अष्टाङ्गसंग्रह · अध्याय 4.13
अथातो मूत्राघातचिकित्सितं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥
वातान्मूत्रकृच्छ्रे वातहरतैलाभ्यक्तगात्रस्याधोनाभेः सर्वमङ्गं पिण्डेन सेकावगाहैश्च वातघ्नैः कुम्भीस्वेदेन च स्वेदयेत् ॥
दशमूलबलैरण्डमूलपुनर्नवाशतावरीवृश्चीवपत्तूरपाषाणभेदककोलकुलत्थयवक्वाथेन तत्कल्केन च तैलं सर्पिः सूरकर्क्षवसालवणपञ्चकोपेतं सिद्धं पानाय दद्यात् ।
एतान्येव चौषधान्यन्नपाने पिण्डोपनाहस्वेदयोश्च तैलफलस्नेहाम्लयुक्तानि कल्पयेत् ।
प्रसन्नां च सौवर्चलाढ्यां पिबेत् ॥
पित्तजे शीतसेकावगाहप्रदेहान् प्रयुञ्जीत ।
तृणपञ्चमूलश्वदंष्ट्राभीरुविदारीकशेरुकक्वाथं शीतं समधु शर्करं पिबेत् ।
तद्वच्च काण्डेक्षुरकमूलम् ।
कमलोत्पलविदारीशृङ्गाटकानि ।
द्राक्षारसेन वा त्रपुसकुसुम्भोर्वारुबीजवृषककुङ्कुमकल्कं सर्वमूत्राघातघ्नम् ।
मधुकदार्व्युर्वारुबीजानि वा तण्डुलधावनेन ।
समाक्षिकां वा दार्वीमामलकरसेन ।
मृद्वीकाकल्कं वा पर्युषिताम्भसा ॥
कफजे यथास्वं स्वेदो वमनं कटुतीक्ष्णोष्णक्षारमन्नपानं यवान्नं तक्रं च ।
पिबेच्च मद्येन सूक्ष्मैलामामलकरसेन वा मधुयुतां वा कदलीरसेन कैडर्यकरसेन वा शितिवारकबीजं वा तक्रेण ।
प्रवालचूर्णं वा तण्डुलाम्बुना ।
धवकुटजकरञ्जामृताकेबुकैलारग्वधसप्तच्छदक्वाथं वा शीतं सक्षौद्रम् ।
तत्सिद्धां वा यवागूम् ।
कण्टकारिकास्वरसं वा समाक्षिकम् ।
व्योषैलागोक्षुरकसारसास्थीनि वा मधुमूत्रयुक्तानि ।
पाटलीक्षारं वा बहुकृत्वः परिस्रुतं तैलयुक्तम् ।
तिलपाटलीपारिभद्रयावशूकक्षारोदकानुविद्धां वा त्वगेलोषकचूर्णयुक्तां प्रसन्नाम् ।
तिलादीनां वा पृथक् क्षारं गुडोपदंशमश्नीयात् ।
तीक्ष्णोष्णद्रव्यसिद्धं च तैलं पानाभ्यङ्गार्थे ॥
सन्निपातात्मके वातादीनां स्थानानुपूर्व्या यथासन्नं प्रतिकुर्वीत ।
यथोल्बणं वा सर्वेषु समस्थितेषु वा समसितं यवक्षारं भक्षयेत् ।
अपि च ॥
एलाश्मभेदकशिलाजतुपिप्पलीनां चूर्णानि तण्डुलजलालुलितानि पित्वा ।
तद्वद्गुडेन सहितान्युपयुज्य मासमासन्नमृत्युरपि जीवति मूत्रकृच्छ्री ॥
एलोपकुल्यामधुकाश्मभेदकौन्तीश्वदंष्ट्रावृषकोरुपूगैः ।
क्वाथं पिबेच्छर्करयावगाढं कृच्छ्रे सदाहे सरुजे बिबन्धे ॥
हरीतकीगोक्षुरराजवृक्षपाषाणभिद्धन्वयवासकानाम् ।
क्वाथं पिबेदश्मजतुप्रधानं सर्शकरे साश्मरिमूत्रकृच्छ्रे ॥
अश्मर्यामचिरोत्थितायां वातबस्त्यादिषु च यथादोषमिदमेवाचरेत् ॥
पाषाणभेदकवसुकवसिराश्मन्तकशतावरीश्वदंष्ट्राबृहतीद्वयकपोतवङ्काबलातिबलाकच्छुरोशीरगुन्धुवृक्षादनीभल्लूकवरणयवकोलकुलत्थशाकफलकतकफलक्वाथे सर्पिरूषकादिप्रतीवापं विपाच्य पीतमाशु वाताश्मरीं भिनत्ति ।
एभिरेव च द्रव्यैः कषायक्षारान्नपानानि कल्पयेत् ॥
सिंहीव्याघ्नीगोक्षुरकेक्षुरकोरुबूकमूलकल्को ऽमधुरेण दध्ना पीतः सप्गाहादश्मरीं भिनत्ति ।
शिग्रुमूलकल्केन दधिलवणयमकसिद्धो यूषः ॥
वीरतरादिगुन्द्रेत्कटपत्तूरवाराहीपाठापाटलीशिरीषशालिमूलविदारीद्विपुनर्नवक्वाथे त्रपुसकुसुम्भैर्वारुकर्करुबीजमधुकशिलाजतुप्रतीवापं सर्पिर्विपाच्य पीतमाशु पित्ताश्मरीं भिनत्ति ।
पूर्ववच्च कषायादीनेभिः कल्पयेत् ॥
वरणादिभद्रदार्वादिगुग्गुल्वेलाद्वयकुष्ठमरिचचित्रकमुस्तासुरसाह्वयैः कल्कीकृतैः साधितमूषकादिप्रतीवापं सर्पिः श्लेष्माश्मरीं भिनत्ति ।
इति समानं पूर्वेण ॥
मस्तुना बहुशः पाटलीभस्म गालयित्वा भस्म विसर्जयेत् ।
ततस्तन्मस्तु गृहीत्वा कुलत्थैः सह क्वाथयेत् ।
तं क्वाथं गोक्षुरकमूलैलात्रपुसकुरण्टकबीजपाषाणभेदकचूर्णं क्षौद्रेण लीढ्वानुपिबेत् ।
तथा शीघ्रमेवाश्मरी भिद्यते च्यवते च ॥
अश्मरीभेषजानां घृताक्तानामन्तर्धूमं दग्धानां क्षारं ग्राम्यपशुशकृत्क्षारं च गोमूत्रेण बहुकृत्वो गालयित्वा तमच्छमग्नौ साधयेत् ।
घनीभवति च तस्मिंस्त्र्यूषणोषकादिचूर्णं दद्याद्दर्वीप्रलेपं चावतारयेत् ।
एष क्षीराशिनः क्षारावलेहो ऽश्मरीं भिनत्ति पातयति च शर्कराम् ॥
तिलकदलीयवापामार्गपलाशक्षारो ऽविमूत्रेण पीतः समानः पूर्वेण ।
केतकपत्रक्वाथेन हिङ्गुक्रौञ्चास्थिक्षारयुक्तः पाटलीकरवीरक्षारश्च ।
क्रौञ्चोष्ट्रगर्दभास्थिश्वदंष्ट्राकदम्बमूलतालपत्रिकाजमोदनागरचूर्णश्च सुरामण्डोष्णोदकान्यतरप्रयुक्तः ॥
पिचुकाङ्कोलशाककतकेन्दीवरफलक्वाथश्च सुखोष्णो गुडयुक्तः ।
नृत्यकुण्डकबीजचूर्णश्च समाक्षिको ऽविक्षीरयुक्तः ॥
कपोतवङ्कामूलं च सुरया ।
तत्सिद्धं वा पयो ऽश्मरीवेदनार्तः पिबेत् ।
सिद्धं वाभयास्थिभिः पुनर्नवेन वा ॥
शेषेष्वेवं मूत्राघातेष्वत एव चिकित्सां विभजेत् ॥
द्रस्वपञ्चमूलेन द्विगुणत्रिकण्टकेन साधितं तोयं पयो वा केवलं घृतमिश्रं वा पिबेत् सर्वमूत्राघातघ्नम् ॥
गोक्षुरककण्टकारिकाकृतां वा सफाणितां यवागूम् ।
ताम्रचूडरससिद्धां वा ।
वीरतरादिक्वाथेन वा ।
तेन वा तद्भावितं शिलाजतु ।
वाजिरासभान्यतरशकृद्रसं वा ।
दुरालभास्वरसं वा ।
ककुभकषायं वा ।
मूर्वाभयामुस्तदेवदारुमधुककल्कं वा ।
वारुणीक्षीरोष्णोदकान्यतमेन ।
त्रिफलाकल्कं वा ससैन्धवं सुखाम्भसा ।
केवलमेव वा बिभीतक बीजं सुरया ।
विहगपिशितोपदंशं वा निगदमदिरामण्डं मार्द्वीकमासवान् वा विविधान् पिबेत् ।
पीतमद्यश्च शीघ्रवेगेन वाजिना रथेन वा यायात् ।
एवमश्मरी शर्करा चप्रच्यवते ।
सर्वेषु च मूत्राघातेषु विशेषतो ऽश्मरीशर्करासु वीरतरादिः सर्वथा प्रयोज्यः ।
तिल्वकघृतं च विरेकार्थम् ।
बस्तिकर्म चाभीक्ष्णं विशेषेणोत्तरबस्तिः ॥
तत्र श्यामादिरर्धार्धविहितो गोमूत्रसिद्धो निरूहः ।
बिल्वादिमूलैश्च सुरासौवीरकादिसिद्धैस्तृणपञ्चमूलश्वदंष्ट्राशृतक्षीरवांश्च त्रपुसैर्वारुकशताह्वाबीजकर्षभकयवानीकल्कितः ।
पीतदारुसिद्धं तैलमनुवासनम् ॥
शतावरीगोक्षुरकबृहतीद्वयपुनर्नवोशीरमधुकद्विसारिवाश्रेयसीलोध्रतृणपञ्चमूलकषाये क्षीरचतुर्गुणं बलावृक्षकखराह्वोपकुञ्चिकावत्सकत्रपुसोर्वारुबीजशितिवारकमधुकषड्ग्रन्थाशताह्वाश्मभेदमदनहपुषाकल्कगर्भं तैलमुत्तरबस्तिः ।
तद्विशुद्धस्रोतसा च पुनः शुक्राश्मर्यां शुक्राशयशोधनार्थं बलत्थेन पुंसा वृष्याण मांसानां कुक्कुटमांसस्य च तृप्तेनानुकूलाः प्रकर्षेण प्रियाः प्रमदा यथाकालमासेव्या इति ॥
क्रियाभिराभिः सिद्धाभिर्नचेच्छान्तिस्ततो भिषक् ।
इति राजानमापृच्छ्य शस्त्रं साध्ववचारयेत् ॥
अक्रियायां ध्रुवो मृत्युः क्रियायां संशयो भवेत् ।
निश्चितस्यापि वैद्यस्य बहुशः सिद्धकर्मणः ॥
अथातुरमुपस्निग्धमपकृष्टदोषमीषत्कर्शितमभ्यक्त स्विन्नशरीरमभुक्तवन्तं कृतमङ्गलस्वस्तिवाचनमुपकल्पितसम्भारमाश्वास्य ततो बलवन्तमविक्लवमाजानुसमे फलके प्रागुपवेश्य पुरुषं तस्योत्सङ्गे सुनिषष्णपूर्वकायमुत्तानं वस्त्रचुंबलोपविष्टं सङ्कुचितजानुकूर्परमितरेण पुंसा सहबद्धं सूत्रैः शाटकेन वा ततो ऽस्यस्वभ्यक्तं नाभिप्रदेशं वामपार्श्वे विमृद्य मुष्टिनावपीडयेत् ।
अधोनाभेर्यावदश्मर्यधः प्रतिपन्ना ततस्तैलाभ्यक्ते कृत्तनखे वामहस्तप्रदेशिनीमध्यमे पायौ प्रणिधायानुसेवन्यासाद्य च प्रयत्नबलाभ्यामश्मरीं मेढ्रगुदयोरन्तरमानीय निर्वलीकमनायतमविषमं च बस्तिं सन्निवेश्य भृशमुत्पीडयेदङ्गुलीभ्यां यावत् ग्रन्थिरिवोन्नतं शल्यं भवति ।
ततः सेवन्याः सव्ये पार्श्वे सेवनीं यवमात्रं मुक्त्वा निदध्याच्छस्त्रमश्मरीप्रमाणेन ।
दक्षिणतो वा क्रियासौकर्यहेतोरित्येके ।
यथा न विभिद्यते विचूर्ण्यते वा तथा प्रयतेत ।
तच्चूर्णमल्पमप्यवस्थितं पुनः परिवृद्धिमेति ।
तस्मात् समग्रामग्रवक्रेणाददीत ॥
स्त्रीणां तु बस्तिः पार्श्वगतो गर्भाशयसन्निकृष्टः ।
तस्मात्तासामुत्सङ्गवदधः शस्त्रं पातयेत् ।
अतो ऽन्यथा खल्वासां मूत्रस्रावी व्रणो भवति पुरुषस्य च मूत्रप्रसेकक्षणनात् ।
अश्मरीनिमित्तमेकतो भिन्नो बस्तिः सिध्यति ।
क्रियाभ्यासाच्छास्त्रविहितच्छेदादीनष्पन्दपरिवृद्धत्वाच्च शल्यस्येति ।
न तु द्विधा भिन्नबस्तिरश्मरीमानमपि ॥
उद्धृतशल्यं तूष्णोदकद्रोण्यामवगाह्य स्वेदयेत् ।
तथा बस्तिरसृजा नापूर्यते ।
पूर्णे तु क्षीरिवृक्षकषायं पुष्पनेत्रेण विदध्यात् ।
स हि तथा बस्तिगतमश्मरीचूर्णं रक्तं च निर्हरति ।
मूत्रविशुद्ध्यर्थं च गुडसौहित्यं कारयेत् ॥
उत्थाप्य चैनं मधुघृताभ्यक्तव्रणं मूत्रविशोधनद्रव्यसिद्धामुष्णां यवागूं सघृतां पाययेदुभयकालं त्रिरात्रम् ।
त्रिरात्रादूर्ध्वं गुडप्रगाडेन पयसा मृदुमोदनमल्पं भोजयेदादशरात्रात् ।
अत ऊर्ध्वं फलाम्लैर्जाङ्गलरसैः ।
व्रणं च क्षीरिवृक्षकषायेण प्रक्षाल्य लोध्रमधुकमञ्जिष्ठाप्रपौण्डरीककल्केन लेपयेत् ।
द्वादशरात्रं चैनमप्रमत्तः स्वेदयेत् ।
एतेष्वेव च हरिद्रादियुक्तेषु तैलं विपक्वं व्रणाभ्यञ्जनम् ।
सप्तरात्राच्च स्वमार्गमप्रतिपद्यमाने मूत्रे यथोक्तमग्निना व्रणं दहेत् ।
स्वमार्गप्रतिपन्ने चोत्तरबस्त्यास्थापनानुवासनैर्मधुरप्रायैरुपाचरेत् ॥
यदृच्छया मूत्रमार्गप्रतिपन्नामन्तरासक्तां शुक्राश्मरीं शर्करां वा स्रोतसापहरेत् ।
विदार्य वा नाडिं बडिशेनोद्धरेत् ।
रूढव्रणश्च वर्षमङ्गनाश्च नगनागरथद्रुमात् नारोहेत् ।
नाप्सु प्लवेत भुञ्जीत वा गुरूणि ॥
कर्मणि तु मूत्रवहशुक्रवहमुष्कस्रोतोमूत्रप्रसेकसेवनीयोनिगुदबस्तयो ऽष्टौ परिहर्तव्याः ।
तत्र मूत्रवहच्छेदात् मूत्रपूर्णबस्तेर्मरणम् ।
शुक्रवहच्छेदान्मरणं क्लैब्यं वा ।
मुष्कस्रोतसोरुपघातात् ध्वजभङ्गः ।
मूत्रप्रसेकच्छेदान्मूत्रस्रवणम् ।
सेवनीयोनिच्छेदनाद्रुजाप्रादुर्भावः ।
गुदबस्तिविद्धस्य सद्योमरणमुक्तं प्रागिति ॥
भवति चात्र ।
मर्माण्यमून्यविज्ञाय स्रोतोजानि शरीरिणाम् ।
शस्त्रपाणिर्ध्रुवं हन्ति साहसात् केवलो यथा इति ॥
मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0