनास्य शकृदप्यनुरज्यते ।
वायुश्च याति प्रशमं सहाटोपाद्युपद्रवैः ।
निवृत्तोपद्रवस्यास्य कार्यः कामलिको विधिः ॥
गोमूत्रेण पिबेत् कुम्भकामलायां शिलाजतु ।
मासं माक्षिकधातुं वा किट्टं वाथ हिरण्यजम् ॥
गुडूचीस्वरसक्षीरसाधितेन हलीमकी ।
महिषीहविषा स्निग्धः पिबेद्धात्रीरसेन तु ॥
त्रिवृतां तद्विरिक्तो ऽद्यात् स्वादु पित्तानिलापहम् ।
द्राक्षालेहं च पूर्वोक्तं सर्पींषि मधुराणि च ॥
यापनान् क्षीरबस्तींश्च शीलयेत्सानुवासनान् ।
मार्द्वीकारिष्टयोगांश्च पिबेद्युक्त्याग्निवृद्धये ॥
कासिकं चाभयालेहं पिप्पलीं मधुकं बलाम् ।
पयसा च प्रयुञ्जीत यथादोषं यथाबलम् ।
पाण्डुरोगेषु कुशलः शोफोक्तं च क्रियाक्रमम् ॥
मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0