अष्टाङ्गसंग्रह · अध्याय 4.12
अथातो ग्रहणीदोषचिकित्सितं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥
ग्रहणीसमाश्रितं दोषमादावेव यथास्वमजीर्णानुसारतो मात्राशीतीयोक्तविधानेनोपक्रमेत ।
अथातीसारविधिना च ।
आमपाचनार्थं पिबेन्मुस्तातिविषाविश्वभेषजक्वाथम् ।
तच्चूर्णं वा सुखोदकेन
तेन वा शुण्ठीम् ।
तद्वद्वचादिवर्गं ससैन्धवम् ।
व्वारुणीमण्डेन वा गुल्मविध्युक्तं त्रिलवणादि चूर्णम् ॥
सप्रवाहे वा वर्चसि चूर्णीकृतान् बिडलवणयुक्तान् बिल्वमध्यनागरचित्रकान् दाडिमाम्भसा सकफे वा ।
अतिमात्र आमशूले ऽलसकोक्तं हिङ्ग्वादिमुष्णाम्भसा पिबेत् ।
छर्दिशूलानाहानुग्रन्थिषु तु मरिचाजाजिसौवर्चलाभयाः ।
सपित्तकफे चामे कटुकेन्द्रयवपाठापिप्पलीमूलवचाभयानागराणि क्वथितानि चूर्णितानि वा ॥
भोजनकाले च पञ्चकोलपरिगृहीतं पटुलघुदीपनीयं पेयादिकमुपकल्पयेत् ।
पेयां वा नागरातिविषाभ्यां तक्रदाडिमवृक्षाम्लाम्लाम् पाने च तक्रमस्त्वार नालमदिरारिष्टानतीसारनिर्दिष्टं चाम्बु ।
यवानीपथ्यामलकमरिचानि त्रिपलिकानि लवणपञ्चकं च पलांशकमेकतश्चूर्णयित्वा कंसे सद्योमथितस्यासुनुयात् ।
ततो व्यक्ताम्लकटुकं जातं पिबेत् ।
एष तक्रारिष्टः परमग्निदीपनो ऽर्शोगुल्मजठरश्वयथुकृमिप्रमेहहरः ॥
अपि च
ग्रहणीदोषिणां तक्रं दीपनग्राहि लाघवात् ।
पथ्यं मधुरपाकित्वान्न च पित्तप्रदूषणम् ॥
कषायोष्णविकाशित्वाद्भूक्षत्वाच्च कफे हितम् ।
वाते स्वाद्वम्लसान्द्रत्वात् सद्यस्कमविदाहि तत् ॥
तस्मात्तक्रप्रयोगा ये जठराणां तथार्शसाम् ।
विहिता ग्रहणीदोषे सर्वशस्तान् प्रयोजयेत् ॥
दाडिमकपित्थवृक्षाम्लाम्लीकानां पृथक् पृथक् कुडवं लवणपञ्चककुडवं त्र्यूषणत्रिपलं शर्करापलाष्टकं चैकध्यं चूर्णितमन्नपाने प्रणीतमजीर्णारुचिश्वासकासप्लीहगुल्मग्रहणीहृत्पाण्डुरोगघ्नम् ।
परिपक्वामं च मारुतग्रहणीरोगिणमग्निसन्धुक्षणार्थं सर्पिः पाययेत् ।
द्विपञ्चमूलपञ्चकोलसरलसुरदारुसुरभिगजपिप्पलीशणबीजयवकोलकुलत्थान्मस्तुनारनालेन वा पाचयेत् ।
तेन पादावशेषेण पञ्चलवणद्विक्षाराम्लबदरयुक्तं सर्पिर्विपक्वमथवा सैन्धवव्योषक्षारद्वयपञ्चमूलाभयारास्नाजाजीग्रन्थिकशठीविडङ्गगर्भमार्द्रकमातुलुङ्गकोलाम्लीकादाडिमस्वरसशुष्कमूलकक्वाथमस्तुतक्रशुक्तप्रसन्नासौवीरकतुषोदकारनालोपेतं परमग्निदीपनमग्निघृताख्यम् ॥
अथवा चव्यचित्रकपाठातेजोवतीपिप्पलीमूलानि कुडवोन्मितानि मुस्तद्विकुडवमास्फोतजातीनिम्बसप्तच्छदाश्वमारककर्कोटकपटोलपल्लवानां च मुष्टिं मुष्टिमन्तर्नखमुदकद्रोणे पक्त्वा पादावशेषमवतारयेत् ।
अर्धपलोन्मितां चात्र कल्कितां दद्यादतिविषां कृष्णासारिवाभद्राश्च द्विपलांशं सैन्धवं बिडं यवक्षारं च मागधिकायाश्चतुष्पलं पात्रं च घृतस्य एतदगस्त्यनिर्मितमलमनलजननम् ॥
उद्दीपिते तु किञ्चिदनले विबद्धमलमास्थापयेत् ।
ततो जिते मातरिश्वनि स्रस्तदोषमेरण्डतैलेन तिल्वकसर्पिषा वा क्षारवता मिश्रकस्नेहेन वा विरेचयेत् ।
कृतसंसर्गक्रमं च बद्धवर्चसमनुवासयेद्वातहरदीपनीयाम्लद्रव्यसिद्धेन तैलेन ।
ततः पुनरपि लघ्वन्नभोजनः सर्पिरेव यथाग्निबलमल्पशो ऽवचारयेत् ।
अग्निघृतं च छर्दिविबन्धशूलश्वासकासिनः सबीजपूरकरसम् ।
अभ्यङ्गार्थं च तैलमग्निघृतौषधैः साधयेत् ।
अनिलकफसंसर्गे तु चूर्णमेषामौषधानामुष्णोदकेन पिबेत् ॥
पित्तदुष्टायां तु ग्रहण्यां स्वस्थानगतमुत्क्लिष्टं द्रवमनलीनर्वापणं पित्तमास्थापनेन वमनेन वा निर्हरेत् ।
तिक्तलघुद्रव्यैश्च कृतसंसर्जनस्य दोषशेषशमनार्थं मधुनावलेह्यमुष्णाम्बुना वा पातुं प्रणयेत् ।
मूर्वाकिरातततिक्तपर्पटकवचाचन्दनमुस्तत्रिकटुकत्रायमाणायवानीकलिङ्गत्वक्फलकटुरोहिणीदेवदारुदार्वीत्वक् पद्मकोशीरारिष्टपटोलपत्रातिविषासौराष्ट्रीत्वगेलामधु शिग्रुबीजचूर्णम् ।
अयं हि ग्रहणीदोषशूलातिसारपाण्डुहृद्रोगगुल्मज्वरप्रमेहकामलामुखरोगारोचकनिबर्हणः ॥
भूनिम्बत्रिकटुककटुकामुस्तेन्द्रयवाः समाश्चित्रकभागौ द्वौ कुटजत्वग्भागाश्च षोडश सर्वमेकत्र चूर्णितं सगुडशीतोदकं पीतं समानं पूर्वेण ।
नागररसाञ्जनातिविषाधातकीघनपाठाकलिङ्गत्वग्बीजबिल्वकटुकाः सक्षौद्रास्तण्डुलाम्बुपीताः पित्तग्रहणीविकारं रक्तातिसारमर्शांसि सप्रवाहिकं गुदशूलं च व्यपोहन्ति ।
ततश्चैवं शमितपित्तोद्रेकस्याग्नेः स्थिरीकरणाय सर्पिः पूर्वोक्तमूर्वादिक्वाथेन सारिवास्फोतसप्तपर्णाटरूषकेन्द्रयववीराभूनिम्बधान्यन्यग्रोधाश्वत्थोदुम्बरप्लक्षोपकुल्यानीलोत्पलगर्भसिद्धं पानाय प्रयुञ्जीत कुष्ठोक्तं वा तिक्तकम् ॥
श्लेष्मदुष्टायां पुनर्ग्रहण्यां मागधिकंसिद्धार्थकल्कतीक्ष्णेन मदनफलकषायेण पुनःपुनर्वामयेत् ।
अब्धातुर्हि प्रवृद्धस्तेजो निर्वापयति ।
ततः कृतपेयादिक्रमस्य लवणक्षाराम्लकटुकोत्कटैर्यथोक्तैरन्नपानौषधैरनलमुत्तेजयेत् ।
मञ्जिष्ठाचित्रकारुष्करकृमिघ्नमधूकपुष्पाणि क्रमाद् द्विकुडवार्धाढकाढकार्धद्रोणद्रोणांशान्यपां द्रोणत्रये क्वाथयेत् ।
द्रोणशेषश्च पूतशीतः स निर्यूहो मधुद्विप्रस्थवांश्चन्दनोशीरसूक्ष्मैलागरुरूषितं जतुसृतं घृतकुम्भमध्युषितो मासमासवः ।
सर्वदोषघ्नो ऽग्निजननो बृंहणः शोषकुष्ठकिलासप्रमेहानाहगुल्मपाण्डुहृद्रोगजिच्च ॥
मधूकपुष्पाणां स्वरसो ऽर्धावशेषक्वथितः क्षौद्रपादयुक्तः सर्वथा समानः पूर्वेण ।
अनेन द्राक्षेक्षुकाश्मर्यफलस्वरसासवा व्याख्याताः ॥
दशमूलवीरारजनीत्रिफलाजीवकर्षभकाणां पृथक् पृथक् पञ्चपलान् भागानपां वहे पक्त्वा पादशेषे रसे शीतीभूते गुडतुलाद्वयं दद्यादर्धकुडवं च माक्षिकात्तत्प्रमाणांश्च चूर्णितान् मुस्तप्रियङ्गुमञ्जिष्ठामधुकविडङ्गप्लवशाबरलोध्रान् एषो ऽर्धमासस्थितो मूलासवो ऽयं समानः पूर्वेण ।
महावृक्षकण्डचतुष्पलं द्विगुणार्ककाण्डं लवणत्रयत्रिपलं पक्ववार्ताककुडवं चित्रकमूलपलद्वयं चान्तर्धूमं दग्ध्वा वार्ताकरसेन गुटिकाः कुर्यात् ।
ता भोजनोत्तरं भक्षिता ग्रहणी दुर्नामविषूचिकालसककासश्वासपीनसप्लीहपाण्डुश्वयथुमेहारोचकगुल्महराः ॥
दशमूलार्कमूलदन्तीत्रिवृच्चित्रकास्फोतपाठारास्नास्नुहीकाण्डानां पृथग्दशपलान् भागान् कपालोदरे दग्ध्वा क्षारमुदकद्रोणैश्चतुर्भिः क्वाथयेत् ।
पादावशेषं च पूतं पुनःपादावशेषमेव क्वथितावतारितं गुडपलशतोन्मिश्रमधिश्रयेत् ।
घनीभवति च तस्मिन् सुश्लक्ष्णरजसां वृश्चिकालीद्वययावशूकानां त्रिंशत् पलान्यावपेत् ।
त्रिंशदेव वचाभयाव्योषचित्रकाणाम् ।
द्विपलं च पृथक् पृथक् हिङ्ग्वम्लवेतसयोः ।
ततो ऽक्षमात्रा गुटिकाः कृत्वा यथाबलमुपयुक्ताः समानाः पूर्वाभिरधिका वा ।
अर्शोविहितांश्च क्षारतक्रारिष्टान् घृतान्यन्नपानं च सेवेत ।
षट्पलं भल्लातकघृतं धान्वतरं च ।
सन्निपाते तु पञ्च कर्माणि कुर्याद्यथावस्थं वा ग्रहणीचिकित्सितमिति ।
भवति चात्र ॥
प्रसेके श्लैष्मिके ऽल्पाग्नेर्दीपनं रूक्षतिक्तकम् ।
योज्यं कृशस्य व्यत्यासात् स्निग्धरूक्षं कफोदये ॥
क्षीणक्षामशरीरस्य दीपनं स्नेहसंयुतम् ।
दीपनं बहुपित्तस्य तिक्तं मधुरकैर्युतम् ॥
स्नेहो ऽम्ललवणैर्युक्तो बहुवातस्य शस्यते ।
स्नेहमेव परं विद्याद्दुर्बलानलदीपनम् ॥
नालं स्नेहसमिद्धस्य शमायान्नं सुगुर्वपि ।
मलमामं कफे क्षीणे मन्दाग्निर्यो ऽतिसार्यते ॥
स पिबेत् सर्पिषो मात्रां दीपनीयौषधैर्युताम् ।
प्रसन्नो मार्गमापन्नः स्वं समानो ऽनिलस्तया ।
अग्नेः समीपचारित्वादाशु प्रकुरुते बलम् ॥
पुरीषं यस्तु कृच्छ्रेण कठिनत्वाद्विमुञ्चति ।
स घृतं लवणैर्युक्तं नरो ऽन्नावग्रहं पिबेत् ॥
रौक्ष्यान्मन्दे ऽनले सर्पिस्तलं वा दीपनैः पिबेत् ।
क्षारचूर्णासवारिष्टान् मन्दे स्नेहातिपानतः ॥
उदावर्तात्तु योक्तव्या निरूहस्नेहबस्तयः ।
दोषातिवृध्या मन्दे ऽग्नौ संशुद्धो ऽन्नविधिं चरेत् ॥
व्याधिमुक्तस्य मन्दे ऽग्नौ सर्पिरेव तु दीपनम् ।
अध्वोपवासक्षामत्वैर्यवाग्वा पाययेत् घृतम् ।
अन्नावपीडितं बल्यं दीपनं बृंहणं च तत् ॥
दीर्घकालप्रसङ्गात्तु क्षामक्षीणकृशान् नरान् ।
प्रसहानां रसैः साम्लैर्भोजयेत् पिशिताशिनाम् ॥
लघूष्णकटुशोधित्वैर्दीपयन्त्याशु ते ऽनलम् ।
मांसोपचितमांसत्वात् परं च बलवर्धनाः ॥
स्नेहासवसुरारिष्टचूर्णक्वाथहिताशनैः ।
सम्यक् प्रयुक्तैर्देहस्य बलमग्नेश्च वर्धते ॥
दीप्तो यथैव स्थास्नुश्च बाह्यो ऽग्निः सारदारुभिः ।
सस्नेहैर्जायते तद्वदाहारैः कोष्ठगो ऽनलः ॥
नाभोजनेन कायाग्निर्दीप्यते नातिभोजनात् ।
यथा निरिन्धनो वह्निरल्पो वातीन्धनावृतः ॥
यदा क्षीणे कफे पित्तं स्वे स्थाने पवनानुगम् ।
प्रवृद्धं वर्धयत्यग्निं तदासौ सानिलो ऽनलः ॥
पक्त्वान्नमाशु धातूंश्च सर्वानोजश्च सङ्क्षिपन् ।
मारयेत् स्यात् स ना स्वस्थो भुक्ते जीर्णे तु ताम्यति ।
तृट्कासदाहमूर्च्छाद्या व्याधयो ऽत्यग्निसम्भवाः ॥
तमत्यग्निं गुरुस्निग्धमन्दसान्द्रहिमस्थिरैः ।
अन्नपानैर्नयेच्छान्तिं दीप्तमग्निमिवाम्बुभिः ॥
मुहुर्मुहुरजीणापि भोज्यान्यस्योपहारयेत् ।
निरिन्धनो ऽन्तरं लब्ध्वा यथैनं न विपादयेत् ॥
कृसरां पायसं स्निग्धं पैष्टिकं गुडवैकृतम् ।
अश्नीयादौदकानूपपिशितानि भृतानि च ॥
मत्स्यान् विशेषतः श्लक्ष्णान् स्थिरतोयचराश्च ये ।
आविकं सुभृतं मांसमद्यादत्यग्निवारणम् ॥
पयः सहमधूच्छिष्टं घृतं वा तृषितः पिबेत् ।
गोधूमचूर्णं पयसा बहुसर्पिःप्लुतं पिबेत् ॥
आनूपरसयुक्तान् वा स्नेहांस्तैलविवर्जितान् ।
श्यामात्रिवृद्विपक्वं वा पयो दद्याद्विरेचनम् ॥
असकृत् पित्तहरणं पयसा प्रतिभोजनम् ।
यत्किञ्चिद्गुरु मेध्यं च श्लेष्मकारि च भोजनम् ।
सर्वं तदत्यग्निहितं भुक्त्वा च स्वपनं दिवा ॥
आहारमग्निः पचति दोषानाहारवर्जितः ।
धातून् क्षीणेषु दोषेषु जीवितं धातुसङ्क्षये ॥
अग्निमूलं बलं पुंसां बलमूलं हि जीवितम् ।
एष सारश्चिकित्साया यदग्नेः परिरक्षणम् ॥
मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0