अष्टाङ्गसंग्रह · अध्याय 4.11
अथातो ऽतीसारचिकित्सितं व्याख्यास्यामः ।
इति ह स्माहुरात्रेयादयो महर्षयः ॥
प्रायेणातिसारो ह्यग्निमुपहत्य प्रागामाधिष्ठानो भवति ।
तस्मादनिलजमप्यामपाचनार्थमादौ लङ्घनेनोपक्रमेत ।
तत्र शूलानाहप्रसेकार्तं लवणाम्बुनोष्णेन वामयेत् ।
न तु सामे पूर्वं सङ्ग्राहि प्रयुञ्जीत विबद्धे वा मले ।
स्तिमिताध्मातगुरुसरुजकोष्ठः प्राणदामुष्णाम्बुनोपयुञ्जीत ।
सव्योष्णां वा धान्याम्लक्वथितां वा ।
अन्यद्वा स्रंसनदीपनमौषधम् ॥
अपिच
विशुद्धस्रोतसो ह्यस्य दोषशेषे प्रवाहिते ।
सुखं सङ्ग्रहणं कर्तुं पाचनैः स्तम्भ्नेन वा ॥
मध्यदोषस्तु विशोषयन् मागधीनागरवचाभूतीकधनिकाहरीतकीनां क्वाथं पिबेत् ।
जलजलदबिल्वपेशिकाशुण्ठीधान्यकानां वा ।
उभयमपि चैतत् प्रमथ्याख्यम् ।
वचादिवर्गं क्वथितं चूर्णितं वा ।
तद्वद्वचाभयाविडङ्गपाठाशुण्ठीबिडलवणानि वा ।
मुस्तपिप्पलीन्द्रयवपाठातेजोवतीर्वा ।
विडङ्गाभयाकणलवणपञ्चकानि वा ।
पिप्पलीन्द्रयवपाठाशुण्ठीर्वा ।
सरक्ते तु प्रवृत्त आमे गजपिप्पलीं मधुशर्करामधुराम् ॥
अल्पदोषं पुनरुपवासयेत् ।
पानं त्वतिसारिणोम्बु वचातिविषाभ्यां क्वथितम् ।
शुण्ठ्यतिविषाभ्यां मुस्तपर्पटकाभ्यां नागरधान्यकाभ्यां वा ।
क्षुद्वतस्तु लघुपञ्चमूलपञ्चकोलहस्तिपिप्पलीबलाबिल्वपाठाहिङ्गुधान्यकजीरकशठीगन्धपलाशहपुषायवानीतिन्तिणीकदाडिमबिडसैन्धवैरन्नपानं यवाग्वादि कल्पयेत् ॥
बिल्वशलाटुहरीतकीपिप्पलीमूलैर्मूढवातस्य ।
अंशुमतीद्वयबलाबिल्वशलाटुभिः पित्तोल्बणस्य ।
पिबेच्च तृषितः पटपूतं तक्रम् ।
मधुसुराधान्याम्लयवागूमण्डान्यतमं वा ।
एष क्रमो ऽनिलकफघ्नो दीपनपाचनो रोचनः सङ्ग्राही बल्यश्च ॥
पक्वदोषो ऽपि तु यो ऽतिसार्यते बहुशो ऽनिलेन विबद्धं सपिच्छं सफेनं सशूलपरिकर्तिकं सरोमहर्षं निष्पुरीषं च तां प्रवाहिकां बिम्बिसीमिति चाचक्षते ।
तत्रोदावर्तोपदिष्टांस्तेनैव विधिना संस्कृतांश्छागपिशितरसान् दद्यात् ॥
यूषांश्च वर्चःक्षये तृष्यतो यवमुद्गमाषतिलकृतान् ।
समेन वा तिलबालबिल्वयोः कल्केन दधिसरस्नेहयुक्तं खलकम् ।
चित्रकशृङ्गवेरपूतीकरञ्जबिल्वाजमोदैर्वा तक्रदाडिमतैलाढ्यं सैन्धवोपेतमजिताख्यम् ।
शठीतिन्तिणीकबिडदाडिमक्षारपञ्चकोलमरिचत्रिफलाधातकीधनिकापाठाजमोदाजाजीजीरककपित्थजम्ब्वाम्रास्थिभिर्वा तुल्यभागैः षड्गुणबिल्वमध्यैर्गुडमुद्गरसस्नेहदधिसिद्धो ऽपराजिताख्यः खलको दीपनः पाचनो रुच्यो ग्राही बिम्बिसिनाशनः ॥
दधिसरं वा सगुडदाडिमं यमकभृष्टम् ।
यमकभृष्टान् वा सशुण्ठीचूर्णान् सक्तून् ।
माषान् वा सुसिद्धान् घृतमण्डोपसेच्नान् मरिचोपदंशान् ।
छागमेषयोर्वान्तराधिरसं दाडिमाम्लं धान्यनागरोपेतं स्नेहविपक्वं व्यञ्जनं पानं च ।
तद्वत् सुरां यमकस्निग्धां पिबेद्वा ।
शुण्ठीबदरचूर्णं दधिघृततैलक्षौद्रफाणितोपेतम् ॥
हिङ्गुदाडिममहौषधोपकुल्याचूर्णं वा घृतक्षीरोष्णाम्बुमद्यान्यतमेन ।
लिह्याद्वा लोध्रबिल्वशलाटुगुडांस्त्रिकटुकोत्कटांस्तैलेन ।
अश्वत्थवातपोतक्वाथसिद्धं वा शाल्योदनं घृततैलक्षौद्रयुक्तं दध्ना खजाहतदधिसरानुपानमश्नीयात् ॥
अपि च
दीपनं रोचनं रुच्यं दधि वातहरं परम् ।
बद्धविड्वा हरत्यस्मात् चिरोत्थामपि बिम्बिसीम् ॥
तृष्णोल्बणस्तु सरक्तपिच्छोपवेशी पानान्नविरतो धारोष्णं क्षीरमाकाङ्क्षं पिबेत् ।
शृतं वा गन्धर्वहस्तमूलेनाथवा बिल्वशलाटुभिः ।
तदेव वाल्पतृष्णः सगुडतैलम् ।
शृतेन वा पयसा मरिचकल्कं द्विगुणतिलकल्कयुक्तम् ।
क्षीरेणैव वा पिप्पलीम् ।
व्योषसिद्धेन वा पयसान्नानि भुञ्जीत ॥
शूलाधिक्ये तु दशमूलक्वथितेन पयसा सक्षौद्रेणास्थापनं दद्यात् ।
अथवा पिच्छाबस्तिमनुवासनं च वातघ्नं वा पित्तघ्नं वा ॥
गुदभ्रंशे शूले चाम्लबदरचाङ्गेरीरसदधिक्षारनागरकल्केन शृतमम्लं सर्पिर्निराममातुरं पाययेत् ।
मरिचपञ्चकोलाजाजीधनिकाबिडदाडिमगर्भं वा पूर्ववदम्लम् ।
अनुवासयेद्वा दशमूलसिद्धेन स्नेहेन ।
पिप्पल्यादिना वा ॥
गुदं चाभ्यङ्गपूर्वं स्वेदेन मृदुभूतं प्रवेशयेत् ।
सच्छिद्रेण चास्य चर्मणा गोष्फणाबन्धं कुर्यात् ।
मूषकमनान्त्रं कृत्वा महापञ्चमूलकषायं च क्षीरे विपचेत् ।
तेन पयसा वातहरकल्कप्रतीवापं तैलं पाचयेत् तदभ्यञ्जनेन पानेन च सुकृच्छ्रमपि गुदभ्रंशं साधयति ॥
पित्तातिसारमपि साममादौ तीक्ष्णवर्ज्यैरौषधैर्वातातिसारवत् पाचयेत् ।
तृष्णायां ससारिवाभूनिम्बं ज्वरविहितमम्भः षडङ्गमवचारयेत् ।
उपोषितस्य चान्नकाले ऽभीरुदृस्वपञ्चमूलबलाद्वयशूर्पर्ण्यादिमृदुमधुरतिक्तदीपनद्रव्यनिर्यूहयुज्क्तान् कालविन्मण्डपेयासक्तुयूषरसादीनीषदम्लाननम्लान् वा कवोष्णान् सुशीतान् वा सक्षौद्रान् ॥
अनुबन्धे तु मूर्वातिविषेन्द्रयवहरिद्रारसाञ्जनानि क्वथितानि पिबेत् ।
केवलं वा वृक्षकबीजम् ।
पाठागुडूचीकटुकाकिराततिक्तानि वा ।
हरिद्रादिगणं वा ।
वत्सकबीजातिविषाबिल्वाम्बुमुस्तानि वा ।
तण्डुलोदकेन वातिविषावृक्षकत्वक्फलानि सक्षौद्राणि ।
चन्दनोशीरशुण्ठीलोध्रनीलोत्पलानि वा ।
नागरोत्पलधातकीपुष्पदाडिमत्वचो वा ।
कमलोत्पललोध्रमोचरससमङ्गातिलान् वा ।
मधुकशृङ्गवेरदीर्घवृन्तत्वचो वा ।
मधुयुक्तानि शर्करापद्मकेसरमुस्तापयस्याचन्दनानि वा ।
शाल्मलीवृन्तकृतं वा शीतकषायं मधुमधुकोपेतम् ॥
मधुकप्रियङ्गुकट्वङ्गत्वग्दाडिमाङ्कुरकल्केन वा दधियुतां यवागूं खलकं वा ।
बिल्वकपित्थजम्ब्बाम्रास्थिभिर्वा ।
मधुयुक्तान् वा लोध्राम्बष्ठाप्रियङ्ग्वादिगणान् क्वाथादिषु पृथक् कल्पितान् ।
श्यामादिमहाकषायं वा ॥
शूलार्तस्तु रूक्षकोष्ठो घृतं सक्षारं पिबेत् ।
क्षीरं वा बृहतीबलांशुमतीकच्छुरामूलसिद्धं मधुककट्वङ्गाजमोदशर्करावचूर्णितं सतैलक्षौद्रम् ।
क्षीरमेव वा धारोष्णम् ॥
बलवान् विबद्धमलो विरेकार्थं त्रिफलाचूर्णयुक्तं वा पलाशफलक्वाथसिद्धं वा पयः पीत्वा पय एव कवोष्णमनुपिबेत् ।
एवमेव च त्रायमाणया शृतम् ।
ततो निस्सृते शकृति पुराणे ऽतिसारः शान्तिमेति ॥
स्रुतदोषस्य च संसर्जनकाले शूलं चेदनुवर्तेत ततो बिल्वमधुकशताह्वाद्वयगर्भं सक्षीरं तैलचतुर्गुणं सर्पिर्विपाच्यानुवासनं दद्यात् ।
ततः सम्यक्कृतायामपि संसर्ग्यामतीसारानुबन्धे पिच्छाबस्तयो योज्याः ।
शाल्मलीवृन्तान्यार्द्रदर्भैर्वेष्टयित्वा कृष्णमृदावलिप्य गोमयाग्निना स्वेदयेत् ।
शुष्कायां मृदि स्विन्नानि ज्ञात्वा वृन्तान्युलूखले समापेथ्य तेषां मुष्टिसम्मितं पिण्डं क्षीरप्रस्थे विमर्दयेत् ।
ततस्तेन पयसा पूतेन सघृततैलेन मधुमधुककल्कयुक्तेनास्थापयेत् ।
प्रत्यागते च स्नातः पयसा कच्छुराशृतेन जाङ्गलरसैर्वाश्नीयात् ।
एष पिच्छाबस्तिः पित्तरक्तातिसारग्रहणीगुल्मशोषज्वरान् विरेचनास्थापनातियोगं च शमयति ॥
चिरोत्थितं त्वतीसारमवेदनं पक्वमप्यशाम्यन्तं पुटपाकैरुपाचरेत् ।
अरलुकत्वक्कल्कं काश्मर्यपत्रप्रच्छन्नं पुटपाकविधिना पाचयेत् तद्रसं सुशीतं मधुयुतं पिबेत् ।
वटादित्वक्प्ररोहकल्कमप्येवं कल्पयेत् ।
अथवा तित्तिरिमपनीतान्त्रपिच्छं न्यग्रोधादेर्वल्कलस्य प्ररोहाणां वा कल्केन पूरयित्वा पूर्ववत् पुटपाकं कुर्यात् ।
ततः तस्माद्रसमादाय सिताक्षौद्रयुक्तं पाययेत् अनेन सर्वे जाङ्गलसत्वा व्याख्याताः ॥
यस्तु पित्तातिसारी पित्तलान्यासेवेत तस्य पित्तमतिवृद्धं रक्तातिसारं तृड्दाहमोहज्वरशूलपायुपाकांश्च करोति ।
तत्र क्षीरमाजं न्यग्रोधादिप्रसवशृतं सितामधुयुक्तमाहारे गुदप्रक्षालने च विदध्यात् ।
तद्विधं वा सर्पिः सपयस्कं पिबेत् ।
क्षीरोत्थं वा सर्पिः क्षीरानुपानं कपिञ्जलरसाशी क्षीराशी वा लिह्यात् ॥
सल्लकीप्रियङ्गुतिनिशशाल्मलीप्लक्षत्वक्संसृष्टं सिद्धं वा सक्षौद्रं क्षीरं पिबेत् ।
यष्टीलोध्रसारिवाभिर्वा शृतं समधुसितम् ।
तद्वत् कृष्णतिलसमङ्गोत्पलयष्टीमधुभिः ।
शशकपिञ्जलपारावततण्डुलीयकमुद्गकाश्मर्यबीजादिरसांश्च सेवेत ।
घृतभृष्टं वा रक्तमाजं मार्गं वा ।
पूर्वोक्तान् वा पुटपाकान् मधुककृष्णमृत्तिकाशङ्खकल्कं वा सरुधिरं पिबेत् तण्डुलोदकेन ।
तेन वा समाक्षिकं फलिनीकल्कम् ।
अथवा ससिताक्षौद्रं चन्दनम् ॥
एते हि प्रयोगाः तृष्णादिप्रशमना रक्तातियोगघ्नाश्च ।
वातोत्तरस्तु शतावरीघृतं लिह्यात् ।
सशर्करं वा नवनीतम् ।
पिच्छिलस्वरससाधितं वा सर्पिः ।
लाक्षापिप्पलीशृङ्गवेरकटुकेन्द्रयवदार्वीत्वग्भिर्घृतं सिद्धं पेयामण्डेन पीतमतीसारं त्रिदोषमपि वारयति ॥
यदा पुनर्वायुना विट् बद्धं सशोणितमल्पाल्पं सफेनं कृच्छ्रादुपवेश्यते तदा पूर्वोक्तं पिच्छाबस्तिं दद्यात् ।
मधुरौषधसिद्धेन च सर्पिषानुवासयेत् ।
प्रायेण हि दुर्बलगुदा गुदाश्रयामयिनो भवन्ति ।
विशेषतश्चिरकालातीसारिणः ।
अतिसारातिप्रवृत्तौ स्वस्थानबलवृद्धो वायुः पित्तमनुबलमवाप्य दुर्जयतरो भवति तस्मात्तेषामभीक्ष्णमनुवासनं प्रयुञ्जीत ।
गुददाहे पुनः पटोलमधुकमधूकक्षीरिवृक्षादिकषायेण सघृतशर्कराक्षौद्रेण क्षीरेण वा गुदं तदासन्नांश्च प्रदेशान् सिञ्चेत् ।
शतधौतादिभिर्घृतैश्च पिचूनभ्यङ्गांश्च दद्यात् ।
पटोलादीनामेव च कल्केन सघृतेन प्रदिह्यात् ।
तच्चूर्णौर्धातकीलोध्रमाषचूर्णेन च पायुद्वारमवचूर्णयेत् ।
एवमेव च शूले वातहरतैलप्रदेहैरुपाचरेत् ।
यः पुनरेवमपि पित्तलान्यासेवेत स शीघ्रं गुदवलीषु पक्वासु व्यापद्यते ॥
श्लेष्मातीसारं तु प्रागेव नितरामामपाचनार्थं लङ्घनेन साधयेत् ।
अनुबन्धे च पिबेत् कषायं मुस्ताभयाशुण्ठीबिल्वशलाटूनाम् ।
वचाविडङ्गभूतीकधनिकादेवदारूणां वा ।
पाठातिविषाकुष्ठचव्यकटुरोहिणीनां वा चित्रकपिप्पलीद्वयपिप्पलीमूलानां वा ।
सुखाम्बुना वा हिङ्ग्वाद्यमलसकोक्तम् ।
पथ्यासैन्धवशुण्ठीचूर्णं व ।
लिह्याद्वा त्रिकटुचूर्णं क्षौद्रशर्करोपेतम् ।
कपित्थं क्षौद्रेण वा ।
कट्फलं वा पिप्पलीर्वा ।
पूर्ववच्च सर्वं वातपित्तामरक्तसंसर्गमपेक्ष्य यथायथमुपकल्पयेत् ।
सशूलप्रवाहिकस्य च निरामस्य वाते ऽधिके वचाबिल्वपिप्पलीकुष्ठशताह्वाकल्कयुक्तं सलवणं पिच्छाबस्तिमनुवासनं च कोष्णेन बिल्वतैलेन बहुशोवचादिगर्भेण वा तैलेनेति ।
भवति चात्र ॥
स्वस्थाने मारुतो ऽवश्यं वर्धते कफसङ्क्षयात् ।
स वृद्धः सहसा हन्यात्तस्मात्तं त्वरया जयेत् ॥
भीशोकाभ्यामपि मरुच्छीघ्रं कुप्यत्यतस्तयोः ।
कार्या क्रिया वातहरा हर्षणाश्वासनानि च ॥
यस्योच्चाराद्विना मूत्रं पवनो वा प्रवर्तते ।
दीप्ताग्नेर्लघुकोष्ठस्य शान्तस्तस्योदरामयः ॥
आमस्य पाको मलसङ्ग्रहो ऽनु न सङ्ग्रहे रुग्गुदनाभिजन्मा ।
विलङ्घनैर्ग्राहिभिरीरणघ्नैः क्रमेण तैस्तैर्विधिभिर्विधेयः ॥
न रिक्तकोष्ठस्य पुरीषबन्धो न रूक्षकुक्षेः सुहितस्य चाति ।
पित्तास्रतो ऽन्यत्र न चातिशीतैरत्युष्णतीक्ष्णैर्न कदाचिदेव ॥
खलरसदाधिका यमकदाडिमसारकृता ।
दधि सगुडं पयो ऽसिततिलाश्च सुजर्जरिताः ।
सलवणमारुतघ्नगणसाधिततैलमलं ।
घृतमपि वा प्रवाहणकृतां विजयेत रुजाम् ॥
मूल पाठ: Aṣṭāṅgasaṃgraha · Edition: e-text by SARIT · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0