अष्टाङ्गसंग्रह · अध्याय 4.15
अथातो विद्रधिवृद्धिचिकित्सितं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥
सर्वमेव विद्रधिमामं शोफविधिना यथादोषमुपाचरेत् ।
प्रततं च शोणितमपहरेत् ।
पाकाभिमुखं चोपनाह्य पक्वं पाटयित्वा व्रणवच्चिकित्सेत् ॥
आभ्यन्तरे तु विद्रधौ वरणादिक्वाथमूषकादिप्रतीवापं पिबेत् ।
आभ्यामेव च वर्गाभ्यां विरेचनद्रव्यैश्च पानाय् सर्पिः प्रकल्पयेत् ।
आस्थापनमनुवासनं च ।
मधुशिग्रुम् च पानभोजनलेपनेषु ।
शिलाह्वयं वा कल्पविधानेनोपयुञ्जीत ।
गुग्गुलुं वा यथादोषं च सर्वशो गुल्मवदुपक्रमेत् ॥
त्रिफलापिचुमन्दमधुककटुकापटोलानि शाणांशानि ।
त्रिवृत्त्रायमाणयोः कर्षम् ।
मसूरपलं चैकध्यमष्टगुणे ऽम्भसि साधयित्वा पूतं रसं घृतमूर्छितं पिबेत् ।
तेन विद्रधिगुल्मज्वरदाहशूलतृष्णाहृद्रोगभ्रमारतिमूर्छारक्तपित्तकामलाकुष्ठविसर्पाः प्रशाम्यन्ति ॥
त्रायमाणाप्रस्थक्वाथे मुस्तकटुकातामलकीत्रायमाणाचन्दनदुरालभाजीवन्तीवीरोत्पलैः पालिकैर्घृतप्रस्थं क्षीरामलकरसप्रस्थद्वयोपेतं विपक्वं समानं पूर्वेण ॥
द्राक्षामधूकखर्जूराभीरुविदारीपरूषकत्रिफलाक्वाथे क्षीरेक्षुधात्रीस्वरससमेतमभयागर्भं सर्पिर्विपाचयेत् ।
तच्छीतं मधुशर्करापादयुक्तं समानं पूर्वेण ।
भृशं च शृङ्गादिभिः शोणितमवसेचयेद्यथासन्नम् ।
बाहुमध्ये वा सिरां व्यधेत् ।
पच्यमानं च कोष्ठगतं बहिरुन्नतमुपनाहयेत् ॥
तत्रैव च पिण्डिते शूले तत्पार्श्वपीडनेन लब्धसुप्तौ शस्त्रकर्मविधिनिर्दिष्टैश्च चिह्नैः पक्वमुपलक्ष्य भित्त्वा व्रणवत् साधयेत् ॥
आभ्यन्तर एव च पक्वमूर्ध्वमधो वा प्रवृत्तं पूयमुपद्रवान् परिरक्षन् उपेक्षेत दशाहमात्रम् ॥
असम्यग्वहति वा क्लेदे तन्निर्वाहणार्थमम्लसुरासवमैरेयोष्णोदकान्यतमेन वरणादिं मधुशिग्रुं वा पिबेत् ।
तन्मूलैर्वा कृतां यवागूं यवकोलकुलत्थयूषेण चाश्नीयात् ।
ऊर्ध्वं च दशाहात्तिल्वकघृतेन त्रायमाणा घृतेन वा यथाबलं शोधयेत् ॥
विशुद्धश्च तिक्तकमल्पमल्पं सर्पिर्मधुनोपेतमुपयुञ्जीत ।
यथा च नोपैति पाकं तथा प्रयतितव्यम् ।
शीघ्रविदाहित्वात्तस्य विद्रधिरिति संज्ञा ।
पक्वे तु पुनर्दैविकी सिद्धिराशुकारितरश्च सर्वामयेभ्यो विद्रधिः ।
सति च प्रमेहे प्रमेहचिकित्सितमीक्षेत ॥
स्तनविद्रधिमपि व्रणविधानेनोपचरेत् ।
पच्यमानं यथेष्टभोजनेन पाचयेत् ।
न पुनरुपनाहयेत् ।
उपनद्धो हि स्तनो मृदुमांसतया शीघ्रमेव पक्वः सङ्कोथमवाप्यावदीर्येत ।
पक्वं च स्तनविद्रधिं स्तन्यवाहिनीः सिराः सचूचुकं च कृष्णमण्डलं परिहरन् शस्त्रेणोपक्रमेत ।
सर्वासु चामविदग्धपक्वव्रणावस्थासु स्तनं निर्दुहीत ।
दन्तादिविद्रधीनामपि यथास्वमेव वक्ष्यते लक्षणं साधनं च ॥
इति विद्रधिचिकित्सा ॥
वृद्धौ तु मारुतजे त्रिवृता स्निग्धमातुरं स्विन्नं च मिश्रकसुकुमारकतिल्वकैरण्डकोशाम्रफलस्नेहानामन्यतमेन विरेचयेत् ।
ततो ऽनिलघ्नक्वाथकल्कैर्निरूहयेत् निरूढं च मांसरसेनाशितं यष्टीमधुकतैलेनानुवासयेत् ।
स्वेदप्रलेपोपनाहांश्च प्रयुञ्जीत ।
पक्वं च भित्वा व्रणमिव चिकित्सेत् ॥
पित्तवृद्धिं पित्तशोफवत् ।
पक्वं च पित्तव्रणवत् ॥
कफवृद्धिमपि कफशोफवत् ।
पिबेच्च पीतदारुकषायं मूत्रेण ।
कफग्रन्थिवच्च सर्वं विम्लापनवर्ज्यमाचरेत् ।
पक्वं च पाटितं श्लेष्मव्रणवत् ।
रक्तजं पित्तवृद्धिवत् ।
प्रततं चात्र रक्तमपहरेत् ॥
मेदोवृद्धिं गवादिकरीषतुषकिण्वसुरसादिभिरुष्णरूक्षैर्मूत्रयुक्तैः स्वेदयित्वा पुनस्तद्विधैरेव सुखोष्णैः सोत्सेधं लेपयेत् ।
तद्वच्छिरोविरेकद्रव्यैर्वा ।
स्विन्नं चैवं फलसेवनीं परिहरन् वृद्धिपत्रेण विदार्यापनीयमेदः कासीससैन्धवमाक्षिकैः प्रतिसार्य सीव्येत् ।
ततः सुमनोग्रन्थिमनःशिलैलाभल्लातकैस्तैलमभ्यङ्गार्थं कुर्यात् ।
आव्रणसन्धानाच्च स्नेहस्वेदौ ॥
मूत्रवृद्धिं स्निग्धैः स्वेदयित्वा वस्त्रपट्टेन वेष्टयेत् ।
ततो ऽधस्तात् सेवन्या दकोदरवद्व्रीहिमुखेन भित्वा नाड्या स्रावयेत् ।
ततः स्थगिकाबन्धं कुर्यात् ।
व्रणे च शोधनरोपणानि ॥
आन्त्रवृद्धिं फलकोशमसंप्राप्तं वातवृद्धिवदुपचरेत् ।
पुनर्नवशतपलं दशपलानि च पृथक् दशमूलपयस्याश्वगन्धाशतावर्येरण्डमूलान्यपां वहे ऽष्टांशावशेषं साधयेत् ।
पूतशीते च तस्मिन् निर्यूहे त्रिंशद्गुडपलान्येरण्डतैलप्रस्थं घृतद्विप्रस्थं क्षीरद्विप्रस्थं कल्कीकृतानि च द्विपलिकानि द्राक्षानागरपिप्पलीपिप्पलीमूलयवानीयवक्षारचित्रकमधुकसैन्धवान्यावाप्यैकध्यं विपचेत् ।
एतत् सर्वयन्त्रणास्वपरिक्लेशेन मुकुमाराख्यं सुकुमाराणामीश्वराणां नारीणां क्षीणरेतसामप्रजानामल्पाग्नीनां विषमाग्नीनां च कामतोन्नपाने वा प्रयुक्तमलक्ष्मीघ्नं कान्तिकरं बल्यं बृंहणं वयस्थापनं वर्ध्मविद्रधिप्लीहगुल्मोदावर्तशोफोदरार्शोमेढ्रयोनिरोगेषु महावातव्याधिषु च परममौषधम् ।
गन्धर्वहस्तमूलतुलां यवाढकं नागरार्धकुडवं च सलिलद्रोणे पादशेषं विपचेत् ।
तेन द्विगुणक्षीरेणैरण्डतैलप्रस्थं साधयेत् ।
कल्कपिष्टं चात्र दद्यात् पुनर्गन्धर्वहस्तमूलकुडवं शुण्ठीपलं च ।
एतत् गन्धर्वहस्ततैलं तुल्यं पूर्वेण ।
भवति चात्र ॥
यायाद्वर्ध्म न चेच्छातिं स्नेहरेकानुवासनैः ।
बस्तिकर्म पुरः कृत्वा वङ्क्षणस्थं ततो दहेत् ।
अग्निना मार्गरोधार्थं मरुतो ऽर्धेन्दुवक्रया ॥
अङ्गुष्ठस्योपरि स्नाव पीतं तन्तुसमं च यत् ।
उत्क्षिप्य सूच्या तत्तिर्यक् दहेच्छित्वा यतो गदः ॥
ततो ऽन्यपार्श्वे ऽन्ये त्वाहुर्दहेद्वानामिकाङ्गुलेः ॥
गुल्मे ऽन्यैर्वातकफजे प्लीह्नि चायं विधिः स्मृतः ।
कनिष्ठिकानामिकयोर्विश्वभ्यां तु यतो गदः ॥
मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0