भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गसंग्रह · अध्याय 4.16

4.16.1

अथातो गुल्मचिकित्सितं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥

4.16.2

गुल्मो हि वातादृते न सम्भवति ।
तस्मात्तेषु सर्वेष्वपि प्रथमं स्नेहस्वेदौ वातहहरौ ।
स्नेहोपसंहितं मृदु विरेचनं तद्विधांश्च बहुशो बस्तीनम्ललवणमधुरांश्च रसान् युक्त्यावचारयेत् ।
मारुते हि विजिते ऽल्पेनापि यत्नेन शक्यो ऽन्यो ऽपि दोषो गुल्मेषु नियन्तुम् ॥

4.16.3

अथ वातोत्तरे रूक्षं बद्धमरुच्छकृतमातुरं तीव्ररुजमानिलव्याधिविहितमन्यतम तैलं पाययेत् ।
अथवा विडङ्गपञ्चकोलमरिचत्रिफलाधान्यकगर्भं सपयस्सर्पिर्विपक्वम् ।
अनेनैव वा कल्केन दशमूलक्वाथोपहितम् ।
राजयक्ष्मविहितं वा षट्पलम् ।
हिङ्गुधानकाम्लवेतससौवर्चलैलाबिडशठीदाडिमयवक्षारत्रिकटुकाजगन्धाजमोदाजाजीपुष्करमूलवचाचित्रकसुरसैर्वा दधिस्ंयुक्तम् ॥

4.16.4

हपुषामरिचबाष्विकासैन्धवदीप्यकाजाजीपञ्चकोलकैः कोलमूलकदाडिमरसदधिक्षीरवत् सर्पिः सिद्धं सिद्धं शूलविबन्धहिध्माध्मानप्लीहहृद्रोगग्रहणीहतनामकृमिवर्ध्मपाण्डुक्षयश्वासकासयोनिरोगोदरज्वरारोचकेषु ।
शुण्ठीपलं पिप्पलीपलमध्यर्धं धानकाकुडवं दाडिमद्विकुडवं घृतपलानि विंशतिः क्षीरं चैकध्यं विपचेत् ।
एतत्सर्पिः समानं पूर्वेण ॥

4.16.5

लशुनस्य विगतत्वचस्तुलां प्रत्येकं पञ्चपलिकं च महापञ्चमूलमष्टगुणे ऽम्भसि साधयेत् ।
तेन क्वाथेन तदर्धांशैश्च पृथक् सुरादधिमस्तुधान्याम्लदाडिमरसैः यवानीदीप्यकाम्लवेतसहिङ्गुचविकासैन्धवत्र्यूषणत्रिफलामरदारुभिश्चार्धपलिकैः प्रस्थोन्मितं घृतं शृतं पीतं समानं पूर्वेण ॥

4.16.6

वर्षाभूद्वयदशमूलाश्वगन्धासुषवीच्छिन्नरुहाभार्ङ्गीरास्नैरण्डबलाकालाशठीपुष्करमूलगन्धपलाशान् द्विपलांशान् प्रस्थं प्रस्थं च यवमाषकोलकुलत्थानां जलद्रोणे पादावशिष्टं विपचेत् ।
तेन पृथक् समं मातुलुङ्गदाडिमाम्रातकरसशुक्ततुषोदकारनालं घृतप्रस्थं दध्याढकोपेतं वचाकारवीशताह्वाद्विक्षारत्रिलवणत्रिकटुकरास्नाकुम्भनिकुम्भयवानीयवानकहिंस्राम्लवेतसनीलिनीफलविडङ्गदाडिमहिङ्गुपाषाणभेदकोषकवृषकहपुषाभार्ङ्गीश्वदंष्ट्रात्रपुसैर्वारुबीजाजाजीसारिवोपकुञ्चिकाग्रन्थिककुस्तुम्बरीतुम्बुरुफलमूर्वाचित्रकसुरसागजपिप्पलीगर्भं साधयेत् ।
दाधिकाख्यमेतत् सर्पिः समानं पूर्वेण ।
मूत्रघातोन्मादापस्मारवातव्याधिहरं च ।
पिबेद्वा व्योषषड्ग्रन्थाकृमिघ्नकटुकाचित्रकसौवर्चलाभयायवक्षारैर्दशांशक्षीरसंयुक्तं साधितं सर्पिः ।
क्षीरायोग्याय च सुरामदिरामस्तुदधिसरदाडिमरसानामन्यतमं विदध्यात् ॥

4.16.7

अभ्यङ्गपूर्वं चैनं सदा स्वेदयेत् ।
स्नेहस्वेदौ हि सम्यक् प्रयुक्तौ स्रोतसां मार्दवमुपजनय्यानिलं जित्वा भित्वा च विबन्धमाशु गुल्ममपकर्षतः ॥

4.16.8

तत्र हृदयजे विशेषेण स्नेहपानमिच्छन्ति ।
बस्तिजे बस्तिमुभयं नाभिपार्श्वाश्रये ।
विबद्धानिलवर्चसश्च दीप्ताग्नेः स्निग्धोष्णानि बृंहणानि चान्नपानानि पुनःपुनश्च स्नेहपाननिरूहानुवासनानि कफपित्तानुरक्षिणायोज्यानि ॥

4.16.9

अन्यथा कफो विवृद्धस्तन्द्रागौरवारुचिहृल्लासाग्निसादान् कुर्यात् ।
तमुल्लिखेत् ।
तत्कृतेषु च शूलानाहविबन्धेष्वनन्तरोक्तानां घृतानामौषधैश्चूर्णगुटिकाक्वाथान् कोलदाडिममातुलुङ्गसुरामण्डतक्रमस्तुधान्याम्लोष्णोदकानामन्यतमेन प्रकल्पयेत् ।
अपि च ॥

4.16.10

त्रिलवणहपुषाजमोदाजगन्धावचाहिङ्गुपाठोपकुञ्चीशठीजीरकाजाजिकुस्तुम्बरीबाष्पिकाकारवीतुम्बुरुस्वर्जिका यावशूको जटापौष्करी दाडिमं तिन्तिणीकं विडङ्गानि भार्ङ्गी वरो वेतसाम्लो मिशिर्मरिचगजकणाभयापञ्चकोलानि कुम्भो निकुम्भो विशाला यवानी सुराह्वं च तत्सर्वमेकत्र चूर्णीकृतं बीजपूराद्रसेनासकृत् भावितं यः पिबेत् प्रातराहारकाले ऽथवा मासमात्रं हिताशी नरः सादरम् ।
प्लुतमशिशिरवारिणा जीर्णमद्येन मूत्रेण तक्रेण कोलाम्भसा मस्तुना पेयया सर्पिषौष्ट्रेण दुग्धेन कौलत्थयूषेण वा क्षारनिश्च्योततोयेन वा दाडिमाद्वारसेनात्मवानेभिरेवौषधैः साधितं वा घृतं हृदयगुदकटीयकृत्प्लीहगुह्याश्रितं तस्य शूलं प्रणश्येत् तथा गुल्मविष्टम्भदुर्नामकृच्छ्रोदराध्मानहिध्माविबन्धाः सवर्ध्मारुचिश्वासकासाः प्रपक्तुं च शक्तो भवेत् पावकः प्राश्यमानानि पाषाणचूर्णान्यपि ॥

4.16.11

अभयापलद्वयमम्लवेतसपलद्वयं पालिकान् वचाविश्वभेषजत्रिवृद्दन्तीचित्रकशठीपुष्करजटायावशूकान् कार्षिकान् मरिचाजाजीसैन्धवोपकुञ्चिकाशितिवारकयवानीधातकीपुष्पविडङ्गान् हिङ्गुत्रिकर्षं च चूर्णितं पूर्ववद्भावितं पीतं च समानं तेन ॥

4.16.12

यवानीशतपुष्पानागकेसरवचामुस्तव्योषपाठागुग्गुलुत्रिवृतागजपिप्पलीतालीसैलापामार्गद्रवन्तीनिदिग्धिकामूलानां भागो भागश्चाम्लवेतसस्य तत्सूक्ष्मरजीकृतं मातुलुङ्गदाडिमबदररसशीधुसुरोष्णसलिलान्यतमेन पीतं शूलगुल्मवर्ध्मानाहोदरकोष्ठस्तैमित्यार्शोश्मरीमूत्रग्रहकटीपृष्ठग्रहोन्मादापस्मारस्कन्नशुक्रताग्निसादानपनयति ॥

4.16.13

तिलकुन्तलपलाशसर्षपयवनालमूलकबीजानामन्तर्धूमदग्धानां क्षारं गोजाविमहिषीखरहस्तिमूत्रैर्बहुकृत्वो गालयेत् ।
ततस्तदच्छं शुण्ठीसैन्धवकुष्ठकृमिघ्नचूर्णप्रतीवापमधिशृत्य लेहीभूतमाददीत ।
तत्तैलयुक्तं समानं पूर्वेण ॥

4.16.14

महौषधदेवदारुदन्तीत्रिवृत्पाठाक्षारद्वयत्रिफलोपकुञ्चिकाचविकाद्वीपिप्पलीद्वयपिप्पलीमूलसर्पसुगन्धा कुष्टकटुरोहिणीनामर्धपलिकान् भागान् पलं पलं च पञ्चानां लवणानामेकत्र चूर्णयित्वा दध्ना त्रिवृतेन चाप्लाव्य कलशोदरे ऽन्तर्धूमं पाचयेत् ।
अग्निवर्णं च कलशमपनीय क्षारमाददीत ।
एष क्षारागदो भेलविहितः समानः पूर्वेण सर्पमूषिकदष्टगरापस्मारोन्मादाश्मरीयोनिशुक्रदोषांश्च साधयति ॥

4.16.15

पित्तं च विवृद्धमन्तः सन्तापं जनयेत् ।
तत्रैरण्डतैलं सपयस्कं विरेचनार्थं पिबेत् ।
सकफस्तु वारुणीमण्डमिश्रम् ।
अत्युद्रिक्तपित्तस्त्रिफलां त्रायमाणां वा क्षीरेण पिबेत् ।
विरिक्तस्यापि सन्तापानुवृत्तौ रक्तमवसेचयेत् ॥

4.16.16

विड्विबन्धे चोदावर्तक्रमं कुर्यात् ।
लुञ्चिततिलपलद्वयं शुण्ठ्यर्धपलं च पिष्टं गुडपलोपेतमुष्णेन पयसा पिबेत् ।
तद्वातगुल्मोदावर्तयोनिशूलानपोहति तथाक्षीरशृतेन महापञ्चमूलेन शिलाह्वयम् ।
लशुनं तु क्षीरसिद्धं पीत्वा गुल्मोदावर्तगृध्रसीहृद्रोगविद्रधिशोषविषमज्वरान् जयति ॥

4.16.17

बृहतीद्वयबिल्वगोक्षुरकैरण्डमातुलुङ्गीमूलपाषाणभेदक्वाथः सयावशूको गुल्मशूलहरः ।
माषपर्णीमुद्गपर्णीसहदेवाद्द्रस्वपञ्चमूलैरण्डेक्षुवालिकानिर्यूहो यवक्षारोपेतः सर्वगुल्मकोष्ठशूलघ्नः ।
देवदारुनागरैरण्डपुष्करमूलानां क्वाथः सर्वगुल्मशूलघ्नः ।
पुष्करमूलदुरालभायवशुण्ठीनां वा ।
तैलारनालमूत्रमदिरायावशूकाश्चैकत्र पीता गुल्मोदरानाहप्लीहहराः ।
स्वेदांश्च विविधान् पुनःपुनर्योजयेत् ॥

4.16.18

स्रंसनार्थी नीलिनीफलचूर्णयुक्तानि पूर्वोक्तानि हवींषि पिबेत् ।
अथवा रामठस्यैको भागः सैन्धवस्य त्रयो नवैरण्डतैलस्य सप्तविंशतिर्लशुनस्वरसस्य तदैकध्यं कृत्वा पीतमुदरगरगुल्मवर्ध्मप्लीहशूलहरम् ।
नीलिनीबलाव्याघ्नीकटुकाफलतालपत्रिकारास्नाकृमिघ्नानि पालिकान्यपामाढके साधयित्वाष्टभागावशिष्टमवतारयेत् ।
तेन स्नुहीक्षीरपलप्रतीवापं दधिसमं सर्पिःप्रस्थं पचेत् ।
तत्पेयामण्डेन सह रसाशिना नीलिनीघृतं पलमात्रया पीतं गुल्मप्लीहकुष्ठश्वित्रजठरव्यङ्गशोफज्वरपाण्डुरोगोन्मादापस्मारानपकर्षति ।
दुर्विरेच्यो हि सर्व एव गुल्मी मारुताभिभूतकोष्ठत्वात् ।
तस्मात्सुस्निग्धमेनं स्नेहविरेकैर्वा शोधयेत् ॥

4.16.19

पित्तगुल्मे तु स्निग्धोष्णेन जाते स्रंसनार्थं मधुना कम्पिल्लकमवलिह्यात् ।
द्राक्षाभयारसं वा सगुडं पिबेत् ।
कल्पोदितानि वा विरेचनानि प्रयुञ्जीत ॥

4.16.20

रूक्षोष्णसमुद्भूते पुनः संशमनार्थं तिक्तकं वासाघृतं वा पिबेत् ।
अथवा तृणपञ्चमूलक्वाथेन जीवनीयकल्केन च सिद्धं सर्पिः ।
तथा न्यग्रोधादिगणेन तृणपञ्चमूलादिभिर्वा पृथक् साधितं क्षीरम् ॥

4.16.21

रूक्षोष्णजे ऽपि चात्ययिके सामान्यतो वा समुत्पन्ने विद्रधिविहितानां त्रिफलादिक्वाथत्रायमाणाघृतद्राक्षाघृतानामन्यतमं पिबेत् ।
क्षीरं वा त्रायमाणाशृतं कोष्णं पीत्वा क्षीरमेव सुखोष्णमनुपिबेत् ॥

4.16.22

पक्वाशयस्थे वा गुल्मे क्षीरबस्तिभिः सतिक्तैः संशोधयेत् ।
शीतद्रव्यसिद्धैश्च स्नेहैरभ्यञ्जयेत् ।
मणिकनकरजतताम्रभाजनानि च शिशिरवारिपूर्णानि गुल्मदेशस्योपरि धारयेन्मुक्तावलीश्च सुशीताः ।
एवमसिद्धौ विदाहपूर्वरूपेषु चासृक् स्रावयेत् ।
स्रुतरक्तं च जाङ्गलरसैर्लब्धबलमर्तिशेषनाशाय पुनः सर्पिरभ्यासयेत् ॥

4.16.23

विद्रधिवच्च विदह्यमानमुपनाहयेत् ।
पर्यागतमाप तद्वदुपलक्ष्य तथैव सर्वथोपचरेत् ॥

4.16.24

श्लेष्मगुल्मिनं प्रागेव विधिवद्वामयेदवाम्यमुपवासयेत् ।
लङ्घितस्योष्णकटुतिक्तदीपनं संसर्गमाचरेत् ।
तथा स्वेदान् वातगुल्मोक्तानि च घृतादीनि द्विगुणहिङ्गुक्षाराम्लवेतसानि ॥

4.16.25

दशमूलक्वाथे व्योषदाडिमहिङ्गुयवक्षारबिडसैन्धवयुक्तं सर्पिः सिद्धं श्लेष्मगुल्मघ्नम् ।
भल्लातकपलद्वयं लघुपञ्चमूलं च पालिकमुदकाढके प्रस्थावशेषं पाचयेत् ।
तस्मिन् क्षीरप्रस्थे च सर्पिःप्रस्थं हिङ्गुविडङ्गशठीबिडसैन्धवक्षाररास्नानागरपिप्पलीषड्ग्रन्थामधुकचित्रकैः काषिकैर्विपचेत् ।
एतद् भल्लातकघृतं कफगुल्मप्लीहकासश्वासग्रहणीपाण्डुरोगघ्नम् ।
षट्पलं वा द्विगुणक्षारं क्षीररहितं मस्तुदधिकाञ्जिकार्द्रकरसाढकद्वयोपेतं साधयित्वा प्रयुञ्जीत ।
हिङ्गुहरीतकीपुष्करमूलशुण्ठीसैन्धवबिडश्यामायवक्षारतुम्बुरुचूर्णो यवक्वाथाप्लुतः सर्पिर्भृष्टो भक्षितः शूलगुल्मकाठि न्यघ्नः ॥

4.16.26

ततो ऽस्य सर्वमङ्गं गुल्मं च साध्मानं सविबन्धं कठिनमुन्नतं गूढमांसं स्थिरं महावस्तुं च बहुधा बहुशश्च स्वेदयेत् ।
स्निग्धस्विन्नशरीरस्य शिथिलतां गते गुल्मे यथोक्तां घटिकां लागयेत् ।
तया सङ्गृहीते च गुल्मे घटीमपनयेत् भिन्द्याद्वा ॥

4.16.27

ततो हृदयमान्त्रं च वर्जयन् गुल्मं विमार्गाजपदादर्शान्यतमेन वस्त्रान्तरितं प्रपीडयेत् प्रमृज्यात् ।
ततः साल्वलादिभिः सुखोष्णैर्लेपयित्वा लोहपात्रैः स्वेदयेत् ।
एवममुना क्रमेण स्थानादपसृते शिथिलीभूते च गुल्मे विरेकान् स्नेहवतो दाशमूलिकांश्च ब्स्तीन् विदध्यात् ।
नीलिनीघृतमेनं द्विगुणप्रमाणं पाययेत् ।
उदरोक्तानि च सर्पींषि ॥

4.16.28

त्रिफलाकुम्भनिकुम्भदशमूलानां षोडशांशावशिष्टं क्वाथं घृतमेरण्डतैलं क्षीरं चैकतः साधयेत् ।
अयं मिश्रकस्नेहः कफगुल्मवातविड्विबन्धोदावर्तप्लीहोदरयोनिशूलान्यपकर्षति ॥

4.16.29

पिप्पल्यामलकद्राक्षाश्यामाद्यैः पालिकैरेरण्डतैलहविषोः प्रस्थौ षड्गुणे पयसि पचेदयं मिश्रकस्नेहो गुल्मिनां स्रंसनो वृद्धिविद्रधिगुल्मवातव्याधिषु च परममृतम् ॥

4.16.30

दन्त्याः पलानि पञ्चविंशतिस्तावन्त्येव चित्रकस्य तावत्य एव हरीतक्यः सर्वमेकत्र सलिलकलशे ऽष्टांशावशिष्टं साधयित्वा पूते च तस्मिन् रसे ताश्च हरीतकीः पञ्चविंशतिं गुडपलानि तैलार्धकुडवं चूर्णीकृतं त्रिवृताकुडवमर्धपलोन्मितां मागाधिकां महौषधं च प्रक्षिपेत् ।
ततो मृद्वग्निना लेहीभूते ऽवतारिते शीते च तैलसमं मधु कर्षांशं च चतुर्जातकचूर्णं मिश्रयेत् ।
एता दन्तीहरीतक्यः सावलेहाः पञ्चविंशत्यहोभिर्भक्ष्यमाणा गुल्मार्शःश्वयथुकुष्ठकामलारोचकग्रहणीपाण्डुहृद्रोगोत्क्लेशप्लीहोदरविषमज्वरानपोहन्ति ।
हृद्यं सुखं च विरेचनम् ॥

4.16.31

गुडाक्षीरभावितं वा त्रिवृताचूर्णं सर्पिर्मधुभ्यामवलिह्यात् ।
गुग्गुलुं वा गोमूत्रेण पिबेत् ।
तेन वा श्यामात्रिवृत्कुष्ठदन्तीगुग्गुलुक्षारहरीतकीः पीलुरसं वा समधुसर्पिर्लवणम् ॥

4.16.32

मूत्रबस्तिक्षारांश्च तांस्तांस्तत्र तत्रोक्तान् क्षीररसस्निग्धाहारो द्व्यहमेकाहं वा विश्राम्य प्रयुञ्जीत ।
क्षारो हि श्लेष्माणं स्निग्धस्थिरं मधुरमाशयात् छिन्दन् क्षरयति ॥

4.16.33

कफरुद्धमार्गशुध्यर्थं विविधांश्च चूर्णलवणतक्रारिष्टासवानवचारयेत् ।
पिप्पलीपिप्पलीमूलसैन्धवाजाजीचित्रकचूर्णयुक्तां च जीर्णसुराम् ।
अपि च ॥

4.16.34

वमनैर्लङ्घनैः स्वेदैः सर्पिष्पानौर्विरेचनैः ।
बस्तिभिर्गुटिकाचूर्णक्षारारिष्टासवैरपि ॥

4.16.35

श्लैष्मिकः कृतमूलत्वाद्यदि गुल्मो न शाम्यति ।
तस्य दाहं हृते रक्ते कुर्यादन्ते शरादिभिः ॥

4.16.36

अथ वस्त्रान्तरितं सपर्यन्तं गुल्मनिचयं प्रदीप्तेन शरलोहाग्निमन्थतिन्दुककाष्ठानामन्यतमेन नाभिबस्तिहृदयान्त्ररोमराजीः परिहरन् नातिगाढं परामृशेत् ।
ततः कषायस्वादुशीतैरग्निवेगमुपशमय्य वर्णोपक्रमं कुर्वीत ॥

4.16.37

व्यामिश्रदोषे तु व्यामिश्रमिदमेव यथोक्तं विदध्यात् ॥

4.16.38

रक्तगुल्मे पुनरतीतप्रसवकालाया योषितः स्नेहस्वेदपूर्वकं स्नेहविरेचनं वितरेत् ।
पलाशक्षारोदकसिद्धं च यमकम् ।
गुल्मभेदनाय तीक्ष्णोष्णं च विधिम् ॥

4.16.39

एवमभिद्यमाने योनौ योनिविरेचनार्थं क्षारेण महावृक्षक्षीरेण वा युक्तं पललम् ।
ताभ्यां वा भावितान् कटुकमत्स्यांस्तत्पित्तभावितान् वा वराहपित्तभावितान् वा नक्तकानूर्ध्वाधोभागिकद्रव्यभावितान् वा ।
सगुडक्षारं किण्वं वा ।
बस्तिं च सक्षारक्षीरमूत्रं दाशमूलिकमुत्तरबस्तिं च योजयेत् ॥

4.16.40

प्रवृत्तं तु रक्तं रसौदनाशिन्या उपेक्षेत ।
अतिप्रवृत्तं तु रक्तं रक्तपित्तोपक्रमेण साधयेत् ॥

4.16.41

सर्वेषु चान्नपानस्वरूपज्ञो गुल्मेष्वाहारमग्निबलापेक्षी प्रयुञ्जीत ॥

4.16.42

आनाहादिष्वप्यामशुद्धवातोदावर्तानुरोधेन गुल्मवत् प्रतिकुर्यादिति ।
भवति चात्र ॥

4.16.43

मन्दे ऽग्नौ वर्धते गुल्मः प्रदीप्ते तु प्रशाम्यति ।
शमप्रकोपौ दोषाणां सर्वेषां यत्तदाश्रयौ ॥

मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc