भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गसंग्रह · अध्याय 4.17

4.17.1

अथात् उदरचिकित्सितं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥

4.17.2

सर्वमेवोदरमतिमात्रदोषसञ्चयानुबन्धेन स्रोतोमुखनिरोधाद्व्याकुलानिलतया यत् प्रजायते तस्मादभीक्ष्णमुदरी विरेचनान्युपयुञ्जीत ।
मूत्रक्षीरान्यतरयुक्तमेरण्डतैलमहरहर्मासमेकं द्वौ वा क्षीराहारो वा गव्यं वा माहिषं वा मूत्रम् ।
उष्ट्रीक्षीरवृत्तिर्वा स्यात् ॥

4.17.3

शोफशूलानाहतृण्मूर्च्छापरीतो विशेषेण पयो ऽनुपानं गोमूत्रेण प्राणदां पिबेत् ।
पिप्पलीसहस्रं वा स्नुहीक्षीरभावितं सेवेत ।
तद्भावितेन वा कृष्णाभयाचूर्णेन कासरम् ।
सैन्धवाजमोदयुक्तं वा नैम्बं तैलम् ।
अथवार्द्रकरसानुविद्धम् ।
सिद्धं वा ॥

4.17.4

हरीतकीचूर्णप्रस्थयुक्तमाढकं घृतस्याङ्गारेष्वभिविलाप्य खजेनाभिमथ्य सुगुप्तं यवपल्ले मासं स्थापयेत् ।
ततश्चोद् वृत्य परिस्राव्य हरीतकीक्वाथाम्लदधिप्रतीवापं विपाचयेत् ॥

4.17.5

अथवा गव्ये पयसि महावृक्षक्षीरमावाप्य विपाच्य शीतीभूतमभिमथ्य तं नवनीतं महावृक्षक्षीरेणैव सह साधयेत् ॥

4.17.6

अथवा चविकाचित्रकदन्त्यतिविषाकुष्ठसारिवाविडङ्गत्रिफलाकटुरोहिणीद्विहरिद्राशाङ्खिनीत्रिवृद्दीप्यकानर्धकार्षिकान् राजवृक्षफलमज्जाद्विपलं महावृक्षक्षीरद्विपलं गोमूत्रक्षीरघृतत्रिकुडवं चैकध्यं पाचयेत् ।
विद्रध्यष्ठीलानाहकुष्ठोन्मादापस्मारान्निघ्नन्ति ॥

4.17.7

यावशूकपञ्चकोलकषट्पलेन वा मस्तुदशमूलक्वाथाढकद्वयेन च सिद्धं सर्पिःप्रस्थं प्रयोजयेत् ॥

4.17.8

यवकोलकुलत्थपञ्चमूलकषायेण वा सुरासौवीरकयुक्तं सर्पिः ॥

4.17.9

सर्पिष्पानस्रस्ते च दोषे बलवान् विरेचनार्थं मूत्रासवारिष्टसुराः स्नुहीक्षीरयुक्ताः शीलयेत् ।
विरेचनद्रव्यकषायं नागरदेवदारुप्रगाढम् ।
त्रिलवणादिचूर्णं वा द्वित्रिगुणानुलोमनद्रव्यम् ॥

4.17.10

पटोलमूलरजनीविडङ्गत्रिफलाः कर्षांशाः ।
कम्पिल्लकनीलिनीफलत्रिवृतानां क्रमाद् द्वित्रिचतुर्भिः कर्षैर्युक्ताश्चूर्णयित्वा मूत्रेण पिबेत् ।
जीर्णे च पेयामण्डपो रसाशी वा स्यात् ।
ततः षड्रात्रं सव्योषेण पयसाश्नीयात् ।
ततः सप्तमे ऽहनि पुनश्चूर्णं पिबेत् ।
अनेन विधिना चूर्णमिदमुदराणि जातोदकान्यपि निबर्हयति ।
गुल्मभेदनानि च प्रयुञ्जीत ॥

4.17.11

वमनविरेचनशिरोविरेचनवत्सकादिवचाहरिद्रादिवर्गद्रव्याणि पृथक्पालिकानि सूक्ष्मकल्कीकृतानि लवणानि च वज्रवृक्षक्षीरप्रस्थं च प्रक्षिप्य मूत्रगणे मृद्वग्निना घट्टयन् पाचयेत् ।
अविदग्धकल्कं च तत्सिद्धमवतार्य शीतीभूतमङ्गुष्ठमात्रां गुटिकां वर्तयित्वा यथाबलं त्रिचतुरो मासानुपयोजयेत् ।
एषा मूत्रवर्तिर्महारोगश्वासकासपीनसप्रसेकश्वयथुगुल्मपाण्डुकृमिकोष्ठारोचकाविपाकोदावर्तेषु परममगदम् ॥

4.17.12

कृतविरेचनश्च क्षामदेहो ऽन्तरान्तरा क्षीरमौष्ट्रकं गव्यमाजं वा व्योषयुक्तं शीलयेत् ।
दोषशेषविजयाय च शीलयेच्चविकानागरं क्षीरेण पिष्टम् ।
सुरदारुचित्रकं वा सुरङ्गां वा पुनर्नवं वा त्रिफलादन्तीरौहीतकनिर्यूहं वा व्योषक्षारोपेतं तत् स्नुहीक्षीरघृतयुक्तम् ॥

4.17.13

पुराणमन्नं तक्रमरिष्टांश्च तांस्तान् क्षीरं च दन्तीचित्रकविडङ्गचविकात्रिकटुकोपेतम् ।
तुल्यार्द्रकरसं वा क्षीरं शीलयेत् ।
पिप्पलीवर्धमानां वा सेवेत ।
शिलाजतु वा क्षीराशी गुग्गुलुं वा ।
पुनः पुनश्च स्नेहयेद्विरेचयेच्च ।
आत्ययिकांस्तु स्नेहविरेकैरेवोपक्रमेत ।
सलिलं तु वर्जयेत् ।
आनाहोदावर्तयोर्यथास्वं प्रतिकुर्वीत ॥

4.17.14

वातकृतेषु पार्श्वशूलोपस्तम्भहृद्ग्रहेषु बिल्वक्षाराम्भसा तैलं पाचयेत् ।
स्योनाकाग्निमन्थतिलकुन्तलकदल्यपामार्गान्यतमक्षारेण वा विपक्वं तैलम् ॥

4.17.15

कफे पित्ते वा वातेनावृते ताभ्यां वा वाते बलवान् वातगुल्मोक्तक्रमेणैरण्डतैलं पिबेत् ॥

4.17.16

लिम्पेच्च जठरमुदरिणां शिग्रुपलाशार्काश्वकर्णगजपिप्पलीदेवदारुभिर्मूत्रपिष्टैः सुखोष्णैः ।
वृश्चिकालीकुष्ठषड्ग्रन्थाद्विपुनर्नवधान्यनागरपञ्चमूलक्वाथैर्मूत्रैश्च परिषेचयेत् ।
प्रततमेव च स्वेदयेत् ॥

4.17.17

विरिक्तस्य चास्य सदा म्लानमुदरं साल्वलादिभिरुपनद्धं घनेन वाससा वेष्टयेत् ।
एवमेनमनवकाशो वायुर्न पुनराध्मापयति ।
तथापि पुनः सुविरिक्तस्याध्माने ऽम्ललवणान् सुस्निग्धान् निरूहान् दद्यात् ।
सोपस्तम्भे तु वायौ तीक्ष्णोष्णान् ॥

4.17.18

अथ वातोदरिणं विदार्यादिसिद्धेन सर्पिषोपस्नेह्य स्वेदिताङ्गं तिल्वकघृतेन बहुशो ऽनुलोमयेत् ।
कृतायां च संसर्ग्यां बलार्थं क्षीरमवचारयेत् ।
निवर्तयेच्च प्रागुत्क्लेशात् क्रमेण ।
ततो यूषरसादिभिर्मन्दाम्ललवणैः समिद्धानलमुदावर्तिनं पुनः स्निग्धस्विन्नमास्थापयेद्विदार्यादिक्वाथेन चित्राफलतैलप्रगाढेन तीक्ष्णोष्णाधोभागिकद्रव्ययुक्तेन वा दाशमूलिकेन ॥

4.17.19

दीप्ताग्निं च बद्धमलमस्थिसन्धित्रिकपार्श्वादिशूलस्फुरणाक्षेपयुक्तं रूक्षमनुवासयेद्वातहराम्लसिद्धाभ्यां तिलोरुबूकतैलाभ्याम् ।
भोजयेच्चैनं जाङ्गलरसेन विदार्यादिशृतेन वा पयसा ॥

4.17.20

सरलमधुशिग्रुमूलकबीजस्नेहाश्च पानाभ्यञ्जनेन शूलघ्नाः ।
स्वेदयेच्चाभीक्ष्णं जठरम् ॥

4.17.21

अविरेच्यस्य तु पयःसर्पिर्यूषरसबस्त्यभ्यङ्गसमभक्तौषधैः संशमयेत् ॥

4.17.22

पित्तोदरिणं मधुरविपक्वेन सर्पिषोपस्नेह्य श्यामात्रिवृत्त्रिफलाविपक्वेनानुलोम्यैनं मधुघृतसिताढ्येन न्यग्रोधादिनिर्यूहेणास्थापयेदनुवासयेच्च ॥

4.17.23

दुर्बलं तु प्रागेवानुवास्य क्षीरबस्तिभिः शोधयेत् ॥

4.17.24

सञ्जातबलाग्निं च स्निग्धं पुनःक्षीरेण सत्रिवृत्ककेनोरुबूकशृतेन वा ।
सातलात्रायमाणाभ्यां वारग्वन्धेन वा सश्लेष्मणि पित्ते समूत्रेण सवाते तिक्तघृतान्वितेन पयसा पुनःपुनर्विरेचयेत् बस्तिकर्म चाचरेत् ॥

4.17.25

एभिरेव क्षीरैर्विदार्यादिशृतेन वा भोजयेत् ।
पायसेन चोपनाहयेदुदरम् ॥

4.17.26

श्लेष्मोदरिणं वत्सकादिसिद्धेन सर्पिषोपस्नेह्य स्नुहीक्षीरविपक्वेनानुलोम्य कटुक्षारयुक्तैः कफहरैराहारैः संसर्ज्य त्रिकटुमूत्रतैलप्रगाढेन मुष्ककादिक्वाथेनास्थापयेदनुवासयेच्च ।
कुलत्थयूषेण व्योषवता क्षीरेण वा भोजयेत् ।
स्त्यानकफोदरं क्षारमरिष्टांश्च तीक्ष्णान् पाययेत् ।
सततं च स्वेदयेत् ।
किण्वसर्षपमूलकबीजकल्कैर्जठरमुपनाहयेत् ॥

4.17.27

सान्निपातिकमुदरं प्रत्याख्याय चिकित्सेत् ।
सर्वमेवेत्येके सर्वस्य सर्वात्मकत्वात् कृच्छ्रतमत्वाच्च ।
दोषोद्रेकतस्तु प्रतिकुर्वीत ॥

4.17.28

सप्तलाशङ्खिनीनिर्याससिद्धेन च सर्पिषा विरेचयेन्मासमर्धमासं वा ।
महावृक्षक्षीरमूत्रसिद्धेन वा ॥

4.17.29

अथावाजगन्धाजशृङ्गीदन्तीद्रवन्तीस्वादुकण्टकपुनर्नवाझरसीवृश्चिकालीमूषिकपर्णीमहासहाक्षुद्रसहावृक्षादिनीभार्ङ्गीगृध्रनखीतण्डुलीयकदाडिममातुलुङ्गमूलक्वाथेन मदनफलैलाकुष्ठकुटिलरास्नाकल्कगोमूत्रसंसृष्टेन सैन्धवलवणितेनस्निग्धेनास्थापयेत् ॥

4.17.30

तथा चानुपशाम्यति निचयात्मके सर्वत्र च जठरे ज्ञातीनाश्राव्य मद्येनाश्वमारकगुञ्जाकाकादनीमूलकल्कं पाययेत् ।
पानभोजनेषु वा विषं निक्षिपेत् ।
इक्षुगण्डिकां वा भक्षयेत् कृष्णसर्पेण दंशयित्वा वल्लीफलानि वा मूलकं वा ॥

4.17.31

एवं ह्यस्य दोषसङ्घातः स्थिरो लीन उन्मार्गगो विषेणाशु प्रमाथिना विभिन्नो बहिः प्रवर्तते ।
तेनागदतां व्रजति ।
भवान्तरं वा ॥

4.17.32

हृतदोषं च शीताम्बुपरिषिक्तं क्षीरयवागूं पाययेत् ।
ततस्त्रिवृद्वास्तुकमण्डूकपर्णीकालशाकयवशाकानामन्य तमं स्वरससाधितमनम्ललवणस्नेहं स्विन्नास्स्विन्नमनन्नभुङ्मासमेकमश्नीयात् ।
तत्स्वरसमेव च तृषितः पिबेत् ।
ततः शाकैर्निर्हृते दोषे परतो दुर्बलाय कारभं क्षीरं प्रयुञ्जीत ॥

4.17.33

प्लीहोदरे यथादोषमुपस्निग्धस्विन्नस्य दध्ना भुक्तवतो वामबाहौ सिरां विध्येत् ।
रुधिरस्यन्दनार्थं च पाणिना प्लीहानं विमर्दयेत् ।
पुनश्च स्नेहपीतं विशुद्धदेहं समुद्रशुक्तिक्षारं पयसा पाययेत् हिङ्गु सुवर्चिकां वा ।
पलाशक्षारोदकेन वा यवक्षारम् ॥

4.17.34

पारिजातकेक्ष्वाक्वपामार्गक्षारं वा तैलसंसृष्टम् ।
सौभञ्जनकनिर्यूहं वा पिप्पलीचित्रकसैन्धवचूर्णयुक्तम् ।
अम्लस्रुतं वा बिडमागधिकाढ्यं पूतिकरञ्जक्षारम् ।
अग्निसादे तु त्रिलवणादिं क्षारानरिष्टांश्च पिबेत् ।
घृतं षट्पलं महाषट्पलं रोहीतकषट्पलं वा ॥

4.17.35

रोहीतकत्वक्पलानि पञ्चविंशतिं कोलप्रस्थद्वयं च तोये क्वाथयेत् तेन क्वाथेन तथा पालिकैः पञ्चकोलकैस्तैः सर्वैश्च तुल्यया रोहीतकत्वचा कल्कीकृतैर्घृतप्रस्थं साधयेत् ।
तत् परं प्लीहहितम् ॥

4.17.36

रोहीतकलताः खण्डशः कल्पिताः हरीतकीश्च तोये गोमूत्रे वा सप्तरात्रमासुनुयात् ।
स रसः प्लीहगुल्मोदरकृमिमेहकामलार्शांसि साधयति ।
एवमनुपशाम्यत्यप्राप्तपिच्छोदके वातकफोल्बणे गुल्मविधिनाग्निकर्म कुर्यात् ॥

4.17.37

पित्तोल्बणे तु जीवनीयघृतक्षीरबस्तिविरेचनानि प्रयुञ्जीत ।
पुनःपुनश्च रुधिरमवसेचयेत् ।
यकृदाख्ये ऽप्ययमेव क्रियाविभागः ॥

4.17.38

बद्धोदरे स्विन्नाय सतैललवणमूत्रं तीक्ष्णं निरूहमनुवासनं च दद्यात् ।
स्रंसनानि चान्नान्युदावर्तहराणि च तीक्ष्णं च विरेचनं यच्च किञ्चिद्वातघ्नम् ॥

4.17.39

छिद्रोदरे स्वेदवर्ज्यं कफोदरवदाचरेत् ।
दकोदरेतु पूर्वमुदकदोषहरणार्थं रूक्षतीक्ष्णौषधान् समूत्रान्निर्यूहचूर्णक्षारान् कफघ्नानि दीपनीयानि चान्नपानानि योजयेत् ॥

4.17.40

एवमसिद्धौ बद्धच्छिद्रदकोदरेष्वश्मर्यामिव सुहृदां प्रकाश्य शस्त्रमवचारयेत् ।
तत्र बद्धच्छिद्रोदरयोः स्निग्धस्विन्नस्याधो नाभेश्चतुरङ्गुलानि वामतो ऽपहायोदरं पाटयित्वा चतुरङ्गुलप्रमाणमान्त्राणि निष्कास्य निरीक्ष्य बद्धगुदोदरस्यान्त्रप्रतिरोधकरं बालं मलोपलेपमश्मानं चापहरेत् ।
परिस्राविणि शल्यमुद्धृत्यान्त्रपरिस्रावं विशोध्य तच्छिद्रं मर्कोटकैर्दंशयेत् ।
लग्नेषु च शिरस्सु कायमपनयेत् ।
ततो मधुघृताभ्यामभ्यज्यान्त्राणि यथास्थानं स्थापयित्वा बाह्यं व्रणमुदरस्य सीव्येत् ।
यष्टीमधुकमिश्रया च कृष्णमृदा व्रणमभिलिप्य बध्नीयात् ।
अथ निवातमागारं प्रवेश्य क्षीरवृत्तिं स्नेहद्रोण्यां वासयेत् ॥

4.17.41

दकोदरे सवषु च जातोदकेषु जठरेषु वातहरतैलाभ्यक्तस्योष्णोदकस्विन्नस्याप्तैः परिगृहीतस्याकक्ष्यातः पटवेष्टितोदरस्याधो नाभेर्वामतश्चतुरङ्गुलमपहाय व्रीहिमुखेनाङ्गुष्ठोदरमात्रमवगाढं विध्वा नाडीं निधाय दोषोदकमर्धमात्रमवसिञ्चेत् ।
ततोनाडीमुद्धृत्य तैललवणेनाभ्यज्य व्रणं बन्धनेनोपचरेत् ॥

4.17.42

सहसा सर्वस्निम् विस्राविते तृष्णा ज्वरो ऽङ्गमर्दो ऽतीसारः श्वासः कासः पाददाहो वा जायते ।
पूर्यते च सुतराम् ।
अतस्तृतीयचतुर्थपञ्चमषष्ठाष्टमद्वादशषोडशरात्राणामन्यतममन्तरं कृत्वा दोषोदकमल्पशो विस्रावयेत् ।
निस्रुते च दोषोदके विमृद्योदरमाविककौशेयचर्मणामन्यतरेण गाढतरं वेष्टयेत् ।
तथा नाध्मापयति वायुः ।
लङ्घयित्वा च यवागूमल्पस्नेहलवणां मात्रया पाययेत् ।
ततः परं षण्मासान् क्षीरवृत्तिर्भवेत् ।
ततो मासत्रयं क्षीरपेयां पिबेत् ।
अन्यच्च मासत्रयमल्पलवणमल्पक्षीरं श्यामाकं कोरदूषं वा भुञ्जीतेति ।
भवति चात्र ॥

4.17.43

प्रयतो वत्सरेणैवं विजयेत जलोदरम् ।
वर्ज्येषु यन्त्रितो दिष्टे नात्यदिष्टे जितेन्द्रियः ॥

4.17.44

सर्वमेवोदरं प्रायो दोषसङ्घातजं यतः ।
अतो वातादिशमनी क्रिया सर्वत्र शस्यते ॥

4.17.45

वह्निर्मन्दत्वमायाति दोषैः कुक्षौ प्रपूरिते ।
तस्मात् भोज्यानि योज्यानि दीपनानि लघूनि च ॥

4.17.46

सपञ्चमूलान्यल्पाम्लपटुस्नेहकटूनि च ।
भावितानां गवां मूत्रे षष्टिकानां च तण्डुलैः ॥

4.17.47

यवागूं पयसा सिद्धां प्रकामं भोजयेन्नरम् ।
पिबेदिक्षुरसं चानु जठराणां निवृत्तये ॥

4.17.48

स्वं स्वं स्थानं व्रजन्त्येषां वातपित्तकफास्तथा ।
अत्यर्थोष्णाम्ललवणं रूक्षं ग्राहि हिमं गुरु ॥

4.17.49

गुडं तिलकृतं शाकं वारि पानावगाहयोः ।
आयासाध्वदिवास्वप्नयानयानानि च त्यजेत् ॥

4.17.50

नात्यच्छसान्द्रमधुरं पान तक्रं प्रशस्यते ।
सकणालवणं वाते पित्ते सोषणशर्करम् ॥

4.17.51

यवनीसैन्धवाजाजीमधुव्योषैः कफोदरे ।
त्र्यूषणक्षारलवणैः संयुक्तं निचयोदरे ॥

4.17.52

मधुतैलवचाशुण्ठीशताह्वाकुष्ठसैन्धवैः ।
प्लीह्नि बद्धे तु हपुषायवानीपट्वजाजिभिः ॥

4.17.53

सकृष्णामाक्षिकं छिद्रे व्योषवत्सलिलोदरे ।
गौरवारोचकानाहमन्दवह्न्यतिसारिणाम् ।
तक्रं वातकफार्तानाममृतत्वाय कल्पते ॥

4.17.54

प्रयोगाणां च सर्वेषामनु क्षीरं प्रयोजयेत् ।
स्थैर्यकृत् सर्वधातूनां बल्यं दोषानुबन्धहृत् ।
भेषजापचिताङ्गानां क्षीरमेवामृतायते ॥

मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc