भाषा

ENहिગુ
ग्रंथ पाठ

अष्टाङ्गसंग्रह · अध्याय 4.14

4.14.1

अथातः प्रमेहचिकित्सितं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥

4.14.2

प्रायेण हि प्रमेहिणो ऽभिष्यण्णदेहत्वादुपहताग्नेर्भक्ष्यादिपञ्चविधमप्यन्नमुपयुक्तं मूत्राय मेदसे च विपरिणमते ।
तस्मादस्य तेजोधातुवृद्धये क्लेदमेदः प्रशमनाय च बलिनः संशोधनानि प्रयुञ्जीत ।
दुर्बलस्य तु संशमनानि ।
सर्वस्य च बद्धमूत्राण्यमेदस्कराण्यबृंहणान्यग्निदीपनानि बलजननानि चान्नपानानि ।
बलं हि विधिनोपचितमशेषामयक्षयाय सम्प्रवर्तते ॥

4.14.3

अथ संशोधनार्हं प्रमेहिणमादवेव बिभीतकसर्षपेङ्गुदीकरञ्जनिम्बनिकुम्भान्यतमतैलेन त्रिकण्टकादिना वा यथास्वं सिद्धेन स्नेहेन प्रियङ्वादिशृतेन वा हविषा स्नेहयित्वा कल्पविहितैः प्रयोगैर्वामयेद्विरेचयेच्च ॥

4.14.4

ततो जातबलं मुस्तामरदारुनागरप्रतिवापेन सुरसादिकषायेणास्थापयेत् ।
पित्तोत्तरं तु न्यग्रोधादिकषायेण ।
ततश्च जाङ्गलरसैः क्रमेण सन्तर्पयेत् ।
अत्यपतर्पणेन हि प्रमेहिणो विशेषेण मूत्रकृच्छ्रबस्तिमेढ्रशूलगुल्मातिकार्श्यभ्रमादीनां सम्भवः ।
ततो ऽनुबन्धरक्षणार्थं शमनार्हस्य च शमनान्यवचारयेत् ॥

4.14.5

प्रातः सर्वप्रमेहेषु हरिद्रां मधुना युक्तामामलकरसेन पिबेत् ।
अथवा सालसप्तपर्णकुटजकपित्थकम्पिल्लकबिभीतकरोहितककुसुमानि तच्चूर्णं वा क्षौद्रेण लिह्यात् ।
हरीतकीचूर्णं वा ।
पिबेद्वा त्रिफलामुस्तादेवदारुहरिद्राक्वाथम् ।
असनचित्रकत्रिफलादार्वीकलिङ्गकानां वा सक्षौद्रम् ।
तद्वद् गुडूच्या वा स्वरसमामलकानां वा ॥

4.14.6

विशेषतस्तु कफमेहेषु कट्फलमुस्तालोध्राभयानां समाक्षिकं कषायम् ।
तगरविडङ्गद्विहरिद्राणां वा ।
चन्दनागरुकुष्ठदेवदारूणां वा ।
पाठाग्निमन्थचविकात्रिफलानां वा ।
पित्तप्रमेहेषु तु लोध्रसेव्यार्जुनचन्दनानाम् ।
निम्बामृतामलकपटोलीनां वा ।
शिरीषसर्जार्जुनकेसराणां वा ।
फलिनीकमलोत्पलकिंशुकानां वा ।
कुटजोत्पलकटङ्कटेरीणां वा ॥

4.14.7

तेष्वपि च विशेषेण पिबेदुदकमेहादिषु क्रमात् कषायं पारिजातस्य वैजयन्त्याः सप्तच्छदस्यारिष्टस्य निशायाः ककुभचन्दयोश्चित्रकस्य पाठाजोङ्गकयोः खदिरस्य त्रिफलारग्वधयोश्च मधुयुतम् ।
पिबेच्च सिकतामेहे हिङ्गुप्रवालकैलालवणानि मद्येन मूत्रेण क्षारोदकेन वा ।
क्षारमेहादिषु त्रिफलाया असनादेः न्यग्रोधादेः शम्याकस्य चन्दनमञ्जिष्ठयोः गुडूचीतिन्दुकास्थिकाश्मर्यखर्जूराणां च मधुयुक्तम् ।
शोणितमेहे मदयन्तीपत्रकल्कं च सक्षौद्रं शीताम्बुना ॥

4.14.8

वातयेष्वपि यापनार्थं कफपित्तोल्बणेषु पिबेत् कषायम् ।
तत्र वसामेहे ऽग्निमन्थस्य ।
मज्जमेहे ऽमृतचित्रकयोः ।
कुष्ठकुटजपाठाकटुरोहिणीकल्कमिश्रम् हस्तमेहे हस्तिसूकरखरोष्ट्रास्थिक्षारम् ।
मधुमेहे कदरखदिरपुरकषायम् ॥

4.14.9

कफानुगतेषु तु वसादिमेहेषु यथास्वकषायेण साधितानि तैलानि ।
पित्तानुगतेषु च घृतानि यमकं वा प्रयुञ्जीत ॥

4.14.10

एतेन शेषेष्वपि मेहेषु स्नेहविकल्प उक्तो वेदितव्यः ॥

4.14.11

तथा कषायसम्पृक्तैः स्नेहैः कफपित्तमूत्रमेदसामनिलस्य चोपशमो भवति ॥

4.14.12

त्रिकण्टकातिविषाभल्लातकलोध्रवचापिचुमन्दघननिशाजमोदार्जुनाश्मन्तकपटोलसोमवल्कमञ्जिष्ठापद्मकचन्दनागरुभिश्च स्नेहो विपक्वः सर्वमेहघ्नः ॥

4.14.13

दशमूलहरीतकीदेवदारुकरञ्जद्वयद्विवर्षाभूदन्तीभूकदम्बभल्लातकशठीपुष्करमूलार्कमूलस्नुहीमूलवरणमूलपिप्पलीमूलानि प्रत्येकशो दशपलोन्मितानि यवकोलकुलत्थप्रस्थत्रयं चाष्टगुणे ऽम्भसि साधयित्वा पादशेषं कषायमवतारयेत् ।
तेन वचाविडङ्गकम्पिल्लकभल्लातकभार्ङ्गीरोहिषचविकापिप्पलीद्वयत्रिवृन्निचुलविश्वभेषजप्रतीवापं घृतप्रस्थं विपचेत् ।
एतद्धान्वन्तरं सर्पिः सर्वमेहपिटकाकुष्ठविषशोफार्शोगुल्मविद्रधिप्लीहजठरश्वासकासवर्ध्मपाण्डुरोगवातशोणितोन्मादापस्मारहरम् ॥

4.14.14

आहारं च यवविकृतिप्रायं मध्वामलकोपेतमाहारयेत् ।
यथायथं प्रमेहघ्नौषधनिर्यूहैः सुबहुशो यवान् भावयित्वा सक्तुमन्थापूपधानालाजवाट्यादीन् विविधांश्च लघून् भक्ष्यानुपकल्पयेत् ।
तद्वच्च गोधूमान् ।
गवाश्वखरजठरस्थितैश्च यवैर्वंशयवैर्वा ।
यवो हि बद्धमूत्रो मेदःपित्तकफहरः स्थैर्यकरश्च ।
तथा शालिषष्टिकतृणधान्यानि मुद्गादयस्तिक्तानि शाकानि जाङ्गलानि च पिशितानि शूल्यानि परिशुष्काणि प्रदिग्धानि भृष्टचणकोपदंशानि विविधासवानुपानान्युपयुञ्जीत ॥

4.14.15

लोध्रमूर्वाशठीविडङ्गत्रिफलापुष्करमूलचातुर्जातकक्रमुकचविकायवानीश्यामाभार्ङ्गीद्विविशालाभूनिम्बतगरचित्रकपिप्पलीमूलकटुरोहिणीकुष्ठपाठेन्द्रयवातिविषाप्लवनखमरिचानि कर्षांशान्यपां कलशे ऽधिशृत्य तुर्यशेषे रसे पूते जतुशृतपुराणघृतभाजनस्थे ऽर्धभागेन मधु निधाय पक्षमुपेक्षितो ऽयं लोध्रासवः सर्वप्रमेहकुष्ठकिलासस्थौल्यारुचककृमिपाण्डुशोफार्शोग्रहणीदोषान्निहन्ति ॥

4.14.16

दशमूलदन्तीत्रिवृच्छ्यामाश्रेयसीचित्रकपुनर्नवसुधाधवैकैषिकागण्डीरगुडूचीनां पृथक् पञ्चविंशतिपलान् भागांस्त्रिफलाढकं च सलिलद्रोणैर्दशभिः पादशेषं निर्यूहमवतारयेत् ।
तस्मिन् पूतशीते शुचिभाजनस्थे पुराणगुडतुलाद्वयं गोमूत्राढकमयोरजोर्धाढकं मागधिकाप्रस्थं कुटजार्जुनकुष्ठकृमिघ्नवचाचित्रकपलानि च द्वादश प्रतीवापं दत्वा मासं स्थापयेत् ।
एष दशमूलारिष्टः समानः पूर्वेण ॥

4.14.17

असनादिद्रव्याणि पृथक् विंशतिपलान्यम्भसां घटाष्टकेन क्वाथयेत् ।
चतुर्थस्थितं च परिस्रुतं सुशीतं गुडपलशतद्वयेन मध्वर्धाढकेन श्लक्ष्णपिष्टेन च पृथक् पलांशेन वत्सकादिना संयोज्य सक्षौद्रेण पिप्पलीचूर्णेनान्तःप्रलिप्ते जतुसृते घृतकुम्भे आवाप्य यवप्ल्ले निधापयेत् ।
तत्र च तनूनि खदिराङ्गारप्रतप्तानि त्रींश्चतुरो वा मासानयं विवृतो लोहारिष्टः पूर्वस्मादधिकगुणः ।
शीघुमधुमाधवानपि च निगदान् पिबेत् ॥

4.14.18

निवृत्तमद्यस्तु सारोदकं दर्भाम्भो मधुकपित्थतिन्दुकमरिचानुविद्धानि पानकानि रागषाडवांश्च सार्षपिकान्यनुपानानि च तद्विधानि ।
उष्ट्राश्वतरखरपुरीषचूर्णानुविद्धं चास्मै दद्यादशनम् ॥

4.14.19

मुस्तामृतागण्डीरद्विहरिद्राद्विसारिवाद्विदर्भवर्षाभूत्रिकण्टकव्योषफल्गुरोहिषपल्लवश्यामासुरदारुकालाविडङ्गपाठाकम्पिल्लकभार्ङ्गीनिदिग्धिकादन्तीचित्रककटुकैरण्डमूलानि समांशान्यैकध्यं चूर्णयित्वा तच्चूर्णादयश्चूर्णं द्विगुणं श्लक्ष्णमावाप्य मद्यानुपानं मधुनावलिह्यात् पिबेद्वा सुखोदकेन त्रिफलाम्भसा वा ।
तेन मेहप्लीहहलीमकपाण्डुरोगश्वयथुदुर्नामगुल्मोदराणि शीघ्रमुपशाम्यन्ति ।
द्विविधोपक्रमणीयोक्तांश्चातिस्थौल्यादिगदयोगांश्च शीलयेत् ।
प्रवृद्धमेदाः प्रगाढव्यायामोद्वर्तनस्नानविलेपनानि च रूक्षाभिरौषधीभिः ॥

4.14.20

अधनस्तु छत्रपादत्रविरहितो मुनिवृत्तिर्योजनशतमधिकं वा गच्छेत् ।
श्यामाकनीवारामतिन्दुककपित्थाश्मन्तकफलमूलाहारो वा मृगैः सह वसेत् ।
गोभिर्वा सह तन्मूत्रशकृद्वृत्तिः परिभ्रमेत् ।
तडागानि वा खनेत् ।
कृशं त्वविरुद्धैर्बृंहयेत् ॥

4.14.21

शराविकाद्यास्तु अपक्वाः शोफवदुपाचरेत् ।
पक्वाश्च व्रणवत् ।
पूर्वरूपेष्वेव तु तासां पाने वनस्पतिकषायं बस्तमूत्रं चोपदिशन्ति ।
तीक्ष्णं च संशोधनं ।
दुर्विरेच्या हि मेहिनो भवन्ति मेदोभिव्याप्तदेहत्वात् ।
तैलं च व्रणरोपणार्थमेलादौ कुर्वीत ।
आरग्वधादेः कषायमुद्वर्तने ।
असनादेः परिषेचने ।
वत्सकादेः पानभोजनेषु ॥

4.14.22

पाठाचित्रकशार्ङ्गेष्टाक्षुद्रवृहतीसारिवासोमवल्कसप्तपर्णारग्वधकुटजमूलचूर्णं मधुनालिह्यान्नवायसं वा ।
असनादिवर्गस्य कषायं पादशेषं परिगृह्य परिस्राव्य च पुनः प्रियङ्ग्वामलकलोध्रदन्तीकृष्णायस्ताम्रचूर्णावापं दर्वीप्रलेपिनमवतारयेत् तं यथाबलमवलिह्यात् ।
यथास्वं च प्रमेहघ्नौषधनिर्यूहैर्भावितशिलाजतुतुलोपयुक्ता सर्वमेहान् सपिटकानपकर्षतीति ॥

4.14.23

भवति चात्र
मागधीमधुकं लेध्रं कुष्ठमेलाहरेणवः ।
समङ्गा धातकीपुष्पं सारिवा रजनीद्वयम् ॥

4.14.24

प्रियङ्गवः सर्जरसः पद्मकं पद्मकेसरम् ।
मातुलुङ्गस्य पत्राणि मधूच्छिष्टं ससैन्धवम् ॥

4.14.25

तैस्तैलं सिद्धमभ्यङ्गाच्छोधयेद्रोपयेत च ।
दुष्टारुःपिटकागण्डगण्डमालाभगन्दरान् ॥

4.14.26

पिटकाः साधयेच्छीघ्नं ता ह्यसून् घ्नन्ति मेहिनः ।
अनुशेषानपि भिषग्यथाबलमुपद्रवान् ॥

4.14.27

सर्वजत्वान्महामर्मसंश्रयादनुषङ्गतं ।
सुबहूपद्रवत्वाच्च प्रमेहो दारुणे गदः ॥

मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc